14061: ऊर्यादिच्विडाचश्च¶
Padacheda: ऊरी-आदि-च्वि-डाचः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
ऊर्यादिगणस्य शब्दाः, च्वि-प्रत्ययान्तशब्दाः, तथा डाच्-प्रत्ययान्तशब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । यथा - ऊरीकृत्य, शुक्लीकृत्य, पटपटाकृत्य ।
अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वितीयं सूत्रम् । अनेन सूत्रेण ****ऊर्यादिगणस्य शब्दानाम्, च्वि-प्रत्ययान्तशब्दानाम्, तथा च डाच्-प्रत्ययान्तशब्दानां क्रियायोगे गतिसंज्ञा विधीयते** । इदं सूत्रं प्राग्रीश्वरान्निपाताः (1.4.56) अस्मिन् अधिकारे अपि विद्यते, अतः एतेषां शब्दानां <hlb>निपातसंज्ञा</hlb> अपि भवति । <note>**च्वि** तथा च डाच् एतौ प्रत्ययौ केवलं कृ, भू तथा च अस् धातूनां योगे एव विहितौ स्तः । अतः ऊर्यादिगणस्य शब्दानाम् अपि कृ, भू तथा च अस् एतेषां योगे एव प्रकृतसूत्रेण गतिसंज्ञा भवति । निपातसंज्ञायाः कृते तु क्रियायोगः न आवश्यकः, अतः निपातसंज्ञा तु नित्यमेव भवति । </note> एतेषां त्रयाणाम् क्रमेण विवरणम् एतादृशम् - <spacer> <hlb>1. ऊर्यादिगणः</hlb> ऊर्यादिगणः इति गणपाठे पाठितः कश्चन शब्दसमूहः । अस्य गणस्य शब्दानाम् आवली इयम् - <gana> ऊरी । उररी । तन्थी । ताली । आत्ताली । वेताली । धूली । धूस । शकला । संशकला । ध्वंसकला । भ्रंसकला । गुलुगुधा । सजूस् । फल । फली । विक्ली । आक्ली । आलोष्ठी । केवाली । केवासी । सेवासी । पर्याली । शेवाली । वर्षाली । अत्यूमशा । मश्मशा । मस्मसा । मसमसा । औषट् । श्रौषट् । वौषट् । वषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रत् । आविस् ॥ </gana> एतेषां सर्वेषाम् अपि शब्दानां क्रियायोगे प्रकृतसूत्रेण गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् कुगतिप्रादयः (2.2.18) इत्येन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>ऊरी + कृ + क्त = ऊरीकृत</ex>, <ex>उररी + भू + क्त = ऊररीभूत</ex>, <ex>पापी + कृ + क्त = पापीकृतः</ex> इत्यादिकम् । किञ्च, क्त्वा-प्रत्ययान्तशब्देन सह एतादृशः समासः यदा भवति तदा समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन <ex>ऊरीकृत्य</ex>, <ex>उररीकृत्य</ex>, <ex>पापीभूय</ex> इत्यादयः शब्दाः सिद्ध्यन्ति । <spacer> ऊर्यादिगणस्य केषाञ्चन शब्दानां अर्थावगमनार्थम् काशिकाकारेण कानिचन गणसूत्राणि अपि पाठितानि सन्ति । तानि एतादृशानि -
<li>1. ऊरीउररीशब्दावङ्गीकरणे विस्तारे च । <ex>ऊरी</ex> इति शब्दः अङ्गीकरणम् अस्मिन् अर्थे प्रयुज्यते । यथा, <ex>ऊरी</ex>करोति = अङ्गीकरोति, स्वीकरोति । एवमेव, <ex>उररी</ex> इति शब्दः विस्तारः अस्मिन् अर्थे प्रयुज्यते । यथा, <ex>उररी</ex>करोति = विस्तारं करोति (विस्तृणाति) । <li>2. शकलादयः हिंसायाम् । <ex>शकला</ex>, <ex>संशकला</ex>, <ex>ध्वंसकला</ex>,<ex>भ्रंसकला</ex> - एते चत्वारः शब्दाः हिंसार्थे प्रयुज्यते । यथा, <ex>शकलाकरोति</ex> / <ex>संशकलाकरोति</ex> / <ex>ध्वंसकलाकरोति</ex> / <ex>भ्रंसकलाकरोति</ex> = हिंसां करोति । <li>3. गुलगुधा पीडार्थे ** । <ex>गुलगुधा</ex> इति शब्दः **पीडा अस्मिन् अर्थे प्रयुज्यते । यथा, <ex>गुलगुधाकरोति</ex> = पीडां करोति । <li>4. सजूः सहार्थे ** । <ex>सजूस्</ex> इति शब्दः **सह अस्मिन् अर्थे प्रयुज्यते । यथा, <ex>सजूःकरोति</ex> = (केनचित्) सह करोति । <li>5. ** फलू, फली, विक्ली, आक्ली इति विकारे** । <ex>फलू</ex>, <ex>फली</ex>, <ex>विक्ली</ex>,<ex>आक्ली</ex> - एते चत्वारः शब्दाः परिवर्तनम् (transformation) अस्मिन् अर्थे प्रयुज्यते । यथा, <ex>फलूकरोति</ex> / <ex>फलीकरोति</ex> / <ex>विक्लीकरोति</ex> / <ex>आक्लीकरोति</ex> = परिवर्तनं करोति । <li>6. आलोष्ठी, केवाली, केवासी, सेवासी, पर्याली, शेवाली, वर्षाली, अत्यूमशा, मश्मशा, मस्मसा, मसमसा एते हिंसायाम् ** । <ex>आलोष्ठी</ex>, <ex>केवाली</ex>, <ex>केवासी</ex>,<ex>सेवासी</ex>, <ex>पर्याली</ex>, <ex>शेवाली</ex>, <ex>वर्षाली</ex>,<ex>अत्यूमशा</ex>,<ex>मश्मशा</ex>, <ex>मश्मशा</ex>, <ex>मसमसा </ex> - एते सर्वेऽपि शब्दाः **हिंसार्थे प्रयुज्यन्ते । यथा, <ex>आलोष्ठीकरोति</ex> / <ex>केवालीकरोति</ex> / <ex>केवासीकरोति</ex> / <ex>सेवासीकरोति</ex> / <ex>पर्यालीकरोति</ex> / <ex>शेवालीकरोति</ex> / <ex>वर्षालीकरोति</ex> /<ex>अत्यूमशाकरोति</ex> / <ex>मश्मशाकरोति</ex> / <ex>मश्मशाकरोति</ex> / <ex>मसमसाकरोति</ex> = हिंसां करोति ।
गणे विद्यमानानां अन्येषां शब्दानाम् अर्थाः गणसूत्रैः न दीयन्ते । अतः कोशे दत्तेषु अर्थेषु एव तेषां प्रयोगः करणीयः । <br> <hlb>2. च्वि-प्रत्ययान्तशब्दाः</hlb> च्वि इति कश्चन तद्धितसंज्ञकप्रत्ययः अस्ति ।अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50) इत्यनेन अयं प्रत्ययः प्रातिपदिकेभ्यः कृ/भू/अस्-धातोः योगे अभूततद्भावस्य निर्देशार्थम् विधीयते । अस्य प्रत्ययस्य प्रयोगेण गतिसंज्ञकाः शब्दाः सिद्ध्यन्ति **। यथा - “शुक्ल “ इति शब्दात् **अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50) इत्यनेन कृ/भू/अस्-धातोः योगे च्वि-प्रत्ययं योजयित्वा <ex>शुक्ली</ex> इति शब्दः सिद्ध्यति । अयं शब्द: च्वि-प्रत्ययान्तः अस्ति अतः प्रकृतसूत्रेण अस्य गतिसंज्ञा भवति । गतिसंज्ञासामर्थ्यात् कुगतिप्रादयः (2.2.18) इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन <ex>शुक्लीकृत</ex>, <ex>शुक्लीकृत्य</ex>, <ex>शुक्लीभूय</ex>, <ex>शुक्लीभवितुम्</ex> एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव <ex>**दृढी**कृत्य</ex>, <ex>**स्पष्टी**कृत्य</ex>, <ex>**सफली**कृत्य</ex> - इत्यत्र विद्यमानाः <ex>दृढी</ex>, <ex>स्पष्टी</ex> , <ex>सफली</ex> इत्येते शब्दाः अपि च्वि-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते । <br> <hlb>3. डाच्-प्रत्ययान्तशब्दाः</hlb> डाच् इत्यपि कश्चन तद्धितसंज्ञकप्रत्ययः एव । अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5.4.57) इत्यतः मद्रात् परिवापणे (5.4.67) इत्येतैः एकादशभिः सूत्रैः (भिन्नेषु सन्दर्भेषु) अयं प्रत्ययः कृ/भू/अस्-धातोः योगे प्रातिपदिकेभ्यः विधीयते । डाच्-प्रत्ययान्तशब्दाः अपि प्रकृतसूत्रेण गतिसंज्ञकाः भवन्ति । यथा, “पटत्” इति शब्दस्य द्वित्वे कृते ततः कृ/भू/अस्-धातोः योगे अस्मात् अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ** (5.4.67) इत्यनेन **डाच् प्रत्ययं कृत्वा <ex>पटपटा</ex> इति शब्दः सिद्ध्यति । अयं डाजन्तः शब्दः, अतः प्रकृतसूत्रेण अयं गतिसंज्ञकः भवति । गतिसंज्ञासामर्थ्यात् कुगतिप्रादयः (2.2.18) इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन <ex>पटपटाकृत्य</ex>, <ex>पटपटाकृत</ex>, <ex>पटपटाभूय</ex>, <ex>पटपटाकर्तुम्</ex> एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव <ex>**द्विगुणा**कृत</ex>, <ex>**समया**कृत</ex>, <ex>**सपत्रा**कृत</ex> - इत्यत्र विद्यमानाः <ex>द्विगुणा</ex>, <ex>समया</ex> , <ex>सपत्रा</ex> इत्येते शब्दाः अपि डाच्-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते ।
तदन्तस्य संज्ञा
वस्तुतः संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ** इत्यनया परिभाषया प्रकृतसूत्रे उक्ता गतिसंज्ञा ****च्वि / डाच् प्रत्यययोः भवेत्**, न हि तदन्तानाम् । परन्तु अत्र क्रियायोगे इति शब्दस्य अनुवृत्तिः वर्तते, तथा च क्रियायाः योगे केवलः (प्रकृतिविरहितः) च्वि/डाच्-प्रत्ययः नैव सम्भवति । अतः अत्र - क्रियायोगे यस्य प्रयोगः तस्य गतिसंज्ञा - इति निर्णयं कृत्वा च्व्यन्तस्य, डाजन्तस्य च गतिसंज्ञा विधीयते ।
सिद्धान्तकौमुदीस्थं वार्त्तिकम् - <!कारिकाशब्दस्योपसंख्यानम् !>
कौमुद्यां प्रकृतसूत्रे <!कारिकाशब्दस्योपसंख्यानम् !> इति वार्त्तिकं पाठितम् अस्ति । <ex>कारिका</ex> (“क्रिया” इति अर्थः) शब्दस्य क्रियायोगे गतिसंज्ञा भवेत् — इति अस्य वार्त्तिकस्य आशयः । एतादृश्यां गतिसंज्ञायां सिद्धायाम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) इत्यनेन धातोः विहितस्य क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन <ex>कारिकाकृत्य</ex> इति शब्दः सिद्ध्यति ।
Vasu English Summary¶
The words उरी ‘assent’ etc. and those that end with च्वि (5.4.50) and those that end with डाच् (5.4.57) (when in composition with the verb भू , कृ or अस् ) are called गति।
Vasu English Translation¶
The words उरी ‘assent’ etc. and those that end with च्वि (5.4.50) and those that end with डाच् (5.4.57) (when in composition with the verb भू , कृ or अस् ) are called गति। The affixes chvi and dach are ordained when the verb in composition is either कृ, भू or अस् (5.4.50) and (5.4.57) uri &c., being read along with chvi and dach, shows that the verb in composition with them must also be any one of the above three verbs, and none else; in order to entitle ऊरी to the name of gati.
The words ऊरी and उररी mean to assent and spread. As ऊरीकृत्य (2.2.18) and (7.1.37) ऊरीकृतम् (6.2.49), यदूरीकरोति (8.2.71). So with the word उररी. The following is a list of these words :-
पापी. धूसी. भ्रंशकला. फली.
ताली. शकला. गुलुगुधा. विल्फी.
आताली. संशकला. सजूः आल्की.
वेताली. ध्वंसकला. फलू.
The words ending in chvi are also gati. As शुक्लीकृत्य having made white what was not white.
So also words ending in डाच् as पटपटाकृत्य having made the sound pat.
Bhashya¶
ऊर्यादिच्विडाचश्च कृभ्वस्तियोग॥ 1 ॥ कृभ्वस्तियोग इति वक्तव्यम् । इहैव यथा स्यात् - ऊरीकृत्य उरीभूय । इह मा भूत् - ऊरी पक्त्वा ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । क्रियायोग इत्यनुवर्तते । न चाऽन्यया क्रिययोर्यादिच्विडाचां योगोऽस्ति ॥ 60 ॥
Kashika¶
ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधानम्। तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरी॑कृतम्। यदू॑रीक॒रोति॑। उररीकृत्य। उर॑रीकृतम्। यदु॑ररीक॒रोति॑। पापी। ताली। आताली। वेताली। धूसी। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलगुधा पीडार्थे। गुलगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्टी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि — शुक्लीकृत्य। शुक्ली॑कृतम्। यत् शु॑क्लीक॒रोति॑। डाच् — पटपटाकृत्य। पट॑पटाकृतम्। यत् प॑टपटाक॒रोति॑॥
Siddhanta Kaumudi¶
एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥
Laghu Siddhanta Kaumudi¶
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ प्रादयो गताद्यर्थे प्रथमया (वार्त्तिकम्)। प्रगत आचार्यः प्राचार्यः। अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वार्त्तिकम्) । अतिक्रान्तो मालामिति विग्रहे -
Balamanorama¶
ऊर्यादिच्विडाचश्च - ऊर्यादिच्वि । च्वि-डाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । ‘कृभ्वस्तियोगे’ इत्यभूततद्भावे च्विः । गतिसमासे सति क्त्वो ल्यप्,वेरपृक्तस्ये॑ति वलोपः । ‘अस्य च्वौ’ इति ईत्त्वम् । पटपटाकृत्येति । ‘पटपटा’ इति शब्दं कृत्वेत्यर्थः ।अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः ।नित्यमाम्रेडिते डाची॑ति तकारपकारयो पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसङ्ख्यानमिति । ‘गतिसंज्ञाया’ इति शेषः । कारिकाशब्दं व्याचष्टे — कारिका क्रियेति ।स्त्रियां क्ति॑नित्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक् । कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात् ।
Tattvabodhini¶
ऊर्यादिच्विडाचश्च - ऊर्यादिच्विडाचश्च ।उपसर्गाः क्रियायोगो॑इत्यतोऽनुवर्तनादाह — क्रियायोग इति । च्विडाचौ कृभ्वस्तियोगे विहितौ, तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा । तेनेह न -ऊरी पक्त्वा । माधवादिग्रन्थे तु आविःप्रादुः शब्दौ मुक्त्वा अन्येषां कतोतिनैव योगे गतिसंज्ञे॑ति स्थितम् । तथैवोदाहरति — ऊराकृत्येति । एतच्च मनोरमानुसारेणोक्तम् । वस्तुतस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्भात्रमुदाहरति, ऊरीकृत्येत्यवतरितुं युक्तम् । संज्ञाफलं समासः, तत्फलं च ल्बिति बोध्यम् । ऊरी उररी — एतावङ्गीकारे । आविः शब्दस्य तु साक्षात्प्रभृतिषु पाठात्कृञो योगे गतिसंज्ञाविकल्पः, कृम्भस्तियोगे त्वनेन नित्यमिति बोध्यम् । कथं तर्हिवारुणीमदविशङ्कमथाविश्चक्षुषो भवदसाविव रागः॑इति माघ इति चेत् । अत्राहुः — ॒ते प्राग्धातोः॑इति सूत्रस्य प्रयोगनियमार्थत्वपक्षे प्रकृतेऽनुपपत्तवपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति.शुक्लीति ।कुम्भस्तियोगे संपद्यकर्तरि च्विः॑ ।अस्य च्वौ॑इतीकारः । पटपटाकृत्येति ।डाचि बहुलं द्वे भवतः॑इति पटच्छब्दस्य द्वित्वम् ।अव्यक्तानुकरणाद् व्द्यजवराद्र्धादि॑ति तकारपकारयोः पकार एकादेशः । निपातसंज्ञायाः समावेशार्थः [सूत्रे]चकारः । तेन ऊरीकृतमित्यत्रगतिरनन्तरः॑इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमाद्युदात्तत्वं भवति ।कारिकाशब्दस्योपसंख्यानम् । कारिकेति । भावेपर्यायार्हणे॑ति ण्वुच् । तदाह — क्रियेति ।क्रियायोगे॑इत्यनेन कारिकाशब्दस्य विशेषणाच्छ्लोकवाचौ कारिकाशब्दोऽत्र न गृह्रत इति भावः । क्रियशब्दस्याऽत्र मर्यादास्थितिरर्थः । यत्न इत्यन्ये ।
Padamanjari¶
च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन’संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति’ इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः’वा क्यषः’ इत्यत्र व्युत्पादितः॥
Nyaas¶
च्व्यन्ता डाजन्ताश्च इति। ननु च पदसंज्ञायामन्तग्रहणेन ज्ञापितम् - अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति (पु।प।वृ।81) इति; अतश्च्विडाचोरेव गतिसंज्ञया भवितव्यम्, तत् किमुच्यते - च्व्यन्ता डाजन्ताश्चेति? एवं मन्यते - उपसर्गाः क्रियायोगे (1.4.59) इति वर्तते, न च प्रत्ययमात्रस्य क्रियायोगः सम्भवति। तस्मात् क्रियायोगानुवृत्तिसमाथ्र्यात् तदन्तस्यैव संज्ञा विज्ञायत इति भवत्येव तदन्तस्य संज्ञा। सा तु विशेषानुपादानाद्धातुमात्रेण योगे प्राप्नोतीत्यत आह - च्विडाचोः इत्यादि। अभूततद्भावे कृभ्वस्तियोगे (5.4.50) च्विर्विहितः। अव्यक्तानुकरणात् (5.4.57) इत्यादावपि सूत्रे कृभ्वस्तियोगस्यानुवृत्तेर्डाजिपि तत्रैव विहितः। तेन च्विडाचोस्तावद्धात्वन्तरेण योगासम्भवात् कृभ्वस्तियोगे गतिसंज्ञाविधानम्। अतस्तत्साहचर्यादूर्यादीनामपि तैरेव योगे विधीयते। ऊर्यादिभ्यश्च्व्यर्थस्याप्रतीतेर्न प्रतिपादयितुमाह - उरी, उररी इत्यादि। श्रौषञडादीनां स्वधापर्यन्तानां चादिषु पाठादक्रियायोगेऽपि निपातसंज्ञा भवति। आविस्शब्दः साक्षात्प्रभृतिषु पठते। तेन तस्य विभाषा कृञि (1.4.98) इति करोतियोगे विभाषा गतिसंज्ञ#आ। शुक्लीकृत्य इति। अस्य च्वौ (7.4.32) इतीत्त्वम्। पटपटाकृत्य इति। वा क्यषः (1.3.90) इत्यत्र पटपटाशब्दो व्युत्पादितः॥
Praudhamanorama¶
ऊर्यादिच्विडाचश्च ॥ च्विडाचौ कृभ्वस्तियोगे विहितौ, ऊर्यादयोऽपि स्वभावात्तत्रैव प्रयुज्यन्ते । तत्रापि आविःप्रादुःशब्दौ मुक्त्वाऽन्येषां करोतिनैव योग इति माधवादिग्रन्थे स्थितम् । तथैवोदाˍहरति- ऊरीकृत्येति । आविःशब्दस्य तु साक्षात्प्रभृतिषु पाठात् कृञो योगे गतिसञ्ज्ञा- विकल्पः, भ्वस्तियोगे तु अनेन नित्यमिति विशेषः । कथं तर्हि ‘वारुणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव राग’ इति माघः । ‘अभवद्युगपद्विलोलजिह्वायुगलीढोभयसृक्वभावमाविः’ इति च । ‘निरङ्कुशाः कवयः’ इति हरदत्तः । वस्तुतस्तु ‘ते प्राग्धातोरि’ति सूत्रस्य प्रयोगनियमार्थत्वे प्रकृतेऽनुपपत्तावपि सञ्ज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति प्रपञ्चितं शब्दकौस्तुभे । एतेन ‘पुरो रामस्य जुहवाञ्चकार ज्वलने वपुरि’ति भट्टिर्व्याख्यातः ।
Prakriyasarvasvam¶
ऊर्यादिगणश्च्व्यन्ता डाजन्ताश्च गतिसंज्ञाः ॥
Sutra Prayogas¶
श्रेणी-भूतानि (भट्टिकाव्यम्): ऊर्यादिचिचडाचश्च इति च्व्यन्तानां समासः।