14075: अनत्याधान उरसिमनसी

Padacheda: अनत्याधाने | S | 7 | 1 |

उरसि-मनसी | S | 1 | 2 |

Sutrartha

उपश्लेषभिन्ने अर्थे “उरसि” तथा च “मनसि” एतौ शब्दौ कृ-धातोः योगे विकल्पेन गतिसंज्ञकौ भवतः । यथा - उरसिकृत्य, उरसिकृत्वा । मनसिकृत्य, मनसिकृत्वा ।

अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षोडशं सूत्रम् । ****<ex>उरसि</ex> **तथा च **<ex>मनसि</ex> इति विभक्ति-प्रतिरूपकौ निपातौ यदा उपश्लेषः (= संयोगः / immediate contact) इति अर्थं विहाय अन्येषु अर्थेषु प्रयुज्येते, तदा एतयोः कृ-धातोः योगे विकल्पेन गतिसंज्ञा भवति</b>** । गतिसंज्ञापक्षे कुगतिप्रादयः (2.2.18) इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>उरसिकृत्य गच्छति</ex> (= स्वीकृत्य गच्छति इत्याशयः) । एवमेव <ex>मनसिकृत्य गच्छति</ex> (= निश्चयं कृत्वा गच्छति इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः <ex>उरसि कृत्वा / मनसि कृत्वा गच्छति</ex> इति प्रयोगौ सिद्ध्यतः । यदा एतौ शब्दौ संयोगः अस्मिन् अर्थे प्रयुज्यते तदा तु प्रकृतसूत्रस्य प्रयोगः न भवति। यथा <nex> पाणिम् उरसि कृत्वा शेते</nex> (हस्तं उरःप्रदेशे संस्थाप्य निद्राति इत्यर्थः) अत्र हस्तस्य उरःप्रदेशेन सह उपश्लेषः / संयोगः अस्ति अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च गतिसंज्ञा अपि नैव विधीयते । <ex>मनस्</ex> इति तु दृश्यमानः अवयवः न, अतः तस्य सन्दर्भेण उपश्लेषः (immediate contact) नैव सम्भवति इति कारणात् <ex>मनस्</ex>-शब्दस्य अत्र प्रत्युदाहरणानि न विद्यन्ते ।

**अनत्याधानम् इति शब्दः**

अनत्याधानम् इति शब्दः “न अत्याधानम् इति अनत्याधानम्” इति नञ्-समासेन सिद्ध्यति । कोशेषु अत्याधानम् इत्यस्य अर्थः “उपरि स्थापनम्” इति दीयते । एतं अर्थं विहाय कस्मिंश्चित् अन्यस्मिन् अर्थे <ex>उरसि</ex> उत <ex>मनसि</ex> इति शब्दौ यत्र प्रयुज्येते तत्र प्रकृतसूत्रस्य प्रयोगः भवति - इति ज्ञापयितुम् अत्र अनत्याधाने इति शब्दः स्थापितः अस्ति ।

**उरसि, मनसि इति शब्दौ**

उरसि तथा च मनसि एतौ शब्दौ विभक्तिप्रतिरूपकौ निपातौ स्तः । “उरस्”-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे <ex>उरसि</ex> इति निपातसंज्ञकः शब्दः अत्र निर्दिष्टः अस्ति । एवमेव, “मनस्”-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे <ex>मनसि</ex> इति निपातसंज्ञकः शब्दः अत्र प्रयुक्तः वर्तते । एतयोः द्वयोः निपातयोः प्रकृतसूत्रेण विकल्पेन गतिसंज्ञा विधीयते ।

Vasu English Summary

The word उर्सि ‘in the breast’ and मनसि ‘in the mind’ ae optionally called गति when the verb कृ follows, provided that they are not used in the sense of ‘placing’.

Vasu English Translation

The word उर्सि ‘in the breast’ and मनसि ‘in the mind’ ae optionally called गति when the verb कृ follows, provided that they are not used in the sense of ‘placing’. As उरसिकृत्य or उरसिकृत्वा; मनसिकृत्य or मनसिकृत्वा. When it has the sense of placing we have उरसिकृत्वा पाणिं शेते he lies down having clasped the hand on the breast, मनसिकृत्वा वचनं ध्यायति he ponders having placed the word in his mind.

Kashika

विभाषा कृञीति वर्तते। अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधान उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। मनसिकृत्य, मनसि कृत्वा। अनत्याधान इति किम्? उरसि कृत्वा पाणिं शेते॥

Siddhanta Kaumudi

उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥

Balamanorama

अनत्याधान उरसिमनसी - अनत्याधाने । ‘उपसि’ ‘मनसि’ इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तोऽनत्याधाने । उरसिकृत्येति । गतित्वपक्षे कत्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह -अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इहापि नाऽत्याधानं गम्यत इत्याह — निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्वंस्तस्य प्रयोजनमाह — उपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । मध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते ।

Tattvabodhini

अनत्याधान उरसिमनसी - अनत्या । उरसिमनसी विभक्तिप्रतिरूपकौ ।

Padamanjari

उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः॥

Prakriyasarvasvam

एतौ निधानादन्यत्रार्थे कृञि वा गती । उरसिकृत्य । मनसिकृत्य । उरसि कृत्वा । मनसि कृत्वा । निश्चित्येत्यर्थः । निधाने तु पाणिमुरसि कृत्वा शेत इत्येव ॥