13071: मिथ्योपपदात् कृञोऽभ्यासे

Padacheda: मिथ्या | S | 0 | 0 |

उपपदात् | S | 5 | 1 |

कृञः | S | 5 | 1 |

अभ्यासे | S | 7 | 1 |

Sutrartha


Vasu English Summary

After the causative of the verb कृ , the आत्मनेपद is used, when it has the word मिथ्या ‘incorrect’, as an उपपद or dependent word and is used in the sense of ‘repeated wrong utterance’, even when the fruit of action does not accrue no the agent.

Vasu English Translation

After the causative of the verb कृ , the आत्मनेपद is used, when it has the word मिथ्या ‘incorrect’, as an उपपद or dependent word and is used in the sense of ‘repeated wrong utterance’, even when the fruit of action does not accrue no the agent. The phrase ‘of the causative ending in णि’ is to be supplied from sutra (1.3.67). The aphorism is restricted to the cases where the fruit of the action does not accrue to the agent. The word abhyasa means doing again, or repetition; as पदं मिथ्या कारयति means ‘he repeatedly pronounces the word incorrectly, that is with wrong accent, &c., not once but constantly’.

Why do we say ‘when the word mithya is used as an upapada?’ The causative of kri will take parasmaipada when it has any other upapada. Thus पदं सुष्टुम् कारयति ‘he pronounces the word correctly.’

Why do we say ‘of the verb कृञ्? Because the causative of any other verb used along with the word mithya will not have atmanepada; as पदं मिथ्या वाचयति ‘he repeatedly utters the word wrongly.’ Here वच् takes parasmaipada.

Why do we say ‘repeatedly’? For if the incorrect utterance is not habitual, then parasmaipada will be used; as पदं मिथ्याकारयति ‘he pronounces wrongly, not always but once.’

Kashika

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तात् करोतेर्मिथ्योपपदादात्मनेपदं भवत्यभ्यासे। अभ्यासः पुनः पुनः करणम्, आवृत्तिः। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः। मिथ्योपपदादिति किम्? पदं सुष्ठु कारयति। कृञ इति किम्? पदं मिथ्या वाचयति। अभ्यास इति किम्? पदं मिथ्या कारयति। सकृदुच्चारयति॥

Siddhanta Kaumudi

णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले (SK2158) । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥

Balamanorama

मिथ्योपपदात् कृञोऽभ्यासे - मिथ्योपपदात् । अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः । इत ऊध्र्वंणे॑रिति निवृत्तम् ।

Tattvabodhini

मिथ्योपपदात् कृञोऽभ्यासे - मिथ्योपपदात्कृञोऽभ्यासे । इह करोतिरुच्चारणार्थत्वादकर्मकः । उच्चारण - निःसरणम् । ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः । उच्चारयतीति । निःसारयतीत्यर्थः । असकृदुच्चारणे तु धातोर्लक्षणा, आत्मनेपदं तु द्योतकं, तेनैव द्योतितत्वात्नित्यवीप्सयो॑रिति न द्विर्वचनम् । ऋत्विजो यजन्तीति । दक्षिणादिकं तु न यागफलम्,स्वर्गकामो यजेते॑त्यादिना स्वर्गाद्युद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः ।

Padamanjari

उपोच्चारितं पदमुपपदम्,मिथ्याशब्द उपपदंयस्य स तथोक्तः। मिथ्या कारयते इति आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात्’नित्यवीप्सयोः’ इति द्विर्वचनं न भवति। सदोषमिति। एतेन मिथ्याशब्दस्यार्थमाचष्टे। अस्यैव विवरणम्-स्वरादिदुष्टमिति। आदिशब्देन रूपं गृह्यते। असकृदिति अभ्यासं दर्शयति। उच्चारयतीत्यर्थ इति ण्यन्तस्य करोतेरुच्चारणे वृत्तिरनेकार्थत्वाद्धातूनाम्। एवं च प्रकृतिभूतः करोतिरुच्चारणे वर्तते, अकर्मकश्च॥

Nyaas

मिथ्योपपदात् इति। उपोच्चारितं पदमुपपदम्, मिथ्याशब्द उपपदं यस्य स तथोक्तः। पदं मिथ्या कारयते इति। अत्रात्मनेपदानाभ्यासस्य द्योतितत्वात् नित्यवीप्सयोः (8.1.4) इसि द्विर्वचनं न भवति। सापचारम् इति। सदोषम्। अनेन मिथ्याशब्दस्यार्थमाचष्टे। स्वरादिदुष्टम् इति। पूर्वस्यैवार्थं व्यक्तीकरोति। आदिशब्देन रूपस्य परिग्रहः। असकृत् इति। अभ्यासशब्दार्थमुदाहरणेन दर्शयति॥

Prakriyasarvasvam

<karika>मिथ्यापूर्वात् कृञो ण्यन्तादभ्यासविषयेऽत्र तङ् । दुष्टमभ्यस्यतीत्यर्थे मिथ्याकारयते पदम् ॥ ६५८ ॥</karika>

Sutra Prayogas

  • कारयते (भट्टिकाव्यम्): मिथ्योपपदात् कृञो ऽभ्यासे इति तङ्।