14080: ते प्राग्धातोः¶
Padacheda: ते | S | 1 | 3 |
प्राग् | S | 0 | 0 |
धातोः | S | 5 | 1 |
Sutrartha¶
उपसर्गसंज्ञकाः तथा च गतिसंज्ञकाः शब्दाः धातुभ्यः अव्यवहितपूर्वम् विधीयन्ते । यथा - प्रपतति, ऊरीकरोति ।
उपसर्गाः क्रियायोगे (1.4.59) इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्ग**संज्ञकाः भवन्ति । एवमेव, **गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गति**संज्ञकाः भवन्ति । **एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च **धातोः अव्यवहितपूर्वम् एव विधीयन्ते, धातोः मध्ये उत अनन्तरम् न** - इति अस्य सूत्रस्य आशयः । यथा, “प्र” इति उपसर्गसंज्ञकशब्दः “पतति” इति क्रियायाः अव्यवहितपूर्वम् एव प्रयुज्यते, येन <ex>प्रपतति</ex> इति सिद्ध्यति । एवमेव, “शुक्ली” इति च्व्यन्तः शब्दः “करोति” इति क्रियायाः योगे गतिसंज्ञकः भूत्वा क्रियायाः अव्यवहितपूर्वम् एव प्रयुज्यते, येन <ex>शुक्लीकरोति</ex> इति सिद्ध्यति ।
सूत्रे **धातोः इति ग्रहणस्य प्रयोजनम्**
उपसर्गाः क्रियायोगे (1.4.59) इत्यत्र विद्यमानः क्रियायोगे इति शब्दः गतिसंज्ञायाः सर्वेषु अपि सूत्रेषु अनुवर्तते । इत्युक्ते, उपसर्गसंज्ञकाः गतिसंज्ञकाः च नित्यं क्रियायाः योगे एव भवन्ति । अतश्च, प्रकृतसूत्रे “धातोः” इति शब्दं विना अपि, केवलं “ते प्राक्” इत्येव उच्येत, तर्ह्यपि “क्रियायाः प्राक्” इति अर्थः तु सुस्पष्टः एव स्यात् । तथापि अत्र धातुग्रहणं कृतम् अस्ति । तस्य प्रयोजनम् अस्ति - सन्-इत्यादिप्रत्ययानां प्रयोगे अपि उपसर्गाः धातोः प्राक् एव भवेयुः - इति । अस्य अर्थः अयम् - “कर्तुं प्रेच्छति” इत्यस्मिन् अर्थे इच्छार्थकः सन्-प्रत्ययः यदा विधीयते, तदा सन्-प्रत्ययः क्रियावाचकः अपि अस्ति तथा च “प्र” इति गतिसंज्ञकस्य तेन सह योगः अपि वर्तते; अतश्च “प्र”-शब्दः सन्-प्रत्ययात् एव प्राक् अवश्यं हि भवितुम् अर्हति । परन्तु तथा क्रियते चेत् “प्रचिकीर्षति” इति इष्टं रूपं नैव सिद्ध्येत् । अतः प्रकृतसूत्रे धातोः इति शब्दः स्थापितः अस्ति । अनेन इदम् स्पष्टी भवति, यत् उपसर्गाः केवलं क्रियायाः पूर्वम् एव न अपि तु धातोः पूर्वम् एव भवेयुः - इति । अतः “कर्तुं प्रेच्छति” इत्यस्मिन् अर्थे इच्छार्थकः सन्-प्रत्यये कृते अपि, तस्य धातुसंज्ञा-अभावात् “प्र”-शब्दः तस्मात् पूर्वं न अपितु “चिकीर्ष” इति धातोः पूर्वम् एव संस्थाप्यते ।
Sutrartha (English)¶
Words referred as उपसर्ग or गति are attached before the verb root.
Vasu English Summary¶
The particles called गति and उपसर्ग are to be employed before the verbal roots (i.e. to say that they are prefixes).
Vasu English Translation¶
The particles called गति and उपसर्ग are to be employed before the verbal roots (i.e. to say that they are prefixes). The word ते has been employed to include the term उपसर्ग also. The preceding examples all illustrate the application of this rule.
Bhashya¶
ते प्राग्धातोः किमिदं प्राग्धातुवचनं प्रयोगनियमार्थम् - एते प्रागेव धातोः प्रयोक्तव्याः, आहोस्वित्संज्ञानियमार्थम् - एते प्राक्चाऽप्राक्च प्रयोक्तव्याः, प्राक्प्रयुज्यमानानां गतिसंज्ञा भवतीति । कश्चाऽत्र विशेषः ? प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरण परप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ॥ 1 ॥ प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरणपरप्रतिषेधो वक्तव्यः । किं प्रयोजनम् ? अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति । छन्दसिपरव्यवहितवचनं च ॥ 2 ॥ छन्दसि परेऽपि व्यवहिताश्च (1.4.81 ; 82) इति वक्तव्यम् । संज्ञानियमे सिद्धम् ॥ 3 ॥ संज्ञानियमे सति सिद्धमेतद्भवति । अस्तु तर्हि संज्ञानियमः । उभयोरनर्थकं वचनमनिष्टाऽदर्शनात् ॥ 4 ॥ उभयोरपि पक्षयोर्वचनमनर्थकम् । किं कारणम् ? अनिष्टाऽदर्शनात् । न हि कश्चित्प्रपचतीति प्रयोक्तव्ये पचति प्रेति प्रयुङ्क्ते । यदि चाऽनिष्टं दृश्येत, ततो यत्नार्हं स्यात् । उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् ॥ 5 ॥ उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थमेतद्वक्तव्यम् - ऋषभं कूलमुद्रुजम्, ऋषभं कूलमुद्वहम् । । अत्र गतेः प्राग्धातोः प्रयोगो यथा स्यात् । यद्युपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थमिदमुच्यते, सुकटङ्कराणि वीरणानीत्यत्र गतेः प्राग्धातोः प्रयोगः प्राप्नोति । आचार्यप्रवृत्तिर्ज्ञापयति - नाऽत्र गतेः प्राक्प्रयोगो भवतीति। यदयम् इर्षद्दुःसुषु कृच्छ्राऽकृच्छ्रार्थेषु खलु (3.3.126) इति खकारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् ? खित्करणे एतत्प्रयोजनं खितीति मुम् यथा स्यादिति । यदि चाऽत्र गतेः प्राक्प्रयोगः स्यात्, खित्करणमनर्थकं स्यात् । अस्त्वत्र मुम् । अनव्ययस्येति प्रतिषेधो भविष्यति । पश्यति त्वाचार्यो नात्र गतेः प्राग्धातोः प्रयोगो भवतीति। ततः खकारमनुबन्धं करोति । नैतदस्ति ज्ञापकम् । यद्यत्र गतेः प्राक्प्रयोगः स्यात्। स्यादेवाऽत्र मुमागमः । कथम् ? कृदग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति । तस्मान्नार्थ एवमर्थेन प्राग्धातुवचनेन ॥ कथम्-ऋषभं कूलमुद्रुजम्, ऋषभं कूलमुद्वहम् ? नैष दोषः । नैष उदिरुपपदम् । किं तर्हि ? विशेषणम् । उदि कूले रुजिवहोः (3.2.31) उत्पूर्वाभ्यां रुजिवहिभ्यां कूले उपपद इति ॥ 80 ॥
Kashika¶
ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः। तथा चैवोदाहृताः। तेग्रहणमुपसर्गार्थम्। गतयो ह्यनन्तराः॥
Siddhanta Kaumudi¶
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥
Laghu Siddhanta Kaumudi¶
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥
Balamanorama¶
ते प्राग्धातोः - ते प्राग्धातोः । ‘ते’ इत्यस्य विवरणं — गत्युपसर्गसंज्ञा इति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो, नापि व्यवहिता इत्यर्थ- । इहधातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु॑रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः ।
Tattvabodhini¶
ते प्राग्धातोः - न परतः, नापि व्यवहिता इत्यर्थः । अत एवछन्दसि परेऽपि॑,व्यवहिताश्चे॑ति सूत्रितम् ।
Padamanjari¶
नियमार्थमिदम्। स पुनर्नियमः संज्ञानियमो वा स्यात्, प्रयोग नियमो वा स्यात्? तत्र संज्ञानियमे तेशब्देन प्रादय उपनिषत्पर्थन्ताः स्वरूपेण परामृश्यन्ते, न गत्युपसर्गसंज्ञाविशिष्टेन रूपेणा; संज्ञयोरनिष्पादनात्। अनेनेकवाक्यतापन्नैः पूर्वसूत्रैस्तयोर्विधानात्। ते प्रादय उपनिषत्पर्यन्ता धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गसंज्ञा भवन्तीत्यर्थः। प्रयोगनियमे तु लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्या इत्यर्थः। तत्राद्ये पक्षे स्वरूपेण परामर्शः प्रादीनामिव चादीनामपि स्यात्, ततश्च निपातसंज्ञाया अपि नियमः स्यात्। अथापि गत्युपसर्गसंज्ञयोरेव नियमः, एवमप्यनर्थकं वचनम्, प्रयोग एव हि तेषामप्राङ् नेष्यते। न पुनरप्राक् प्रयुज्यमानानां संज्ञायां किञ्चिदनिष्टमापद्यते।’च्छन्दसि परे’ पिऽ व्यवहिताश्चऽ इति रूपद्वयं चानर्थकम्,परव्यवहितानां संज्ञैव निषिद्धा, न तु प्रयोगः। न च तेनापि संज्ञैव विधीयते, निष्प्रयोजनत्वात्। किंच ठनुकरणं चानितिपरम्ऽ इत्यनितिपरग्रहण मनर्थकं स्यात्,’खाडिति कृत्वा निरष्ठीवत्’ इत्यत्र व्यवहितस्यानुकरणस्य गतिसंज्ञैव निषिद्धा, प्रयोगस्तु केन वार्यते! प्रयोगनियमे तु धातोः प्रागेवानुकरणस्य प्रयोगः स्याद्, न त्वितिशब्देन व्यवहितस्येति अनितिपरमिति वक्तव्यम्। अतः प्रयोगनियम एवायं युक्त इति मत्वाह - ते गत्युपसर्गसंज्ञका इति। अथास्मिन्नपि पक्षे निपातानामपि तेशब्देन परामर्शः कस्मान्न भवति? व्यवहितत्वात्। कथं तर्ह्युपसर्गाणां परामर्शः, नोपसर्गास्तेन रूपेण परामृश्यन्ते, किं तर्हि? गतिरूपेण, तेषामपि गतित्वात्। अनेनैवाभिप्रायेण वृतावुपसर्गाणां पृथग् ग्रहणम्। चादयस्तु नैवमिति न ते परामृश्यन्ते। ननु यत्र लोके संकीर्णः प्रयोगः- गौर्गावीति, तत्र साधुपरिज्ञानाय शास्त्रमर्थवत्। यत्र त्वसंकीर्ण एव प्रयोगो न तत्र शास्त्रकृत्यमस्ति; न च कश्चित् प्रपचतीति प्रयोक्तव्ये पचतीति प्रेति प्रयुङ्क्ते। यद्यपि लोके प्रयोगो न द्दश्यते विपरीतः, च्छन्दसि तु परव्यवहितप्रयोगदर्शनाद् भाषायामपि तथा प्रयोगः शङ्क्येत, दर्शितश्चाद्यत्वेऽपि भाषायामेव गतेराविःशब्दस्य परव्यवहितप्रयोग ऊर्यादिसूत्रे। किं च ठुदि कूले रुजिवहोःऽ कूलमुद्वह इत्यत्र ठुदिऽ’कूल’ इति द्वयोरपि सप्तमीनिर्देशादुपपदत्वात्समासे कृते ठुपसर्जनं पूर्वम्ऽ इति शास्त्रवशात्पर्यायेण पूर्वनिपातं मन्येरन् इत्युपसर्जनसंनिपाते पूर्वपरव्यवस्थार्थमिदं वक्तव्यम्। यद्येवम्,’कर्तृकर्मणोश्च भूकृञो’ ः- सुखेन कटः क्रियते, सुकट्ंअकराणि वीरणानि, दुष्कट्ंअकराणि, अत्र सुदुसोः प्राग्धातोः प्रयोगः प्राप्नोति - कट्ंअ सुकराणीति। खलः खित्करणमिदानीं किमर्थं स्यात्? अनव्ययस्य हि मुमुच्यते, खित्करणसामर्थ्याद् अव्ययस्य भवतु, यदि वा’कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति सुकरशब्दे परतः कटस्य भविष्यति, कर्तव्योऽत्र यत्नः। धातुग्रहणमनर्तकम्, कुतः? प्रागित्यपेक्षायां यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति विज्ञास्यते; नैवं शक्यम्, इह च कर्तुं प्रेच्छति प्रचिकीर्षतीति सन्वाच्यया इच्छया प्रशब्दस्य योग इति सन एव प्राक् प्रशब्दः प्रयुज्येत, धातुग्रहणात् तु धातोरेव चिकीर्षतेः प्राक् प्रयुज्यते। तेग्रहणमुपसर्गार्थमिति। ननु यदि गतिसंज्ञारहिताः केवलोपसर्गसंज्ञा एव प्रादयः स्युः, ततोऽसति तेग्रहणे गतीनामनन्तरत्वात एव संबध्येरन्, न तूपसर्गा इति तदर्थं तेग्रहणं कर्तव्यम्? तेऽपि तु गतिसंज्ञकाः, ततश्चानन्तराणां गतीनामपि सम्बन्धे प्रादीनामपि गतित्वादेव ग्रहणं सिद्धम्। स्यादेतत् - असति तेग्रहणे गतिसंज्ञैव केवला येषाम्, तेषामेव स्याद्; नोभयसंज्ञकानां प्रादीनामिति? न; केवलगतेरभावात्। ननु चायमस्ति ठनुकरणं चानिति परम्ऽ इति, न; तस्यापि निपातत्वात्, उच्यते; असति तेग्रहणे प्रकृतेष्वपेक्षा चेत् कतिपये संबध्येरन्; नोपसर्गपर्यन्ताः। व्याप्तिन्यायातु भूयसामपेक्षायां न प्रादिष्वेव पर्यवसाने कारणमस्तीति चादयोऽप्यपेक्ष्येरन् । तेग्रहणे तु सति गतिसंज्ञाया अनन्तरत्वातेन रूपेण परामर्शो न कतिपयानामेव भवतीति प्रादीनपि व्याप्नोति, चादआआश्च परिसंचष्टे इति तेग्रहणमुपसर्गार्थं भवति। तत्पर्यन्तानां च यथा स्यात् तेषामेव च यथा स्यादित्यर्थः। गतयो ह्यनन्तरा इति। येऽनन्तरास्त एव कतिपये गृह्यएरन्, प्रत्यासताविति भावः। व्याप्तौ तु दोषः सुज्ञानत्वान्न कण्ठोक्तः॥
Nyaas¶
नियमार्थमेतत्। नियमः पुनः संज्ञाननियमो वा स्यात् - ते प्रादयो यदा धातोः प्राक प्रयुज्यते तदैव गत्युपसर्गसंज्ञकाः भवन्तीति? प्रयोगनियमो वा - ते प्रादयो गत्युपसर्गसंज्ञकाः सन्तो धातोः प्राक् प्रज्ञोक्तव्या इति? यत्र यदि पूर्वो नियम आश्रीयेत तदा संज्ञावाक्यानामयमेकदेशो विज्ञायेत - ते प्रादयो धातोः प्राक् प्रयुज्यमाना गत्युपसर्गसंज्ञका भवन्तीति। तथा च गत्युपसर्गसंज्ञयोरनभिनिर्वृत्तत्वात् ते गत्युपसर्गसंज्ञा इति प्रत्यवमर्शो न युज्यते। निपातसंज्ञायाश्चाभिनिर्वृत्तत्वात् त इत्यनेन निपाता एव प्रत्यवमृश्येरन्; ततश्च निपातसंज्ञाया नियमः स्यात्। इतरत्र तु नियमेनायं योगो गत्युपसर्गसंज्ञावाक्यानामेकदेशभूतो भवतीति न भवत्येव दोषप्रसङ्गः। संज्ञानियमस्य चाप्राक्प्रयुज्यमानानां संज्ञानिवृत्तिः फलं स्यात्, तच्चायुक्तम्; न ह्रप्राक्प्रयुज्यमानानां सत्यामपि संज्ञायां किञ्चिदनिष्टमापद्यते। इतरस्य तु नियमस्याप्राक्प्रयोगाभावः फलम्, तच्च युक्तम्; न हि गत्युपसर्गसंज्ञकानामप्राक्प्रयोग इष्यते। तस्मात् प्रयोगनियम एव न्याय्य इति तमाश्रित्याह - ते गत्युपसर्गसंज्ञकाः इति। तथा च इत्यादि। यादृशो नियमः कृतस्तदनुरूपं तत्सदृशमेवेत्यर्थः। ननु च नैव कश्चित् प्रपठतीति प्रयोक्तव्ये पठति प्र इति प्रयुङक्ते, ततोऽनिष्टादर्शनादपार्थकमेतत्, नैतदस्ति; यद्यपि भाषायां धातोः परेण प्रयुज्यमानास्ते गत्युपसर्गसंज्ञका न दृश्यन्ते, छन्दसि तु दृश्यन्ते। तत्र य एव मन्दबुद्धिः प्रतिपत्ता तेषां छन्दसि धातोः परे प्रयोगं दृष्ट्वा यथैव ते छन्दसि विषये धातोः परेण प्रयुज्यन्ते, तथा भाषायमपि प्रयोक्तव्या इति मन्यते, तं प्रति व्युत्पादनार्थत्वान्नास्ति वैयथ्र्यप्रसङ्गः।अथ किमर्थं तेग्रहणम्? यावता प्रकृतत्वादेव गत्युपसर्गसंज्ञकानां प्राक्प्रयोगेण सम्बन्धो विज्ञस्यत इत्याह - तेग्रहणम् इत्यादि। असति तेग्रहणे गतिसंज्ञकानामनन्तरत्वात् त एव प्राक्प्रयोगेण सम्बध्येरन्। तेग्रहणे तूपसर्गसंज्ञा अपि निर्दिश्यन्त इति तषामपि सम्बन्ध उपपद्यते। तस्मादुपसर्गाणामपि प्राक्प्रयोगनियमो यथा स्यादित्येवमर्थ तेग्रहणम्। ननु चयं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीत्यन्तरेणापि धातुग्रहणं धातोरेव प्राक् प्रयोगो विज्ञास्यते, न हि धातोरन्यत्र क्रियाऽस्ति, तत्कथं धातोरित्युच्यते? नैतदस्ति ; प्रकर्त्तृमिच्छति प्रचिकीर्षतीत्यत्रापि धातोश्च प्राक् प्रयोगो यथा स्यात्। अत्र सनः सम्बन्धिन्यषणक्रियया युक्तः प्रशब्द इति सनं गत्युपसर्गसंज्ञा यथा स्यात्। ततश्चासति धातुग्रहणे तत एव प्राक् प्रयुज्येत।धातुग्रहणे तु चिकीर्षतेर्धातोः प्राक्प्रयुज्यते, न सनः॥
Prakriyasarvasvam¶
गतिसंज्ञा उपसर्गाश्च धातोः प्राक् प्रयोज्याः । ‘प्राग्रीश्वराद् (१-४-५६) इति निपातत्वेन च्व्यन्तस्याव्ययत्वात्सुपो लुक् । कृञ्योगे द्वितीया, भ्वस्त्योः प्रथमा चोह्या । अकृष्णं कृष्णं करोति कृष्णीकरोति । कृष्णीभवति । कृष्णीस्यात् । अतथास्थितत्वाविवक्षायां तु कृष्णं करोतीत्येव ॥