13073: अपाद्वदः¶
Padacheda: अपात् | S | 5 | 1 |
वदः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb वद् ‘to tell’, preceded by अप , when the fruit of the action accrues to the agent, the terminations are of the आत्मनेपद।
Vasu English Translation¶
After the verb वद् ‘to tell’, preceded by अप , when the fruit of the action accrues to the agent, the terminations are of the आत्मनेपद। The phrase “when the fruit of the action accrues to the agent,” is understood here. The sutra is clear. As धनकामो न्यायमपवदते ‘the wealth-seeker forsakes justice,’ that is to say, he wishes to acquire wealth at the sacrifice of justice. But when the fruit of the action does not accrue to the agent, the parasmaipada is employed. As अपवदति.
Kashika¶
कर्त्रभिप्राय इति वर्तते। अपपूर्वाद् वदतेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति॥ धनकामो न्यायमपवदते। न्यायापवादेन धनमर्जयिष्यामीति मन्यते। कर्त्रभिप्राये क्रियाफल इत्येव — अपवदति॥
Siddhanta Kaumudi¶
न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च (SK2564) कारयते ॥
Balamanorama¶
अपाद्वदः - अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति । वचनेने निरस्यतीतय्र्थः ।किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः॑ इति न्यायात् ।
Nyaas¶
न्यायपवादेन इत्यादिना येनाभिप्रायेण धनकामो न्यायमपवदते तं दर्शयति॥
Prakriyasarvasvam¶
अस्मात् कर्त्रर्थे फले तङ् । स्वार्थे चेत् अपवदते रिपुम् । नो चेत् अपवदति ।
Sutra Prayogas¶
अपवदमानस्य (भट्टिकाव्यम्): अपा- द्वदः इति तङ्।