13028: आङो यमहनः

Padacheda: आङः | S | 5 | 1 |

यम-हनः | S | 5 | 1 |

Sutrartha

अकर्मकप्रयोगेषु ‘आङ्’ उपसर्गात् यम्, हन् धातुभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति ।

यम् (उपरमे) / हन् (हिंसागत्योः) - एतौ वस्तुतः परस्मैपदिनौ धातू, परन्तु आङ्-उपसर्गपूर्वकाभ्याम् एताभ्यामकर्मक-अर्थेषु आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आयच्छते (‘तनुते’ इत्यर्थः), आहते (हन्ति इत्यर्थः) । सकर्मकेषु अर्थेषु तु परस्मैपदमेव - कुपात् रज्जुमायच्छति (‘निष्कासयति’ इत्यर्थः), भूमीं पादेन आहन्ति । वार्तिकम् - <!स्वाङ्गकर्मात् चेति वक्तव्यम्!> - यत्र एतौ धातू सकर्मकप्रयोगे प्रयुज्येते, परन्तु कर्मपदम् ‘कर्तुः अङ्गस्य कश्चन अवयवः’ अस्ति, तत्रापि आत्मनेपदम् प्रयोक्तव्यम् । यथा - सः स्वस्य पाणिमायच्छते (‘तनुते’ इत्यर्थः), सः स्वस्य शिरमाहत्ते (‘हन्ति’ इत्यर्थः) । पराङ्गमस्ति चेत् परस्मैपदमेव - सः भार्याः पाणिमायच्छति, सः शत्रोः शिरं आहन्ति । ज्ञातव्यम् - 1) भारतेः किरातार्जुनीये ‘आजघ्ने विषम् विलोचनस्य वक्षः’ अत्र पराङ्गे स्थितेऽपि आ + हन् अस्य आत्मनेपदी प्रयोगः दृश्यते । अयं तु प्रामादिकः । 2) भट्टेः भट्टिकाव्ये ‘आहध्वम् मा रघूत्तमम्’ अत्र पराङ्गे स्थितेऽपि आ +आत्मनेपदी प्रयोगः दृश्यते । अयमपि प्रामादिकः ।

Sutrartha (English)

When the उपसर्ग ‘आङ्’ is attached to verbs यम् / हन् , they get the प्रत्ययाः of आत्मनेपद ; provided that the verbs are used in an अकर्मक sense.

Vasu English Summary

After the verb यम् ‘to stop’ and हन् ‘to injure’, when used intransitively and preceded by अन् , the आत्मनेपद affix is used.

Vasu English Translation

After the verb यम् ‘to stop’ and हन् ‘to injure’, when used intransitively and preceded by अन् , the आत्मनेपद affix is used. The word intransitive of sutra (1.3.26) is understood here also. Both these verbs are generally parasmaipadi. When they take the affix आ they become atmanepadi. Yam belongs to Bhvadi class; and han to Adadi class. Thus आ + यम् + शप् + ते = आ + यच्छ + अते (7.3.77) इषुगमियमां छः) ‘chh is the substitute of the finals of ish, *gam and yam, when an affix having an indicatory श् follows) = आयच्छते ‘it spreads.’ आयच्छेते and आयच्छन्ते; so also आ + हन् + ते = आ + ह + ते (1.2.4) and (6.4.37) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलिक्ङिति = आहते, ‘he strikes.’ आ = हन् + आते = आ + हन् + आते (1.2.4) and (6.4.98) सार्वधातुकमपित् गमहनजनखनघसां लोपः क्ङि त्यनङि) = आघ्नाते (7.3.54), (हो हन्तेण्ञिन्नेषु) Pl. आघ्नते.

Not so when these verbs are used in the transitive, as आयच्छति कूपाद्रज्जुम् ‘he draws up the rope from the well,’ आहन्ति वृषलं पादेन ‘they kill the sinner with the foot.’

Vart:- When the object is some member of the agent’s own body these verbs take the Atmanepada terminations though transitive. As आयच्छते पाणिम् ‘he puts forth his own hand.’ आहते शिरं ‘he hurts his own head.’ When the object is some limb of another’s body, the terminations are of the *Parasmaipada_, as आहन्ति शिरः परकीयं ‘they hurt others’ head.’

Bhashya

आङो यमहनः अकर्मकादित्येव । (इह मा भूत् - ) आयच्छति रज्जुं कूपात्। आहन्ति वृषलं पादेन। स्वाङ्गकर्मकाच्च ॥ 1 ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्। आयच्छते पाणी। आहते उदरमिति।

Kashika

अकर्मकादिति वर्तते। यम उपरमे,**हन हिंसागत्योः** इति परस्मैपदिनौ। ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति। आयच्छते, आयच्छेते, आयच्छन्ते। हनः खल्वपि — आहते, आघ्नाते, आघ्नते। अकर्मकादित्येव — आयच्छति कूपाद् रज्जुम्। आहन्ति वृषलं पादेन॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ आयच्छते पाणिम्। आहते शिरः। स्वाङ्गं चेह न पारिभाषिकं गृह्यते। किं तर्हि ? स्वमङ्गं स्वाङ्गम्, तेनेह न भवति — आहन्ति शिरः परकीयमिति॥

Siddhanta Kaumudi

आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥

Balamanorama

आङो यमहनः - आङो यमहनः । आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः । आयच्छते इति । रज्जुर्दीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ।स्वोदर॑मिति शेषः । परस्य शिर आहन्तीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम् । कथं तर्हीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः । प्राप्येति । विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव,धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॑ इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् । ननु प्राप्येत्यध्याहारेप्रासादात्प्रेक्षते॑ इत्यादिवत्पञ्चमी स्यादित्यत आह — ल्यब्लोपे इति ।ल्यब्लोपे पञ्चमी॑त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव- । ‘आजघ्ने विषमे’ त्यत्र परिहारान्तरमाह — समीपमेत्येति वेति । ‘अध्याहार’ इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । लुङि आहन् स् त इति स्थिते —

Tattvabodhini

आङो यमहनः - आङो यमहनः । प्राप्येति । तथा च हन्तेरकर्मकतया आजघ्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः । समीपमेत्येति । विषमविलोचनस्य समीपमेत्य वक्ष आजन्वे । स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयांचक्रे इत्यर्थात्स्वाङ्गकर्मकत्वमस्त्येवेति भावः ।

Padamanjari

आहतेति।ठनुदातोपदेशऽइत्यनुनासिकलोपः। आघ्नत इति। पूर्ववदादेशोपधालोपौ कुत्वं च । आहन्ति शिरः परकीयमिति। ठाजघ्ने विषमविलोचनस्य वक्षःऽ इत्यत्र तु गाण्डीवी विषमविलोचनस्य वक्ष एत्य स्वं वक्षो हतवानित्यर्थः । मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष एत्य एवं वक्षो हतवानित्यर्थः। मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष आस्पालयति॥

Nyaas

आहते इति। अनुदात्तोपदेश (6.4.37) इत्यादिनानुनासिकलोपः। आघ्नते इति। गमहन (6.4.98) इत्युपधालोपः, हो हन्तेः (7.3.54) इत्यादिना कुत्वम्।स्वाङ्गकर्मकाच्चेति वक्तव्यम् इति। अस्य पूर्ववदर्थः। व्याख्यानमपि पूर्ववदेव॥

Prakriyasarvasvam

आङ्पूर्वाभ्यामकर्मकाभ्यामाभ्यां तङ् । आयच्छते । दीर्घीभवति, व्याप्रियत इति वार्थः । आहते शस्त्रैः आहते वृक्षेषु । घट्टनमत्रार्थः । सकर्मकात्तु न । आयच्छति रज्जुम्, आहन्त्यरिम् ।<!आत्माङ्गकर्मकात्त्विष्टम्!> (वा०) । आयच्छते स्वभुजम् । आहते स्वमुरः ।

Vartika

स्वाङ्गकर्मकाच्च ।

Sutra Prayogas

  • हताहत (किरातार्जुनीयम्): आङो यमहऩः इति आत्मनेपदम्।

  • हन्तुं (भट्टिकाव्यम्): आङो यमहनः इति अकर्मकादित्यनुवृत्तेरात्मनेपदं न भवति।

  • **** (भट्टिकाव्यम्): आङो यमहनः इत्यनेनापि न स्यात् सकर्मकत्वात्।

  • आयंसीद् (भट्टिकाव्यम्): आङो यमहनः इति सकर्मकत्वात् तङ् न स्यात्।

  • आघ्नान (भट्टिकाव्यम्): आङो यमहनः इत्यविवक्षितकर्मकत्वादात्मनेपदम्।

  • आजघ्नु (भट्टिकाव्यम्): आङो यमहनः इति तङ् न भवति सकर्मकत्वात्।

  • अवधिष्टाऽथ (भट्टिकाव्यम्): आङो यम-हनः इति तङ्।