14002: विप्रतिषेधे परं कार्यम्

Padacheda: विप्रतिषेधे | S | 7 | 1 |

परम् | S | 1 | 1 |

कार्यम् | S | 1 | 1 |

Sutrartha

तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः भवति ।

प्रक्रियायाम् द्वयोः अधिकानां वा सूत्राणाम् **विप्रतिषेधे प्राप्ते तस्मिन् स्थले तेषु परसूत्रस्य प्रयोगः भवति** — इति अस्य सूत्रस्य आशयः । <spacer> <hlb>विप्रतिषेधः</hlb> — काशिकायाम् अस्य शब्दस्य व्याख्या इत्थं दीयते — <source> यत्र द्वौ प्रसङ्गौ अन्यार्थौ, एकस्मिन् युगपत् प्राप्नुतः, सः तुल्यबलविरोधः विप्रतिषेधः । </source> इत्युक्ते, ये द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः, ते कुत्रचित् युगपत् प्राप्नुतः चेत् तयोर्मध्ये विप्रतिषेधः उत तुल्यबलत्वम् अस्ति इति उच्यते । एतादृशे विप्रतिषेधे जाते तत्र अष्टाध्यायीक्रमेण अनन्तरम् स्थितस्य सूत्रस्य प्रयोगः भवति —‌ इति प्रकृतसूत्रस्य अर्थः ।

उदाहरणानि

अस्य सूत्रस्य प्रयोगः प्रायेण सर्वासु अपि प्रक्रियासु प्राचुर्येण कृतः दृश्यते । कानिचन मुख्यानि उदाहरणानि एतानि — <listsp> <li>1. बहुवचने झल्येत् (7.3.103) तथा च सुपि च (7.3.102) एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, “राम”-शब्दस्य सप्तमीबहुवचनस्य प्रक्रियायाम् “सुप्”-प्रत्यये परे मकारोत्तरस्य अकारस्य बहुवचने झल्येत् (7.3.103) इति सूत्रेण एकारादेशे कृते “रामेषु” इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् सुपि च (7.3.102) इत्यस्य प्रसक्तिरेव नास्ति, यतः “सुप्” इति यञादिप्रत्ययः नास्ति । एवमेव, “राम”-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् “भ्याम्”-प्रत्यये परे मकारोत्तरस्य अकारस्य सुपि च (7.3.102) इति सूत्रेण दीर्घादेशे कृते “रामाभ्याम्” इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् बहुवचने झल्येत् (7.3.103) इत्यस्य प्रसक्तिरेव नास्ति, यतः”भ्याम्”-प्रत्ययः बहुवचनस्य प्रत्ययः नास्ति । अनेन प्रकारेण बहुवचने झल्येत् (7.3.103) तथा च सुपि च (7.3.102) एतयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । अस्यैव निर्देशः काशिकाकारेण **अन्यार्थौ इति शब्देन कृतः अस्ति** । इदानीम्, एते एव द्वे सूत्रे “राम”-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् “भ्यस्”-प्रत्यये परे युगपत् प्राप्नुतः, यतः “भ्यस्”-प्रत्ययः बहुवचनस्य प्रत्ययः अस्ति (अतः बहुवचने झल्येत् (7.3.103) इत्यस्य प्राप्तिः विद्यते), तथा च “भ्यस्”-प्रत्ययः यञादि-सुप्-प्रत्ययः अपि अस्ति (अतः सुपि च (7.3.102) इत्यस्यापि प्राप्तिः वर्तते) । एतादृशम् द्वयोः सूत्रयोः अत्र विप्रतिषेधः वर्तते । अस्यां स्थितौ — बहुवचने झल्येत् (7.3.103) इत्यनेन एकारादेशः करणीयः उत सुपि च (7.3.102) इत्यनेन दीर्घादेशः कर्तव्यः — इति सम्भ्रमे जाते, विप्रतिषेधे सति परसूत्रस्य प्रयोगः करणीयः — इति निर्णयः विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रेण क्रियते । अतः “राम”-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् बहुवचने झल्येत् (7.3.103) तथा च सुपि च (7.3.102) एताभ्याम् परसूत्रेण (इत्युक्ते, **बहुवचने झल्येत् (7.3.103) इत्यनेन) एकारादेशे कृते ** अन्तिमं रूपं सिद्ध्यति —

राम + भ्यस् [**स्वौजसमौट्...** (4.1.2) इति चतुर्थीबहुवचनस्य प्रत्ययः]
→ रामे + भ्यस् [**सुपि च** (7.3.102) तथा च **बहुवचने झल्येत्** (7.3.103) एतयोः युगपत् प्राप्तौ **विप्रतिषेधे परं कार्यम्** (1.4.2) इत्यनेन परत्वात् **बहुवचने झल्येत्** (7.3.103) इति एकारादेशः विधीयते ।]
→ रामेभ्यः [**ससजुषो रुः** (8.2.66) इति रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]

<li>2. त्रेस्त्रयः (7.1.53) तथा च त्रिचतुरोः स्त्रियां तिसृचतसृ (7.2.99) एतयोः द्वयोः सूत्रयोः स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, “त्रि”-शब्दस्य पुंलिङ्गे षष्ठीबहुवचनस्य रूपसिद्धौ त्रेस्त्रयः (7.1.53) इति सूत्रेण “त्रि”-शब्दस्य “त्रय”-आदेशे कृते “त्रयाणाम्” इति रूपं सिद्ध्यति । अत्र प्रक्रियायाम् त्रिचतुरोः स्त्रियां तिसृचतसृ (7.2.99) इत्यस्य प्राप्तिरेव नास्ति यतः अत्र पुंलिङ्गस्य रूपस्य सिद्धिः क्रियते । एवमेव, “त्रि”-शब्दस्य स्त्रीलिङ्गे प्रथमाबहुवचनस्य “तिस्रः” इति रूपस्य सिद्धौ त्रिचतुरोः स्त्रियां तिसृचतसृ इति शब्देन “त्रि”-शब्दस्य “तिसृ”-आदेशः भवति । तत्र त्रेस्त्रयः (7.1.53) इति सूत्रस्य नैव प्राप्तिः वर्तते यतः तत्र “आम्”-प्रत्ययः न विद्यते । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु “त्रि”-शब्दस्य स्त्रीलिङ्गस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एते एव द्वे सूत्रे युगपत् प्राप्नुतः । अस्यां स्थितौ प्रकृतसूत्रेण परसूत्रस्य प्रयोगः भवति, अतः **त्रिचतुरोः स्त्रियां तिसृचतसृ इत्यनेन “त्रि”-शब्दस्य “तिसृ”-आदेशे कृते** अन्तिमं रूपं सिद्ध्यति —

त्रि (स्त्रीलिङ्गे) + आम् [**स्वौजसमौट्...** (4.1.2) इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ त्रि + नुड् + आम् [**ह्रस्वनद्यापो नुट्** (7.1.54) इति नुडागमः]
→ तिसृ + न् + आम् [**त्रेस्त्रयः** (7.1.53) इत्यनेन त्रयादेशे प्राप्ते, **विप्रतिषेधे परं कार्यम्** (1.4.2) इति परत्वात् तं बाधित्वा **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इति तिसृ-आदेशः भवति ।]
→ तिसृणाम् [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति णत्वम्]

<li>3. अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) तथा च सार्वधातुकार्धधातुकयोः (7.3.84) एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, “नी”-धातोः “क्विप्”-प्रत्यये कृते “नी”-इति यत् प्रातिपदिकं सिद्ध्यति, तस्य <!क्विबन्ताः धातुत्वं न जहति!> इति नियमेन धातुत्वात् प्रथमाद्विवचनस्य “औ” इति अजादिप्रत्यये परे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन “इयङ्”-आदेशे कृते “नियौ” इति रूपं सिद्ध्यति । अत्र सार्वधातुकार्धधातुकयोः (7.3.84) इति सूत्रस्य प्राप्तिरेव नास्ति, यतः अत्र विहितः “औ”-प्रत्ययः सार्वधातुकः अपि नास्ति, आर्धधातुकः अपि नास्ति । एवमेव, “नी”-धातोः “तुमुन्”-प्रत्ययान्तस्य “नेतुम्” इति रूपस्य प्रक्रियायाम् सार्वधातुकार्धधातुकयोः (7.3.84) इति सूत्रेण अङ्गस्य गुणः प्रवर्तते । अत्र प्रत्ययः अजादिः नास्ति, अतः अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यस्य नैव प्राप्तिः सम्भवति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः मध्ये तुल्यबलत्वम् विद्यते । इदानीम् “नी”-धातोः “अनीयर्”-प्रत्यये कृते, प्रत्ययस्य आर्धधातुकत्वात् सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य गुणः, तथा च प्रत्ययस्य अजादित्वात् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन अङ्गस्य “इयङ्”-आदेशः — इति द्वयोः युगपत् प्राप्तिः अस्ति । अस्यां स्थितौ **विप्रतिषेधे परं कार्यम् (1.4.2) इत्यनेन परसूत्रस्य प्रयोगः भवति**; अतः एव “नी + अनीयर्” इत्यत्र सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य गुणं कृत्वा “नयनीय” इति रूपं सिद्ध्यति —

णीञ् (प्रापणे, भ्वादिः, (11.1049))
→ नी [**णो नः** (6.1.65) इति णकारस्य नकारः]
→ नी + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ ने + अनीय [**अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (6.4.77) इति इयङ्-आदेशे प्राप्ते; परत्वात् तद्बाधित्वा **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः प्रवर्तते]
→ नय् + अनीय [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
→ नयनीय

<li>4. अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च (3.1.138) तथा च कर्मण्यण् (3.2.1) इत्येतयोः सूत्रयोः बहुत्र स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, “लिम्पति इति” अस्मिन् अर्थे “लिम्प्”-धातोः अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च (3.1.138) इत्यनेन “श”-प्रत्यये कृते “लिम्पः” इति रूपं सिद्ध्यति । अत्र किमपि उपपदम् न वर्तते अतः अत्र कर्मण्यण् (3.2.1) इति सूत्रस्य प्राप्तिरेव नास्ति । एवमेव, “कुम्भं करोति इति” अस्मिन् अर्थे “कृ”-धातोः कर्मण्यण् (3.2.1) इत्यनेन “अण्”-प्रत्यये कृते “कुम्भकारः” इति रूपं सिद्ध्यति । अत्र अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च (3.1.138) इति सूत्रस्य प्राप्तिरेव नास्ति यतः “कृ”-धातोः तत्र ग्रहणम् एव कृतं नास्ति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु “कुड्यं लिम्पति” इत्यत्र एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः वर्तते; यतः अत्र “लिम्प्”-धातुः अपि वर्तते, कर्मणि उपपदम् अपि च वर्तते । अस्यां स्थितौ **विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रेण परसूत्रस्यैव प्रयोगः भवति**, अतः “कुड्यं लिम्पति” इत्यत्र कर्मण्यण् (3.2.1) इति सूत्रेण “अण्”-प्रत्यये कृते “कुड्यलेपः” इति “अण्”-प्रत्ययान्तं रूपम् एव सिद्ध्यति । </listsp> <spacer> **अनेन प्रकारेण यत्र द्वयोः तुल्यबलयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति (इत्युक्ते, यत्र विप्रतिषेधः अस्ति), तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा परसूत्रस्य प्रयोगः क्रियते **

त्रिपाद्याः सन्दर्भे विप्रतिषेधस्य अनुपस्थितिः

त्रिपाद्याम् पूर्वसूत्राणाम् कृते परसूत्राणि असिद्धानि सन्ति, अतः त्रिपाद्याम् विप्रतिषेधः नैव प्रवर्तते । इत्युक्ते, त्रिपाद्याम् यत्र यत्र पूर्वसूत्र-परसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र तत्र सर्वत्र परसूत्रं पूर्वसूत्रं प्रति असिद्धं भवति अतः नित्यम् पूर्वसूत्रस्यैव प्रयोगः भवति । यथा, “चर्-“धातोः प्रथमपुरुषबहुवचनस्य “अन्ति”-प्रत्यये परे नकारस्य नश्चापदान्तस्य झलि (8.3.24) इत्यनेन अनुस्वारादेशः प्राप्नोति; तथा च अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वम् अपि सम्भवति । अस्यां स्थितौ अनुस्वारं प्रति णत्वस्य असिद्धत्वात् अनुस्वारादेशः एव प्रवर्तते ।

चरँ (गतौ भक्षणे च, भ्वादिः (1.640))
→ चर् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ चर् + झि [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]
→ चर् + अन्ति [**झोऽन्तः** (7.1.3) इति अन्ति-आदेशः]
→ चर् + शप् + अन्ति [**कर्तरि शप्** (3.1.68) इति शप्-विकरणम्]
→ चर् + अ + अन्ति [इत्संज्ञालोपः]
→ चर् + अ + अंति [नकारस्य **नश्चापदान्तस्य झलि** (8.3.24) इत्यनेन अनुस्वारादेशः  भवति । अत्र **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन णत्वस्य अपि युगपत् प्राप्तिः वर्तते परन्तु णत्वस्य असिद्धत्वात् अत्र अनुस्वारादेशः एव प्रवर्तते ।]
→‌चर् + अ + अन्ति [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णे नकारादेशः भवति । अयं नकारादेशः  **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्येतं प्रति असिद्धः अस्ति अतः अत्र अग्रे णत्वं नैव सम्भवति ।]

एवमेव, यत्र त्रिपादीसूत्रस्य सपादसप्ताध्याय्याः सूत्रेण सह युगपत् प्राप्तिः वर्तते; तत्र अपि त्रिपादीसूत्रस्य असिद्धत्वात् **विप्रतिषेधे परं कार्यम् (1.4.2) इत्यस्य प्रयोगः नैव सम्भवति, अतः तत्र सपादसप्ताध्यायीसूत्रम् एव प्रवर्तते **। यथा, “मनोरथ” शब्दस्य सिद्धौ सपादसप्ताध्यायीस्थम् उत्वं प्रति त्रिपादीस्थस्य रेफलोपस्य असिद्धत्वात् उत्वम् एव प्रवर्तते —

मनसः रथः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ मनस् + रथ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा ।**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्]
→ मनरुँ + रथ [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् ]
→ मनउ + रथ [रुँत्वे कृते  **हशि च** (6.1.114) इति उत्वम् प्राप्नोति, एवमेव **रो रिः** (8.3.14) इति रेफलोपः अपि प्राप्नोति । अत्र उत्वम् सपादसप्ताध्याय्यां विद्यते, परन्तु विधानसामर्थ्यात् उत्वस्य कृते रुँत्वम् सिद्धम् अस्ति, अतः रुँत्वात् अनन्तरम् तस्य प्राप्तिः अवश्यं सम्भवति । परन्तु उत्वस्य कृते त्रिपादीस्थः रेफलोपः तु असिद्धः एव अस्ति ।  अत्र अत्र **विप्रतिषेधे परं कार्यम्** (1.4.2) इत्यस्य प्रयोगः नैव भवति, अपि तु सपादसप्ताध्यायीस्थं उत्वकार्यम् एव प्रवर्तते ]
→ मनोरथ [**आद्गुणः** (6.1.87) इति गुणैकादेशः]

विप्रतिषेधः तथा उत्सर्गापवादः

प्रक्रियायाम् एकस्मिन् सोपाने युगपत् प्राप्तयोः द्वयोः सूत्रयोः मध्ये नित्यम् विप्रतिषेधः एव स्यात् इति न आवश्यकम् । यदि द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण प्राप्नुतः, तर्हि एव तयोः युगपत् प्राप्तौ विप्रतिषेधस्य विधानं भवति । परन्तु यदि ताभ्याम् एकम् सूत्रम् अन्यसूत्रं विना स्वतन्त्ररूपेण नैव कुत्रचित् प्राप्नोति, तर्हि तयोमर्ध्ये विप्रतिषेधः नैव स्वीक्रियते (अपितु उत्सर्गापवादभावः स्वीक्रियते), अतश्च विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रम् अपि तत्र न प्रवर्तते । अस्य एकम् उदाहरणम् एतादृशम् — स्वमोर्नपुंसकात् (7.1.23) इति सूत्रेण नपुंसकशब्दात् विहितस्य “सुँ”/”अम्”-प्रत्ययस्य लुक् विधीयते । परन्तु ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः विहितस्य “सुँ”/”अम्”-प्रत्ययस्य अतोऽम् (7.1.24) इति सूत्रेण “अम्” इति आदेशः भवति । अत्र स्वमोर्नपुंसकात् (7.1.23) इति सूत्रम् सर्वेभ्यः नपुंसकलिङ्गशब्देभ्यः कृते प्रयोक्तुं शक्यते, परन्तु अतोऽम् (7.1.24) इति सूत्रम् केवलम् ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः एव प्रयोक्तुं शक्यते । इत्युक्ते, यत्र यत्र अतोऽम् (7.1.24) इति सूत्रस्य प्राप्तिः वर्तते; तत्र तत्र सर्वत्र स्वमोर्नपुंसकात् (7.1.23) इति सूत्रम् अपि अवश्यं प्राप्नोति । अस्यैव अर्थः अयम्, यत् अतोऽम् (7.1.24) सूत्रस्य स्वतन्त्ररूपेण ( स्वमोर्नपुंसकात् (7.1.23) इति सूत्रं विना) नैव कुत्रचित् प्राप्तिः सम्भवति । अस्यां स्थितौ एतयोमर्ध्ये तुल्यबलत्वम् नैव वर्तते; अपि तु, अतोऽम् (7.1.24) इति सूत्रम् स्वमोर्नपुंसकात् (7.1.23) इत्यस्य अपवाद**रूपेण एव स्वीक्रियते । एतादृशे उत्सर्ग-अपवाद-सम्बन्धे प्राप्ते; तत्र **विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रस्य प्रयोगः न भवति, अपि तु अपवादसूत्रम् एव प्राधान्येन प्रयुज्यते ।

परसूत्रस्य प्रयोगात् अनन्तरम् पूर्वसूत्रम् प्रवर्तते वा ?

विप्रतिषेधे जाते विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रेण परसूत्रस्य चयने कृते; तदनन्तरम् कुत्रचित् पूर्वसूत्रस्य अपि प्राप्तिः इष्यते । यथा, यज्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य “अतुस्”-प्रत्यये परे वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सम्प्रसारणम्, तथा च लिटि धातोरनभ्यासस्य (6.1.8) इत्यनेन द्वित्वम् — एतयोः मध्ये विप्रतिषेधः अस्ति । अस्यां स्थितौ वचिस्वपियजादीनां किति (6.1.15) इत्यनेन आदौ सम्प्रसारणं कृत्वा, ततः लिटि धातोरनभ्यासस्य (6.1.8) इत्यनेन द्वित्वम् अपि क्रियते, येन इष्टरूपं सिद्ध्यति‌ —

यजँ ( देवपूजासङ्गतिकरणदानेषु, भ्वादिः, (1.1157))
→ यज् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ यज् + तस् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]
→ यज् + अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति अतुस्-आदेशः]
→ इज् + अतुस् [**असंयोगाल्लिट् कित्** (1.2.5) इति प्रत्ययस्य कित्त्वात् **वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् । अत्र  **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन द्वित्वम् अपि प्राप्नोति, परन्तु **विप्रतिषेधे परं कार्यम्** (1.4.2) इत्यनेन परत्वात् **वचिस्वपियजादीनां किति** (6.1.15) इत्यस्यैव प्रयोगः भवति ।]
→ इज् इज् अतुस् [सम्प्रसारणे कृते ततः पूर्वसोपाने बाधितं सूत्रम् अत्र पुनः प्रवर्तते । अतः  **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन अत्र द्वित्वम् भवति ।]
→ इ इज् अतुस् [**हलादिः शेषः** (7.4.60)
→ ईजतुः [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः । **ससजुषो रुः** (8.2.66) इति सकारस्य रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

एतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पुनः प्रसक्त्यर्थम् भाष्यकारेण ** पुनः प्रसङ्गविज्ञानात् सिद्धम् ** इति परिभाषा दत्ता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् अवश्यं प्रयोक्तुं शक्यते — इति अस्याः परिभाषायाः अर्थः । <spacer> परन्तु, केषुचन अन्येषु स्थलेषु विप्रतिषेधेन बाधितस्य सूत्रस्य पुनः प्राप्तौ अपि तस्य प्रयोगः नैव इष्यते । यथा, “माला”-शब्दस्य सप्तम्येकवचनस्य रूपसिद्धौ “ङि”-प्रत्ययस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन “आम्”-आदेशे कृते ततः याडापः (7.3.113) इत्यनेन याडागमः तथा च ह्रस्वनद्यापो नुट् (7.1.54) इत्यनेन नुडागमः - इति उभयोः युगपत् प्राप्तिः विद्यते । तत्र विप्रतिषेधे परं कार्यम् (1.4.2) इत्यनेन परत्वात् याडापः (7.3.113) इत्यस्य प्रयोगे कृते, ततः पुनः ह्रस्वनद्यापो नुट् (7.1.54) इत्यस्य प्रयोगः अवश्यं सम्भवति, परन्तु साधुरूपसिद्धौ सः नैव इष्यते —

माला + ङि [सप्तम्येकवचनस्य प्रत्ययः]
→ माला + आम् [**ङेराम्नद्याम्नीभ्यः** (7.3.116) इति ङि-प्रत्ययस्य आम्-आदेशः]
→ माला + याट् + आम् [**याडापः** (7.3.113)  इत्यनेन याट्-आगमः । अयम् परत्वात् **ह्रस्वनद्यापो नुट्** (7.1.54) इत्येतं प्राप्तं नुडागमं बाधते । ]
→ माला + याम् [**यदागमास्तद्गुणूभूताः तद्ग्रहणेन गृह्यन्ते** इति परिभाषया याडागमम् "आम्"-प्रत्ययस्यैव अवयवं मत्वा **ह्रस्वनद्यापो नुट्** (7.1.54)  इत्यस्य पुनः प्राप्तिः अवश्यम् अस्ति । परन्तु एतादृशः नुडागमः अत्र न इष्यते]
→ मालायाम् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]

एतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पूर्वं बाधितस्य सूत्रस्य नित्यम् बाधनार्थम् भाष्यकारेण सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव इति अन्या परिभाषा अपि पाठिता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् नैव प्रयोक्तव्यम् — इति अस्याः परिभाषायाः अर्थः । <spacer> अनेन प्रकारेण भाष्यकारेण अस्य सूत्रस्य भाष्ये **** पुनः प्रसङ्गविज्ञानात् सिद्धम् ** तथा च सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव एतयोः द्वयोः विरूद्धार्थयोः परिभाषयोः निर्देशः कृतः अस्ति** । साधुरूपसिद्ध्यर्थम् एताभ्याम् या परिभाषा आवश्यकी, तस्याः प्रयोगः करणीयः — इति अत्र विवेकः ज्ञेयः । किञ्च, एते द्वे अपि परिभाषे **विप्रतिषेधे परं कार्यम् (1.4.2) इत्यस्मात् सूत्रात् एव सिद्ध्यतः** इति अपि भाष्यकारः अस्मिन् स्थले स्पष्टी करोति । तत्र सः ब्रूते — <source> पठिष्यति हि आचार्यः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति । पुनश्च पठिष्यति - पुनः प्रसङ्गविज्ञानात् सिद्धम्, इति । किं पुनः इयता सूत्रेण उभयं लभ्यम् ? लभ्यम् इत्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ - तृजादिभिः तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिः वा उभयोः तुल्यबलत्वाद् इति च । तद् यदा तावद् एष हेतुः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते ? नियमः । विप्रतिषेधे परमेव भवति — इति । तदा एतद् उपपन्नं भवति — सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव एति । यदा तु एषः हेतुः अप्रतिपत्तिः उभयोः तुल्यबलत्वादिति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते क्रियते ? द्वारम् । विप्रतिषेधे परं तावद् भवति, तस्मिन् कृते यदि पूर्वम् अपि प्राप्नोति, तदपि भवति । तदा एतद् उपपन्नं भवति — पुनः प्रसङ्गविज्ञानात् सिद्धम् इति । </source> **विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रम् नियमसूत्रम् अस्ति** इति स्वीक्रियते चेत् विप्रतिषेधे परम् **एव कार्यम्, न हि पूर्वम्** इति अर्थः जायते, येन सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव इति परिभाषा सिद्ध्यति । परन्तु **विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रम् विधिसूत्रम् अस्ति** इति स्वीक्रियते चेत् विप्रतिषेधे परम् **अवश्यं भवति, ततः इष्टं चेत् पूर्वम् अपि भवति** इति अर्थः जायते, येन ** पुनः प्रसङ्गविज्ञानात् सिद्धम् ** इति परिभाषा सिद्ध्यति । अनेन प्रकारेण प्रकृतसूत्रात् एव द्वयोः अपि परिभाषयोः ज्ञापनं भवति - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् सन्दर्भे अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यम् अवश्यं पश्येयुः ।

पूर्वविप्रतिषेधः, इष्टवाची परशब्दः

यद्यपि विप्रतिषेधे प्राप्ते परसूत्रम् प्राधान्येन प्रयोक्तव्यम् इति अस्य सूत्रस्य आशयः अस्ति, तथापि कुत्रचित् विप्रतिषेधे जाते अपि पूर्वसूत्रस्य एव प्रयोगः इष्यते । यथा, “वारि”-शब्दस्य चतुर्थ्येकवचनस्य रूपे इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमः; तथा च घेर्ङिति (7.3.111) इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् विप्रतिषेधे परं कार्यम् (1.4.2) इत्यनेन परसूत्रस्य (गुणस्य) एव विधानं भवेत्; परन्तु तत्र इकोऽचि विभक्तौ (7.1.73) इति पूर्वसूत्रेण नुमागमे कृते एव इष्टं रूपं सिद्ध्यति —

वारि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ वारि + नुम् + ए [**इकोऽचि विभक्तौ** (7.1.73) इति नुमागमः ।]
→ वारिणे [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्]

एतादृशानाम् उदाहरणानाम् सिद्ध्यर्थम् एतेषु स्थलेषु विप्रतिषेधे जाते पूर्वसूत्रेण परसूत्रस्य बाधः भवति इति भाष्ये स्पष्टीकृतम् अस्ति । अस्यैव निर्देशः व्याकरणशास्त्रे पूर्वविप्रतिषेधः इति नाम्ना क्रियते । अस्य विप्रतिषेधस्य विधानार्थम् <!गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषेधेन!> तथा च <!नुमचिरतृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> इति द्वे वार्त्तिके अपि वार्त्तिककारेण पाठिते स्तः । परन्तु परन्तु एते वार्त्तिके भाष्यकारेण प्रत्याख्याते स्तः । तत्र भाष्यकारः ब्रूते — <inline>इष्टवाची परशब्दः; तस्य इदं ग्रहणम् । विप्रतिषेधे परं यद् इष्टं तद्भवति </inline> । अत्र भाष्यकारेण विप्रतिषेधे परं कार्यम् (1.4.2) अस्मिन् सूत्रे विद्यमानस्य “पर”शब्दस्य अर्थः इष्टः इति कृतः अस्ति । विप्रतिषेधे जाते, अन्तिमरूपार्थम् यद् सूत्रम् इष्टम्, तस्य प्रयोगः भवति — इति अत्र भाष्यकारस्य आशयः वर्तते । अतः उपरिनिर्दिष्टायां प्रक्रियायाम् इकोऽचि विभक्तौ (7.1.73) इत्यनेन नुमागमः; तथा च घेर्ङिति (7.3.111) इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् प्रक्रियायाम् यद् परम् (इष्टम्) तत् नुमागमविधानम् एव भवति — इति अर्थः अत्र सिद्ध्यति ।

Sutrartha (English)

If two sutras that can be invoked independent of each other happen to conflict at the same step during a प्रक्रिया, then the later occurring sutra gets applied by precedence.

Vasu English Summary

When rules of equal force prohibit each other then the last in the order herein given is to take effect.

Vasu English Translation

When rules of equal force prohibit each other then the last in the order herein given is to take effect. The word विप्रतिषेधे means ‘opposition of rules of equal force.’ When two topics having different objects in view find scope of action simultaneously in one particular case, that opposition of equal forces is called vipratishedha. A general rule (utsarga) and its exception (upavada), or an invariable (nitya) and an optional (anitya) rule, or an antaranga and a bahiranga rule, are not rules of equal force. There the stronger prevails against the weaker. As an example of rules of equal force, see (VII.3.102.) and (7.3.103). The first rule declares, ‘when a case-affix beginning with a letter of yan pratyahara follows, the long vowel is substituted for the final of an inflective base ending in a short अ.’ As Vriksha + bhyam = Vrikshabhyam. The next rule declares :- When a plural case-affix beginning with a letter or jhal pratyahara follows, ए is the substitute for the final short अ of an inflective base.’ As Vriksha + su = Vriksheshu. But when the plural case-affix bhyah follows, what rule are we to apply? For the letter bha belongs both to the pratyaharas yan and jhal. Are we to lengthen the short अ, or substitute ए? The present sutra gives the reply, ए is to be substituted because (7.3.103) ordaining ए follows next to (7.3.102). Thus Vriksha + bhyah = Vrikshebyah.

Bhashya

विप्रतिषेधे परं कार्यम् (242) विप्रतिषेध इति कोऽयं शब्दः ? विप्रतिपूर्वात्सिधेः कर्मव्यतिहारे घञ्ञ् । इतरेतरप्रतिषेधो विप्रतिषेधः । अन्योन्यप्रतिषेधो विप्रतिषेधः । कः पुनर्विप्रतिषेधः ? द्वौ प्रसङ्गावन्यार्थावेकस्मिन्स विप्रतिषेधः ॥ 1 ॥ द्वौ प्रसङ्गौ यदान्यार्थौ भवत एकस्मिंश्च युगपत्प्राप्नुतः स विप्रतिषेधः । क्व पुनरन्यार्थौ क्व चैकस्मिन्युगपत्प्राप्नुतः ? वृक्षाभ्यां वृक्षेष्वित्यन्यार्थौ, वृक्षेभ्य इत्यत्र युगपत्प्राप्नुतः ॥ किं च स्यात् ? एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः ॥ 2 ॥ एकस्मिन्युगपदसंभवात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गः ॥ इदं विप्रतिषिद्धं यदुच्यते - एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः इति । कथं ह्येकस्मिंश्च युगपदसंभवः स्यात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गश्च स्यात् ? नैतद्विप्रतिसिद्धम् । यदुच्यते - एकस्मिन्युगपदसंभवादिति। कार्ययोर्युगपदसंभवः, शास्त्रयोरुभयप्रसङ्गः । तृजादिभिस्तुल्यम् ॥ 3 ॥ तृजादिभिस्तुल्यं पर्यायः प्राप्नोति । तद्यथा तृजादयः पर्यायेण भवन्ति । किं पुनः कारणं तृजादयः पर्यायेण भवन्ति ? अनवयवप्रसङ्गात्प्रतिपदं विधेश्च ॥ 4 ॥ अनवयवेन प्रसज्यन्ते प्रतिपदं च विधीयन्ते । अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् ॥ 5 ॥ अप्रतिपत्तिर्वा पुनरुभयोः शास्त्रयोः स्यात् । किं कारणम् ? तुल्यबलत्वात् । तुल्यबले ह्युभे शास्त्रे । तद्यथा - द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थी भवति उभयोर्न करोति । किं पुनः कारणमुभयोर्न करोति ? योगपद्यासंभवात् । नास्ति यौगपद्येन संभवः । तत्र प्रतिपत्त्यर्थं वचनम्। तत्र प्रतिपत्त्यर्थमिदं वक्तव्यम् । तव्यदादीनां त्वप्रसिद्धिः ॥ 6 ॥ तव्यदादीनां तु कार्यस्याऽप्रसिद्धिः । नहि किंचित्तव्यदादिषु नियमकारि शास्त्रमारभ्यते येन तव्यदादयः स्युः । यश्च भवता हेतुर्व्यपदिष्टः ।अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात्।इति, तुल्यः स तव्यदादिषु । नैषः दोषः । अनवकाशास्तव्यदादयः। उच्यन्ते च। ते वचनाद्भविष्यन्ति । यश्च भवता हेतुर्व्यपदिष्टः - तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तुल्यः स तव्यदादिषु । एतावदिह सूत्रम् विप्रतिषेधे परमिति । पठिष्यति ह्याचार्यः सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । पुनश्च पठिष्यति - पुनः प्रसङ्गविज्ञानात्सिद्धमिति । किं पुनरियता सूत्रेणोभयं लभ्यम् ? लभ्यमित्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ - तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति च । तद्यदा तावदेष हेतुस्तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? नियमः - विप्रतिषेधे परमेव भवतीति । तदैतदुपपन्नं भवति - सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । यदा त्वेष हेतुरप्रतिपत्तिरुभयोस्तुल्यबलत्वादिति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? द्वारम् - विप्रतिषेधे परं तावद्भवति तस्मिन्कृते यदि पूर्वमपि प्राप्नोति तदपि भवति । तदैतदुपपन्नं भवति - पुनः प्रसङ्गविज्ञानात्सिद्धमिति । विप्रतिषेधे परमङ्गाधिकारे पूर्वम् ॥ 7॥ विप्रतिषेधे परमित्युक्त्वाऽङ्गाधिकारे पूर्वमिति वक्तव्यम् । किं कृतं भवति ? पूर्वविप्रतिषेधा न पठितव्या भवन्ति - गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यो नुट् इति । कथं ये परविप्रतिषेधाः - इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेनेति । सूत्रं च भिद्यते । यथान्यासमेवास्तु । कथं ये पूर्वविप्रतिषेधाः ? विप्रतिषेधे परमित्येव सिद्धम् । कथम् ? परशब्दोऽयं बह्वर्थः । अस्त्येव व्यवस्थायां वर्तते । तद्यथा - पूर्वः परः इति । अस्त्यन्यार्थे वर्तते - परपुत्रः परभार्या अन्यपुत्रः अन्यभार्येति गम्यते । अस्ति प्राधान्ये वर्त्तते । तद्यथा - परमियं ब्राह्मण्यस्मिन्कुटुम्बे प्रधानमिति गम्यते । अस्तीष्टवाची परशब्दः । तद्यथा - परं धाम गतः इष्टं धामेति गम्यते । तद्य इष्टवाची परशब्दस्तस्येदं ग्रहणं विप्रतिषेधे परं यदिष्टं तद्भवतीति । अन्तरङ्गं च ॥ 8 ॥ अन्तरङ्गं च बलीयो भवतीति वक्तव्यम् । किं प्रयोजनम् ? प्रयोजनं यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ॥ 9 ॥ गुणाद्यणादेशः - स्योनः स्योना । गुणश्च प्राप्नोति यणादेशश्च । परत्वाद् गुणः स्यात् । यणादेशो भवत्यन्तरङ्गतः । वृद्धेर्यणादेशः - द्यौकामिः स्यौकामिः । वृद्धिश्च प्राप्नोति यणादेशश्च। परत्वाद्वृद्धिः स्यात् । यणादेशो भवत्यन्तरङ्गतः । द्विर्वचनाद्यणादेशः - दुद्यूषति सुस्यूषति । द्विर्वचनं च प्राप्नोति यणादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । यणादेशो भवत्यन्तरङ्गतः ॥ अल्लोपस्य च यणादेशस्य च नास्ति संप्रधारणा । स्वराद्यणादेशः - द्यौकामिः स्यौकामिः । स्वरश्च प्राप्नोति यणादेशश्च । परत्वात्स्वरः स्यात् । यणादेशो भवत्यन्तरङ्गतः । गुणादेकादेशः - काद्रवेयो मन्त्रमपश्यत् । गुणादेशश्च प्राप्नोत्येकादेशश्च। परत्वाद्गुणः स्यात् । एकादेशो भवत्यन्तरङ्गतः । वृद्धेरेकादेशः - वैक्षमाणिः सौत्थितिः । वृद्धिश्च प्राप्नोत्येकादेशश्च । परत्वाद्वृद्धिः स्यात् । एकादेशो भवत्यन्तरङ्गतः । द्विर्वचनादेकादेशः - ज्ञाया ओदनः ज्ञौदनः । ज्ञौदनमिच्छति ज्ञौदनीयति । ज्ञौदनीयतेः सन् । जुज्ञौदनीयिषति । द्विर्वचनं च प्राप्नोत्येकादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । एकादेशो भवत्यन्तरङ्गतः । अल्लोपादेकादेशः - शुना शुने । अल्लोपश्च प्राप्नोत्येकादेशश्च । परत्वादल्लोपः स्यात् । एकादेशो भवत्यन्तरङ्गतः । नैतदस्ति प्रयोजनम् । नास्त्यत्र विशेषोऽल्लोपेन वा निवृत्तौ सत्यां, पूर्वत्वेन वा । अयमस्ति विशेषोऽल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत । नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण (6.1.182) इति प्रतिषेधात् । नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरो नास्ति शुनः पश्येति । एवं तर्हि न लाक्षणिकस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केन चित्प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः । यत्र तर्हि विभक्तिर्नास्ति - बहुशुनीति । यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । नैवं शक्यम् । इहापि प्रसज्येत - कुमारीति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति - नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति। यदयं श्वन्शब्दं गौरादिषु पठति अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यान्ङीपैव । स्वरादेकादेशः - सौत्थितिः वैक्षमाणिः । स्वरश्च प्राप्नोत्येकादेशश्च । परत्वात्स्वरः स्यात् । एकादेशो भवत्यन्तरङ्गतः । गुणस्य चेत्त्वौत्त्वयोश्च नास्ति संप्रधारणा । वृद्धेरित्त्वोत्त्वे - स्तैर्णिः पौर्तिः । वृद्धिश्च प्राप्नोतीत्त्वोत्त्वे च । परत्वाद्वृद्धिः स्यात् , इत्त्वोत्त्वे भवतोन्तरङ्गतः । द्विर्वचनादित्त्वोत्त्वे - आतेस्तीर्यते आपोपूर्यते । द्विर्वचनं च प्राप्नोतीत्त्वोत्त्वे च । नित्यत्वाद् द्विर्वचनं स्यात् । इत्त्वोत्त्वे भवतोऽन्तरङ्गतः ॥ अल्लोपस्य चेत्त्वोत्त्वयोश्च नास्ति संप्रधारणा ॥ स्वरो नास्ति विशेषः । इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् ॥ 10 ॥ इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् प्रयोजनम् । अयज इन्द्रमवप इन्द्रम् । वृक्ष इन्द्रं प्लक्ष इन्द्रम् ।त इन्द्रम् । यःइन्द्रम् । आद्गुणश्च प्राप्नोति सवर्णदीर्घत्वं च। परत्वात्सवर्णदीर्घत्वं स्यात् । आद्गुणो भवत्यन्तरङ्गतः । न वा सवर्णदीर्घत्वस्यानवकाशत्वात् ॥ 11 ॥ न वैतदन्तरङ्गेणाऽपि सिध्यति । किं कारणम् ? सवर्णदीर्घत्वस्यानवकाशत्वात् । अनवकाशं सवर्णदीर्घत्वमाद्गुणं बाधेत ॥ नैतदन्तरङ्गेऽस्त्यनवकाशं परमिति । इहापि स्योनः स्योनेति शक्यं वक्तुम् ।न वा परत्वाद् गुणस्येति । ऊङापोरेकादेश इर्त्त्वलोभ्याम् ॥ 12 ॥ ऊङापोरेकादेश इर्त्त्वलोपाभ्यां भवत्यन्तरङ्गतः प्रयोजनम् । इर्त्त्वादेकादेशः - खट्वीयति मालीयति । इर्त्त्वं च प्राप्नोत्येकादेशश्च। परत्वादीत्त्वं स्याद् । एकादेशो भवत्यन्तरङ्गतः ॥ लोपादेकादेशः - कामण्डलेयः भाद्रवाहेयः । लोपश्च प्राप्नोत्येकादेशश्च । परत्वाल्लोपः स्याद् । एकादेशो भवत्यन्तरङ्गतः ॥ अथ किमर्थमीत्त्वलोपाभ्यामित्युच्यते, न लोपेत्त्वाभ्यामित्येवोच्येत ? संख्यातानुदेशो मा भूदिति । आपोप्येकादेशो लोपे प्रयोजयति - चौडिः बालाकिः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायावेकादेशतुग्विधिभ्यः ॥ 13 ॥ आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यो भवन्त्यन्तरङ्गतः । वेञ्ञ् - वानीयम् । शो - शानीयम् । ग्लै - ग्लानीयम् । म्लै - म्लानीयम् । ग्लाच्छत्र्रम् । आत्त्वं च प्राप्नोत्येते च विधयः । परत्वादेते विधयः स्युः । आत्त्वं भवत्यन्यरङ्गतः ॥ नपुंसकोपसर्जनह्रस्वत्वं च प्रयोजनम् । अतिर्यत्र। अतिन्वत्र । अतिरिच्छत्र्रमतिनुच्छत्र्रम् । आराशस्त्रीदम्। धानाशष्कुलीदम् । निष्कौशाम्बीदम्। निर्वारणसीदम् । निष्कौशाम्बिच्छत्र्रम्। निर्वाराणसिच्छत्र्रम् । नपुंसकोपसर्जनह्रस्वत्वं च प्राप्नोत्येते च विधयश्च । परत्वादेते विधयः स्युः । नपुंसकोपसर्जनह्रस्वत्वं भवत्यन्तरङ्गतः । तुग्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घेत्वेत्त्वमुमेत्त्वरीविधिभ्यः ॥ 14 ॥ यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्त्वमुमेत्त्वरीविधिभ्यस्तुग्भवत्यन्तरङ्गतः । यणादेशात् - अग्निचिदत्र सोमसुदत्र । एकादेशात् - अग्निचिदिदम् सोमसुदुदकम् । गुणात् - अग्निचिते सोमसुते । वृद्धेः - प्रऋच्छकः प्रार्च्छकः । औत्त्वात् - अग्निचिति सोमसुति । दीर्घत्वात् - जगद्भ्याम् ,जनगद्भ्याम् । इर्त्त्वात् - जगत्यति जनगत्यति । मुमः - अग्निचिन्मन्यः सोमसुन्मन्यः । एत्त्वात् - जगद्भ्यः जनगद्भ्यः । रीविधेः - सुकृत्यति पापकृत्यति । (तुक् च प्राप्नोत्येते विधयश्च। परत्वादेते विधयः स्युः। तुग्भवत्यन्तरङ्गतःट अनङानङ्भ्यां च ॥ 15 ॥ अनङानङ्भ्यां चेति वक्तव्यम् । अनङ्- सुकृत् । आनङ्- सुकृद्दुष्कृतौ । (तुक् च प्राप्नोति अनङ्गानङ्गौ स्याताम् । तुग्भवत्यन्तरङ्गतः ) इयङादेशा गुणात् ॥ 16॥ इयङादेशो गुणाद्भवत्यन्तरङ्गतः प्रयोजनम् । धियति रियति । इयङादेशः प्राप्नोति गुणश्च । परत्वाद् गुणः स्यात्। इयङादेशो भवत्यन्तरङ्गतः । उवङ्गादेश्च ॥ 17 ॥ उवङादेशश्चेति वक्तव्यम् । प्रादुद्रुवत्। प्रासुस्रुवत् । श्वेः सम्प्रसारणपूर्वत्वं यणादेशात् ॥ 18 ॥ श्वेः सम्प्रसारणपूर्वत्वं यणादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । शुशुवतुः शुशुवुः । पूर्वत्वं च प्राप्नोति यणादेशश्च । परत्वाद्यणादेशः स्याद् । पूर्वत्वं भवत्यन्तरङ्गतः । ह्व आकारलोपात् ॥ 19 ॥ ह्व आकारलोपात्पूर्वत्वं भवत्यन्तरङ्गतः प्रयोजनम् । जुहुवतुः जुहुवुः । पूर्वत्वं च प्राप्नोत्याकारलोपश्च। परत्वादाकारलोपः स्यात् । पूर्वत्वं भवत्यन्तरङ्गतः । स्वरो लोपात् ॥ 20 ॥ स्वरो लोपाद्भवत्यन्तरङ्गतः प्रयोजनम् । औपगवी। सौदामनी । स्वरश्च प्राप्नोति लोपश्च। परत्वाल्लोपः स्यात् । स्वरो भवत्यन्तरङ्गतः । प्रत्ययविधिरेकादेशात् ॥ 21 ॥ प्रत्ययविधिरेकादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । अग्निरिन्द्रः वायुरुदकम् । प्रत्ययविधिश्च प्राप्नोत्येकादेशश्च । परत्वादेकादेशः स्यात् । प्रत्ययविधिर्भवत्यन्तरङ्गतः । यणादेशाश्च ॥ 22 ॥ यणादेशाच्चेति वक्तव्यम् । अग्निरत्र वायुरत्र । लादेशो वर्णविधेः ॥ 23 ॥ लादेशो वर्णविधेर्भवत्यन्तरङ्गतः प्रयोजनम् । पचत्वत्र पठत्वत्र । लादेशश्च प्राप्नोति यणादेशश्च। परत्वाद्यणादेशः स्यात् । लादेशो भवत्यन्तरङ्गतः । तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात् ॥ 24 ॥ तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वराद्भवत्यन्तरङ्गतः प्रयोजनम्। पूर्वशालाप्रियः। अपरशालाप्रियः । तत्पुरुषान्तोदात्तत्वं च प्राप्नोति, पूर्वपदप्रकृतिस्वरत्वं च। परत्वात्पूर्वपदप्रकृतिस्वरत्वं स्यात्। तत्पुरुषान्तोदात्तत्वं भवत्यन्तरङ्गतः । एतान्येतस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या । यदि सन्ति प्रयोजनानीत्येषा परिभाषा क्रियते। ननु चेयं च कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । किं प्रयोजनम् ? पचावेदम्। पचामेदम् । बहिरङ्गलक्षणस्य गुणस्यान्तरङ्गलक्षणमैत्वं मा भूदिति । उभे तर्हि कर्तव्ये । नेत्याह । अनयैव सिद्धम् । इहापि स्योनः स्योनेति,-असिद्धत्वाद्बहिरङ्गलक्षणस्य गुणस्याऽन्तरङ्गलक्षणो यणादेशो भविष्यति । यद्यसिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युच्यते-अक्षद्यूः हिरण्यद्यूः-असिद्धत्वाद् बहिरङ्गलक्षणस्योठोऽन्तरङ्गलक्षणो यणादेशो न प्राप्नोति । नैषः दोषः । असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युक्त्वा ततो वक्ष्यामि - नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिरिति । सा तर्ह्येषा परिभाषा कर्तव्या ? न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति - भवत्येषा परिभाषेति, यदयं षत्वतुकोरसिद्धः (6.1.86) इत्याह । इयं तर्हि परिभाषा कर्तव्या-असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति। एषा च न कर्तव्या, आचार्यप्रवृत्तिर्ज्ञापयतिभवत्येषा परिभाषेति, यदयं वाह ऊठ् (6.4.132) इत्यूठं शास्ति । तस्य दोषः पूर्वपदोत्तरपदयोर्वृद्धिस्वरावेकादेशात् ॥ 25 ॥ तस्यैतस्य लक्षणस्य दोषः पूर्वोत्तरपदयोर्वृद्धिस्वरावेकादेशादन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । पूर्वैषुकामशमः अपरैषुकामशमः। गुडोदकं तिलोदकम् । उदके केवले (6.2.96) इति पूर्वोत्तरपदयोर्व्यपवर्गाभावान्न स्यात् । नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - पूर्वोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति, यदयं नेन्द्रस्य परस्य (7.3.22) इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इन्द्रे द्वावचौ । तत्रैको यस्येति च (6.4.148) इति लोपेनाऽपह्रि्यते, अपर एकादेशेन , ततोऽनच्क इन्द्रः संपन्नः , तत्र कः प्रसङ्गो वृद्धेः ? पश्यति त्वाचार्यः पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति। ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति । यणादेशादियुवौ ॥ 26 ॥ यणादेशादियुवौ अन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । वैयाकरणः सौवश्व इति । लक्षणं हि भवति - -य्वोरचि वृद्धिप्रसङ्गे इयुवौ भवतः इति । नैषः दोषः । अनवकाशावियुवौ । अचीत्युच्यते ॥ किं पुनः कारणमचीत्युच्यते ? इह मा भूताम्-ऐतिकायनः औपगव इति । स्तामत्रेयुवौ, लोपो व्योर्वलि (6.1.66) इति लोपो भविष्यति । यत्र तर्हि लोपो नास्ति - प्रैयमेधः प्रैयङ्गव इति । उसि पररूपाच्च ॥ 27 ॥ उसि पररूपाच्चान्तरङ्गतोभिनिर्वृत्तादियादेशो न प्राप्नोति । पचेयुः यजेयुः . नैषः दोषः । नैवं विज्ञायते - याःइत्येतस्येय् भवतीति । कथं तर्हि ? यास्इत्येस्येय् भवतीति । लुक्लोपयणयवायावेकादेशेभ्यः ॥ 28 ॥ लोपयणयवायावेकादेशेभ्यो लुक्बलीयानिति वक्तव्यम् ॥ लोपात् - गोमान् प्रियोऽस्य गोमत्प्रियः । यवमत्प्रियः । गोमानिवाचरति गोमत्यते यवयत्यते । यणादेशात् - ग्रामण्यः कुलं ग्रामणिकुलम् । सेनान्यः कुलं सेनानिकुलम् । अयवायावेकादेशेभ्यः - गवे हितं गोहितम् । रायः कुलं रैकुलम् । नावः कुलं नौकुलम् । वृकाद्भयं वृकभयम् ॥ लुक् च प्राप्नोत्येते च विधयश्च परत्वादेते विधयः स्युः । लुग्बलीयानिति वक्तव्यम्। लुक्यथा स्यात् ॥ 2 ॥ चतुर्थे पादे प्रथममाह्निकम् ॥

Kashika

तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थावेकस्मिन् युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता नास्तीति नायमस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते। अतो दीर्घो यञि (७.३.१०१) सुपि च (७.३.१०२) इत्यस्यावकाशः — वृक्षाभ्याम्। प्लक्षाभ्याम्। **बहुवचने झल्येत्**(७.३.१०३) इत्यस्यावकाशः — वृक्षेषु। प्लक्षेषु। इहोभयं प्राप्नोतिवृक्षेभ्यः, प्लक्षेभ्य इति। परं भवति विप्रतिषेधेन॥

Siddhanta Kaumudi

तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् (SK12) इति रोरि (SK173) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥

Laghu Siddhanta Kaumudi

तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

Balamanorama

विप्रतिषेधे परं कार्यम् - ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह — विप्रतिषेधे । विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह — तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव । इति लोपे च प्राप्त इति ।हशि चे॑त्यस्यावकाशः-शिवो वन्द्य इति । रेफलोपस्यावकाशः-पुना रमते इति । तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः । तामिमां रेफलोपशङ्कां परिहरति-पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तं — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा । एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम् । न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं,हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे॑ति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम् । न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा.ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षे ।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा.ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः । यता चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते ।

Tattvabodhini

विप्रतिषेधे परं कार्यम् - विप्रतिषेधे । विप्रतिपूर्वात्षिधू शास्त्रे माङ्गल्ये च॑षिधं गत्या॑मित्यस्माद्वा धातोर्घञ् ।उपसर्गात्सुनोती॑ति षत्वम् । उपसर्गवशाच्च विरोधार्थकत्वम् । कार्यमिति ।अर्हे कृत्यतृचश्चे॑त्यर्हार्थे कृत्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवसानादतुल्यबलेषूत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गविधिषु नेदं प्रवर्तते । नह्रपवादादीनां संनिधावुत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात् । तत्र नित्यमावश्यकत्वाद्बाधकम्, अन्तरङ्गं तु लाघवात्, अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः । अतएवपरनित्यान्तरङ्गपवादानामुत्तरोत्तरं बलीयः॑ इत्युक्तम् । यद्यतुल्यबलेप्वपि परमेव स्यात्तन्नोपपद्येताऽतो व्याचष्टे-तुल्यबलविरोध इति । जातौ पदार्थे विध्यर्थमिदं सूत्रम् ।वृक्षेषु॑वृक्षाभ्यां॑ मित्यत्र हि लब्धावकासयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाऽभावादप्रतिपत्तिरेव स्यात् । तदुक्तम्-॒अप्रतिपत्तिर्वा उभयोस्तुल्यबलत्वा॑दिति । तत्रास्माद्वचनात्परस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति, यथाभिन्धकी॑त्यत्र परत्वाद्धिभावे कृतेऽ[प्य]कच् । तदुच्यते-॒पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । ब्यक्तौ तु पदार्थे तत्तव्द्यक्तिविषययोर्लक्षणयोरन्यत्र चरितार्थत्वाऽसम्भवात्तव्यानीयरामिव पर्यायेण प्रवृत्तौ नियमार्थमिदं सूत्रंविप्रतिषेधे परमेव स्यान्न तु पूर्व॑मिति । एतल्लक्षणारम्भाच्च तत्र तत्र पूर्वस्यानारम्भोऽनुमीयते । तथाचजुहुतात्त्व॑मित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेनहुझल्भ्यः॑-इति धित्वं न भवति । तदुच्यते-॒सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवे ॑ति । लक्ष्यानुरोधाव्द्यवस्थाप्यमेतद्दूयमपि । तत्र विधिपक्षे तूत्त्वे रेफलोपे वा प्राप्ते इति पाठम् । नियमार्थमिति पक्षेपरमेव कार्यं स्या॑दित्येवकारोऽध्याहर्तव्यो वृत्तौ । उत्वमेवेति । सिद्धासिद्धयोरतुल्यबलत्वेनविप्रतिषेधे पर॑मित्यस्याऽप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः । तदुक्तम् — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । एतेन विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे॑ इति वक्ष्यमाणग्रन्थो व्याख्यात ।

Padamanjari

विप्रतिषेध इति।’षिधु शास्त्रे’ ‘षिधु गत्याम्’ इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि’सेधसिचसञ्जस्वञ्जाम्’ इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा - प्रहारः, उपहारः, अनुहारः, संहार इति।’षिधू संराद्धौ’ इत्यस्य तु दैवादिकस्य षत्वं नास्ति,’सेधषिच’ इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु’सात्पदाद्योः’ इति निषेधः। ननु’गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेः’ इति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र’श्याद्व्यध’ इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च - परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा - यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा - भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥

Nyaas

विरोधो विप्रतिषेधः ` इत। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्धत्वात्। तथा हि - विरुद्धेऽभिहिते वक्तारो वदन्ति - `विप्रतिषिद्धमिदमुच्यते इति, विरुद्धमिति गम्यते। तस्य विप्रतिषेधस्य विषयं दर्शयितुमाह - यत्र इत्यादि। प्रसज्येते विधीयेते इति प्रसङ्गौ = विधी। अन्यार्थौ इति। अन्यत्र विषयेऽर्थः प्रयोजनं ययोस्तौ तथोक्तौ। अन्यत्र विषयान्तरे कृतार्थावित्यर्थः। एकस्मिन् इति। अभिन्ने। युगपत् = एककलाम्। स इत्यस्य विप्रतिषेध इत्यने सम्बन्धः। स विप्रतिषेधो विप्रतिषिद्धः, विप्रतिषेधस्य विषय इत्यर्थः। विप्रतिषेधविषयत्वाद्विप्रतिषेदविषयो ह्यत्र विप्रतिषेधशब्देनोक्तो विषयिणा विषयं दर्शयितुम्। यस्मान्न प्रसङ्गो विप्रतिषेध उपपद्यते, नापि तदाधारः। तुल्यबलविरोधः इति। तुल्यबलयोर्विरोधोऽस्मिन्निति बहुव्रीहिः। इदं जातिपक्षमाश्रित्य विवरणं कृतम्। द्रव्यपदार्थपक्षे त्वयं विशेषः - अन्यः= भिन्नोऽर्थः = प्रयोजनं यतोस्तावन्यार्थाविति। शेषं समानम्। विप्रतिषेधे इति च सती सप्तमीयम्।उत्सर्गापवाद इत्यादि। विप्रतिषेधो यत्रास्ति, सोऽय योगस्यावकाशः। विप्रतिषेधञ्च तुल्यबलयोरेव भवतीति नातुल्यबलयोः। एतत्तु यत्र हि प्रसङ्गावन्यार्थौ`इत्यादिग्रन्थेन तस्य विषयं दर्शयता व्याख्यातम्। न चोत्सर्गापवादादिषु तुल्यबलतास्तीति, ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः। तेन बलवानेव तत्र भवति; तत्र सामान्येनोत्सर्गः प्रवर्तते; यथा - `आर्धधातुकस्येड्वलादेः (7.2.35) इति, वलादिसामान्यस्येड्विधानात्। विशेषोऽपवादः, यथा - नेड वशि कृति` (7.2.8) इतीट्प्रतिषेधस्य वलादिविशेषे वशादौ कृति विधानात्। यस्य च विशेषे विधिः, स बलवान् भवति; तथा हि - ब्राआहृणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्यायेति विशेषविहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविष्यति। तस्माद्वशादौ कृति परेऽपीडागमो न भवति, प्रतिषेध एव भवति - स्थेशभासपिसकसो वरच (3.2.175) ईआर इति। नित्यानित्ययोर्नित्यं बलवत् यथा- भिस ऐस् (7.1.9) इत्यैत्वम्। तद्धि बहुवचने झल्येत् (7.3.103) इत्येत्त्वे कृते प्राप्नोति। अकृतेऽपि - भूतपूर्वगत्याश्रयणादकारान्तादङ्गद्भिस ऐस् विहित इति कृत्वा। यश्च कृताकृतप्रशङ्गी विधिः स नित्य इति। तथा च तत्र (7.1.9) वक्ष्यति - एत्त्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति।कृतेऽप्येत्त्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति॥इति स नित्यः। ऐस्त्वे एत्त्वं न प्राप्नोति; निमित्तस्य झलादेर्विहितत्वात्। वृक्षेष्व्तयादादेत्त्वस्यावकाशः, अस्मश्च सति भूतपूर्वगत्याश्रयणस्यायुक्तत्वात्। तस्मात् तदनित्यम्। यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम्। विपर्ययात् तु नित्यं बलवत्। तेन वृक्षैरिति परमप्येत्त्वं न भवति। ऐस्भाव एव तु भवति।अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति लोकत एव दृष्टत्वात्। लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीनि कार्याणि करोति, पश्चद्बहिरङ्गाणि राजगृहगमनादीनि कार्याणि कर्त्तुमारभते। शास्त्रेऽप्येवं वेदितव्यम्। दिवि कामोऽस्य द्युकामः, तस्यापत्यम् अत इञ् (4.1.95) द्यौकामिः। यद्यपि द्युकामशब्दादिञ् विहितः, तथापि अकृतव्यूहाः पाणिनीयाः (व्या।प।84) कृतमपि शास्त्रं निवर्तयन्तीति,प्रविभ्जायन्वाख्याने दिव् काम इञिति स्थिते दिव् उत् (6.1.127) इत्युत्त्वे कृते यणादेशः प्राप्नोति, तद्धितेष्वचामादेः (7.2.117) इति परत्वात् वृद्धिः प्राप्नोति? अन्तरङ्गत्वाद्यणादेशः पूर्वो विधिः क्रियते, पश्चाद्वृद्धिरुकारस्य। अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रयत्वात्। वृद्धेस्तु बाह्रतद्धिताश्रयाद्बहिरङ्गत्वम्। वार्णादाङ्गं बलीयः (व्या।प।39) इत्येतदिह न प्रवर्तते; व्याश्रयत्वात्।अप्रवृत्तौ इत्यादि। यदा आकृतिः पदार्थः`इत्येष पक्ष, तदाऽन्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्राप्नोति; यथा - यदिह द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, तौ च युगपत् प्रेषयतः, नानादिक्षु तयोः कार्ये भवतः। ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कार्ये न प्रवर्तते। द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षणं प्रवर्त इत्यकृतार्थत्वल्लक्षणयोः पर्यायेण प्रवृत्तिः प्राप्नोति, यथा - ब्राआहृणक्षत्रियादीनामसहभुजामेकस्मिन् भाजने भुजक्रियायां पर्यायः स्यात्। तत्र जातौ पदार्थे कृतार्थत्वाद्वृत्तौ प्राप्तयां विध्यर्थमिदमारभ्यते - विप्रतिषेधे सति परं कार्यं भवतीति। तत्र कृते यदि पूर्वमपि प्राप्नोति, तदपि भवत्येव। तत्रेदमुच्यते - पुनः प्रसङ्गविज्ञानात् सिद्धमिति। व्यक्तौ तु पदार्थेऽकृतार्थत्वात् शास्त्रयोः पर्यायेण प्रवृत्तौ प्राप्तयां नियमार्थमिदम् - विप्रतिषेधे परमेव भवति न पूर्वमिति। तत्रेदमुच्यते - `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव (व्या।प।40) इति।

Praudhamanorama

उत्वमेवेति॥ सिद्धासिद्धयोरतुल्यबलत्वेन **विप्रतिषेधे परम्— ** (1.4.2) इत्यस्याप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः। तदुक्तम्— ‘पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति। एतेन ‘विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे’ इत्यादि व्याख्यातम्। सूत्रे सु इति पृथक्पदं लुप्तषष्ठीकमित्याह—

Prakriyasarvasvam

तुल्यबलयोः कार्ययोर्विरोधे परसूत्रोक्तं1 कार्यमेव स्यात् ।

Sarala

तुल्येतिअन्यत्र अन्यत्र लब्धावकाशयोः शास्त्रयोरेकत्र (लक्ष्ये) समावेशस्तुल्यबलविरोधः

Sudha

विप्रतिषेध इति । विप्रतिपूर्वात् सेधतेर्घञि उपसर्गवशात् परस्मपरविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धस्तदाह “तुल्यबलेति ।” द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वं परशास्त्रविहितत्वम् । ** मनोरथ इति ।** “मनस् रथः” इति स्थिते ससजुषो रुः (8.2.66) इति पदान्तस्य सस्य रुत्वे हशि च (6.1.114) इति रोरुत्वे प्राप्ते रो रि (8.3.14) इति रेफस्य लोपे च प्राप्ते, तर्हि प्राक् केन भाव्यमिति शङ्कायाम् विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रेण परं कर्तव्यम् । तत्र हशि च (6.1.114) इति सूत्रं षष्ठाध्यायस्थम्, रो रि (8.3.14) इति चाष्टमाध्यायस्थम् इति हशि च (6.1.114) इत्यपेक्षया रो रि (8.3.14) इत्यस्य परत्वम्, इति रो रि (8.3.14) इत्यनेन रेफस्य लोपे प्राप्ते; तत्र पूर्वत्रासिद्धम् (8.2.1) इत्यधिकारसूत्रेण सपादसप्ताध्यायीसूत्रदृष्ट्या त्रैपादिकस्य रो रि (8.3.14) इत्यस्यासिद्धत्वप्रतिपादनात् न रो रि (8.3.14) इत्यनेन रेफस्य लोपः, किन्तु हशि च (6.1.114) इत्यनेन रोरुत्वे “मन उ रथः” इति जाते, तत्र आद्गुणः (6.1.87) इत्यनेन पूर्वपरयोः स्थाने ओकाररूपे गुणे कृते “मनोरथः” इति सिद्ध्यति ॥