13087: निगरणचलनार्थेभ्यश्च¶
Padacheda: निगरण-चलनार्थेभ्यः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And after the causatives of verbs which have no sense of the ‘eating or swallowing’ and ‘shaking or moving’ परस्मैपद is used, even when the fruit of the action goes to the agent.
Vasu English Translation¶
And after the causatives of verbs which have no sense of the ‘eating or swallowing’ and ‘shaking or moving’ परस्मैपद is used, even when the fruit of the action goes to the agent. The phrase ‘when used in the causative (णेः) of the last sutra is to be read into this also. The parasmaipada is ordained as an exception to sutra (1.3.74) by which atmanepada was ordained when the fruit of the action accrued to the agent. The word निगरणं means ‘eating,’ and चलनं means ‘moving,’ ‘shaking.’ As निगारयति he causes to swallow; आशयति he causes to eat; भोजयति he feasts; चलयति he moves; चोपयति, कम्पयति he shakens. This aphorism applies to transitive verbs, and to verbs whose agents in non-causative state are inanimate objects, i. e. not possessed with reason.
Vart:- The prohibition of the root अद to eat, must be mentioned. The causative of अद to eat, takes atmanepada. Thus अत्ति देवदत्तः Devadatta eats; आदयते देवदत्तेन he is made to eat by Devadatta.
Kashika¶
णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। निगरणमभ्यवहारः। चलनं कम्पनम्। निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। निगारयति। आशयति। भोजयति। चलनार्थेभ्यः — चलयति। चोपयति। कम्पयति। अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च॥ अदेः प्रतिषेधो वक्तव्यः॥ अत्ति देवदत्तः। आदयते देवदत्तेन॥
Siddhanta Kaumudi¶
निगारयति । आशयति । भोजयति । चलयति । कम्पयति ।<!अदेः प्रतिषेधः !> (वार्तिकम्) ॥ आदयते देवदत्तेन । गतिबुद्धि (SK540) इति कर्मत्वम् ॥<!आदिखाद्योर्नेति प्रतिषिद्धम् !> (वार्तिकम्) ॥ निगरणचलन (SK2753) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् (SK2159) इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥
Balamanorama¶
निगरणचलनार्थेभ्यश्च - निगरण । निगरणं भक्षणम् । चलनं — कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी॑ । इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः । तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम् । ‘एङ्ह्रस्वात्’ इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम् । नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,ुषोःगतिबुद्धी॑ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्राचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम् । अदेः प्रतिषेध इति । अदेण्र्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः ।आदयते देवदत्तेने॑त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह — निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति । नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, ‘अनन्तरस्य’ इति न्यायादिति भावः ।
Tattvabodhini¶
निगरणचलनार्थेभ्यश्च - निगरणचलनार्थेभ्यश्च । निगरणं — भक्षणम् । प्रुद्रुरुआऊणां चलनार्थानामेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे ग्रहणम् । अतएव तत्र विवृतंप्रापयतीत्यर्थ॑ इत्यादिना । कतं तर्हिइमां किमाचामयसे न चक्षुषी॑ इति श्रीहर्षः । आङ्पूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत् । अत्राहुः — आचामयेति पथृक्पदम् । #ई लक्ष्मीस्तया सहिता सेस्तस्याः संबोधनेहे से॑ इति । केचित्तु सा त्वम् इमे चक्षुषो इनचक्षुषी = श्रेष्ठचक्षुषी आचामय किमिति व्याचक्षते ।
Padamanjari¶
चलयतीति।’चल कम्पने’ घटादिः। आदयते देवदतेनेति।’गतिबुद्धि’ इत्यादिनाऽणौ कर्तुः कर्मसंज्ञा प्राप्ता, ठतिखाद्योः प्रतिषेधःऽ इति वचनान्न भवति॥
Nyaas¶
निगारयति इति। गृ निगरणे (धातुपाठः-1410)। आशयति इति। अश भोजने (धातुपाठः-1523)। भोजयति इति। भुज पालनाभ्यवहारयोः (धातुपाठः-1046), चलति इति। चल कम्पने (धातुपाठः-832)। घटादित्वान्मित्त्वम्; पूववद्ध्रस्वः। चोपयति इति। चुप मन्दायां गतौ (धातुपाठः-403)। कम्पयति इति। कपि चलने (धातुपाठः-375)। अयमपि योगः सकर्मकार्थः, अचितत्वत्कर्त्तृकार्थश्चेति। तद्विपरीतेभ्यः अणावकर्मकाच्चितवत्कर्त्तृकात् (1.3.88) इत्यनेनैव सिद्धत्वात्। तत्र येषामुदाहरणान्युपन्यस्तानि, तेषु चलिकम्पी अकर्मकौ द्वौ; तयोरचितवत्कर्त्तृकार्थोऽयं योगः। शेषाणान्तु सकर्मकार्थः।वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - विभाषाऽकर्मकात् (1.3.85) इत्यतो विभाषाग्रहणं मण्डूकप्लुत्याऽनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनादेरन्येभ्यो नित्यं परस्मैपदम्, अदेस्तु न भवत्येव। आदयते देवदत्तेन इति। अत्र गतिबुद्धि (1.4.52) इत्यादिना कर्मसंज्ञा न भवति; आदिखादिनीवहीनां प्रतिषेधः (वा।64) इति वचनात्॥
Prakriyasarvasvam¶
ण्यन्तेभ्यो भक्षणकम्पनार्थेभ्यः परस्मैपदमेव । भोजयति, चलयति । ‘अत्तेर्निषेधः’ । आद्यते, आद्यति ।
Vartika¶
अदेः प्रतिषेधः ।
Sutra Prayogas¶
नर्तयमान-वत् (भट्टिकाव्यम्): निगरण इत्यादिना परस्मैपदं प्राप्तम्।