14015: नः क्ये

Padacheda: नः | S | 1 | 1 |

क्ये | S | 7 | 1 |

Sutrartha

नकारान्तप्रातिपदिकस्य क्यच्/क्यङ्/क्यष्-प्रत्यये परे पदसंज्ञा भवति । यथा - राजन् + क्यच् , राजन् + क्यङ्, चर्मन् + क्यष् ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । सुप्तिङन्तं पदम् (1.4.14) इत्यतः स्वादिष्वसर्वनामस्थाने (1.4.17) इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । नकारान्तशब्दाः (यथा राजन्, चर्मन् एतादृशाः) **क्य इत्यनेन प्रारभ्यमाणे प्रत्यये परे (इत्युक्ते, क्यच्/क्यङ्/क्यष्-प्रत्यये परे) पदसंज्ञकाः भवन्ति** इति अस्य सूत्रस्य आशयः । एतेषां त्रयाणां क्रमेण उदाहरणानि एतादृशानि - <br> <hlb>1. क्यच्-प्रत्ययः</hlb> — सुप आत्मनः क्यच् (3.1.8) अनेन सूत्रेण सुबन्तेभ्यः “आत्मनः इच्छति” अस्मिन् अर्थे क्यच् इति प्रत्ययः विधीयते । ** अस्मिन् “क्यच्”-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति** । यथा, “राजानम् आत्मनः इच्छति” अस्मिन् अर्थे “राजानम्” इति सुबन्तात् सुप आत्मनः क्यच् (3.1.8) इत्यनेन “क्यच्”-प्रत्यये कृते प्रक्रियायाम् <ex>राजन्</ex> इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन नः लोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन “राजन्” इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —

राजानम् आत्मनः इच्छति
= राजानम् + क्यच् [**सुप आत्मनः क्यच्** (3.1.8) इति क्यच्-प्रत्ययः । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ]
→ राजन् + य [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य "राजन्"-शब्दस्य **नः क्ये** (1.4.15) इत्यनेन पदसंज्ञा भवति ।]
→ राज य [ **नः लोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन पदसंज्ञकस्य "राजन्" इत्यस्य नकारस्य लोपः ।]
→ राजीय [ **क्यचि च** (7.4.33) इत्यनेन ईत्वम् । ]

अनेन प्रकारेण अत्र “राजीय” इति धातुः सिद्ध्यति । अस्य धातोः अग्रे “राजीयति”, “राजीयतः”, “राजीयन्ति” इत्यादीनि रूपाणि भवन्ति । <br> <hlb>2. क्यङ्-प्रत्ययः</hlb> — कर्तुः क्यङ् सलोपश्च (3.1.11) अनेन सूत्रेण सुबन्तेभ्यः “इव आचरति” अस्मिन् अर्थे क्यङ् इति प्रत्ययः विधीयते । अस्मिन् “क्यङ्”-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति । यथा, “राजा इव आचरति” अस्मिन् अर्थे “राजा” इति सुबन्तात् कर्तुः क्यङ् सलोपश्च (3.1.11) इत्यनेन “क्यङ्”-प्रत्यये कृते प्रक्रियायाम् <ex>राजन्</ex> इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन नः लोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन “राजन्” इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —

राजा इव आचरति
= राजा + क्यङ् [**कर्तुः क्यङ् सलोपश्च** (3.1.11)  इति क्यङ्-प्रत्ययः ।  **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
→ राजन् + य [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य "राजन्"-शब्दस्य **नः क्ये** (1.4.15) इत्यनेन पदसंज्ञा भवति ।]
→ राज + य [ **नः लोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन पदसंज्ञकस्य "राजन्" इत्यस्य नकारस्य लोपः ।]
→ राजाय  [ **अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः ।  ]

अनेन प्रकारेण अत्र “राजाय” इति धातुः सिद्ध्यति । अस्य धातोः अग्रे “राजायते”, “राजायेते”, “राजायन्ते” इत्यादीनि रूपाणि भवन्ति । <spacer> <hlb>3. क्यष्-प्रत्ययः</hlb> — लोहितादिडाज्भ्यः क्यष् (3.1.13) अनेन सूत्रेण लोहितादिगणस्य शब्देभ्यः “भवति” अस्मिन् अर्थे क्यष् इति प्रत्ययः विधीयते । ** अस्मिन् “क्यष्”-प्रत्यये परे प्रक्रियायां नकारान्त-शब्दस्य पदसंज्ञा भवति** । यथा, “चर्म भवति” अस्मिन् अर्थे “चर्म” इति सुबन्तात् लोहितादिडाज्भ्यः क्यष् (3.1.13) इत्यनेन “क्यष्”-प्रत्यये कृते प्रक्रियायाम् <ex>चर्मन्</ex> इति नकारान्तस्य शब्दस्य पदसंज्ञा भवति, येन नः लोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन “चर्मन्” इत्यस्य नकारस्य लोपः भवति । सम्पूर्णा प्रक्रिया इयम् —

चर्म भवति
= चर्म + क्यष् [लोहितादिगणस्य आकृतिगणत्वात् "चर्मन्" शब्दस्य तत्र समावेशं कृत्वा **लोहितादिडाज्भ्यः क्यष्** (3.1.13) इति  क्यष्-प्रत्ययः ।  **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ]
→ चर्मन् + य [ **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते प्राप्तस्य नकारान्तस्य "चर्मन्"-शब्दस्य **नः क्ये** (1.4.15) इत्यनेन पदसंज्ञा भवति ।]
→ चर्म + य [**नः लोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन पदसंज्ञकस्य "चर्मन्" इत्यस्य नकारस्य लोपः ।]
→ चर्माय [ **अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः । ]

अनेन प्रकारेण अत्र “चर्माय” इति धातुः सिद्ध्यति । अस्य धातोः अग्रे “चर्मायति”, “चर्मायतः”, “चर्मायन्ति” इत्यादीनि रूपाणि भवन्ति । <spacer>

नियमसूत्रम् इदम्

“क्यच्”, “क्यङ्”, “क्यष्” - एते त्रयः प्रत्ययाः भिन्नैः सूत्रैः सुबन्तेभ्यः एव प्रोक्ताः सन्ति । सुबन्तानां तु सुप्तिङन्तं पदम् (1.4.14) इत्यनेनैव सूत्रेण पदसंज्ञा वर्तते । प्रक्रियायां सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन सुप्-प्रत्ययस्य लोपे कृते अपि, अवशिष्टस्य प्रातिपदिकस्य प्रत्ययलोपे प्रत्यलक्षणम् (1.1.62) इत्यस्य आधारेण पदसंज्ञा अस्ति एव । तथापि एतादृशस्य प्रातिपदिकस्य सन्दर्भेण प्रकृतसूत्रेण पुनः पदसंज्ञा उच्यते । इयं पुनः उक्ता पदसंज्ञा व्यर्था वा - इति प्रश्ने पृष्टे; <!सिद्धे सति आरम्भः नियमार्थः!> इति वचनेन केवलम् नकारान्तशब्दानाम् एव क्यच्/क्यङ्/क्यष्-प्रत्ययानां प्रक्रियायां पदसंज्ञा भवति, अन्येषाम् शब्दानाम् नैव भवति - इति अत्र नियमः क्रियते - एतद् उत्तरम् । यथा, “वाचम् आत्मनः इच्छति” अस्मिन् अर्थे “वाचम्” इति शब्दात् विहितस्य “सुप्”-प्रत्ययस्य लोपे कृते सिद्धस्य “वाच्” इति प्रातिपदिकस्य नकारान्तत्व-अभावात् “क्यच्”-प्रत्यये परे प्रक्रियायां पदसंज्ञा न भवति । अतएव “वाच् + क्यच्” इत्यत्र चोः कुः (8.2.30) इत्यनेन कुत्वम् अपि नैव विधीयते, किञ्च “वाच्य” इत्येव धातुः सिद्ध्यति । समग्रा प्रक्रिया इयम् -

वाचम् आत्मनः इच्छति
= वाचम् क्यच् [**सुप आत्मनः क्यच्** (3.1.8) इति क्यच्-प्रत्ययः । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ]
→ वाच् य [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन धातौ विद्यमानस्य सुप्-प्रत्ययस्य लोपः भवति । एतादृशे लोपे कृते, "वाच्" इत्यस्य प्रत्ययलक्षणेन प्राप्ता पदसंज्ञा **नः क्ये** (1.4.15) इति नियमात् न भवति ।  पदसंज्ञायाः अभावे **चोः कुः** (8.2.30) इत्यनेन कुत्वमपि नैव प्रवर्तते ।]
→ वाच्य

अनेन प्रकारेण अत्र “वाच्य” इति धातुः सिद्ध्यति । अस्य धातोः अग्रे “वाच्यति”, “वाच्यतः”, “वाच्यन्ति” इत्यादीनि रूपाणि भवन्ति । <note>अत्र अस्मिन् उदाहरणे “क्यच्”-प्रत्ययस्य विधानात् पूर्वम् “वाचम्” इत्यस्य पदसंज्ञा अवश्यम् अस्ति । अतएव सुबन्तात् उक्तः क्यच्-प्रत्ययः “वाचम्” इति शब्दात् अपि विधीयते । परन्तु एतादृशे क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् सुप्-प्रत्ययस्य लोपे कृते “वाच्” इति यः शब्दः सिद्ध्यति, तस्य प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य आधारेण प्राप्ता पदसंंज्ञा नैव भवति यतोहि “वाचम्” इत्यत्र नकारान्तं प्रातिपदिकम् नास्ति - इति प्रकृतसूत्रस्य आशयः वर्तते ।</note>

प्रातिपदिकस्य एव इयं पदसंज्ञा

“क्यच्”, “क्यङ्”, तथा च “क्यष्” एते प्रत्ययाः नित्यं सुबन्तेभ्यः एव विधीयन्ते । अतः यस्मात् शब्दात् एतेषु कश्चन प्रत्ययः विहितः अस्ति, सः शब्दः नकारान्तः भवेत् उत तद्भिन्नः, तस्य मूलतः एव पदसंज्ञा अस्ति । अस्य शब्दस्य नकारान्तत्वम् प्रकृतसूत्रस्य सन्दर्भेण न चिन्तनीयम्, अपि तु सुब्लोपात् अनन्तरम् यत् प्रातिपदिकम् अवशिष्यते, तस्य नकारान्तत्वम् अत्र द्रष्टव्यम् । यदि अत्र पदस्य एव नकारान्तत्वं स्वीक्रियेत, तर्हि अशुद्धानि रूपाणि सिद्ध्यन्ति । तत्कथम् इति चेत्, “अमून् + क्यच्” इत्यत्र नकारान्तस्य अदस्-शब्दस्य क्यच्-प्रत्यये परे पदसंज्ञायां स्वीकृतायाम्, सुब्लोपात् अनन्तरम् प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन “अदस्”-शब्दस्य अपि पदसंज्ञा भवेत्, येन “अदस् + य” इत्यवस्थायां पदान्तसकारस्य ससजुषो रुः (8.2.66) इति रुत्वे, ततः हशि च (6.1.114) इति उत्वे, ततश्च गुणैकादेशे कृते <nex>अदोय</nex> इति अनिष्टं रूपम् सिद्ध्येत्। तत् तथा मा भूत् इति स्पष्टीकर्तुम् एव अत्र सूत्रस्य स्पष्टीकरणे प्रातिपदिकस्य इति शब्दः स्थापितः अस्ति । सुब्लोपात् अनन्तरम् यत् प्रातिपदिकं सिद्ध्यति, तस्य नकारान्तत्वम् अस्ति चेदेव तस्य पदसंज्ञा भवति, अन्यथा न भवति - इति अत्र आशयः वर्तते ।

**क्यप्-प्रत्ययस्य अत्र ग्रहणं न भवति**

अष्टाध्याय्यां क्यप् इति कश्चन कृत्प्रत्ययः ई च खनः (3.1.111), संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (3.3.99) इत्यादिभिः सूत्रैः भिन्नेभ्यः धातुभ्यः विहितः अस्ति । अस्य प्रत्ययस्य प्रकृतसूत्रेण प्रयोजनाभावात् ग्रहणं न भवति । यथा, “खन् + क्यप्” इति प्रक्रियायां “खन्” इति नकारान्तस्य शब्दस्य पदसंज्ञा न भवति, यतो हि एतादृश्यां पदसंज्ञायां कृतायाम् अपि तस्य अग्रे प्रक्रियायां न कोऽपि उपयोगः सम्भवति ।

** क्यष्-प्रत्ययस्य विषये मतान्तराणि**

प्रकृतसूत्रस्य कौमुदीव्याख्यायाम् <inline>क्यचि क्यङि च</inline> इत्येव निर्देशः कृतः दृश्यते । इत्युक्ते, कौमुदीकारः “क्यष्”-प्रत्ययस्य सन्दर्भेण प्रकृतसूत्रम् नैव उदाहरति । अस्य स्पष्टीकरणार्थं बालमनोरमाकारः ब्रूते - <inline> लोहितडाज्भ्यः क्यष्वचनम् इति वक्ष्यमाणतया हलन्तात् क्यषः अभावात् </inline> - इति । “क्यष्”-प्रत्ययः केवलं लोहितादिगणस्य शब्देभ्यः एव विधीयते, तथा च अस्मिन् गणे कोऽपि नकारान्तः शब्दः न वर्तते, अतः प्रकृतसूत्रस्य तत्र प्रयोगः नैव सम्भवति - इति अत्र बालमनोरमाकारस्य आशयः अस्ति । किञ्च, प्रौढमनोरमायाम् अपि अस्मिन् सन्दर्भे दीक्षितः वदति - <inline>हलन्तेभ्यः क्यष् नास्ति इति भाष्यसिद्धान्तात्</inline> । भाष्यकारेण लोहितादिडाज्भ्यः क्यष् (3.1.13) इत्यस्य भाष्ये “”क्यष्”-प्रत्ययः नकारान्तशब्दात् नैव विधीयते अतः तस्य सन्दर्भेण नः क्ये (1.4.15) इत्यनेन पदसंज्ञा अपि नैव सम्भवति” - इति स्पष्टीकृतम् अस्ति । किञ्च, तत्रैव भाष्यकारेण “क्यष्”-प्रत्यये विद्यमानौ द्वौ अपि अनुबन्धौ (ककारः षकारः च) अनावश्यकौ मत्त्वा प्रत्याख्यातौ एव स्तः । अनेन प्रकारेण भाष्यमतेन, कौमुदीमतेन च प्रकृतसूत्रम् “क्यष्”-प्रत्ययस्य सन्दर्भेण नकारान्त-शब्दस्य अभावात् नैव प्रवर्तते । <spacer> परन्तु, काशिकाकारेण तु प्रकृतसूत्रस्य सन्दर्भेण “चर्मन् + क्यष्” इति उदाहरणम् अवश्यं दत्तम् अस्ति । यद्यपि लोहितादिगणे “चर्मन्” इति शब्दः साक्षात् न विद्यते, तथापि लोहितादिडाज्भ्यः क्यष् (3.1.13) इत्यत्र काशिकाकारः वदति - <inline>आकृतिगणश्चायम् । तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते, नःक्ये (१.४.१५) इति, नहि पठितानां मध्ये नकारान्तः शब्दोऽस्ति</inline> । लोहितादिगणः आकृतिगणः अस्ति, तथा च नः क्ये (1.4.15) इति सूत्रस्य प्रयोगः भवेत् एतादृशम् उदाहरणम् अस्मिन् गणे अवश्यम् एव भवितुम् अर्हति - इति अत्र काशिकाकारस्य आशयः वर्तते । किञ्च, तदर्थम् एव “क्यष्”-प्रत्यये ककारः स्थापितः अस्ति - इत्यपि अत्र काशिकाकारः स्पष्टीकरोति । तत्कथम् इति चेत्, “क्यष्”-प्रत्यये ककारस्य ग्रहणस्य अन्यत् किमपि प्रयोजनम् नास्ति, अपितु प्रकृतसूत्रे विद्यमानेन क्य इति शब्देन अस्य प्रत्ययस्य ग्रहणं कारयितुम् एव “क्यष्”-प्रत्यये ककारः स्थापितः वर्तते - इति । अतश्च, लोहितादिगणे अवश्यम् एव कश्चन नकारान्तः शब्दः भवेत् - इति काशिकाकारः मन्यते, तथा च तदनु एव प्रकृतसूत्रे “चर्मन्”-शब्दस्य उदाहरणम् अपि काशिकाकारेण दत्तम् अस्ति । एतदेव न, अपितु लोहितादिगणस्य आकृतिगणत्वात् तत्र “चर्मन्” शब्दः अवश्यं भवितुम् अर्हति इति निर्देशः वर्धमानविरचिते गणरत्नमहोदधौ अपि लभ्यते ।

कौमुदीव्याख्यानस्य संक्षेपः

प्रकृतसूत्रम् सिद्धान्तकौमुद्यां नामधातुप्रकरणे पाठितम् अस्ति । अत्र कौमुदीकारेण प्रसङ्गवशात् भिन्नानां शब्दानां “क्यच्”-प्रत्यये परे कीदृश्यः प्रक्रियाः भवन्ति इति भिन्नैः उदाहरणैः स्पष्टीकृतं वर्तते । एतैः उदाहरणैः सह कौमुदीकारस्य वाक्यानाम् अर्थः अधः संक्षेपेण दत्तः अस्ति - <listsp> <li>1. <inline>सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता </inline> - अत्र कौमुदीकारेण “गव्य” इति धातोः लिट्लकारस्य लुट्लकारस्य च प्रथमपुरुषैकवचनस्य रूपे उदाहरणरूपेण दत्ते स्तः । तत्र आदौ, “गव्य” इति धातुः कथं सिद्ध्यति इति चेत्, “गावम् आत्मनः इच्छति” अस्मिन् अर्थे “गावम्” इति सुबन्तात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “गो + क्यच्” इत्यस्याम् अवस्थायाम्, वान्तो यि प्रत्यये (6.1.79) इत्यनेन ओकारस्य अवादेशे कृते “गव्य” इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः लिट्लकारस्य प्रक्रियासु आदौ कास्प्रत्ययादाममन्त्रे लिटि (3.1.35) इत्यनेन आम्-प्रत्यये कृते, ततः कृ-धातोः अनुप्रयोगः क्रियते । अग्रे “गव्य + आम् + चकार” अस्याम् अवस्थायाम् अतो लोपः (6.4.48) इत्यनेन यकारोत्तरस्य अकारस्य लोपे कृते, ततः अग्रे यस्य हलः (6.4.49) इत्यनेन हल्-निमित्तकः यकारलोपः अपि प्राप्नोति । परन्तु अस्य लोपस्य निमित्तरूपेण विद्यमानः हल्-वर्णः (वकारः) स्वयं तु वान्तो यि प्रत्यये (6.1.79) इत्यनेन यकारस्य कारणात् एव निर्मितः अस्ति । अस्यां स्थितौ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषया अयं वकारः स्वस्य निर्मातुः एव नाशस्य निमित्तरूपेण (इत्युक्ते, यकारलोपस्य निमित्तरूपेण) कार्यं नैव करोति, अतः अत्र यस्य हलः (6.4.49) इत्यनेन यकारलोपः नैव सम्भवति - इति अत्र कौमुदीकारस्य आशयः वर्तते । अतश्च, केवलम् अकारलोपे एव कृते, “गव्य् + आम् + चकार” अस्याम् अवस्थायाम् मकारस्य अनुस्वार-परसवर्णौ कृत्वा “गव्याञ्चकार” इति रूपं सिद्ध्यति । एवमेव, “गव्य”-धातोः लुट्लकारस्य प्रक्रियायाम् अपि एतादृशम् एव यकारलोपं विना “गव्यिता” इति रूपं सिद्ध्यति । किञ्च, अनेनैव प्रकारैण “नावम् आत्मनः इच्छति” अस्मिन् अर्थे सिद्धस्य “नाव्य” इति धातोः अपि रूपाणि भवितुम् अर्हन्ति । <li>2. <inline>नलोपः । राजीयति </inline> - “राजानम् आत्मनः इच्छति” अस्मिन् अर्थे “राजानम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, प्रक्रियायाम् “राजन् + य” इति स्थिते, प्रकृतसूत्रेण “राजन्” इत्यस्य पदसंज्ञायां लब्धायाम् नः लोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन पदसंज्ञकस्य “राजन्”-शब्दस्य नकारस्य लोपे कृते, अग्रे क्यचि च (7.4.33) इत्यनेन ईत्वे कृते “राजीय” इति धातुः सिद्ध्यति । <li>3.<inline> प्रत्ययोत्तरपदयोश्च (कौमुदी-१३७३) । त्वद्यति । मद्यति </inline> - “त्वाम् आत्मनः इच्छति” अस्मिन् अर्थे “त्वाम्” इति सुबन्तात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “युष्मद् + य” इत्यस्याम् अवस्थायाम् प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यनेन “युष्मद्”-शब्दस्य “युष्म” इति अंशस्य “त्व” इति आदेशे कृते, “त्वद् + य” इति प्राप्ते, वर्णमेलनं कृत्वा “त्वद्य” इति आतिदेशिकधातुः सिद्ध्यति । एवमेव “माम् आत्मनः इच्छति” अस्मिन् अर्थे “माम्” इति सुबन्तात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते “मद्य” इति धातुः सिद्ध्यति । <li>4. <inline>एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति</inline> - “त्वद्य” तथा च “मद्य” इति धात्वोः निर्माणे प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यनेन प्राप्तः “त्व” तथा च “म” इति आदेशः केवलम् युष्मद्/अस्मद्-शब्दयोः एकवचनस्य सन्दर्भेण एव विधीयते । इत्युक्ते, “युवाम् आत्मनः इच्छति” उत “युष्मान् आत्मनः इच्छति” इत्यस्य निर्देशार्थम् क्यच्-प्रत्यये कृते “युष्मद् + य” इति प्राप्ते अग्रे प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यस्य प्रसक्तिः एव नास्ति । अतश्च, अत्र केवलं वर्णमेलनं कृत्वा “युष्मद्य” इति धातुः सिद्ध्यति । एवमेव, “आवाम् आत्मनः इच्छति” उत “अस्मान् आत्मनः इच्छति” अस्मिन् अर्थे अपि प्रत्ययोत्तरपदयोश्च (7.2.98) इत्यस्य प्रयोगं विना केवलं वर्णमेलनं कृत्वा “अस्मद्य” इति धातुः सिद्ध्यति । <li>5. <inline>हलि च (कौमुदी-३५४) । गीर्यति । पूर्यति </inline> - “गिरम् आत्मनः इच्छति” अस्मिन् अर्थे “गिरम्” इति सुबन्तात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “गिर् + य” इति स्थिते, हलि च (8.2.77) इत्यनेन इकारस्य दीर्घादेशे कृते “गीर्य” इति आतिदेशिकधातुः सिद्ध्यति । एवमेव, “पुरम् आत्मनः इच्छति” अस्मिन् अर्थे “पुरम्” इति सुबन्तात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते “पूर्य” इति धातुः सिद्ध्यति । अत्र “गिर्” तथा च “पुर्” इति रेफान्ते प्रातिपदिके यथासङ्ख्यम् “गॄ” तथा “पॄ” इत्येताभ्याम् धातुभ्याम् “क्विप्”-प्रत्ययं कृत्वा सिद्ध्यतः । क्विबन्ताः धातुत्वं न जहति इति परिभाषया एतयोः धातुत्वम् अपि अवश्यम् अस्ति, अतश्च अत्र प्रक्रियायां धातुसंज्ञाविशिष्टस्य हलि च (8.2.77) इति सूत्रस्य प्रयोगः सम्भवति, इति ज्ञापयितुम् कौमुदीकारेण इदम् उदाहरणम् अत्र दत्तम् अस्ति । <li>6. <inline>धातोरित्येव । नेह । दिवमिच्छति । दिव्यति </inline> - “दिवम् आत्मनः इच्छति” अस्मिन् अर्थे “दिवम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “दिव् + य” इति स्थिते, केवलं वर्णमेलनं कृत्वा “दिव्य” इति धातुः सिद्ध्यति । अत्र “दिव्” इति क्विबन्तं नास्ति अतः तस्य धातुसंज्ञा अपि न विधीयते , अतश्च प्रक्रियायाम् धातुसंज्ञाविशिष्टं हलि च (8.2.77) इति सूत्रम् अपि न प्रवर्तते । <li>7. <inline>इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् </inline> - माधवीयधातुवृत्तौ “पुरम् आत्मनः इच्छति” इत्यर्थे “पुरम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “पुर्+ य” इति स्थिते, केवलं वर्णमेलनं कृत्वा “पुर्य” इति धातुः साधितः अस्ति । परन्तु सः अनुचितः ज्ञेयः, यतोहि “गिर् + य” इतिसदृशं “पुर् + य” इत्यत्रापि हलि च (8.2.77) इत्यनेन अवश्यम् एव दीर्घः भवितुम् अर्हति । <li>8. <inline>दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव </inline> - प्रक्रियासर्वस्वम् इत्याख्ये ग्रन्थे “दिवम् आत्मनः इच्छति” अस्मिन् अर्थे “दिवम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “दिव् + य” इत्यवस्थायां हलि च (8.2.77) इत्यस्य प्रयोगं कृत्वा दीर्घः कृतः दृश्यते । परन्तु तद् अनुचितम् अस्ति, यतो हि “दिव्” इत्यस्य धातुसंज्ञायाः अभावात् हलि च (8.2.77) इत्यस्य अत्र प्रसक्तिरेव नास्ति । (दिवादिगणस्य दिव्-धातोः क्विप्-प्रत्यये कृते, च्छ्वोः शूडनुनासिके च (6.4.19) इत्यनेन ऊठ्-आदेशे कृते “द्यू” इति प्रातिपदिकं सिद्ध्यति, न हि “दिव्” इति) । <li>9. <inline>अदस्यति </inline> - “अमून् आत्मनः इच्छति” इत्यर्थे “अमून्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “अदस् + क्यच्” इत्यत्र केवलं वर्णमेलनं कृत्वा “अदस्य” इति धातुः सिद्ध्यति । <li>10. <inline> रीङृतः (कौमुदी-१२३४) । कर्त्रीयति </inline> - “कर्तारम् आत्मनः इच्छति” अस्मिन् अर्थे “कर्तारम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “कर्तृ + य” इत्यवस्थायां रीङृतः (7.4.27) इत्यनेन ऋकारस्य री-आदेशे कृते, “कर्त्रीय” इति आतिदेशिकधातुः सिद्ध्यति । <li>11. <inline>क्यच्व्योश्च (कौमुदी-२११९) । गार्गीयति । वाच्यति </inline> - “गार्ग्यम् आत्मनः इच्छति” अस्मिन् अर्थे “गार्ग्यम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “गार्ग्य + य” इति स्थिते, क्यच्व्योश्च (6.4.152) इत्यनेन गकारोत्तरस्य आपत्य-यकारस्य लोपः भवति । एतादृशे लोपे कृते “गार्ग + य” इत्यवस्थायाम् क्यचि च (7.4.33) इत्यनेन ईत्वे कृते “गार्गीय” इति आतिदेशिकधातुः सिद्ध्यति । <li>12. <inline>वाच्यति </inline> - “वाचम् आत्मनः इच्छति” अस्मिन् अर्थे “कर्तारम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “वाच् + य” इत्यवस्थायां वर्णमेलनं कृत्वा “वाच्य” इति आतिदेशिकधातुः सिद्ध्यति । अत्र “वाच्” इत्यस्य पदसंज्ञायाः अभावात् चोः कुः (8.2.30) इति कुत्वं, अथवा झलां जशोऽन्ते (8.2.39) इति जश्त्वम् नैव प्रवर्तते । <li>13. <inline>अकृत्सार्व - (कौमुदी-२२९८) इति दीर्घः । कवीयति । समिध्यति </inline> -“कविम् आत्मनः इच्छति” अस्मिन् अर्थे “कविम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “कवि + य” इति स्थिते, अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इत्यनेन अङ्गस्य दीर्घे कृते “कवीय” इति आतिदेशिकधातुः सिद्ध्यति । <li>14. <inline>समिध्यति </inline> - “समिधम् आत्मनः इच्छति” अस्मिन् अर्थे “समिधम्” इति शब्दात् सुपः आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते, अग्रे प्रक्रियायाम् “समिध् + य” इत्यवस्थायां वर्णमेलनं कृत्वा “समिध्य” इति आतिदेशिकधातुः सिद्ध्यति । अत्र “समिध्” इत्यस्य पदसंज्ञायाः अभावात् झलां जशोऽन्ते (8.2.39) इति जश्त्वम् नैव प्रवर्तते । </listsp>

Sutrartha (English)

A नकारान्त word gets the term ‘पद’ when followed by a प्रत्यय that begins with क्य.

Vasu English Summary

The word-form ending in न् , is called पद when क्य follows (i.e. the affixes क्यच् , क्यङ् and क्यष्।

Vasu English Translation

The word-form ending in न् , is called पद when क्य follows (i.e. the affixes क्यच् , क्यङ् and क्यष्। These are affixes by which denominative verbs are formed from nouns. See (3.1.8), (3.1.11), and (3.1.13). A word ending in न is called pada, when these affixes follow. Thus राजन् + क्यच् = राजीय 3rd Per. 8. राजीयति he behaves like a king. So also राजन् + क्यङ् = राजायते (7.4.5) चर्मन् + क्यष् = चर्मायते or चर्मायति. The result of its being called pada is that the न् of राजन्, चर्मन् &c., is elided by Sutra (8.2.7). (there is elision of न् final in a pada which is entitled to the designation of pratipadika). Thus राजन् + क्यच् = राज + य = राजीय (7.4.33).

These three affixes क्यच् &c., come after case-inflected words (i.e., words ending in sup), and though, before these affixes, the case terminations are elided, still by Sutra (1.1.62) such words would have retained the name of pada which they got by Rule 14 of this Chapter. The present sutra however makes a restriction (niyama). It declares that only words ending in न् retain the name of pada; while all other case-inflected words before these affixes do not retain that designation. Thus the words वाच् speech, स्रुच् a ladle are not treated as pada and we have वाच्यते and स्रुच्यते. Had they been pada, the च् would have been changed into क् by (8.2.30).

Bhashya

नः क्ये। किमर्थमिदमुच्यते न सुबन्तं पदमित्येव सिद्धम्? नियमार्थोऽयमारम्भः । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । क्व मा भूत् ? वाच्यति स्रुच्यति ॥ 15 ॥

Kashika

क्य इति क्यच्क्यङ्क्यषां सामान्यग्रहणम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच् — राजीयति। क्यङ् — राजायते। क्यष् — वर्मायति, वर्मायते। सिद्धे सत्यारम्भो नियमार्थः। नान्तमेव क्ये परतः पदसंज्ञं भवति नान्यत्। वाच्यति। स्रुच्यति॥

Siddhanta Kaumudi

क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च (SK1373) । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च (SK354) । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः (SK1234) । कर्त्रीयति । क्यच्व्योश्च (SK2119) । गार्गीयति । वाच्यति । अकृत्सार्व - (SK2298) इति दीर्घः । कवीयति । समिध्यति ॥

Laghu Siddhanta Kaumudi

क्यचि क्यङि च नान्तमेव पदं नान्यत् । नलोपः । राजीयति । नान्तमेवेति किम् ? वाच्यति । हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेत - दिवमिच्छति दिव्यति ॥

Balamanorama

नः क्ये - नः क्ये । नकारादकार उच्चारणार्थः ।सुप्तिङन्त॑मित्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोग्र्रहणं न तु क्यषः,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात् । तदाह क्यचि क्यङि चेत्यादिना । ननु गव्यांचकारेत्यत्र आम आर्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः । गव्यितेति । इटि अतो लोपः । राजीयतीत्यत्र आह — नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य तीतिस्थिते ‘नः क्ये’ इति पदत्वान्नकारस्य लोप इत्यर्थः । कृते नलोपेक्यचि चे॑त्यकारस्य ईत्त्वमिति मत्वाह — राजीयतीति । न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं,नलोपः सुप्स्वरे॑ति नियमादित्यलम् । ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् ‘त्वमावेकवचने’ इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह — प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह — एकार्थयोरित्येवेति । प्रत्ययोत्तरपदयोश्चे॑त्यत्र ‘त्वमावेकवचने’ इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः । गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह — हलि चेति । ‘उपधादीर्घ’ इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापिहलि चे॑ति दीर्घः स्यादित्यत आह — धातोरित्येवेति ।हलि चे॑ति सूत्रेसिपि धातो॑रित्यस्तदनुवृत्तेरिति भावः । दिव्यतीति । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ।हलि चे॑ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह — पुर्गिरोः साम्यादिति । ‘गृ शब्दे’ ‘पृ पालनपूरणयोः’ इत्याभ्यां क्विपिऋत इद्धातोटरितिउदोष्ठपूर्वस्ये॑ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः । प्रामादिक एवेति । दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचिद्यूयती॑त्येव उचितम् । विचि तु लघुपधगूणेलोपो व्यो॑रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । ‘नः क्ये’ इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः । कर्तृशब्दात्क्यचि विशेषमाह — रीङृत इति । गाग्र्यशब्दात्क्यचि विशेषमाह — क्यच्व्योश्चेति । आपत्यस्य यञो यकारस्य लोप इति भावः । कृते यलोपेक्यचि चे॑त्यकारस्य ईत्त्वं मत्वाह — गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात्क्यचि पूर्ववत् । कविशब्दात्क्यचि विशेषमाह — अकृत्सार्वेति । वाच्यतीति । वाच्शब्दात्क्यचि ‘नः क्ये’ इति नियमेन पदत्वाऽभावान्न कुत्वम् ।वचिस्वपी॑ति संप्रसारणं तु न,धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे॑ति नियमात् । समिध्यतीति । समिध्शब्दात्क्यचि ‘नः क्ये’ इति नियमेन पदत्वाऽभावान्न जश्त्वम् । लुटस्तासि इटिसमिध्य इता इति स्थिते ‘यस्य हलः’ इति नित्ये यलोपे प्राप्ते —

Tattvabodhini

नः क्ये - नः क्ये ।लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणी॑ति वक्ष्यमाणतया हलन्तात्क्यष् दुर्लभ इत्यभिप्रेत्याह — क्यचि क्यङीति । एवं चेहक्यषी॑ त्यपि कैश्चिदुक्तं तदुपेक्ष्यम् ।यस्य हलः॑ इति लोपमाशङ्क्याह — सन्निपातपरिभाषयेति । यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भावः । [गव्यीति । अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुवारः, स्यादित्याशङ्क्याह — अपदान्तत्वादिति । इदं चसमाधानस्य समाधानान्तराऽदूषकत्वा॑दिति न्यायेन समाधिसौकर्यादुक्तम् । वस्तुतस्तु उक्तरीत्या शङ्कैव नेति बोध्यम् । अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदं,सूत्रे वकारप्रश्लेषे लोपाऽसंभवात्,न हि कार्यी॑ति न्यायात् । न च वलीति निमित्तत्वेनाऽऽश्रयणात्तत्रापि लोपो भवत्येव, अन्यथा वलीत्येव कुर्यादिति वाच्यम्, वकारे परतोय कारलोपे तस्य निमित्तत्वेनाऽऽश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः । राजीयतीति ।क्यचि चे॑त्यवर्णस्य ईत्वे कर्तव्येपूर्वत्रासिद्ध॑मिति नलोपोऽसिद्धो न भवति,नलोपः सुप्स्वरे॑ ति नियमात् । यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तिरितिनलोपः सुप्स्वरे॑ति सूत्रं राज#ईयतीत्यादिषु पठनीयम्,राजभ्या॑मित्यादौ तुपूर्वत्रासिद्ध॑मिति नलसोपस्याऽसिद्धत्वेन दीर्घाद्यभावसिद्धेस्तथापिविधिमुखेन प्रवृत्ति॑रिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्यत्रैव पठितमिति ज्ञेयम् । नच विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम्,अनुपराभ्यां कृञः॑ इति सूत्रस्थभाष्यग्रन्थपर्यालोपचनया तत्पक्षावगमात् । यत्तुनलोपः सुप्स्वरे॑ति सूत्रे मनोरमायामुक्तं — ॒नियमसूत्राणां विधिमुखेन प्रवृत्तिः, सामान्यशास्त्रतात्पर्यसङ्कोचकता चे॑ति पक्षस्यद्युद्भ्यो लुङी॑ति सूत्रे भाष्यकृता ध्वनितत्वा॑दिति । तच्चिन्त्यम् । तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात् । केचित्तुद्युद्द्भ्योलुङीतिसूत्रम् । परस्मैपदप्रकरणमित्यर्थः । तत्र हिअनुपराभ्या॑मिति सूत्रं वर्तत इति तत्सूत्रे यद्ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितमिति भवति । यद्वाअनुपराभ्यां कृञः॑ इत्यत्र हि भाष्यकृताद्युद्भ्यो लुङी॑ति परामृष्टम् । तथा चद्युद्भ्यो लुङी॑ति सूत्रं यस्मस्तत् द्युद्भ्योलुङीतिसूत्रम् =अनुपराभ्यां कृञः॑ इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत्कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः । पूर्गिरोः साम्यादिति । गृ शब्दे, पृ पालनपूरणयोरित्येताभ्यां क्विपिऋत इद्धातोः॑,उदोष्ठपूर्वस्ये॑ति प्रवृत्तेरिति भावः । प्रामादिक एवेति । दिवु धातोः क्विपि तुद्यू॑रिति स्यात् । ततः क्यचि तु द्यूयतीति भवति । क्विपं विहाय विचि कृते तूपधागुणो वलोपश्च स्यात् । ततः क्यचि तु देयतीति भवति । तथा चहलि चे॑ ति सूत्रे वृत्तावपिदातोरित्येव, नेह दिवमिच्छति दिव्यती॑त्येवोक्तमिति भावः । आपत्ययकारस्य लोपं स्मारयति — क्यच्व्योश्चेति ।नः क्ये॑ इति नियमेन पदत्वाऽभावात्कुत्वं नेत्याह — वाच्यतीति । एवंसमिध्यती॑ त्यत्र जश्त्वं नेति बोध्यम् ।मान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकस्य यथा श्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात् । पुत्रौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे — मान्तप्रकृतिकादिति ।

Padamanjari

क्य इति क्यच्क्यष्क्यङमिति।’संज्ञायां समज’ इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृतेर्वा क्यपि विध्यर्थमेतन्न भवति। ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति;’न ङसिम्बुद्ध्योः’ इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ॥

Prakriyasarvasvam

क्यचि क्यङि क्यषि च परे नान्तमेव पदसंज्ञं नान्यत् । इति पदत्वान्नलोपे ‘क्यचि च’ (७-४-३३) इतीत्वम् । राजीयति । अन्यत्र पदकार्यं न । तेन गोदुहादौ गोधुग्यतीति न स्यात्४ । ‘रोऽसुपि’ (८-२-६९) इति रत्वम् । अहर्यति । युघमिच्छति युद्ध्यति । अयुधी’त्, अयुध्यीत् । एकार्थयोर्युष्मदस्मदोः ‘प्रत्ययोत्तरपदयोश्च’ (७-२-९८) इति त्वमादेशे त्वद्यति, मद्यति । अन्यत्र युवामावां युष्मानस्मान् वेच्छति युष्मद्यति अस्मद्यति । वाच्यति मरुत्यति सुदृश्यति यशस्यति । एषु ‘नः क्ये’ (१-४-१५) इत्यपदत्वात् कुत्वादि न । सर्पिष्यति धनुष्यतीति प्रत्ययसत्वात् षः । पुत्रीयादेः सन् । ‘यथेष्टं नामधातूनां द्विवचनं वाच्यम्’ (वा) । पुपुत्रीयिषति, पुतित्रीयिषति । पुत्रीयियिषति । अजादेर्द्वितीयाद्येकाचो यथेष्टं द्वित्वम् । अशिश्रीयिषति, अश्वीयियिषति । अत्रापि ‘न न्द्राः संयोगादयः’ (६-१-३) इति नदराणां द्वित्वं न२ । इन्दिद्रीयिषति३ । पुत्रीयादेः ‘क्विप् च’ (३-२-७५) इति क्विपि पुत्रीय् व् । ‘वेरपृक्तस्य’ (६-१-६७) इति लोपात् परत्वेन प्रागप्तो लोपः । ‘लोपो व्योर्वेलि’ (६-१-६६) इति लोपोऽपि अपृक्तलोपात् प्रागेवेत्युक्तम् । पुत्रीः । क्विबन्तानां धातुत्वादियङ् । पुत्रियौ, पुत्रियः । ‘एरनेकाचः—’ (६-४-८२) इति यण् । धनीः । धन्यौ । स्त्रीलिङ्गेदुदन्तानां कुमारीयतिवधूयत्यादीनां प्राग्वदल्लोपयलोपयोः कृतयोः कुमारीमिच्छन् कुमारी । झ्यन्तत्वात् सुलोपः । वधूमिच्छन् वधूः । अनयोः पुंल्लिङ्गत्वान्नदीत्वे प्राप्ते, ‘प्रथमलिङ्गग्रहणं च’ (वा) इति वार्तिकात् स्त्रीलिङ्गकार्यम् । हे कुमारि ब्राह्मण इत्यादि स्त्रीलिङ्गगोपीवधू- शब्दवदेव रूपम् । ‘ङिति ह्रस्वश्च’ (१-४-६) इति ह्रस्वे४इयङ्उवङ्स्थानयोरुक्ता नदीसंज्ञा त्वत्र नेष्यते । तेन श्रियमिच्छन् श्रीरित्येतत् सुश्रींवदेव । श्रीमन्तमिच्छति श्रीमत्यतीत्यत्र क्विपि यलोपो श्रीमत् स् । अस्य मतुबन्तवदेव दीर्घनुमाविष्येते । असन्तस्यैवाधातोरिति निषेधाद् ‘अत्वसन्तस्य—’ (६-४-१४) इति दीर्घः । उगितो मतोरधातुत्वाद् ‘अगिदचाम्—’ (७-१-७०) इति नुम् । सुलोपसंयोगान्त- लोपौ । श्रीमान् । श्रीमन्तौ । इत्यादि । स्त्रियां तु–यथाकथञ्चिदुगितोऽपि ङीबुक्तेः श्रीमती । गोदुह्य.यादीनामपि क्विपि यलोपे—गोधुक् । गौदुहौ । इत्यादि प्रकृतिवदेव रूपम् । इति ॥

Sudha

नः क्ये इति । नकारादकार उच्चारणार्थः। सुप्तिङन्तम् (1.4.14) इत्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् । न तु क्यषः, लोहितादिडाज्भ्यः क्यष् (3.1.13) इति हलन्तात्क्यषोऽभावात् । तदाह - स्यचि क्यङि चेत्यादिना। “राजीयति “। आत्मानं राजानमिच्छति इत्यर्थे सुप आत्मनः क्यच् (3.1.8) इति “राजन् अम्” इति सुबन्तात् क्यचि, सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (2.4.71) इति अमो लुकि, कचयोरित्संज्ञायां लोपे च जाते नः क्ये (1.4.15) इति नियमेन अत्र पदत्त्वात् न लोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपे “राज य” इति भूते क्यचि च (7.4.33) इति जकारोत्तरवर्तिन अकारस्य ईत्वे “राजीय” इति सम्पन्ने धातुत्वाल्लटस्तिपि, शपि, अनुबन्धलोपे, अतो गुणे (6.1.97) इति पररूपत्वे “राजीयति” इति रूपम् । “राजीयाञ्चकार” । “राजीयिता” । “राजीयिष्यति” । “राजीयतु” । “अराजीयत्” । “राजीयेत्” । “राजीय्यात्” । “अराजीयीत्” । “अराजीयिष्यत्” । इति लिट्प्रभृति प्रतिलकारमेकमेकं रूपं बोध्यम् । नान्तमेवेति किमिति । अन्तर्वर्तिनीं विभक्तिमादायैव पदत्वात् नलोपे सिद्धे नः क्ये (1.4.15) इति सूत्रस्य <ऽसिद्धे सति आरभ्यमाणो विधिर्नियमाय भवतिऽ> इति नियामकत्वात् नान्तस्यैव पदत्वम्, अन्यत्र पदत्वाभावः । तेन आत्मनो वाचमिच्छतीत्यर्थे सुप आत्मनः क्यच् (3.1.8) इति क्यचि, अनुबन्धलोपे “वाच्यति” इत्यत्र अन्तर्वर्तिनीं विभक्तिमादाय पदत्वाभावात् चोः कुः (8.2.30) इति कुत्वाभावः । वचिस्वपि (6.1.15) इति सम्प्रसारणन्तु न, <ऽधातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवऽ> इति नियमात् । “गीयति”, “पूर्यति” ।</w> आत्मनो गिरमिच्छति, आत्मनः पुरमिच्छति इत्यत्र च सुप आत्मनः क्यच् (3.1.8) इति क्यचि, सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (2.4.71) इति अमो लुकि, “गिर् य”, “पुर् य” इति जाते, हलि च (8.2.77] इति उपधाया इको दीर्घत्वे “गीर्य”, “पूर्य” इति जाते धातुत्वालटस्तिपि, शपि, अनुबन्धलोपे, अतो गुणे [[6.1.97) इति पररूपत्वे “गीर्यति” “पूर्यति” इति रूपे स्तः । दिव्यति । दिवमिच्छति इत्यर्थे “दिव् अम्” इति सुबन्तात् सुप आत्मनः क्यच [3.1.8]] इति क्यचि, सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् सुपो धातुप्रातिपदिकयोः (2.4.71) इति अमो लुकि, कचयोर्लोपे “दिव्य” इति भूते, तस्माल्लटस्तिपि, शपि, अनुबन्धलोपे, अतो गुणे (6.1.97) इति पररूपे च कृते तत्सिद्धिः । अत्र हलि च (8.2.77) इति दीर्घो न, धातुत्वाभावात् । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः ।