13091: द्युद्भ्यो लुङि

Padacheda: द्युद्भ्यः | S | 5 | 3 |

लुङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

After the verbs द्युत् ‘to shine’ etc., the terminations of the परस्मैपद are optionally employed, when the affixes of लुण् (Aorist) follow.

Vasu English Translation

After the verbs द्युत् ‘to shine’ etc., the terminations of the परस्मैपद are optionally employed, when the affixes of लुण् (Aorist) follow. The Dyutadi verbs are 22 in number, to be found in Dhatupatha in the Bhuadi class. By the use of the word द्युद्भ्यः in the plural in the sutra, the force is that of &c. These verbs are anudatta and so by sutra (1.3.12) they would have been invariably atmanepadi, this aphorism makes them optionally so in the aorist. Thus अद्युतत् or अद्योतिष्ठ he shone. In other tenses than the aorist (लुङ्) these verbs are invariably Atmanepadi. As द्योतते he shines.

For a list of Dyutadi verbs see Dhatupatha.

Kashika

वेत्येव। द्युत दीप्तौ तत्साहचर्याद् लुठादयोऽपि कृपूपर्यन्तास्तथैव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान्नित्यमेवात्मनेपदे प्राप्ते, द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङीति किम्? द्योतते॥

Siddhanta Kaumudi

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ।{$ {!742 श्विता!} वर्णे$} । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ।{$ {!743 ञिमिदा!} स्नेहने$} । मेदते ॥

Laghu Siddhanta Kaumudi

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ् । अद्युतत्, अद्योतिष्ट । अद्योतिष्यत ॥ एवं ॥ {$ {! 5 श्विता !} वर्णे $} (धातुपाठे (01.0843)) ॥ {$ {! 6 ञिमिदा !} स्नेहने $} (धातुपाठे (01.0844)) ॥ {$ {! 7 ञिष्विदा !} स्नेहनमोचनयोः $} (धातुपाठे (01.0845)) ॥ मोहनयोरित्येके ॥ ञिक्ष्विदा चेत्येके $} ॥ {$ {! 8 रुच !} दीप्तावभिप्रीतौ च $} (धातुपाठे (01.0847))॥ {$ {! 9 घुट !} परिवर्तने $} (धातुपाठे (01.0848))॥ {$ {! 10 शुभ !} दीप्तौ $} (धातुपाठे (01.0853)) ॥ {$ {! 11 क्षुभ !} संचलने $} (धातुपाठे (01.0854))॥ {$ {! 12-13 णभ तुभ !} हिंसायाम् $} (धातुपाठे (01.0855)) (धातुपाठे (01.0856))॥ {$ {! 14-15-16 स्रंसु भ्रंसु ध्वंसु !} अवस्रंसने $} (धातुपाठे (01.0857)) (धातुपाठे (01.0859)) (धातुपाठे (01.0858))॥ ध्वंसु गतौ च ॥ {$ {! 17 स्रम्भु !} विश्वासे $} (धातुपाठे (01.0861))॥ {$ {! 18 वृतु !} वर्तने $} (धातुपाठे (01.0862))॥ तर्तते । ववृते । वर्तिता ॥

Balamanorama

द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् ‘ञीतः क्तः’ इत्येतदर्थः ।

Tattvabodhini

द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचननिर्देशाच्छौण्डैरित्यत्रेव तदादिग्रहणम् । तदाह — द्युतादिभ्य इति । द्युतादयोघट चेष्टाया॑मित्यवधिकाः ।डः सी॑त्यत्रेव लुङीति सप्तम्याः षष्ठर्थतेत्यभिप्रेत्याह - लुङः परस्मपैदमिति । ञिमिदा ।

Padamanjari

द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति।’पुषादि’ इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥

Nyaas

ननु च द्युतेरेकत्वाद्बहुवचननिर्देशो नोपपद्यत इत्याह - तत्साहचर्यात् इत्यादि। यथैकेन छत्त्रिणा साहचर्यादन्येऽपि तत्सहचारिणश्छत्रिण इत्युच्यन्ते - छत्रिणो गच्छन्तीति, तथेहापि द्युतिना साहचर्यात् इआतादयोऽपि द्युत इति व्यपदिश्यन्ते। कथं पुनरेकस्य व्यपदेशे सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह - बहुवचननिर्देशात् इत्यादि। एं हि विनाऽप्यादिशब्देन तदर्थो लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति। कृपूपर्यन्ताः`इति। अनेन कृपेः परे ये पठन्ते ते द्युतादयो न भवन्तीत्याचष्टे। एतच्च तदनन्तरं वृत्करणाद्गणपरिसमाप्तेर्लिङ्गाद्विज्ञायते। `व्यद्युतत् इति। पुषादित्वादङ। यद्येवम्, तत एवाङविधानात् परस्मैपदं तेभ्यो भविष्यति, किमनेन योगेन? नैतदस्ति; ज्ञापकाद्धि नित्यं लुङि परस्मैपदं विज्ञायते। किञ्च लुङोऽन्यत्रात्मनेपदं न भवतीति सम्भाव्येत। ननु चानुदात्तेत्करणसामर्थ्यादन्यत्र न भविष्यति, नैतत्; अनुदात्तेत्करणम् अनुदात्तेतश्च हलादेः (3.2.149) इति युजर्थं स्यात्। तस्मात् कर्तव्योऽयं योगः। अलुठत्। रुठ लुठ प्रतीघाते (धातुपाठः-747, 749)॥

Prakriyasarvasvam

द्युतादिभ्यो लुङि परस्मैपदं वा स्यात् । ‘पुषादिद्युतादि—’ इत्यङ् । अद्युतत् । अद्युतताम् । तङ्यङभावात् सिच् । अद्योतिष्ट । अद्योतिढ्वम्, अद्योतिध्वम् । लिटि ।

Sutra Prayogas

  • नास्रसत् (रघुवंशम्): द्युद्भ्यो लुङि इति परस्मैपदम्।

  • व्यरुचत् (रघुवंशम्): द्युद्भ्यो लुङि इति परस्मैपदम्।

  • व्यद्योतिष्ट (शिशुपालवधम्): द्युद्भ्यो लुङि इति वा तङ् (आत्मनेपदम्)।

  • व्यरुचत् (शिशुपालवधम्): दयुद्भ्यो लुङि इति विकल्पात्परस्मैपदम्।

  • व्यरुचत् (शिशुपालवधम्): द्युद्भ्यो लुङि इति विकल्पात्परस्मैपदम्।

  • न्यवृतच्च (भट्टिकाव्यम्): वृतेर्युतादित्वात् यो लुङि इति तिप् ।

  • प्रावृतत् (भट्टिकाव्यम्): द्युच्चोलुडि इति परस्मैपदम्।

  • अयुत्सन्त (भट्टिकाव्यम्): द्युयः इत्यादिनात्मनेपदे नाङ्।

  • अस्रसत् (भट्टिकाव्यम्): द्युद्भ्यो लुङि इति परस्मैपदम्।