13069: गृधिवञ्च्योः प्रलम्भने

Padacheda: गृधि-वञ्च्योः | S | 6 | 2 |

प्रलम्भने | S | 7 | 1 |

Sutrartha


Vasu English Summary

After the causatives of the verbs गृध ‘to covet’ and वञ्च ‘to go’ the आत्मनेपद is used in the sense of ‘deceiving’ even though the fruit of the action does not accrue to the agent.

Vasu English Translation

After the causatives of the verbs गृध ‘to covet’ and वञ्च ‘to go’ the आत्मनेपद is used in the sense of ‘deceiving’ even though the fruit of the action does not accrue to the agent. The phrase ‘of the causatives ending in णि’ is to be supplied here from sutra (1.3.67). This sutra is also restricted to the cases where the fruit of the action does not accrue to the agent. The word प्रलम्भन of the sutra means deceiving. As मानवकं गर्धयते ‘he deceives the boy,’ मानवकं वञ्चयते ‘he cheats the boy.’ + Why do we say ‘when it means deceiving,’ For these verbs have not this meaning, their causatives take parasmaipada. As श्वानं गर्धयति ‘he causes the dog to bark,’ अहिं वञ्चयति ‘he avoids the serpent.’

Kashika

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर्ण्यन्तयोः प्रलम्भने वर्तमानयोरात्मनेपदं भवति। प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम्। माणवकं गर्धयते। माणवकं वञ्चयते। प्रलम्भन इति किम्? श्वानं गर्धयति। गर्धनमस्योत्पादयतीत्यर्थः। अहिं वञ्चयति। परिहरतीत्यर्थः॥

Siddhanta Kaumudi

प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च (SK2592) व्याख्यातम् ॥

Balamanorama

गृधिवञ्च्योः प्रलम्भने - गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति । प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः ।

Padamanjari

परिहरतीत्यर्थ इति। वर्जयतीति यावत्॥

Prakriyasarvasvam

ण्यन्ताभ्यामाभ्यां प्रतारणेऽर्थे तङ् । वटुं गर्धयते वञ्चयते वा । प्रतारणादन्यत्र शरं वञ्चयति । परिहरतीत्यर्थः ।

Sutra Prayogas

  • अगर्धयत (भट्टिकाव्यम्): गृधिवञ्च्योः प्रलम्भने इति तङ्।