14050: तथायुक्तं चानीप्सितम्

Padacheda: तथा | S | 0 | 0 |

युक्तम् | S | 1 | 1 |

च | S | 0 | 0 |

अनीप्सितम् | S | 1 | 1 |

Sutrartha

कर्तुः क्रियया आप्तुम् यत् अनीप्सितम् , तत् कारकं फलाश्रयं सत् कर्मसंज्ञं भवति । यथा - ग्रामं गच्छन् तृणं स्पृशति, ग्रामं गच्छन् अहिं लङ्घयति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । क्रियायाः व्यापारेण कर्तुः यत् इष्टतमम् (most desired) तस्य **कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञायां सिद्धायाम्, तेनैव प्रकारेण (इत्युक्ते, तथैव फलाश्रयत्वयुक्तं सत्) कर्तुः यत् अनीप्सितम् (इत्युक्ते यत् क्रियया ईप्सितं न, तत्) तस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते** । अस्य द्वे उदाहरणे एतादृशे - <listsp> <li>1. <ex>**देवदत्तः ग्रामं गच्छन् अहिं लङ्घयति**</ex> । कश्चन देवदत्तः ग्रामं गन्तुम् मार्गेण पद्भ्याम् अग्रे सरन् मार्गे विद्यमानान् कण्टकान्, नदीम्, पर्वतम् अवश्यं लङ्घयितुम् (to cross) इच्छेत्, परन्तु सः मार्गे विद्यमानम् अहिं (सर्पं) नैव लङ्घयितुम् इच्छति । सर्पः दृश्यते चेत् मार्गे परिवर्तनं कृत्वा एव सः अग्रे गच्छेत्, इति सामान्यः व्यवहारः । अतः लङ्घनक्रियायाः सन्दर्भेण “अहिः” इति देवदत्तस्य ईप्सितम् नास्ति, अपितु द्वेष्यम् / त्याज्यम् एव अस्ति । अस्यां स्थितौ यदि देवदत्तः अनवधानेन अहिं लङ्घयेत्, तर्हि “अहि”पदार्थस्य कर्मसंज्ञा भवेत् वा - इति प्रश्नः उदेति । तत्र लङ्घनक्रियायाः कृते “अहि”पदार्थस्य ईप्सिततमत्व-अभावात् कर्तुरीप्सिततमं कर्म (1.4.49) इति पूर्वसूत्रेण तु अहिपदार्थस्य कर्मसंज्ञा अत्र नैव सम्भवति । परन्तु एतादृशी कर्मसंज्ञा अवश्यमेव ईष्यते, अतश्च तां विधातुम् प्रकृतसूत्रम् निर्मितम् अस्ति । क्रियया आप्तुम् यद् ईप्सिततमम्, तद् यथा (फलाश्रयं सत्) कर्मसंज्ञकं भवति, तथैव क्रियया आप्तुम् यद् अनीप्सितम्, तद् अपि फलाश्रयं सत् कर्मसंज्ञं भवति - इति प्रकृसूत्रस्य आशयः वर्तते । अतएव, <ex>ग्रामं गच्छन् अहिं लङ्घयति</ex> इत्यत्र लङ्घनरूपव्यापारस्य फलं “अहि”पदार्थे न पश्यन् (किञ्च, “अहि”पदार्थे लङ्घनक्रियायाः फलं न भवेत् इति यतमानः अपि) देवदत्तः, प्रायेण अनवधानेन तत्रैव तस्य फलं लभते, इति कारणात् , “अहि”पदार्थस्य फलाश्रयत्वात् प्रकृतसूत्रेण तस्य अत्र कर्मसंज्ञा भवति, ततः च एतादृशस्य अनभिहित-कर्मणः निर्देशार्थम् कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीयायाः प्रयोगं कृत्वा <ex>ग्रामं गच्छन् अहिं लङ्घयति</ex> इति प्रयोगः सिद्ध्यति । एवमेव, <ex>ओदनं भुञ्जानः विषं भुङ्क्ते</ex> इत्यत्र भोजनक्रियायाः सन्दर्भेण विषस्य, तथा च <ex>ग्रामं गच्छन् चौरान् पश्यति</ex> इत्यत्र दर्शनक्रियायाः सन्दर्भेण चौराणाम् अपि, अनीप्सितत्वात् (द्वेष्यत्वात्) प्रकृतसूत्रेण कर्मसंज्ञा भवति । <li>2. <ex>**देवदत्तः ग्रामं गच्छन् तृणं स्पृशति**</ex> । ग्रामं गच्छन् देवदत्तः “मार्गे विद्यमानान् तृणान् अहं स्पृशामि” इति नैव चिन्तयति, तथापि सः तान् अवश्यं स्पृष्ट्वा एव अग्रे गच्छति । अत्र स्पर्शनक्रियायाः कृते “तृणम्” इति देवदत्तस्य ईप्सितम् न वर्तते । यद्यपि तत् द्वेष्यम् / त्याज्यम् अपि नास्ति (इत्युक्ते देवदत्तः तृणानि दृष्ट्वा पूर्ववत् मार्गं नैव परिवर्तयेत्) तथापि सः “अहं तृणानि स्प्रष्टुम् अनेन पथा गच्छन् अस्मि” इति न हि चिन्तयति । इत्युक्ते, स्पर्शनक्रियायाः फलं तृणेषु “अस्ति उत नास्ति” इत्यस्मिन् विषये देवदत्तः उदासीनः अस्ति । अतएव “तृण”पदार्थः अत्र देवदत्तस्य अनीप्सितरूपेणैव परिगण्यते । परन्तु तथापि स्पर्शनक्रियायाः फलं तु तृणे एव वर्तते । अस्यां स्थितौ “तृण”पदार्थस्य पूर्वसूत्रेण अप्राप्ता कर्मसंज्ञा इदानीं प्रकृतसूत्रेण विधीयते, येन <ex>ग्रामं गच्छन् तृणं स्पृशति</ex> इति प्रयोगः सिद्ध्यति । एवमेव, <ex>ग्रामं गच्छन् वृक्षमूलानि उपसर्पयति</ex> इत्यत्रापि उपसर्पणक्रियायाः सन्दर्भेण वृक्षमूलपदार्थः प्रकृतसूत्रेण कर्मसंज्ञः भवति । </listsp> <note><ex>ग्रामं गच्छन् अहिं लङ्घयति</ex> तथा च <ex>ग्रामं गच्छन् तृणं स्पृशति</ex> एतयोः द्वयोः अपि उदाहरणयोः “ग्राम”पदार्थः तु गमनक्रियायाः ईप्सिततमः एव वर्तते, अतः अत्र ग्रामपदार्थस्य कर्मसंज्ञा कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेनैव भवति । प्रकृतसूत्रं तु लङ्घनक्रियायाः कृते अनीप्सितः यः “अहि”पदार्थः, तथा च स्पर्शनक्रियायाः कृते अनीप्सितः यः “तृण”पदार्थः, तयोः कर्मसंज्ञाविधानार्थं प्रयुज्यते । यदि तयोः “अनीप्सितत्वं” नैव स्यात्, इत्युक्ते यदि ग्रामं गच्छन् देवदत्तः स्वज्ञातिपुरस्सरं (on purpose) अहिं लङ्घयेत् उत तृणं स्पृशेत्, तर्हि तत्र तु “अहि”पदार्थस्य “तृण”पदार्थस्य च कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेनैव कर्मसंज्ञा भवितुम् अर्हति ।</note>

<hlb>अनीप्सितम्</hlb> इति शब्दः

प्रकृतसूत्रे प्रयुक्तः अनीप्सितम् इति शब्दः न ईप्सितम् (प्राप्तुम् इष्टम्) तत् अनीप्सितम् इति तत्पुरुषसमासेन सिद्ध्यति । अत्र नञ्-शब्दस्य अर्थं स्पष्टीकुर्वन् भाष्यकारः ब्रूते - <inline>न अयं प्रसज्यप्रतिषेधः, ईप्सितं न इति । किं तर्हि ? पर्युदासोऽयम् </inline>। भाष्यकारेण अत्र ** नञ् इति पर्युदासः अस्ति** इति प्रतिपादितं वर्तते । एतादृशे अर्थे स्वीकृते, सूत्रस्य अर्थः अपि “यत् ईप्सितं न (= ईप्सितभिन्नम्) तस्य (फलाश्रयत्वे सति) कर्मसंज्ञा भवति” इति सिद्ध्यति । एतादृशाः इप्सितभिन्नाः शब्दाः द्विधा भवितुम् अर्हन्ति - 1) **ते पदार्थाः ये द्वेष्याः सन्ति (Those which the doer would like to avoid) ** । एतेषाम् “अनीप्सित”शब्देन निर्देशः अवश्यं सम्भवति, अतः एतेषां प्रकृतसूत्रेण कर्मसंज्ञा भवति । 2) **ते पदार्थाः ये उपेक्ष्याः सन्ति (इत्युक्ते, ईप्सिताः अपि न सन्ति, द्वेष्याः अपि न सन्ति । एतेषां विषये कर्तुः मनसि औदासीन्यं वर्तते ।) **। एते पदार्थाः अपि “ईप्सिताः न सन्ति” इति कारणात् एतेषाम् “अनीप्सित”शब्देन ग्रहणम् अवश्यं भवति । अतः एतादृशानां पदार्थानाम् अपि प्रकृतसूत्रेण कर्मसंज्ञा अवश्यमेव भवति ।

अनेन प्रकारेण प्रकृतसूत्रे प्रयुक्तेन “अनीप्सित”शब्देन द्वेष्यपदार्थस्य उपेक्ष्यपदार्थस्य चापि ग्रहणं भवति ।

दलकृत्यम्

** 1. “तथा युक्तम्” इति किमर्थम् ? ** पूर्वसूत्रे यथा क्रियायाः फलस्य आश्रयः कर्मसंज्ञकः भवति, तथैव अत्रापि क्रियायाः फलस्य आश्रयः एव कर्मसंज्ञां प्राप्नुयात् - इति स्पष्टीकर्तुम् प्रकृतसूत्रे “तथा युक्तम्” इति पदद्वयं स्वीक्रियते । यदि एते पदे प्रकृतसूत्रे न स्याताम्, तर्हि सर्वेषाम् अपि अनीप्सितानां प्रकृतसूत्रेण कर्मसंज्ञा प्रसज्येत । यथा, <nex>प्रयागात् काशीं गच्छति</nex> इत्यत्र, प्रयागस्य उपेक्ष्यत्वात् तस्य अनीप्सितत्वे लब्धे तस्य अपि कर्मसंज्ञा स्यात्, या परत्वात् अपादानसंज्ञां बाधेत । एवमेव, <nex>विषेण ओदनं भुङ्क्ते</nex> इत्यत्रापि भोजनक्रियां प्रति द्वेष्यत्वात् विषस्य कर्मसंज्ञा एव भवेत्, या परत्वात् करणसंज्ञां बाधेत । एतादृशं मा भूत् इति हेतुना अत्र तथा युक्तम् इति पदद्वयम् स्थापितम् अस्ति । एतयोः योजनेन केवलं तादृशस्यैव अनीप्सितस्य कर्मसंज्ञा सिद्धा भवति यादृशम् अनीप्सितम् फलस्य आश्रयरूपेण प्रवर्तते । इदानीं <nex>प्रयागात् काशीं गच्छति</nex> इत्यत्र गमनक्रियायाः उत्तरदेशसंयोगरूपिणः फलस्य आश्रयः (इत्युक्ते उत्तरदेशः) “प्रयागः” न, अतः प्रयागस्य अनीप्सितत्वात् अपि फलाश्रय-अभावात् तस्य कर्मसंज्ञा न भवति । एवमेव, <nex>विषेण ओदनं भुङ्क्ते</nex> इत्यत्रापि भोजनक्रियायाः गलबिकसंयोगरूपिणः फलस्य आश्रयः “विषम्” न अपितु “ओदनम्” अस्ति, अतः विषस्य अनीप्सितत्वात् अपि फलाश्रय-अभावात् तस्य कर्मसंज्ञा न भवति । अनेन प्रकारेण अत्र तथा युक्तम् इति द्वयोः पदयोः ग्रहणेन अनिष्टा कर्मसंज्ञा निवार्यते । ** 2. “अनीप्सितम्” इति किमर्थम् ? ** ** यत् ईप्सितम् नास्ति, तस्यैव विषये प्रकृतसूत्रेण कर्मसंज्ञा भवेत्, इति स्पष्टीकर्तुम् अत्र अनीप्सितम् इति पदं स्थापितम् अस्ति ** । अनेन, ईप्सितपदार्थस्य अत्र कर्मसंज्ञा न भवति, यथा <nex>दध्ना ओदनं भुङ्क्ते</nex> इत्यत्र दधिपदार्थस्य साधकतमत्वेन केवलं ईप्सितत्वात् (परन्तु ईप्सिततमत्व-अभावात्) अस्य प्रकृतसूत्रेण कर्मसंज्ञा न सिद्ध्यति । <bg>वस्तुतः तु अत्र अनीप्सितग्रहणम् अनावश्यकम् अस्ति इति भट्टोजिदीक्षितेन प्रौढमनोरमायां शब्दकौस्तुभे च विस्तरेण स्पष्टीकृतम् अस्ति । जिज्ञासुभिः तत् अवश्यमेव द्रष्टव्यम् । </bg>

सूत्रस्य अन्वयः

** प्रकृतसूत्रे विद्यमानम् तथायुक्तम् इति एकं पदं नास्ति अपितु द्वे पदे स्तः** । सूत्रपाठस्य अद्य उपलभ्यमानेषु प्रायेण सर्वेषु अपि संस्करणेषु तथायुक्तम् इति युगपत् (without space) स्थापितं दृश्यते, येन “इदं समस्तपदं वा” इति संशयः मनसि अवश्यमेव उद्भवति । परन्तु अत्र समासविधायकं न किञ्चन सूत्रम् अस्ति, न च मयूरव्यंसकादित्वात् अपि अत्र समासः शिष्टैः स्वीकृतः वर्तते । किञ्च, “तथा” इति शब्दस्य अन्वयः आदौ “च” इत्यनेन कृत्वा ततः “युक्तम्” इत्यनेन क्रियते । एतदेव न, अपितु अस्मिन् अन्वये “च” इति शब्दस्य अर्थः अपि परिवर्त्य “एव” इति स्वीक्रियते । अतः “तथा च युक्तम्” इत्युक्ते “तथा एव युक्तम्” । अनेन “तथा एव युक्तम्” इति वाक्यखण्डेन अत्र पूर्वसूत्रस्य सन्दर्भस्य ग्रहणं क्रियते । इत्युक्ते, “यथा पूर्वसूत्रेण फलाश्रस्य कर्मसंज्ञा भवति, तथा एव (तेनैव प्रकारेण) अत्र कर्तुः अनीप्सितस्य अपि फलाश्रयत्वेन युक्ते एव कर्मसंज्ञा भवति” इति प्रकृतसूत्रस्य सम्पूर्णः अर्थः जायते ।

Vasu English Summary

If that which is not intended to be most affected by the act becomes however similarly connected with the action it also is called कर्म।

Vasu English Translation

If that which is not intended to be most affected by the act becomes however similarly connected with the action it also is called कर्म। That which is not desired by the agent is anipsita or object of aversion. Thus विषं भक्षयति he eats poison, चोरात् पश्यति. He sees the thieves. ग्रामम् गच्छन् वृक्षमूला न्युपसर्पति going to the village, he plucks the roots of the trees.

Bhashya

तथा युक्तं चानीप्सितम् किमुदाहरणम् ? विषं भक्ष्यतीति । नैतदस्ति । पूर्वेणाप्येतत्सिध्यति । न सिध्यति । कर्तुरीप्सिततमं कर्म (1.4.49) इत्युच्यते, कस्य च नाम विषभक्षणमीप्सितं स्यात् । विषभक्षणमपि कस्यचिदीप्सितं भवति । कथम् ? इह य एष मनुष्यो दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिशम्य विषभक्षणमेव ज्यायो मन्यते । आतश्चेप्सितं यत्तद्भक्षयति ॥ यत्तर्ह्यन्यत्करिष्यामीत्यन्यत्करोति तदुदाहरणम् । कि पुनस्तत् ? ग्रामान्तरमयं गच्छंश्चौरान् पश्यति, अहिं लङ्घयति, कण्टकान्मृदनातीति । इर्हेप्सितस्यापि कर्मसंज्ञाऽऽरभ्यतेऽनीप्सितस्यापि यदिदानीं नैवेप्सितं नाप्यनीप्सितं तत्र कथं भवितव्यम् - ग्रामान्तरमयं गच्छन्वृक्षमूलान्युपसर्पति, कुड्यमूलान्युपसर्पतीति ? अत्रापि सिद्धम् । कथम् ? अनीप्सितमिति नाऽयं प्रसज्यप्रतिषेधः - इर्प्सितं नेति । किं तर्हि पर्युदासोऽयं - यदन्यदीप्सितात्तदनीप्सितमिति । अन्यच्चैवेदीप्सिताद्यन्नैवेप्सितं नाप्यनीप्सितमिति ॥ 50 ॥

Kashika

येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेनैव चेत् प्रकारेण यदनीप्सितं युक्तं भवति, तस्य कर्मसंज्ञा विधीयते। ईप्सितादन्यत् सर्वमनीप्सितं द्वेष्यमितरच्च। विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति॥

Siddhanta Kaumudi

ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥

Balamanorama

तथायुक्तं चानिप्सीतम् - क्रीतात्करणपूर्वात् । प्रातिपदिकादित्यनुवृत्तमत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्त विधिः । तदाह — क्रीतान्तादित्यादिना । करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यं, तेन करणादेरिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति । ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुल॑मिति समासात्मकं प्रातिपदिकमादन्तमेव, न त्वदन्तमिति कथमत्र ङीषिति चेत्, सत्यम् — समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्त्र भिस् क्रीत इति स्थितेगतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः॑ इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे ‘सुपो धातु’ इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । धनक्रीतेत्यत्रापि ङीष् स्यादित्यत आह-क्वचिन्नेति ।कर्तृकरणे कृता बहुल॑मिति बहुलग्रहणेनगतिकारकोपपदाना॑मित्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः । तत्र च सुपः प्रागेवान्तरङ्गत्वाट्टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रातीशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च ‘अत’ सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च ‘अत’ इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्चउपपदमतिङि॑त्यत्र कैयटे स्पष्टम् । करणपूर्वार्त किम् । सुकीता नचैवमपि वस्त्रेण क्रीतेति वाक्यान्ङीष्प्रसङ्गः, क्रीतेति प्रातिपदिकस्य करणपूर्वात्वात्, अदन्तत्वाच्चेति वाच्यं, करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणं, नतु क्रीतशब्दस्य । करणं पूर्वं यस्मिन्निति बहुव्रीहिः । करणशब्दात्मकपूर्वायवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः । एतदर्थमेव पूर्वग्रहणम् । अन्यथाक्रीतात्करणा॑दित्येवावक्ष्यदित्यलम् ।

Tattvabodhini

तथायुक्तं चानिप्सीतम् - क्रीतात् । इह प्रकरणेअतः॑इत्यनुवर्तते,प्रातिपदिका॑दिति च, तदाह — अदन्तादिति ।प्रातिपदिका॑दिति शेषः । वस्त्रक्रीतीति ।वस्त्र भिस्क्रीते॑ति स्थिते प्राक्तुबुत्पत्तेःकर्तृकरणे॑इति समासेऽदन्तत्वान्ङीष् । क्वचिन्नेति ।कर्तृकरणे कृता बहुल॑मिति बहुलग्रहणात्गतिकारकोपपदे॑ति वक्ष्यमाणस्य क्वचिदप्रवृत्तौ सुबन्तेन समासः । तत्र सुपः प्रागेवान्तरङ्गत्वाट्टाप्, ततोऽदन्तत्वाऽभावान्न ङीषिति भावः । करणपूर्वादिति किम् । गवा क्रीताअओन क्रीतेत्यादिविग्रहे मा भूत् । पूर्वशब्दो ह्रवयववचनः, समासप्रातिपदिकं चान्यपदार्थः । करणं पूर्वं यस्मिन् प्रातिपदिके तदिदं करणपूर्वं, तस्मादित्यर्थः ।

Padamanjari

तथेति पृथक् पदम्, नोपसमस्तम्; लक्षणाभावात्। चकारोऽवधारणे, अनेकार्थत्वान्निपातानाम्, तथेत्यस्य चानन्तरे द्रष्टव्य इत्याह - तेनैवेति। ईप्सितादन्यत्सर्वमनीप्सितमिति। यथा अधर्मानृतादिभिरुतरपदार्थप्रतिपक्षभूतं यद्वस्तु तत्प्रतिषेधद्वारेणाभिधीयते, तथेहानीप्सितशब्देनेप्सितप्रतिपक्षभूतं न द्वेष्यमेवाभिधीयते, किं तर्हि? अश्व - लोष्ट - इत्यादिवदीप्सितव्यतिरिक्तं सर्वमिति सर्वशब्दस्यार्थः। विषं भक्षयतीति। न कस्यापि विषमीप्सिततममिति भावः। ननु य एव मनुष्यो व्याध्यादिना सर्वतः पीडितो मरणमेव ज्यायो मन्यते, तस्य विषमपीप्सिततममेव; यदिष्ट्ंअ गुडादिभ्रान्त्या विषे प्रवर्तते तस्यापि तदीप्सिततममेव, यदिष्ट्ंअ गुडादि, तद्बुद्धिरेव तत्र प्रवर्तते; अतोऽत्र पूर्वेणैव सिद्धमित्युदाहरणान्तरोपन्यासः। ग्रामं गच्छन्निति। नात्र वृक्षमूलानीप्सिततमानि पूर्वमनभिसंहितत्वान्नान्तरीयकं हि तदुपसर्पणम्। न चात्रापि यावद् ग्रामं गच्छन्निति न प्रयुज्यते तावन्नान्तरीयकता न प्रतीयत इति पूर्वेणैव सिद्धम्, यथा - नदी कूलं कषतीत्यत्राचेतनत्वादीप्साभावः, पदान्तरसम्बन्धात्प्रतीयमानो बहिरङ्गत्वात्कर्मसंज्ञां न प्रतिबध्नाति? भवत्वयं प्रतिपतारं प्रति उपपादनप्रकारः, यस्तु प्रयुङ्क्ते स पूर्वमेवेप्साप्रकर्षाभावं जानन् तत्कथं प्रयुक्तमिति पूर्वेणासिद्धिरेव। एवं च नदीकूलमित्यत्रापि अनेनैव कर्मसंज्ञा। तथा यत्र क्रियायामेव तात्पर्यं न फले, नान्तरीयका तु फलसिद्धिः, तत्राप्यनेनैव भवति। अथ क्रियाफलयोगि कर्मेति कस्माद् नोक्तम्? यदीप्सिततमं यद् द्वेष्यमितरच्च तत्र सर्वत्रानुगतमेतद्, यदुत क्रियाफलयोगित्वं कर्तुरपि तर्हि कर्मत्वं स्यात्, क्रियाफलस्य संयोगस्य तत्रापि भावात्। भावात्। अथ परसमवेतक्रियाफलयोगीति लक्षणम्? एवमप्यात्मा ज्ञातव्य इत्यत्र न स्यात् , संविदश्च स्वयं प्रकाशाभिमतायाः कर्मत्वं स्यात्। घटमहं जानामीत्यत्र हि त्रितयमेव भासते - घटः, ज्ञानम्, आत्मा चेति। तत्र ज्ञानं क्रिया, तत्फलं शब्दप्रयोगादिरूपो व्यवहारः, तेन युज्यमानस्य घटस्य यथा कर्मत्वं तथा ज्ञानस्यापि स्यात्। ज्ञानं हि क्रिया भवति व्यवहारूपस्य फलस्याश्रयभूतम्, तस्यैव ज्ञानस्य यत् स्वरूपं तदपेक्षया यः पर आत्मा तत्र च समवैतीत्यलमियता। चोरानित्यत्रापि मर्तृकामो वा मित्रादिरूपेण विपर्यस्यमानो वा चोरानुपसर्पतीति पूर्वेणैव सिद्धम्॥

Praudhamanorama

तृणं स्पृशतीति। यथा स्पृश्यमानस्य गङ्गादेरीप्सितस्य क्रियया योगस्तज्जन्यसंयोगादिफलाधारत्वात् तथैवानीप्सितस्य तृणादेरपीति भावः। स्यादेतत् धातूपस्थाप्यफलशालि कर्मेत्येवाऽस्तु, किमीप्सितानीप्सितयोः पृथक्कथनेनेति चेत्? मैवम्, अग्नेर्माणवकं वारयतीत्यत्र ‘वारणार्थानाम्’ इति सूत्रेण माणवकस्यापादानत्वं प्राप्तं तद्बाधनाय ‘कर्तुरीप्सिततमम्’ इति वक्तव्यमेव। एवं च द्वेष्योदासीनयोः संग्रहार्थं ‘तथायुक्तम्’ इत्यस्याप्यावश्यकत्वात्। अनीप्सितग्रहणं तु स्पष्टार्थमेव न त्वावश्यकम्। इदं त्ववधेयम्। ईप्सितानीप्सितयोः शाब्दबोध एकरूप एव, ईप्सानीप्सादेरधिशीङादिवत्संज्ञाप्रवृत्तावुपयोगेऽपि द्वितीयावाच्यकोटावप्रवेशात्, अनन्यलभ्यस्यैव शब्दार्थत्वात्। ‘कर्मणि द्वितीया’ इति सूत्रे हि तत्तत्सूत्रैर्यावतां कर्मसंज्ञा विहिता, ते सर्वे तेन रूपेणोपस्थितास्तेषु च विधीयमाना द्वितीया आधारवाचिका, लाघवात्, क्रियाया धातुना कर्तुश्च देवदत्तादिशब्दैर्लाभात्, इष्टतमत्वादेस्तु भानाभावात्। प्रकृतिप्रत्ययार्थयोश्चाभेदेन इह संसर्गः। तथा च हर्याधारिका या प्रीतिस्तदनुकूलो व्यापारो वाक्यार्थः। यद्यपि कर्मणि कर्तरि अधिकरणे च विहितानां द्वितीयादीनामाधारार्थ इति तुल्यम्; तथाऽपि तन्निरूपकं फलं, व्यापारः, स्वाश्रयद्वारा तदुभयं चेति फलभूते शाब्दबोधे वैलक्षण्यं सङ्गच्छते। न चाधारतैव वाच्येति मन्तव्यम्, तन्निष्ठधर्मस्य वाच्यतावच्छेदकतापत्त्याऽतिगौरवात् ‘कर्मणि द्वितीया’ इत्यादिसूत्रस्वरसभङ्गापत्तेश्च। अत एव भाष्यकार आह— सुपां कर्मादयोऽप्यर्थाः, संख्या चैव तथा तिङाम्। इति। न च तिङोऽपि धर्ममात्रमर्थः, ‘कर्तरि कृत्’ ‘लः कर्मणि च’ ‘तयोरेव कृत्यक्तखलर्थाः’ इति सूत्राणां वैरूप्यापत्तेः, पाचको देवदत्तः, पक्व ओदन इत्यादौ सामानाधिकरण्यानुरोधेन धर्मिवाचकतास्वीकाराच्च। तस्मादिह घटादिशब्दानामिव विशिष्टमेव वाच्यम्। आकृत्यधिकरणाभ्युपगमे तु कृत्स्वपि धर्ममात्रं, सर्वथाऽपि नैयायिकमीमांसकाद्यभ्युपेतमर्धजरतीयं हेयमेव। न हि तिङ्कृतोर्वैलक्षण्यं सूपपादम्। प्रपञ्चितञ्चैतच्छब्दकौस्तुभेऽस्माभिरित्यलमियता।

Prakriyasarvasvam

ईप्सितवदेव क्रियासंबद्धं चेदनीप्सितमपि कर्माख्यम् । विषं भुङ्क्ते । मार्गं तृणं स्पृशति ।।

Sutra Prayogas

  • काकुत्स्थम-धन्यं (भट्टिकाव्यम्): तथायुक्तं चानीप्सितम् इति कर्मसंज्ञा।