13005: आदिर्ञिटुडवः

Padacheda: आदिः | S | 1 | 1 |

ञि-टु-डवः | S | 1 | 3 |

Sutrartha

उपदेशस्य आदौ विद्यमानाः ‘ञि’, ‘टु’ तथा ‘डु’ एते वर्णसमुदायाः इत्संज्ञकाः भवन्ति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘इत्’ इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् (1.3.2) इत्यस्मात् लशक्वतद्धिते (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् ‘इत्संज्ञाप्रकरणम्’ नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् चतुर्थं सूत्रम् । अनेन सूत्रेण उपदेशस्य आदौ विद्यमानानाम् ‘ञि’, ‘टु’, ‘डु’ एति वर्णसमूहानाम् इत्संज्ञा विधीयते । <note>उपदेशस्य विषये विस्तरेण उपदेशेऽजनुनासिक इत् (1.3.2) इत्यत्र विवेचनं कृतम् अस्ति, तदेव जिज्ञासुभिः द्रष्टव्यम् । </note> प्रकृतसूत्रेण निर्दिष्टाः ‘ञि’, ‘टु’, ‘डु’ एते वर्णसमुदायाः अष्टाध्याय्याम् केवलम् धातूनाम् प्रारम्भे एव विद्यन्ते । अतः अस्य सूत्रस्य व्याप्तिः धातुपाठविशिष्टा एव अस्ति । कानिचन उदाहरणानि एतानि - 1. ञिमिदाँ, ञिक्ष्विदाँ, ञित्वराँ - एतादृशानाम् धातूनाम् आदौ विद्यमानः ‘ञि’ इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ञीतः धातवः इति नाम्ना अपि ज्ञायन्ते । ‘ञि + इत् = ञीत्’ इत्याशयः । धातुपाठे आहत्य १३ धातवः ञीतः सन्ति । 2. टुक्षु, टुनदीँ, टुदु - एतादृशानाम् धातूनाम् आदौ विद्यमानः ‘टु’ इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ट्वितः धातवः इति नाम्ना अपि ज्ञायन्ते । ‘टु + इत् = ट्वित्’ इत्याशयः । धातुपाठे आहत्य १३ धातवः ट्वितः सन्ति । 3. डुकृञ्, डुपचँष्, डुलभँष्, - एतादृशानाम् धातूनाम् आदौ विद्यमानः ‘डु’ इति समुदायः इत्संज्ञां प्राप्नोति । अतः एते सर्वे ड्वितः धातवः इति नाम्ना अपि ज्ञायन्ते । ‘डु + इत् = ड्वित्’ - इत्याशयः । धातुपाठे आहत्य ९ धातवः ड्वितः सन्ति ।

इत्संज्ञकवर्णस्य लोपः

प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः (1.3.9) इत्यनेन नित्यम् लोपः भवति ।

आदौ विद्यमानस्य ‘ञि’, ‘टु’, ‘डु’ इति समूहानाम् इत्संज्ञायाः प्रयोजनम्

धातूनाम् आदौ विद्यमानानाम् ‘ञि’, ‘टु’, ‘डु’ एतेषाम् समूहानाम् इत्संज्ञायाः विशिष्टम् प्रयोजनम् विद्यते । तदित्थम् — 1) ञीद्भ्यः धातुभ्यः विहितः क्तप्रत्ययः **ञीतः क्तः (3.2.187) अनेन सूत्रेण वर्तमाने अर्थे अपि भवितुम् अर्हति** । यथा, ‘ञिमिदाँ’ इति धातुः ञीत्-अस्ति, अतः अस्मात् धातोः क्त-प्रत्ययः वर्तमाने अर्थे अपि विधीयते । प्रक्रिया इयम् -

मिद्यते इति [कृद्वृत्तिः]
= ञिमिदाँ स्नेहने [भ्वादिः, अकर्मकः, सेट्]
→ मिद् ['ञि' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इति इत्संज्ञा । आकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । उभयोः अपि **तस्य लोपः** (1.3.9) इति लोपः]
→ मिद् + क्त [ञीद्भ्यः धातुभ्यः **ञीतः क्तः** (3.2.187) इति वर्तमाने अर्थे क्तप्रत्ययः]
→ मिद् + त [प्रत्ययस्थककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । **आदितश्च** (7.2.16) इति इडागमनिषेधः]
→ मिन् + न [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इति दकारतकारयोः नत्वम्]
→ मिन्न ।
  1. ** ट्विद्भ्यः धातुभ्यः ट्वितोऽथुच् (3.3.89) अनेन सूत्रेण भावार्थे ‘अथुच्’ इति कृत्प्रत्ययः विधीयते ** । यथा, ‘टुवेपृँ’ इति धातोः अथुच्-प्रत्यये कृते ‘वेपथुः’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —

वेप्यते इति [कृद्वृत्तिः]
= टुवेपृँ (कम्पने, भ्वादिः, अकर्मकः, सेट्)
→ वेप् ['टु' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इति इत्संज्ञा । ऋकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । उभयोः अपि **तस्य लोपः** (1.3.9) इति लोपः]
→ वेप् + अथुच् [ ट्विद्भ्यः धातुभ्यः **ट्वितोऽथुच्** (3.3.89) इति अथुच्-प्रत्ययस्य भावे विधानम् ।]
→ वेपथु [अथुच्-प्रत्ययस्य चकारस्य **हलन्त्यम्** (1.3.3)  इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः ।]
  1. ड्विद्भ्यः धातुभ्यः **ड्वितः क्त्रिः (3.3.88) अनेन सूत्रेण भावार्थे ‘क्त्रि’ इति कृत्प्रत्ययः विधीयते** । यथा, ‘डुकृञ्’ इत्यस्मात् धातोः क्त्रि-प्रत्यये कृते ‘कृत्रिम’ इति शब्दः सिद्ध्यति ।

क्रियते इति [कृद्वृत्तिः]
= डुकृञ् (करणे, तनादिः, सकर्मकः, अनिट्)
→ कृ ['डु' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इति इत्संज्ञा । ञकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । उभयोः अपि **तस्य लोपः** (1.3.9) इति लोपः]
→ कृ + क्त्रि + मप् [ ड्विद्भ्यः धातुभ्यः **ड्वितः क्त्रिः** (3.3.88) इति सूत्रेण भावार्थे 'क्त्रि' इति प्रत्ययः विधीयते ।  क्त्रि-प्रत्यये कृते अग्रे **क्त्रेर्मम् नित्यम्** (4.4.20) इत्यनेन स्वार्थिकः मप्-प्रत्ययः अपि भवति ।]
→ कृ + त्रि + म [क्त्रि-प्रत्ययस्य ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । मप्-प्रत्ययस्य पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा उभयोः अपि **तस्य लोपः** (1.3.9) इति लोपः ]
→ कृत्रिम

अनेन प्रकारेण ‘ञि’, ‘टु’, ‘डु’ इत्येतेषाम् सर्वेषामपि इत्संज्ञायाः प्रयोजनानि विद्यन्ते । <note><a href=’https://ashtadhyayi.com/dhatu/’ target=’_blank’>धातुपाठे</a> left-side-menu मध्ये filters इत्यत्र ‘अनुबन्धः’ इति filter उपयुज्य तत्र ट्वित्/ड्वित्/ञीत्-धातूनाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते । </note>

Sutrartha (English)

The groups ञि, टु and डु occurring at the beginning of an उपदेश are called ‘इत्’.

Vasu English Summary

The initial ञि , टु , डु are इत्।

Vasu English Translation

The initial ञि , टु , डु are इत्। The syllables ञि, टु and डु, standing at the beginning of a root are indicatory; as ञिमिदा ‘to have affectionate pleasure.’ The real root is मिद्, the ञि is servile. So टुनदि ‘to rejoice; be glad’ the real root being नद्. So डुदाङ् ‘to give’ the real root being दा.

The ञि shows that the past participle क्त has the power of the present (3.2.187) (ञीतः क्तः). As ञिफला–फुल्लः ‘blown’; ञिमिदा–भिन्नः; ‘fat’; ञिधृषा—धृष्टः ‘bold,’ ञिक्ष्विदा—क्ष्विन्नः ‘soft,’ ञिइन्धी—इद्धः ‘kindled.’

The टु subjoined to a root serves to show that it admits the affix अथु to form a noun indicative of the act (3.3.89) ट्वितोऽथुच्)); as टुवेपृः—वेपथुः ‘shaking’; टु ओश्वि–श्वयथुः ‘swelling.’

The डु indicates that the root to which it is subjoined admits of the affix त्रिम (3.3.88), ड्वितः क्त्रिः) to form a noun or adjective attributive of the act by which the substantive thing has been produced, as डुकृञ्—कृत्रिमम् ‘artificial’ डुपचष्—पक्त्रिमम् ‘ripe’; डुवप्—उप्त्रिमम् ‘sown.’

If these three syllables do not stand in the beginning of a verb, they are not indicatory; as पटूयति, कण्डूयति, &c.

Kashika

इदिति वर्तते। आदिशब्दः प्रत्येकमभिसंबध्यते। ञि टु डु इत्येतेषां समुदायानामादितो वर्तमानानामित्संज्ञा भवति। ञिमिदा — मिन्नः। ञिधृषा — धृष्टः। ञिक्ष्विदा — क्ष्विण्णः। ञिइन्धी — इद्धः। टुवेपृ — वेपथुः। टुओश्वि — श्वयथुः। डुपचष् — पक्त्रिमम्। डुवप् — उप्त्रिमम्। डुकृञ् — कृत्रिमम्। आदिरिति किम्? पटूयति। कण्डूयति। उपदेश इत्येव — ञिकारीयति॥

Siddhanta Kaumudi

उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् ।{$ {!68 चदि!} आह्लादे$} । चचन्द ।{$ {!69 त्रदि!} चेष्टायाम्$} । तत्रन्द ।{$ {!70 कदि!} {!71 क्रदि!} {!72 क्लदि!} आह्वाने रोदने च$} । चकन्द । चक्रन्द । चक्लन्द ।{$ {!73 क्लिदि!} परिदेवने$} । चिक्लिन्द ।{$ {!74 शुन्ध!} शुद्धौ$} । शुशुन्ध । नलोपः । शुध्यात् ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥{$ {!75 शीकृ!} सेचने $}। तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके ।{$ {!76 लोकृ!} दर्शने$} । लोकते । लुलोके ।{$ {!77 श्लोकृ!} संघाते$} । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते ।{$ {!78 द्रेकृ!} {!79 ध्रेकृ!} शब्दोत्साहयोः$} । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके ।{$ {!80 रेकृ!} शङ्कायाम्$} । रेकते ।{$ {!81 सेकृ!} {!82 स्रेकृ!} {!83 स्रकि!} {!84 श्रकि!} {!85 श्लकि!} गतौ$} । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके ।{$ {!86 शकि!} शङ्कायाम्$} । शङ्कते । शशङ्के ।{$ {!87 अकि!} लक्षणे$} । अङ्कते । आनङ्के ।{$ {!88 वकि!} कौटिल्ये$} । वङ्कते ।{$ {!89 मकि!} मण्डने$} । मङ्कते ।{$ {!90 कक!} लौल्ये लौल्यं गर्वश्चापल्यं च$} । ककते । चकके ।{$ {!91 कुक!} {!92 वृक!} आदाने$} । कोकते । चुकुके । वर्कते । ववृके ।<!ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन !> (वार्तिकम्) ॥{$ {!93 चक!} तृप्तौ प्रतीघाते च$} । चकते । चेके ।{$ {!94 ककि!} {!95 वकि!} {!96 श्वकि!} {!97 त्रकि!} {!98 ढौकृ!} {!99 त्रौकृ!} {!100 ष्वष्क!} {!101 वस्क!} {!102 मस्क!} {!103 टिकृ!} {!104 टीकृ!} {!105 तिकृ!} {!106 तीकृ!} {!107 रघि!} {!108 लघि!} गत्यर्थाः$} । कङ्कते । डुढौके । तुत्रौके ।<!सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि ।{$ {!109 अघि!} {!110 वघि!} {!111 मघि!} गत्याक्षेपे$} । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च ।{$ {!112 राघृ!} {!113 लाघृ!} {!114 द्राघृ!} सामर्थ्ये $}। राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते ।{$ {!115 श्लाघृ!} कत्थने$} । श्लाघते ॥ अथ परस्मैपदिनः पञ्चाशत् ॥{$ {!116 फक्क!} नीचैर्गतौ$} । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क ।{$ {!117 तक!} हसने $}। तकति ।{$ {!118 तकि!} कृच्छ्रजीवने$} । तङ्कति ।{$ {!119 बुक्क!} भषणे$} । भषणं श्वरवः । बुक्कति ।{$ {!120 कख!} हसने$} । प्रनिकखति ।{$ {!121 ओखृ!} {!122 राखृ!} {!123 लाखृ!} {!124 द्राखृ!} {!125 ध्राखृ!} शोषणालमर्थयोः$} । ओखति । ओखांचकार ।{$ {!126 शाखृ!} {!127 श्लाखृ!} व्याप्तौ $}। शाखति ।{$ {!128 उख!} {!129 उखि!} {!130 वख!} {!131 वखि!} {!132 मख!} {!133 मखि!} {!134 णख!} {!135 णखि!} {!136 रख!} {!137 रखि!} {!138 लख!} {!139 लखि!} {!140 इख!} {!141 इखि!} {!142 ईखि!} {!143 वल्ग!} {!144 रगि!} {!145 लगि!} {!146 अगि!} {!147 वगि!} {!148 मगि!} {!149 तगि!} {!150 त्वगि!} {!151 श्रगि!} {!152 श्लगि!} {!153 इगि!} {!154 रिगि!} {!155 लिगि!} गत्यर्थाः$} । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥

Laghu Siddhanta Kaumudi

उपदेशे धातोराद्या एते इतः स्युः॥

Balamanorama

आदिर्ञिटुडवः - आदिः । ‘भूवादयो धातवः’ इत्यस्माद्धात्व इत्यनुवृत्तं षष्ठआ विपरिणम्यते । ‘उपदेशेऽजनुनासिकः’ इत्यस्मादुपदेशे इति, इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनं । तदाह — उपदेश इति । ट्विकरणंद्वितीऽथु॑जित्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वादनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति.अन्त्यात्, अन्द्यादित्यस्याप्युपलक्षणं । चदीति । इदित्त्वान्नुमित्याह — चन्दतीति । त्रदीति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह — त्रन्दतीति.क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवने इति । अनुदात्तेत्सुपठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्धतीति । शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाऽयं कुतो न पठित इत्यत आह — नलोप इति । आशीर्लिङिअनिदिता॑मिति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः । ‘अथ कवर्गीयान्ता’ इत्यादि ‘लोकृ’ इत्यन्तं स्पष्टम् । श्लोकृ इति । सङ्घातशब्दं व्याचष्टे — ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्क्याह — स चेहेति । ग्रन्थनं ग्रन्थः — सङ्घीभावःष सङ्घीकरणं वा । तत्र सङ्घीभवनं सङ्घनिष्ठम् । सङ्घीकरणं तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वेऽकर्मकः । सङ्घीकरणार्थत्वे सकर्मकः इत्यर्थः । श्लोकत इति । सङ्घीभवतीत्यर्थः । सङ्घीकरोततीति वा । द्रेकृ ध्रेकृ इति । शब्दनं शब्दः । [एच इगिति ह्रस्व इति । लिट एशि द्वित्वेहलादिः शेषे॑देद्रेक् ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् ‘एच इग्घ्रस्वादेशे’ इति इकारो भवतीत्यर्थः] । दिध्रेके इति । अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्व इकारः । रेकृ इति । शङ्का — संशयः, आक्षेपो वा । शीकृ सेचने इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेकृ इति । आद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयोऽदुपधा इदितः । त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पर्युदासान्न षत्वमिति भावः । ‘एच इग्घ्रस्वादेशे’ इत्यभिप्रेत्याह — सादित्वाऽभावान्न षोपदेशत्वं । ततश्च सकारस्यादेशसकारत्वाऽभावान्न षत्वमिति भावः । ‘एच इग्घ्रस्वादेशे’ इत्यभिप्रेत्याह -सिसेक इत्यादि । ‘सरुआङ्के’ इत्यादावदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह -शङ्कते । शशङ्क इति । अकीति । लक्षणं — चिह्नीकरणम् । अङ्क इति । इदित्त्वान्नुम् । आनङ्क इति ।तस्मान्नुड् द्विहलः॑इति नुट् ।वकि कौटिल्ये इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लगूपधगुणं मत्वा आह — कोकत इति । चुकुक इति ।असंयोगा॑दिति कित्त्वान्न लघूपधगुणः । अभ्यासे चुत्वं । लघूपधगुणे रपरत्वं मत्वाह — वर्कत इति । लिटिअसंयोगा॑दिति कित्त्वान्न गुण इति मत्वाह — ववृके इति । उरदत्वं, हलादिः शेषः । ननु कित्त्वात्परत्वाद्गुणः तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह — चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । ‘कङ्कते’ इत्यादाविदित्वान्नुम् । डुढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकारः, ओकारस्य ह्रस्व उकारः । अथ ष्वष्कधातोः षोपदेशपरिगणनाद्धात्वादेरिति सत्वे प्राप्ते आह — सुब्धात्विति । षष्वष्क इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च । तृतीय इति । तथा च ‘स्वष्कते’ इति रूपं । केवलदन्त्यपरकसादित्वाऽभावेन षोपदेशत्वाऽभावः । टेकते इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लघि भोजननिवृत्तावपीति । निवृत्तिः- विमुखीभवनम् । लङ्घते । न भुङ्क्त इत्यर्थः । अघीति । त्रयोऽपि चतुर्थान्ता इदितः । आनङ्घ इति ।तस्मान्नुड् द्विहलः॑ इति नुट् । वङ्घत इति । इदित्त्वान्नुम् । लिटि तु ववङ्घे इति रूपम् । वादित्वात्संयुक्तहल्मद्यस्थत्वात्संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इचि त्रयोऽपि ऋदितः । सामर्थ्यं — कार्यक्षमीभवनम् । ध्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति.आयामः — दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनं-स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्क नीचैरित्यादि स्पष्टं । प्रनिकखतीति ।शेषे विभाषे॑त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । ओखृ इति । अलमर्थः- भूषणक्रिया, पर्याप्तिः, वारणं वा । ओखति । ओखांचकार.शाखृ श्लाखृ इति । श्लाघृ इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । ‘ईखि इत्यन्ता’ इति शेषः । त्रयोदशेति । ‘वल्गादय’ इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाऽभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति । शपि लघूपधगुणः ।

Tattvabodhini

आदिर्ञिटुडवः - ॒उपदेशेऽजनुनासिक॑ इत्यतोऽनवर्तनादाह — उपदेशे इति । उपदेशे किम् । ञिकारीयति । ञिष्वप् ।ञीतः क्तः॑। सुप्तः ।ट्वितोऽथुच् । नन्दथुः ।ड्वितः क्रिः॑ । कृत्रिमम् । क्लिदि परिवेदने । अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थं स्वरितेत्स्वयं न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ । माङ्गलिक एधतिरुक्तस्तवर्गीयान्तस्तदनुरोधेन कतिचित्तवर्गीयान्ताः पठिताः । इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह — अथेत्यादि । चुकुके इति । परमपि गुणं बाधित्वा नित्यत्वात्असंयोगा॑दिति कित्त्वम् । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । सुब्धात्वित्यादि । सुब्दातोरुदाहरणानि — षट् दन्ता अस्य षोडन् । तमाचष्टे । णिचि टिलोपः । षोडयति । एवं षण्डं करोत्याचष्टे वा षण्डयति । षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहिधात्वादे॑रिति उपदेश इति वर्तते । न च सुब्धातूनामुपदेशोऽस्ति । ष्ठिवुष्वष्कती तु यकारादी ।लोपो व्यो॑रिति यलोपः । प्रनिकखतीति ।शेषे विभाषे॑त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः ।

Padamanjari

आदिशब्दः प्रत्येकमभिसंबद्ध्यते, तेनैकवचनमुपपद्यते इति भावः। अत्र’टुअ’ इति न टवर्गस्य ग्रहणम्;उकारस्याननुनासिकत्वेनानुदित्वात्’चुटूअ’ इत्युतरत्र वर्गग्रहणाद्, ञिडुभ्यां साहचर्याच्च। मिन्नि इति। ठादितश्चऽ रदाभ्यां निष्ठातो नः ऽ। वेपथुरिति । ट्वितोऽथुच्। उप्त्रिममिति। ड्वितः क्त्रिः क्त्रेर्मम् नित्यम् यजादित्वात्संप्रसारणम्। पटुअयतीति। पृथ्वादिषु टुअशब्दस्योपदेशः, अत्रेत्संज्ञायां सत्यामवयवे कृतं लिङ्गं समुदायस्य विशेषकमिति समुदायादथुच्प्रसङ्गः। केवलस्यानुदाहरणत्वम्;इत्कार्याभावात्। कण्डूअयतीति। ननु चायं दीर्घान्तः कण्ड्वादिषूपदिश्यते, एवं तर्हि कण्डूअमिच्छतीति क्यजन्तात् क्विपि कण्डु ब्राह्मणकुलं तदिच्छतीति पुनः क्यचि द्रष्टव्यम्, तत्रेत्संज्ञायामन्तरङ्गत्वादकृत एव दीर्धे भवत्ययं डुशब्दः, गणपठितश्च कण्डूअशब्द एकदेशविकृत इति स्यात् प्रसङ्गः। ञिकारीयतीति। नायं समुदायः क्वचिदुपदिष्टः॥

Nyaas

अत्र टुग्रहणेन अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) इति टवर्गस्य ग्रहणं कस्मान्न भवति? उकार्सयानुनासिकत्वाप्रतिज्ञानात्, चुटू (1.3.7) इत्यत्र टुग्रहणाच्च। यद्यत्र टवर्गस्य ग्रहणं स्यात्, तदानेनैव प्रत्ययादेरपि सिद्धत्वात् टुग्रहणमनर्थकं स्यात्। मिन्नः इति। ञीतः क्तः (3.2.187) , आदितश्च (7.2.16) इतीट्प्रतिषेधः। वेपथुः`इति। `ट्वितोऽथुच (3.3.89) । पक्त्रिमम् इति। ड्वितः क्त्रिः (3.3.88) । पाकेन निवृत्तम्, क्त्रेर्मम् नित्यम् (4.4.20) इति मप्। उप्त्रिमम् इति। वच्यादिसूत्रेण (6.1.15) सम्प्रासारणम्।पटूयति इति। सुप आत्मनः क्यच् (3.1.8) , अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घः। कण्डूयति इति। कण्ड्वादिभ्यो यक् (3.1.27) । कथं पुनरत्रेत्संज्ञाप्राप्तिः, यावता सूत्रे टुडुशब्दौ ह्रस्वान्तावुपात्तौ,दीर्घान्ताविमौ? नेतत्; यद्यपि दीर्घत्वे कृते दीर्घान्तावेतौ भवतस्तथाप्युदेशे ह्रस्वान्तावेव,`उपदेशे` (1.3.2।) इति चेहानुवर्तते। तत्र पटुशब्दस्य पृथ्वादिपाठात् टुशब्दस्योपदेशे ह्रस्वान्तता सिद्धा। कण्डूशब्दस्य कण्डवादिभ्यो यक् (3.1.27) इत्यत्र पाठात् डुशब्दस्यापि। द्विविधा हि कण्ड्वादयः - धातवः, प्रातिपदिकानि च। तत्र धातुः कण्डुशब्दो ह्रस्वान्तः। प्रातिपदिकं तु कण्डुशब्दो दीर्घान्तः।अथ वा - यद्यप्युपदेश इति नानुवर्तते, तथापि दीर्घत्वे कृतेप्येकदेशविकृतस्यानन्यत्वादस्त्येव प्राप्तिः। ञिकारीयति इति। पूर्ववत् क्यच्। ञिकारशब्दो न क्वचित् पठत इति तेनात्रेत्संज्ञा न भवति। यदि स्यात्, लोपे कृते रूपं न सिद्ध्येत्॥