13001: भूवादयो धातवः

Padacheda: भू-वा-आदयः | S | 1 | 3 |

धातवः | S | 1 | 3 |

Sutrartha

‘भू’ इत्यादयः शब्दाः क्रियावाचिनि अर्थे धातुसंज्ञकाः भवन्ति ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातु: इति संज्ञा प्रकृतसूत्रेण विधीयते । “भू”-आदीनाम् शब्दानाम् क्रियावाचिनि अर्थे धातुसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । अत्र “भू-आदीनाम्” इत्यनेन “भू, एधँ, स्पर्धँ, गाध्, बाध्…” इत्यादयः प्रायेण 2000 शब्दाः गृह्यन्ते । एतेषाम् सर्वेषाम् आवली <a href=’/dhatu’ target=’_blank’>धातुपाठः</a> नाम्ना ज्ञायते । एते सर्वे धातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति, अतः एते औपदेशिकधातवः इति नाम्ना अपि प्रसिद्धाः सन्ति ।

धातुपाठः

पाणिनीयव्याकरणस्य प्रायेण 2000 धातूनाम् सङ्कलनम् <a href=’/dhatu’ target=’_blank’>धातुपाठः</a> इति नाम्ना प्रसिद्धम् अस्ति । अस्य धातुपाठस्य मुख्यानि वैशिष्ट्यानि एतानि — <listsp> 1. धातुपाठे विद्यमानः धातवः दशसु गणेषु विभाजिताः सन्ति — भ्वादिगणः (~1000 धातवः), अदादिगणः (~70 धातवः), जुहोत्यादिगणः (~25 धातवः), दिवादिगणः (~150 धातवः), स्वादिगणः (~35 धातवः), तुदादिगणः (~170 धातवः), रुधादिगणः (~25 धातवः), तनादिगणः (~10 धातवः), क्र्यादिगणः (~70 धातवः), चुरादिगणः (~ 450 धातवः) । एतादृशम् विभाजनम् लट्-लङ्-लोट्-विधिलिङ्-लकारेषु विद्यमानानाम् रूपाणाम् आधारेण कृतम् अस्ति । प्रत्येकस्मिन् गणे धातवः पुनः पदम् अनुसृत्य, स्वरम् अनुसृत्य, अन्तिमवर्णम् च अनुसृत्य रचिताः सन्ति । 2. धातुपाठे धातूनाम् स्थापनम् अनुबन्धेन सह कृतं दृश्यते । धातुषु विद्यमानानाम् सर्वेषाम् अपि अनुबन्धानाम् प्रक्रियायाम् विशिष्टं कार्यम् विद्यते । 3. धातुपाठे कानिचन सूत्रसदृशानि लघुवाक्यानि अपि विद्यन्ते । यथा, चर्करितं च, स्वादयः ओदितः, आकुस्मीया आत्मनेपदिनः - इत्यादीनि । एतानि सर्वाणि गणसूत्राणि नाम्ना ज्ञायन्ते । 4. अद्यतनकाले उपलब्धे धातुपाठे धातवः अर्थेन सह एव विद्यन्ते । परन्तु पाणिनिना मूलरूपेण यः धातुपाठः विरचितः, तस्मिन् अर्थाः नैव आसन्, अपितु एतान् अर्थान् भीमसेनः इत्याख्य कश्चन अर्वाचीनः वैयाकरणः तत्र संस्थापितवान् इति पण्डितानां सामान्यं मतम् । धातुपाठे विद्यमानाः एते अर्थाः केवलम् निर्देशस्वरुपिणः सन्ति, धातूनाम् प्रयोगस्य सर्वान् अर्थान् न गृह्णन्ति इति अपि तेषाम् अभिप्रायः । The meanings of dhatus available in the dhatupath are purely indicatory in nature and should neither to be considered exhaustive nor precise. 5. धातुपाठस्य केचन पाठभेदाः अपि विद्यन्ते । एतेभ्यः त्रयः पाठभेदाः वैयाकरणैः विशेषरूपेण अधीयन्ते - क्षीरस्वामिना विरचितः क्षीरतरङ्गिणीधातुपाठः, मैत्रेयरक्षितेन विरचितः धातुप्रदीपः तथा च सायणाचारयेण विरचिता माधवीयधातुवृत्तिः इति । सिद्धान्तकौमुद्याम् अपि कश्चन धातुपाठः भट्टोजीदीक्षितेन स्थापितः अस्ति । यद्यपि एतेषु सर्वेषु अपि पाठभेदेषु विद्यमानाः धातवः प्रायेण समानाः एव, तथापि देशकालभेदम् उच्चारणभेदम् च अनुसृत्य तत्र केचन भेदाः अपि अवश्यम् दृश्यन्ते । अतएव धातूनाम् समग्ररूपेण (precise) सङ्ख्या नैव वक्तुं शक्यते । सामान्यरूपेण 2000 धातवः सन्ति - इत्यनैनैव अलम् । 6. धातुपाठेषु विद्यमानानाम् धातूनाम् क्रमः विशिष्टं हेतुं मनसि निधाय पाणिनिना विरचितः अस्ति । तथापि अयं क्रमः सूत्रक्रमसदृशः नैव महत्त्वपूर्णः । सूत्रपाठे यथा सूत्राणाम् क्रमम् अनुसृत्य पूर्वपरत्वम् असिद्धत्वं वा वर्तते, तथा धातुपाठे नैव किञ्चित् विद्यते । अतः धातुपाठस्य धातुनां क्रमपरिवर्तनम् क्रियते चेदपि नैव दोषाय । यथा, केषुचन नूतनसंस्करणेषु धातवः अन्वेषणसौलभ्यार्थम् अकारादिक्रमेण अपि स्थापिताः सन्ति तदपि समीचीनमेव । </listsp>

‘भूवादयः’ इति शब्दे वकारग्रहणस्य प्रयोजनम्

प्रकृतसूत्रे पाणिनिना “भूवादयः” इत्यत्र वकारः स्थापितः अस्ति । ‘भू-व-आदयः’ इति अत्र पदविग्रहः । अत्र वकारग्रहणम् माङ्गल्यार्थम् उपयुज्यते इति प्रकृतसूत्रस्य भाष्ये भाष्यकारेण स्पष्टी क्रियते । मङ्गलादीनि मङ्गममध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते इति उक्त्वा अत्र भाष्यकारः स्पष्टी करोति, यत् शास्त्रग्रन्थेषु सामान्यरूपेण प्रारम्भे, मध्ये, तथा च अन्ते - इति त्रिषु स्थलेषु मङ्गलाचरणम् कृतं दृश्यते । इमाम् एव प्रथाम् अनुसृत्य सूत्रपाठस्य ‘मध्यस्थले’ विद्यमानम् मङ्गलाचरणम् “वकारेण” कृतम् अस्ति इति अत्र भाष्यकारस्य आशयः । काशिकाकारेण तु अत्र कश्चन अन्यः पक्षः अपि प्रदर्शितः अस्ति । अस्मिन् पक्षे “भूवादयः” शब्दस्य “भू + वादयः” इति विग्रहः क्रियते । अत्र विद्यमानस्य “भू”-शब्दस्य अर्थः ‘क्रियासामान्यः’ (a general action) इति स्वीक्रियते, न हि भू-धातुः इति । एवमेव, “वादयः” इति शब्दस्य अर्थः ‘यः वाचकत्वेन विधीयते सः’ (indicator) इति अत्र गृह्यते । अनेन क्रियासामान्याः अर्थाः यैः शब्दैः वाचकत्वेन विधीयन्ते ते शब्दाः धातुसंज्ञका भवन्ति (words that indicate a general action), इति अर्थः लभ्यते । धातुपाठे विद्यमानानाम् शब्दानाम् क्रियावाचिनि अर्थे एव धातुसंज्ञा भवति, अन्येषु अर्थेषु न, इति अत्र आशयः । अतएव “भू” शब्दस्य “पृथिवी” अस्मिन् अर्थे धातुसंज्ञा न भवति ।

औपदेशिकधातवः, सौत्रधातवः, आतिदेशिकधातवः

संस्कृतव्याकरणे धातूनाम् त्रयः प्रकाराः सन्ति — औपदेशिकाः धातवः, सौत्राः धातवः, आतिदेशिकाः धातवः इति । तदित्थम् — <listsp> <hlb>1. औपदेशिकाः धातवः</hlb> — धातुपाठे साक्षात् विद्यमानाः (इत्यक्ते, भूवादयो धातवः (1.3.1) इति प्रकृतसूत्रेण निर्दिष्टाः) धातवः औपदेशिकाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् साक्षात् उपदेशः धातुपाठे कृतः अस्ति, अतः ‘औपदेशिकधातवः’ इति एषां नाम । आ) <hlb>2. सौत्राः धातवः</hlb> — केचन धातवः धातुपाठे न विद्यन्ते परन्तु अष्टाध्याय्याः सूत्रेषु तेषाम् निर्देशः लभ्यते । यथा, ऋतेरीयङ् (3.1.29) इत्यस्मिन् सूत्रे “ऋत्”-इत्यस्मात् धातोः पाणिनिना “इयङ्”-प्रत्ययः उक्तः अस्ति । वस्तुतः पाणिनीयधातुपाठे “ऋत्” इति न कश्चन धातुः विद्यते, परन्तु अत्र सूत्रनिर्देशसामर्थ्यात् अस्य धातुत्वम् अवश्यम् एव स्वीक्रियते । एतादृशाः धातवः, ये अष्टाध्याय्याः सूत्रेषु उद्धृताः सन्ति, ते सौत्राः धातवः नाम्ना ज्ञायन्ते । ‘सूत्रे विद्यमानाः धातवः’ इति अर्थः । <hlb>3. आतिदेशिकधातवः </hlb> — अष्टाध्याय्याम् विद्यमानाः सनादयः प्रत्ययाः यदा प्रातिपदिकेभ्यः उत धातुभ्यः प्रयुज्यन्ते, तदा सनाद्यन्ता धातवः (3.1.32) इति सूत्रेण नूतनानां धातूनां निर्माणं भवति । यथा, “पुत्रम् आत्मनः इच्छति” अस्मिन् अर्थे “पुत्र” इत्यस्मात् शब्दात् “काम्यच्” इति प्रत्ययः विधीयते चेत् “पुत्रकाम्य” इति यः नूतनः शब्दः सिद्ध्यति, तस्य सनाद्यन्ता धातवः (3.1.32) इत्यनेन सूत्रेण धातुसंज्ञा भवति । अस्यैव धातोः अग्रे “पुत्रकाम्यति / पुत्रकाम्यतु / अपुत्रकाम्यत्” एतादृशानि तिङन्तरूपाणि, एवमेव कृदन्तरूपाणि च भवितुम् अर्हन्ति । एतादृशाः सर्वे धातवः, ये सनादिप्रत्ययानां योजनेन सिद्ध्यन्ति, ते आतिदेशिकाः धातवः नाम्ना ज्ञायन्ते । णिजन्ताः (यथा, “पठ् + णिच् → पाठि”), सन्नन्ताः (यथा, “पठ् + सन् → पिपठिष”), यङन्ताः (यथा, “पठ् + यङ् → पापठ्य”) एते सर्वे अपि आतिदेशिकधातुषु एव अन्तर्भवन्ति, यतः एते सर्वे अपि सनादिप्रत्ययान्तशब्दाः एव सन्ति । एतेषाम् सर्वेषाम् परिगणनम् धातुपाठे नैव कृतम् विद्यते, अतः भूवादयो धातवः (1.3.1) इति सूत्रेण एतेषाम् धातुसंज्ञा नैव भवति ; अपितु सनाद्यन्ता धातवः (3.1.32) इत्यनेन सूत्रेण एतेषु शब्देषु “धातु”-संज्ञायाः अतिदेशं (superimposition) कृत्वा एतेषाम् ‘धातुः’ इति संज्ञा विधीयते । अतएव एतेषाम् ‘आतिदेशिकधातवः’ इति नाम दत्तम् अस्ति । </listsp>

Sutrartha (English)

The words भू and others, when used to denote an action, are called ‘धातु’.

Vasu English Summary

The words beginning with भू ‘to become’ and denoting action, are called धातु or verbal roots.

Vasu English Translation

The words beginning with भू ‘to become’ and denoting action, are called धातु or verbal roots. This defines the word dhatu or root. The list of Sanskrit verbs begins with the root bhu ‘to be.’ Sanskrit grammarians have divided all verbs into ten classes, according to certain modifications which their roots undergo before certain terminations. The ten classes are as follows:-

  1. Bhu class. 2. Ad. 3. Hu. 4. Div. 5. Su, 6. Tud. 7. Rudh. 8. Tan. 9. Kri. 10. Chur.

There are about two thousand verbs, and they are conjugated in two forms, some taking the Parasmaipada terminations only, the others the Atmanepada terminations and some both. The present chapter deals mostly with rules determining the nature of the verbal root, whether it is Parasmaipadi or Atmanepadi or both. A verb expresses action. The word dhatu is a word coined by older grammarians than Panini and they employed the term in denoting a word expressing action. Here also, therefore, the word dhatu means a word which expresses action.

The वा in the sutra is for the sake of auspiciousness; for the regular sandhi of भू + आदि is भ्वादि and not भूवादि; while Dr. Ballantyne considers that वा is a separate root : he translates the sutra thus:- “Let the verbal roots bhu ‘be,’ va ‘blow’ and the like be called dhatu.”

Bhashya

भूवादयो धातवः कुतोऽयं वकारः ? यदि तावत्संहितया निर्देशः क्रियते भ्वादय इति भवितव्यम् । अथाऽसंहितया भू-आदय इति भवितव्यम् । अत उत्तरं पठति - भूवादीनां वकारोयं मङ्गलार्थः प्रयुज्यते । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते ? मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाऽध्येतारश्च मङ्गलयुक्ता यथा स्युरिति । अथाऽऽदिग्रहणं किमर्थम् ? यदि तावत्पठ्यन्ते नार्थ आदिग्रहणेन । अन्यत्रापि ह्ययं पठन्नादिग्रहणं न करोति । क्वान्यत्र ? मृडमृदगुधकुषक्लिशवदवसः क्त्वा (1.2.7) इति । अथ न पठ्यन्ते नतरामर्थ आदिग्रहणेन । नह्यपठिताः शक्या आदिग्रहणेन विशेषयितुम् । एवं तर्हि सिद्धे सति यदादिग्रहणं करोति, तज्ज्ञापयत्याचार्योऽस्ति च पाठो बाह्यश्च सूत्राद्इति । किमेतस्य ज्ञापने प्रयोजनम् ? पाठेन धातुसंज्ञेत्येतदुपपन्नं भवति । पाठेन धातुसंज्ञायां समानशब्दप्रतिषेधः ॥ 1 ॥ पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्याबन्तः । वा इति धातुः, वा इति निपातः । नु इति धातुः, नु इति प्रत्ययश्च निपातश्च । दिविति धातुः, दिविति प्रातिपदिकम् । किं च स्याद्यद्येतेषामपि धातुसंज्ञा स्यात् ? धातोः (3.1.91) इति तव्यदादीनामुत्पत्तिः प्रसज्येत। । नैष दोषः । साधने तव्यदादयो विधीयन्ते साधनं च क्रियायाः । क्रियाऽभावात्साधनाऽभावः । साधनाभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न भविष्यन्ति । इदं तर्हि - याः पश्य आतो धातोः (6.4.140) इति लोपः प्रसज्येत । नैष दोषः । अनापः इत्येवं सः । अस्य तर्हि वाशब्दस्य निपातस्याऽधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् । नैष दोषः । निपातस्याऽनर्थकस्य प्रातिपदिकत्वं चोदितं तत्रानर्थकग्रहणं न करिष्यते, निपातः प्रातिपदिकमित्येव । इह तर्हि - त्रस्नू इति - अचिश्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्युवङादेशः प्रसज्येत । नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति न प्रत्ययस्योवङादेशो भवतीति, यदयं तत्र श्नु ग्रहणं करोति । अस्य तर्हि दिव्शब्दस्याऽधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् । नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयत्युत्पद्यन्ते दिव्शब्दात्स्वादय इति, यदयं दिवः सावौत्त्वं शास्ति ॥ नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् । किम् ? दिव्शब्दो यः प्रातिपदिकं तदर्थमेतत्स्यात् - अक्षद्यूरिति । न वै अत्रेष्यते । अनिष्टं च प्राप्नोतीष्टं च न सिध्यति । एवं तर्हि - अननुबन्धकग्रहणे न सानुबन्धकस्येत्येवमेतस्य न भविष्यति । एवमप्यननुबन्धको दिव्शब्दो नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते । परिमाणग्रहणं च ॥ 2 ॥ परिमाणग्रहणं च कर्तव्यम् । इयानवधिर्धातुसंज्ञो भवतीति वक्तव्यम् । कुतो ह्येतद् भूशब्दो धातुसंज्ञो भविष्यति न पुर्नभ्वेधशब्दः - इति ? यदि पुनः - क्रियावचनो धातुरित्येतल्लक्षणं क्रियेत ? का पुनः क्रिया ? इर्हा । का पुनरीहा ? चेष्टा । का पुनश्चेष्टा ? व्यापारः । सर्वथा भवाञ्ञ्छब्देनैव शब्दानाचष्टे - न किंचिदर्थजातं निदर्शयत्येवंजातीयिका क्रियेति । क्रिया नामेयमत्यन्ताऽपरिदृष्टा । अशक्या क्रिया पिण्डीभूता निदर्शयितुं, यथा गर्भो निर्लुठितः । साऽसावनुमानगम्या । कोऽसावनुमानः ? इह सर्वेषु साधनेषु संनिहितेषु कदाचित्पचतीत्येतद्भवति, कदाचिन्न भवति । यस्मिन्साधने संनिहिते पचतीत्येतद्भवति सा नूनं क्रिया । अथवा यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया । कथं पुनर्ज्ञायते क्रियावचनाः पचादय इति । यदेतेषां करोतिना सामानाधिकरण्यम् । किं करोति ? पचति । किं करिष्यति ? पक्ष्यति । किमकार्षीत् ? आपाक्षीदिति । तत्र - क्रियावचन उपसर्गप्रत्ययप्रतिषेधः ॥ 3 ॥ क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधो वक्तव्यः । पचति प्रपचति । किं पुनः कारणं प्राप्नोति ? संघातेनाऽर्थगतेः ॥ 4 ॥ संघातेन ह्यर्थो गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च । अस्ति भवतिविद्यतीनां च धातुत्वम् ॥ 5 ॥ अस्तिभवतिविद्यतीनां च धातुसंज्ञा वक्तव्या । यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं, न तथाऽस्त्यादीनां निर्दश्यते । नहि भवति - किं करोति ? अस्तीति । प्रत्ययार्थस्याऽव्यतिरेकात्प्रकृत्यन्तरेषु । प्रत्ययार्थस्याऽव्यतिरेकात्प्रकृत्यन्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पचति पठति । प्रकृत्यर्थोऽन्यश्चान्यश्च प्रत्ययार्थः स एव । धातोश्चाऽर्थाभेदात्प्रत्ययान्तरेषु । धातोश्चाऽर्थाभेदात्प्रत्ययान्तरेषु मन्यामहे - धातुरेव क्रियामाहेति । पक्तिः पचनं पाक इति । प्रत्ययार्थोऽन्यश्चान्यश्च भवति। प्रकृत्यर्थः स एव ॥ कथं पुनर्ज्ञायते - अयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति ? सिद्धन्त्वन्वयव्यतरेकाभ्याम् ॥ 6 ॥ (सिद्धमेतत् । कथम् ?) अन्वयाच्च व्यतिरेकाच्च । कोऽसावन्वयो व्यतिरेको वा ? इह पचतीत्युक्ते कश्चिच्छब्दः श्रूयते पच्छब्दश्चकारान्तः, अतिशब्दश्च प्रत्ययः । अर्थोऽपि कश्चिद् गम्यते - विक्लित्तिः, कर्तृत्वमेकत्वं च । पठतीत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते, अतिशब्दोऽन्वयी । अर्थोपि कश्चिद्वीयते, कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्तृत्वं चैकत्वं चान्वयी । ते मन्यामहे - यः शब्दो हीयते तस्यासावर्थः योर्थो हीयते, यः शब्द उपजायते तस्यासावर्थः योर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थः योऽर्थोन्वयी । विषम उपन्यासः । बहवो हि शब्दा एकार्था भवन्ति । तद्यथा - इन्द्रः शक्रः पुरुहूतः पुरन्दरः । कन्दुः कोष्ठः कुसूल इति । एकश्च शब्दो बह्वर्थः । तद्यथा - अक्षाः पादा माषा इति । अतः किं ॥ न साधीयोऽर्थवत्ता सिद्धा भवति ? नापि ब्रूमोऽर्थवत्ता न सिध्यतीति । वर्णिता ह्यर्थवत्ताऽन्वयव्यतिरेकाभ्यामेव । तत्र कुत एतदयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति, न पुनः प्रकृतरेवोभावर्थौ ब्रूयात्प्रत्यय एव वा ? सामान्यशब्दा एत एवं स्युः । सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषणं वा विशेषेष्ववतिष्ठन्ते । यतस्तु खलु नियोगतः पचतीत्युक्ते स्वभावतः कस्मिंश्चिद्विशेषे पच्शब्दो वर्ततेऽतो मन्यामहे - नेमे सामान्यशब्दा इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्त्तते, प्रत्ययः प्रत्ययार्थे । क्रियाविशेषक उपसर्गः ॥ 7 ॥ पचतीति क्रिया गम्यते, तां प्रो विशिनष्टि । यद्यपि तावदत्रैतच्छक्यते वक्तुं - यत्र धातुरुपसर्गं व्यभिचरति । यत्र न खलु तं व्यभिचरति, तत्र कथम् - अध्येति अधीते इति ? यद्यप्यत्र धातुरुपसर्गं न व्यभिचरति, उपसर्गस्तु धातुं व्यभिचरति । ते मन्यामहे - य एवास्याऽधेरन्यत्राऽर्थः स इहापीति । कः पुनरन्यत्राऽधेरर्थः ? अधिरुपरिभावे वर्तते । इह तर्हि व्यक्तमर्थान्तरं गम्यते - तिष्ठति प्रतिष्ठते इति । तिष्ठतीति व्रजिक्रियायाः निवृत्तिः। प्रतिष्ठत इति व्रजिक्रिया गम्यते । ते मन्यामहे - उपसर्गकृतमेतद्येनाऽत्र व्रजिक्रिया गम्यत इति । प्रोऽयं दृष्टापचार आदिकर्मणि वर्तते । न चेदं नास्ति - बह्वर्था अपि धातवो भवन्तीति । तद्यथा - वपिः प्रकिरणे दृष्टश्छेदने चापि वर्त्तते - केशश्मश्रु वपतीति । इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्टः प्रेरणे चापि वर्तते - अग्निर्वा इतो वृष्टिमीट्टे, मरुतोऽमुतश्च्यावयन्तीति । करोतिरभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते - पृष्ठं कुरु पादौ कुरु । उन्मृदानेति गम्यते । निक्षेपणे चापि वर्तते - कटे कुरु घटे कुरु अश्मानमितः कुरु । स्थापयेति गम्यते । एवमिहापि तिष्ठतिरेव व्रजिक्रियामाह तिष्ठतिरेव व्रजिक्रियायाः निवृत्तिम् । अयं तर्हि दोषः - अस्तिभवतिविद्यतीनां धातुत्वमिति ? यदि पुनः- भाववचनो धातुः इत्येतल्लक्षणं क्रियेत । कथं पुनर्ज्ञायते - भाववचनाः पचादय इति ? यदेषां भवतिना सामानाधिकरण्यम् - भवति पचति, भवति पक्ष्यति, भवति अपाक्षीदिति । कः पुनर्भावः ? भवतेः स्वपदार्थो भवनं भाव इति । यदि भवतेः स्वपदार्थो भवनं भावः। विप्रतिषिद्धानां धातुसंज्ञा न प्राप्नोति - भेदः छेदः । अन्यो हि भावोऽन्योऽभावः । आतश्चान्यो भावोऽन्योऽभाव इति, यो हि यस्य भावमिच्छति स न तस्याऽभावम्। यस्य चाऽभावं न तस्य भावम् । पचादीनां च धातुसंज्ञा न प्राप्नोति । यथा हि भवता क्रियावचने धातौ करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं, न तथा भाववचने धातौ निर्दश्यते । करोतिः पचादीनां सर्वान्कालान्सर्वान्पुरुषान्सर्वाणि वचनान्यनुवर्त्तते, भवतिः पुनर्वर्तमानकालं चैकत्वं च । का तर्हीयं वाचोयुक्तिः - भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति ? एषैषा वाचोयुक्तिः - पचादयः क्रिया भवति क्रियायाः र्कत्र्यो भवन्ति ॥ यद्यपि तावदत्रैतच्छक्यते वक्तुं - यत्रान्या चान्या च क्रिया, यत्र खलु सैव क्रिया तत्र कथं - भवेदपि भवेत् स्यादपि स्यादिति । अत्राप्यन्यत्वमस्ति । कुतः ? कालभेदात्साधनभेदाच्च । एकस्यात्र भवतेर्भवतिः साधनं सर्वकालश्च प्रत्ययः । अपरस्य बाह्यं साधनं वर्त्तमानकालश्च प्रत्ययः । यावताऽत्राप्यन्यत्वमस्ति, पचादयश्च क्रिया भवति क्रियायाः र्कत्र्यो भवन्तीति ॥ अस्त्वयं कर्तृसाधनः - भवतीति भाव इति । किं कृतं भवति ? विप्रतिषिद्धानां धातुसंज्ञा सिद्धा भवति । भवेद्विप्रतिषिद्धानां धातुसंज्ञा सिद्धा स्यात्, प्रातिपदिकानामपि तु प्राप्नोति वृक्षः प्लक्ष इति । किं कारणम् ? एतान्यपि हि भवन्ति । एवं तर्हि कर्मसाधनो भविष्यति - भाव्यते यः स भाव इति । क्रिया चैव हि भाव्यते स्वभावसिद्धं तु द्रव्यम् । एवमपि भवेत्केषांचिन्न स्यात् - यानि न भाव्यन्ते, ये त्वेते संबन्धिशब्दास्तेषां प्राप्नोति - माता पिता भ्रातेति । सर्वथा वयं प्रातिपदिकपर्युदासान्न मुच्यामहे । पठिष्यति ह्याचार्यः - भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः- इति । यावता पठिष्यति - पचादयश्च क्रियाः भवति क्रियायाः र्कत्र्यो भवन्तीति, अस्त्वयं कर्तृसाधनो, भवतीति भाव इति ॥ किं वक्तव्यमेतत् ? नहि ॥ कथमनुच्यमानं गंस्यते ? ॥ एतेनैवाभिहितं सूत्रेण भूवादयो धातवः इति । कथम् ? नेदमादिग्रहणम् । वदेरयमौणादिक इञ्ञ्कर्तृसाधनः - भुवं वदन्तीति भूवादय इति ॥ भाववचने (धातौ) तदर्थप्रत्ययप्रतिषेधः ॥ 8 ॥ भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधो वक्तव्यः । शिश्ये इति । किं च स्यात् ? अशितीत्यात्वं प्रसज्येत । तद्धि धातोर्विहितम् । इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः ॥ 9 ॥ इतरेतराश्रयं च भवति । का इतरेतराश्रयता ? प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः। उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते, स च तावद्भाववचनादुत्पाद्यः । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ॥ सिद्धं तु नित्यशब्दत्वादनाश्रित्य भाववचनत्वं प्रत्ययः ॥ 10 ॥ सिद्धमेतत् । कथम् ? (नित्यशब्दत्वात्) नित्याः शब्दाः । नित्येषु च शब्देनाश्रित्य भाववचनत्वं प्रत्यय उत्पद्यते । प्रथमभावग्रहणं च ॥ 11 ॥ प्रथमभावग्रहणं च कर्तव्यम् । प्रथमं यो भावमाहेति । कुतः पुनः प्राथम्यम्, किं शब्दत आहोस्विदर्थतः ? किं चातः ?। यदि शब्दतः, सनादीनां धातुसंज्ञा न प्राप्नोति - पुत्रीयति वस्त्रीयतीति । अथाऽर्थतः, सिद्धा सनादीनां धातुसंज्ञा, स एव तु दोषो भाववचने तदर्थप्रत्ययप्रतिषेध इति ॥ एवं तर्हि नापि शब्दतो नाप्यर्थतः । किं तर्हि ? अभिधानतः । सुमध्यमेऽभिधाने यः प्रथमं भावमाह ॥ इह ये एव भाववचने धातौ दोषास्ते क्रियावचनेऽपि । तत्र त एव परिहाराः । तत्रेदमपरिहृतम् - अस्तिभवतिविद्यतीनां धातुत्वमिति । तस्य परिहारः । कां पुनः क्रियां भवान्मत्वाह - अस्तिभवतिविद्यतीनां धातुसंज्ञा न प्राप्नोतीति । किं यत्तदेवदत्तः कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति ?। न ब्रूमः कारकाणि क्रियेति । किं तर्हि ? कारकाणां प्रवृत्तिविशेषः क्रिया । अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते, अन्यथा च मांसौदने । यद्येवं सिद्धाऽस्तिभवतिविद्यतीनां धातुसंज्ञा । अन्यथा हि कारकाण्यस्तौ प्रवर्तन्तेऽन्यथा हि म्रियतौ । षड्भावविकारा इति ह स्माह वार्ष्यायणिः । जायतेऽस्ति विपरिणमते वर्द्धतेऽपक्षीयते विनश्यतीति । सर्वथास्थितःइत्यत्र धातुसंज्ञा न प्राप्नोति । बाह्यो ह्येतेभ्यस्तिष्ठतिः । एवं तर्हि क्रियायाः क्रिया निवर्त्तिका भवति, द्रव्यं द्रव्यस्य निवर्तकम् । एवं हि कश्चित्कंचित्पृच्छति - किमवस्थो देवदत्तस्य व्याधिरिति ? स आह - वर्द्धते इति । अपर आह - अपक्षीयते इति । अपर आह - स्थित इति । स्थित इत्युक्ते वर्द्धतेश्चाऽपक्षीयतेश्च निवृत्तिर्भवति । अथ वा नान्तरेण क्रियां भूतभविष्यद्वर्त्तमानाः काला व्यज्यन्ते । अस्त्यादिभिरपि भूतभविष्यद्वर्तमानकालाः व्यज्यन्ते । अथ वा नाऽन्यत्पृष्टे नाऽन्यदाख्येयम् । तेन न भविष्यति - किं करोति - अस्तीति । अथ यद्येवक्रियावचनो धातुरित्येष पक्षोऽथापि भाववचनो धातुरिति। किं गतमेतदियता सूत्रेण, आहोस्वदन्यतरस्मिन्पक्षे यः सूत्रं कर्तव्यम् ? ॥ गतमित्याह । कथम् ?। अयमादिशब्दोऽस्त्येव व्यवस्थायां वर्तते, तद्यथा - देवदत्तादीन्समुपविष्टानाह देवदत्तादय आनीयन्तामिति । ते उत्थाप्याऽऽनीयन्ते । अस्ति प्रकारे वर्तते, तद्यथा - देववत्तादय आढ्या अभिरूपा दर्शनीयाः पक्षवन्तः । देवदत्तप्रकारा इति गम्यते । प्रत्येकं चाऽऽदिशब्दः परिसमाप्यते - भ्वादय इति च वादय इति च । तद्यदा तावत् क्रियावचनो धातुरित्येष पक्षस्तदा भू इत्यत्र य आदिशब्दः स व्यवस्थायां वर्तते, वा इत्यत्र य आदिशब्दः स प्रकारे, भूःइत्येवमादयो वा इत्येवं प्रकारा इति । यदा तु भाववचनो धातुरित्येष पक्षस्तदा वाःइत्यत्र य आदिशब्दः स व्यवस्थायाम्, भू इत्यत्र य आदिशब्दः स प्रकारे, वाःइत्येवमादयो भू इत्येवं प्रकारा इति ॥ यदि तर्हि लक्षणं क्रियते, नेदानीं पाठः कर्तव्यः । कर्तव्यश्च । किं प्रयोजनम् ?। भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः ॥ 12 ॥ भूवादिपाठः कर्तव्यः । किं प्रयोजनम् ? प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थ, आणवयत्यादिनिवृत्त्यर्थश्च । के पुनराणवयत्यादयः ? आणवयति वट्टति वड्ढयतीति । स्वरानुबन्धज्ञापनाय च ॥ 13 ॥ स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः । स्वराननुबन्धांश्च ज्ञास्यामीति । नह्यन्तरेण पाठं स्वरा अनुबन्धा वा शक्या विज्ञातुम् । ये त्वेते न्याय्यविकरणा उदात्ता अननुबन्धकाः पठ्यन्ते तेषां पाठः शक्योऽकर्तुम् ॥ एतेषामप्यवश्यमाणवयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः । न कर्तव्यः । शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिः शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिर्भविष्यति । स चावश्यं शिष्ट प्रयोग उपास्यः। येऽपि पठ्यन्ते तेषामपि विपर्यासनिवृत्त्यर्थः । लोके हि कृष्यर्थे कसिं प्रयुञ्ञ्जते, दृश्यर्थे च दिसिम् ॥ भूवादय धातवः ॥ 1 ॥

Kashika

भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञका भवन्ति। भू — भवति। एध — एधते। स्पर्ध — स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते।

भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते।

भुवो वार्थं वदन्तीति भ्वर्था वा वादयः स्मृताः॥

धातुप्रदेशाः — धातोः (३.१.९१) इत्येवमादयः॥

Siddhanta Kaumudi

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

Laghu Shabdendushekhar

भूवादयो धातवःक्रियावाचिनः किम् ? विकल्पार्थकवाशब्दस्य निपातस्य धातुत्वेऽप्रातिपदिकत्वात्सुबभावे पदत्वानापत्तेः तदुक्तौ तु न दोषः। वार्थस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात् । अस्त्याद्यर्थस्यापि तत्त्वं भूतभविष्यत्कालसम्बन्धात् । भ्वादयः किम् ? ‘आणवयति’ ‘वट्टयती’त्यादीनां धातुत्वे शास्त्रविषयतया साधुत्वापत्तेः । सूत्रशेषे भाष्ये स्फुटमेतत् । स्तम्भ्वादीनामुदित्त्वेन धात्वधिकारविहितकार्योद्देश्यत्वादिना स्थितपाठभ्रंशानुमानान्न तेषु दोषः ।

Balamanorama

भूवादयो धातवः - भूवादयो धातवः । भूश्च वाश्च भूवौ । आदिश्च आदिश्च आदी । प्रथम आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः । वाधातुसादृश्यं च क्रियावाचकत्वेन । तदाह — क्रियावाचिन #इत्यादिना । क्रियावाचिनः किम् । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि ‘आतो धातोः’ इत्याल्लोपः स्यात् । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः । ‘क्रियावाचिन’ इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात् । ‘वां गतिगन्धनयोः’ ‘या प्रापणे’ इत्यर्थनिर्देशस्याधुनिकत्वात् । ‘क्रियावाचिन’ इत्युक्तौ तु न दोषः । वार्थस्य विकल्पस्य, ‘वा भविष्यति’ इतिवा अभव॑दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम् । भ्यादयः किम् । वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत् ।

Tattvabodhini

भूवादयो धातवः - भूवादय इति । भूश्च वाश्च भूवाविति द्वन्द्वः , आदिशब्दयोव्र्यवस्थाप्रकारवाचिनोरेकशेषः । आदिश्च आदिश्च आदी, भूवौ आदी येषामिति विग्रहः । भूप्रभृतयो वासदृशाः । सादृश्यं च क्रियावाचित्वेनेत्यभिप्रेत्याह-क्रियावाचिन इति । क्रियावाचिन इति किम् ,॒याः पश्यसी॑त्यादौ धातुत्वं मा भूत् । सति हि तस्मिन्अतो धातो॑रित्याकारलोपः स्यादिति स्थितं मनोरमायाम् । भ्वादयः किम् ॑हिरुक्पृथग् इत्याद्यव्ययानांशिश्ये॑ इति भावार्थतिङन्तस्य च मा भूत् । स्तन्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते । चुलुम्पादीनांबहुलमेतन्निदर्शन॑मिति गणसूत्रेण सङ्ग्रहः ।

Padamanjari

‘भू’ इत्येवमादयः शब्दा इत्यनेन पाठनिबन्धनेयं संज्ञेति दर्शयति। यदि त्वनाद्दत्य, पाठाम्, क्रियावचनो धातुरित्युच्येत, तत आणवेदुइत्यादिष्वपि स्यात्। कथं पुनरपभ्रंशानामनुशासनमाशङ्क्यते? कुतो तु खल्वेतद् आणवेद्वित्यादयोऽपभ्रंशा इति, यावता ये शास्त्रेणानुगम्यन्ते ते साधवः? अवश्यं चातुबन्धादिविशिष्ट्ंअ रूपं पाठेनैव दर्शनीयम्, न हि तद्रूपं प्रयोगे सम्भवति। अतोऽन्यार्थः सन् गणपाठ एवाश्रितो भवतीति धातुत्वे सति लड् भवति। एधते, स्पर्द्धते इत्यनुदातेतौ। यदि पाठमात्रनिबन्धनेयं संज्ञा, या-वा-दिव्-शब्दानां सर्वनामविकल्पस्वर्गवाचिनां समानशब्दानामपि प्रसङ्गः? न च प्रापणादि रर्थो नियामकः, अनार्षत्वाद्, अभियुक्तैरुतरकालनिर्दिष्टत्वाद्, अनेकार्थत्वाभ्युपगमाच्च, सत्यम्; संज्ञायां को दोषः? न तावद्धातुप्रत्ययानां लडादीनां प्रसङ्गः; कर्त्रादीनामभावात्, इच्यते, याः पश्येति ठातो धातोःऽ इति लोपः स्यात्। ननु अधातुः इति निषेधाद् अप्रातिपादिकत्वाद्विभक्तिरेव न स्यात्, नौतदस्ति;विभक्तावुत्पन्नायां त्यदाद्यत्वे टापि च यारूपत्वे सति धातुत्वम्, सुबुत्पत्तिदशायां तु यदित्यस्य नास्ति धातुत्वम; वाशब्दातु सुबेव न स्यात्; एवं दिव्शब्दादपि। न च’दिव औत्; इत्येतद्धातुत्वाभावे लिङ्गम्; क्किबन्तस्य दीव्यतिः सुपि सम्भवात्। सानुबन्धकत्वे’ पि तस्यैव ग्रहणं स्याद्, अतः समानशब्दानां प्रतिषेधो वक्तव्य इत्यत आह-धातुशब्द इत्यादि। क्कचितु’भू’ इत्येवमादयः शब्दा इत्यस्यानन्तरं क्रियावाचिन इति पठ।ल्ते, तस्मिन् पक्षे यास्य ग्रन्थस्य शङ्का सा तस्य द्रष्टव्या। अस्य तु कथं पुनः सूत्रेऽनुपातः क्रियावचन इत्ययं विशेषो लभ्यते? अत आह-धातुशब्दः पूर्वाचार्यसंज्ञेति। ततः किमित्याह- ते चेति। ततोऽपि किमित्याह-तदिहापीति। महत्याः पूर्वाचार्यसंज्ञाया आश्रयणं तदीयोपाधिपरि-ग्रहार्थमेवेति भावः॥ यावित्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥ सिद्धं वा भवत्वसिद्धं वा, शब्देन तु यद्वस्तु साध्यत्वेनाभिधीयते सा क्रिया साध्यत्वे चाश्रितक्रमरूपत्वात् पूर्वापरीभूतावयवत्वं विततरूपत्वं यतद्रूपमभिधीयते तस्यैकस्मिन् क्षणेऽनवस्थानम्, यदाह-क्रिया नामेयमत्यन्तापरिहष्टऽशक्या च सा पिण्डीभूता निदर्शयितुम् इति। एकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपा धातुवाच्या क्रिया न प्रत्यक्षेत्यर्थः। क्रमवन्त एव क्षणा एकफलो द्देशेन संपाद्यामानत्वात् ऐक्यमिवापन्ना धातुवाच्याः तद्यथा-पचतीत्यधिश्रयणादयोऽधः श्रयणान्ताः क्लेदनफलावच्छिन्नाः। एवमपचदित्यत्रापि क्रिया साध्यैव। ताहशस्यैव हि रूपस्य तत्रात्ययः प्रतीयते यत्पूर्वापरीभूतं क्रियते। घट इत्यत्र तु घटशब्देन चक्रोदरगतोऽपि घटः सिद्धरूप उच्यते,एकस्मिन्नेव क्षणे यद्दर्शनयोग्यं रूपं तेन रूपेणेत्यर्थः। तदेवं क्रियावचनो धातुरित्याश्रयणादतिप्रसङ्गो नास्तीति स्थितम्। इह भूरादिर्यषामिति बहुव्रीहौ यणादेशे कृते’भूवादयः’ इत्यनुपपन्नो निर्देश इत्यत आह-भूवादीनां वकारोऽयं मङ्गलार्थ इति। अभिधानधर्मस्याप्यभिधेये उपचारः, यथा-भ्रमरे द्विरेफ इति। भूवादीनां संज्ञीनां सम्बन्धी यो वकारः, तदभिधायिनि भूवादिशब्दे स्थितोऽयं प्रयुज्यते, लक्षणेनाप्रप्तो निपात्यत इत्यर्थः। स च मङ्गलार्थः । अपूर्वस्य लाभो मङ्गलम्, साधुशब्दप्रयोगेऽपि धर्मो भवति, भूवादिशब्दश्च साधुः। किं च वकारे सत्यविकृतो भूशब्दो व्यहृत्यादि स्मारयतीत्यपि धर्मो भवतीति। प्रकारान्तरमाह-भुवो वार्थं वदन्तीति। भुवो धातोरर्थं वदन्तीति वा, भूवादय इति निर्देश इत्यर्थः। अर्थकथनं चैतद् । व्युत्पत्तिस्तु भवनं भूः, क्रियासामान्यभुवं वदन्तीत्यौणादिकोऽयम्,’वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्’ इति कर्तरि वदेः इञ् प्रत्ययः। यदि क्रियासामान्यं ये वदन्ति ते संज्ञिनः, अस्तिभवतिविद्यतीनामेव स्याद्, न प चत्यादीनां विशेषवाचिनाम्? विशेपक्षे गणपाठसामर्थ्यात् सोऽप्यङ्गीक्रियते, अन्यथा शब्विकरणा ये सेटो निरनुबन्धका अन्तर्गणकार्यवर्जिता भूप्रभृतयस्तेषां पाठोऽनर्थकः स्याद्। बहुवीहेस्तु भूत्वादिशब्दस्य पृषोदरादित्वात्साधुत्वम्। तृतीयं प्रकारमाह-भ्वर्था वा वादयः स्मृता इति। भवनं भूः सोऽर्थो येषां ते भ्वर्थाः, एवम्भूता वादयो वात्र संज्ञिनः स्मृता इत्यर्थः। किमिदं वादय इति ?’वा गतिगन्धनयोः,’ वा आदिर्येषां ते वादयः वा गति इत्यारभ्या चुरादिसमाप्तेः। तथा च भ्वादयो वादयः भूप्रभृतय आ’वा गतिगन्धनयोः’ इत्यस्माद्। वादयश्च वादयश्च बहुव्रीहितत्पुरुषयोः सहविवक्षायां स्वरभिन्नानां यस्योतरः स्वरविधिरिति बहुव्रीहेः शेषः। ततो भुवो वादय इति वाच्यवाचकसम्बन्धे शेषषष्ठीसमासः। अस्मिन्पक्षे पाठविशेषोऽर्थश्चेत्युभयं सूत्राक्षरैरेवोपातं भवति॥

Nyaas

भूरादिर्येषां ते भूवादयः। भूवादयो दशगणीपरिपठिता गृह्यन्ते। भवति इत्यादि। अत्र धातुसंज्ञायां सत्याम् धातोः (3.1.91) इत्यनुवर्तमाने वर्तमाने लट् (3.2.123) इति लट्प्रत्ययः। भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्ति इत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति। तेन अणपयति, कड्ड्पयति इत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति। यद्यवम्, या-वा- दिव-इत्येवमादीनां सर्वनाम - विकल्प-स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचनानामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - धातुशब्दः इत्यादि। लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कर्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यैतत्प्रयोजनम् - यथाविधानां ते धातुसंज्ञां कृतवन्तः, तथाविधानमेवैषा संज्ञा यथा स्यादिति। ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते। तेन या-वा-दिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः।ननु च भूरादिर्येषामिति बहुव्रीहौ कृते, आदिशब्दे परतो यदि संहितया निर्देशः, तदा इको यणचि (6.1.77) इति यणादेशे कृते भ्वादयः इति भवितव्यम्, अथासंहितया निर्देशस्तदा भू आदय इति, तत्कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह - भवादीनाम् इत्यादि। भूवादीनां संज्ञिनां निर्देशेऽयं वकारो मङ्गलार्थः प्रयुज्यते। मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः। स मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत्। यथा वेदे त्रियम्बकं यजामहे इत्यत्र यकारस्य दृष्टप्रयोजनं नास्त्रीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य, तथेहापि वकास्य। अथ वा - अपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतम्, यथा प्रातर्दध्यादीनाम्; तथेहापि वकारस्यापूर्वस्यलाभो मङ्गलं प्रशस्तम्। प्रशस्तार्थो मङ्गलशब्दः। तथा चोक्तम्- मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च (म।भा। 1.1.1) इति। इह चादौ वृद्धिशब्दो मङ्गलम्, मध्ये चायं वकारः, अन्ते च स्वरिदतोयम् (8.4.66) इत्युदयशब्दः।भुवो वार्थम् इत्यादि। अथ वा - भूवादय इत्यत्र निर्देशे नायमादिशब्द्स प्रयोगः, नापि मङ्गलार्थस्य वकारस्य किं तर्हि? वादिशब्दस्यौणादिकस्य। वदन्तीति वादयः,वाचका इत्यर्थः। वदेर्थातोः वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ् (द।उ। 1।53) इति कर्तरीञ्प्रत्ययः। यद्यपि वादीति सूत्रण्यन्तस्योपदानाम्, तथापि बहुलवचनादण्यन्तादपि भवति।भ्वर्थाः इति। तेषां वदीनामिदं विशेषणम्,भवनं भूः, सम्पदादित्वाद्भावे क्विप्। भवतेरर्थः क्रियासामान्यम्। भूरर्थो येषां ते भ्वर्थाः।कस्मात् पुनस्ते भ्वर्थाः? भुवो वार्थं वदन्ति इति। इतिकरणो हेतौ - यस्माद्भृवो धातोरर्थ वदन्त्यभिदधति तस्मात् ते भ्वर्थाः। एवं विधा वादयो वाचकाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तं इतीह सूत्रे संज्ञिनः स्मृताः =अभिमताः, अभिप्रेता इत्यर्थः। तदेवं क्रियावचनाः शब्दा भूवादयो धातुंसज्ञा भवन्तीत्युक्तं भवति।तेन याव-वा- दिव प्रभृतीनां धातुसमानशब्दानां क्रियावचनानां धातुसंज्ञा न भवति। गणपाठसामर्थ्यात् पाठोऽप्यङ्गीक्रियते। तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतकीत्युक्तंभवति। अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः - भुवोवादयो भूवादय इति।अथ वा - आदिशब्दस्यैवात्र वा गतिगन्धनयोः`(धातुपाठः-1050)इत्यस्मात् परस्य प्रयोगः। वा आदिः येषां ते वादयः। आदिशब्दः प्रकारवाची, वाप्रकारा इत्यर्थः। प्रकारस्तु सादृश्यम्, तत्पुनः क्रियात्मकतया, यदाह - `भ्वर्थाः इति। भ्वर्थता तु भुवोऽर्थ वदतीति हेतोः। एवं विधा वाप्रकारकाः शब्दा इह सूत्रे संज्ञिनः स्मृता।तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीत्युक्तम्। तेन धातुसमानशब्दानां या-वा-दिव-प्रभुतीनां धातुसंज्ञा न भवति। न हि ते क्रियावचनाः; निष्पन्नवस्त्वभिधायित्वात्। साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्नवस्तुस्वभावा। गणपाठस्तु पूर्ववदेवाङ्गीक्रियते। तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति। अस्मिन्नपि व्याख्यानं भूवादयः इति षष्ठीसमासोऽयम्। षष्ठी च वाच्यवाचकसम्नब्धलक्षणा वेदितव्या॥

Praudhamanorama

भूवादयो धातवः॥ भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्था-प्रकारवाचिनोरेकशेषः। भूवौ आदी येषामिति बहुव्रीहिः। भूप्रभृतयो वासदृशाः। सादृश्यं च क्रियावाचकेनेत्यभिप्रेत्य आह— क्रियावाचिन इति। क्रियावाचिनः किम्? ‘याः पश्यसि’ इत्यादौ धातुत्वं मा भूत्। सति हि तस्मिन् आतो धातोः (6.4.140) इति स्यात्। भ्वादयः किम्? हिरुक्, पृथगित्यादीनां, शिश्ये इति भावार्थतिङन्तस्य च मा भूत्। स्तम्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते। चुलुम्पादीनां तु ‘बहुलमेतन्निदर्शनम्’ इति गणसूत्रेण संग्रहः॥

Sarala

भूवादय इत्यत्र - भूश्च वाश्च भूवौ, आदिश्च आदिश्च - आदी, भूवादी येषां ते भूवादय इति विग्रहः ॥

Sutra Prayogas

  • धातवः (शिशुपालवधम्): भूवादयो धातवः इत्युक्तलक्षणाः शब्दविशेषाः।

  • अवयमानं (भट्टिकाव्यम्): स्पर्द्धायामाङः इत्यात्मनेपदम्।