14078: प्राध्वं बन्धने

Padacheda: प्राध्वम् | S | 0 | 0 |

बन्धने | S | 7 | 1 |

Sutrartha

“बन्धनं कृत्वा अनुकूलम्” इत्यस्मिन् अर्थे प्राध्वम् इत्यस्य कृ-धातोः योगे नित्यं गतिसंज्ञा भवति ।

अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवदशं सूत्रम् । ****<ex>प्राध्वम्</ex> (अनुकूलम् / favorable इत्यर्थः) इदम् अव्ययम् यदा बन्धनं कृत्वा अनुकूलनम् (= बलेन अनुकूलनम्, to make something favorable forcefully) इत्यस्मिन् अर्थे प्रयुज्यते, तदा अस्य कृ-धातोः योगे नित्यं गतिसंज्ञा भवति</b>** । गतिसंज्ञायां प्राप्तायाम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>वृषभं प्राध्वङ्कृत्य गच्छति</ex> (= बन्धनेन वृषभम् अनुकूलयति, ततः गच्छति इत्याशयः) । यत्र बन्धनम् इति अर्थः नास्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - <nex>शकटं प्राध्वं कृत्वा गतः</nex> (शकटम् अभिमुखं कृत्वा गतः - इत्यर्थः) । अत्र बलस्य प्रयोगः नैव कृतः वर्तते अतः अत्र “प्राध्वम्”-शब्दस्य गतिसंज्ञा न भवति ।

**प्राध्वम् इति शब्दः**

प्रकृतसूत्रे प्रयुक्तः प्राध्वम् इति शब्दः मकारान्तम् अव्ययम् अस्ति, तथा च अनुकूलम् इत्यस्मिन् अर्थे अस्य प्रयोगः क्रियते । “प्राध्व” (दूरस्थः मार्गः इत्याशयः) अस्य अकारान्तपुंलिङ्गशब्दस्य द्वितीयैकवचनम् अपि “प्राध्वम्” इत्येव अस्ति, परन्तु तस्य अत्र ग्रहणं न क्रियते ।

Vasu English Summary

The indeclinable word प्रध्वम् followed by the verb कृ , is always called गति when in used in the sense of ‘binding’.

Vasu English Translation

The indeclinable word प्रध्वम् followed by the verb कृ , is always called गति when in used in the sense of ‘binding’. The word प्राध्वम् ends in म् and means ‘favourably suitably.’ When however it means ‘bound’ it is a gati: as, प्राध्वंकृत्य having bound. But when not meaning to bind, we have :- प्राध्वं कृत्वा शकटं गतः having made the carriage agreeable, he is gone.

Kashika

कृञीति वर्तते। प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानुकूल्यं बन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति। प्राध्वंकृत्य। बन्धन इति किम्? प्राध्वं कृत्वा शकटं गतः॥

Siddhanta Kaumudi

प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥

Balamanorama

प्राध्वं बन्धने - प्राध्वं बन्धने । प्राध्वमिति न द्वितीयान्तमित्याह — प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वङ्कृत्येति । गतिसमासे क्त्वे ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते । तदाह — बन्धनेनेति । बन्धनग्रहणस्य प्रयोजनमाह — प्रार्थनादिनेति ।

Padamanjari

मकारान्तमव्ययमिति। चादिषु पाठात्। आनुकूल्ये वर्तते इति। तेन बन्धने वर्तमानः प्राध्वंशब्दः इत्ययमर्थो न भवति। कथं तर्हि बन्धने इत्यस्यान्वय इत्यत आह - तदिति। बन्धन इति। सत्सप्तम्यर्थद्वारकश्च प्राध्वमित्यनेन सम्बन्धः, बन्धने सति यदानुकूल्यं तद्वन्धनहेतुकमिति भावः। प्राध्वं कृत्वा गत इति। प्रस्थितोऽध्वानं प्राध्वः, ठत्यादयः क्रान्ताद्यर्थेऽ इति समासः, ठुपसर्गादध्वनःऽ इत्यच् लाक्षणिकत्वादेवात्र न भविष्यति; तस्मादव्ययस्यैवायं प्रयोगः, आनुकूल्यं तु बन्धनहेतुकं न विवक्षितमिति व्याचक्षते॥

Nyaas

बन्धने इति निमित्तसप्तमीयम्। प्राध्वंशब्दस्यानुकूल्यवृत्तित्वात् बन्धने इत्यस्य विशेषणं नोपपद्यत इति सामर्थ्यात् तदर्थस्य विशेषणं विज्ञायत इत्यत आह - तदानुकूल्यम् इत्यादि। बन्धनं हेतुर्यस्य तत्तथोक्तम्। प्राध्वंकृत्य इति। बन्धनेन निमित्तेनानुकूल्यं कृत्वेत्यर्थः। प्राध्वं कृत्वा इति। समर्थमध्वगमने शकटम्, अध्वाभिमुखं कृत्वेति गम्यते। उपसर्गादध्वनः (5.4.85) इत्यच् समासान्तः। नस्तद्धिते (6.4.144) इति टुलोपः। प्रगतमध्वानमिति प्रादिसमासः। लक्षमप्रतिपदोक्तपरिभाषयैवात्र (व्या।पा।3) प्राप्तौ सिद्धायां लाक्षणिकोऽपि प्राध्वंशब्दो यत्र बन्धनेनाभिसम्बध्यते, तत्रापि गतिसंज्ञा भवतीति ज्ञापनार्थं बन्धनग्रहणम्। तेन यदा बन्धनेनैव शकटस्याध्वनि सामर्थ्यादध्वाभिमुखता विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतमित्येतदपि सिद्धं भवति॥

Prakriyasarvasvam

बन्धनकृतानुकूल्येऽर्थे प्राध्वंशब्दः कृञि गतिः । प्राध्वंकृत्य पशुं दोग्धि ॥