13056: उपाद्यमः स्वकरणे¶
Padacheda: उपात् | S | 5 | 1 |
यमः | S | 5 | 1 |
स्वकरणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb यम् ‘to give’, preceded by उप , when used in the sense of ‘espousing’, the आत्मनेपद is used.
Vasu English Translation¶
After the verb यम् ‘to give’, preceded by उप , when used in the sense of ‘espousing’, the आत्मनेपद is used. This is clear. As भार्यामुपयच्छते ‘he espouses or knows his wife.’ But not so when another’s wife is meant; there it is parasmaipadi.
By rule (1.3.78), the verb yam would have been parasmaipadi, but the present sutra makes an exception, when the root takes the preposition upa and means “to marry, to espouse, or to accept.” The meaning of sva-karana is confined to accepting in general. This is according to Kasika; according to Mahabhashya, sva-karana means to make one’s own what was not previously his own.
Why do we say in the sense of “marrying”? When it has any other sense, parasmaipada affixes will be employed, as देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति, Devadatta has illicit intercourse with the wife of Yajnadatta.’
Bhashya¶
उपाद्यमः स्वकरणे इह कस्मान्न भवति। स्वं शाटकान्तमुपयच्छति - इति? अस्वं यदा स्वं करोति तदा भवितव्यम्। यद्येवं स्वीकरणमिति प्राप्नोति। विचित्रास्तद्धितवृत्तयः। नातस्तद्धित उत्पद्यते ॥ 56 ॥
Kashika¶
शेषात् कर्तरि परस्मैपदे प्राप्ते, उपपूर्वाद् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते, न स्वकरणमात्रम्। भार्यामुपयच्छते। स्वकरण इति किम्? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति॥
Siddhanta Kaumudi¶
स्वकरणं स्वीकारः । भार्यामुपयच्छते ॥
Balamanorama¶
उपाद्यमः स्वकरणे - उपाद्यमः ।आत्मनेपद॑मिति शेषः । ननुस्वं वरुआमुत्पादयती॑त्यर्थेवस्त्रमुपयच्छती॑त्यत्राप्यात्मनेपदं स्यादित्यत आह — स्वकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः । च्विप्रत्ययस्तु वैकल्पिकः,समर्थानां प्रथमाद्वे॑त्युक्तेरिति भाष्ये स्पष्टम् ।
Tattvabodhini¶
उपाद्यमः स्वकरणे - स्वकरणं स्वीकार इति । स्वकरणमित्यत्र च्विर्न भवति,समर्थानां प्रथमाद्वे॑ति विकल्पात् । स्वकरणशब्देन भार्यास्वीकारो गृह्रते इति वृत्तिकृत् । भट्टिस्तु स्वीकारमात्रेऽपि प्रायुङ्क्तउपायंस्त महाऽस्त्राणी॑ति ।
Padamanjari¶
इह स्वस्य सतो रूपान्तरेण यत्करणं तत्स्वकरणमिति न गृह्यते, किं तर्हि? यदाऽस्वं स्वं करोति तदा भवितव्यम्, च्विप्रत्ययस्तु विकल्पितत्वान्न भवति। पाणिग्रहणविशिष्टमिति। पाणिग्रहणं नाम कश्चित्कन्यासंस्कारस्तद्विशिष्टमित्यर्थः। भाष्ये तु-अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्। भट्टिकाव्येऽपि तदनुगुणः प्रयोगः- उपायंस्त महास्त्राणि, उपायंसत नासतम्, नोपायंस्त दशानन इति। देवदतो यज्ञदतस्य भार्यामुपयच्छति, यज्ञदतसम्बन्धिनीं भार्यां दास्यादिरूपेण स्वीकरोतीत्यर्थः। पाणिग्रहणाभावाद् वृत्तिकारमते युक्तं प्रत्युदाहरण्, भाष्यकारमते त्वत्रापि भवितव्यम्॥
Nyaas¶
यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह - पाणिग्रहणम् इत्यादि। एवं मन्यते - प्रतिनियतविषया हि शब्दशक्तयो भवन्ति, यस्मादुपपूर्वो यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्तते; न तु सर्वस्मिन्। तस्मात् पाणिग्रहणात्मकमेव स्वीकरणं गृह्रते। उपयच्छत इति पूर्ववद्यच्छादेशः॥
Prakriyasarvasvam¶
उपपूर्वाद्यमो विवाहेऽर्थे तङ् । कन्यामुपयच्छते । स्वकरणं स्वीकारमात्रमिति भाष्ये । ‘उपायंसत नासवम् ।
Sutra Prayogas¶
उपायंस्थाः (भट्टिकाव्यम्): उपाद्यमः स्वकरणे इति तङ्।
उपायंस्त (भट्टिकाव्यम्): उपाद्यमः स्वकरणे इति तङ्।
उपायंसत (भट्टिकाव्यम्): उपाद्यमः स्वकरणे इति तङ्।