11072: येन विधिस्तदन्तस्य¶
Padacheda: येन | S | 3 | 1 |
विधिः | S | 1 | 1 |
तदन्तस्य | S | 6 | 1 |
Sutrartha¶
विशेषणेन निर्दिष्टः विधिः तम् विशेषणम् स्वीकृत्य अपि भवति, तदन्तम् स्वीकृत्य अपि भवति ।
अष्टाध्याय्याः सूत्रैः उक्तः विधिः कीदृशेभ्यः शब्देभ्यः भवति इत्यस्मिन् विषये कश्चन सामान्यनियमः प्रकृतसूत्रेण उच्यते । यदि सूत्रे स्थानिनः निर्देशार्थम् किञ्चन विशेषणम् निर्दिष्टम् अस्ति, तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यम् एव प्रयुज्यते,परन्तु तद् विशेषणम् यस्य अन्ते विद्यते तादृशस्य शब्दस्य विषये अपि प्रयुज्यते — इति प्रकृतसूत्रस्य अर्थः । अस्यैव निर्देशः व्याकरणग्रन्थेषु <hlb>तदन्तविधिः</hlb> इति नाम्ना क्रियते । कानिचन उदाहरणानि एतादृशानि — <listsp> 1. अतो दीर्घो यञि (7.3.101) इति सूत्रम् अङ्गाधिकारे विद्यते । अस्मिन् सूत्रे विद्यमानः “अतः” इति षष्ठ्यन्तः शब्दः “अङ्गस्य” इत्यस्य षष्ठ्यन्तपदस्य विशेषणम् अस्ति । अतः अत्र सामान्यरूपेण “अ” इति अङ्गस्य यञ्-वर्णे परे दीर्घः भवति — इति अर्थः जायते । परन्तु अनेन सूत्रेण उक्तः दीर्घः केवलम् “अ” इति एकस्य अङ्गस्य विषये कर्तुम् इदं सूत्रं पाणिनिना नैव निर्मितम्, अपितु येषाम् शब्दानाम् अन्ते “अ”-इति वर्णः विद्यते, तेषाम् सर्वेषाम् कृते अस्य सूत्रस्य प्रयोगः इष्यते । अतः अत्र येन विधिस्तदन्तस्य (1.1.72) इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते । इत्युक्ते, विशेषणेन निर्दिष्टः विधिः तदन्तस्य अपि भवति — इति प्रकृतसूत्रेण उक्तं नियमम् अनुसृत्य अत्र अतो दीर्घो यञि (7.3.101) इति सूत्रस्य सर्वेषाम् ह्रस्व-अकारान्तशब्दानां विषये अपि प्रयोगः क्रियते ।अतएव, “पठामि” इति शब्दस्य सिद्धौ अतो दीर्घो यञि (7.3.101) इति सूत्रेण दीर्घादेशे कृते इष्टरूपं सिद्ध्यति —
पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + लट् [**वर्तमाने लट्** (3.2.123)]
→ पठ् + मिप् [**तिप्तस्झि..** (3.4.78) इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]
→ पठ् + शप् + मि [**कर्तरि शप्** (3.1.68) इति शप्]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [अत्र केवल-अकारस्य अङ्गसंज्ञा न विद्यते, अपितु "पठ् + अ" इत्यस्य सम्पूर्णस्य शब्दस्य अङ्गसंज्ञा वर्तते । अतः अत्र प्रकृतसूत्रेण उक्तं तदन्तविधिम् अवलम्ब्य **अतो दीर्घो यञि** (7.3.101) इत्यनेन **अदन्तस्य अङ्गस्य** दीर्घादेशः सम्भवति । तत्र **अचश्च** (1.2.28) इत्यनेन केवलम् अच्-वर्णस्य ; तत्रापि **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिम-अच्-वर्णस्य दीर्घादेशः जायते ।]
→ पठामि
2.**दिव उत्** (6.1.131) इत्यस्मिन् सूत्रे “दिवः” इति षष्ठ्यन्तः शब्दः “पदस्य” इत्यस्य विशेषणम् अस्ति । अतः अस्य सूत्रस्य — ‘“दिव्”-इति पदस्य उत्-आदेशः भवति’ — इति सीमितः अर्थः सम्भवति । परन्तु अत्रापि सूत्रस्य सम्यक् अर्थविधानार्थम् येन विधिस्तदन्तस्य (1.1.72) इति प्रकृतसूत्रस्य साहाय्यं स्वीक्रियते, येन “दिवः” इति विशेषणस्य सन्दर्भे तदन्तविधेः प्रयोगं कृत्वा — “दिव्”-धातोः, “दिव्”-शब्दान्तस्य च पदसंज्ञायां सत्याम् उत्-आदेशः भवति इति अत्र सूत्रार्थः सिद्ध्यति । अतएव “सुदिव्”-शब्दस्य विषये अपि इदं सूत्रम् उपयुज्य</qt>उत्</qt>-आदेशः क्रियते —
सुदिव् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे सुदिव्-शब्दस्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति पदसंज्ञा विधीयते ।]
→ सुदि उ + भ्याम् [**दिव उत्** (6.1.131) इत्यत्र तदन्तविधिना "दिव्"-शब्दान्तस्य "सुदिव्"-पदस्य विषये अपि "उत्"-आदेशः विधीयते । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अयम् आदेशः अन्तिमवर्णस्य स्थाने भवति, अतः अत्र "सुदिव्"-पदस्य अन्तिम-वकारस्य उकारादेशः विधीयते ।]
→ सुद्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
ह्रस्वस्य पिति कृति तुक् (6.1.71) इत्यस्मिन् सूत्रे विद्यमानः “ह्रस्वस्य” इति शब्दः “धातोः” इत्यस्य विशेषणम् अस्ति । अत्रापि येन विधिस्तदन्तस्य (1.1.72) इति प्रकृतसूत्रेण तदन्तविधेः प्रयोगं कृत्वा **ह्रस्वसंज्ञकस्य धातोः, ह्रस्वान्तधातोः च पित्-कृत्-प्रत्यये परे तुगागमः भवति ** इति अर्थः सिद्ध्यति । अतएव “इ”-धातोः तु तुगागमः भवत्येव, परन्तु “स्तु” इति ह्रस्वान्तधातोः अपि तुगागमः अवश्यं विधीयते —
**ह्रस्वसंज्ञकस्य इ-धातोः तुगागमः —**
इण् (गतौ, अदादिः, (2.40))
→ इ + क्यप् [**एतिस्तुशास्वृदृजुषः क्यप्** (3.1.109) इति क्यप्-प्रत्ययः]
→ इ तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
→ इत्य
<br/>
**ह्रस्वान्तस्य स्तु-धातोः तुगागमः —**
ष्टुञ् (स्तुतौ, अदादिः, (2.38))
→ स्तु [**धात्वादेः षः सः** (6.1.64) । <!निमित्तापाये नैमित्तिकस्याप्यपायः!> इति षत्वनिवृत्तौ ष्टुत्वनिवृत्तिः ]
→ स्तु + क्यप् [**एतिस्तुशास्वृदृजुषः क्यप्** (3.1.109) इति क्यप्-प्रत्ययः]
→ स्तु + तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इत्यत्र तदन्तविधिना ह्रस्वान्तस्य धातोः तुगागमः]
→ स्तुत्य
अनेन प्रकारेण यत्र यत्र विशेषणम् उपयुज्य विधेः निर्देशः कृतः अस्ति, तत्र तत्र प्रकृतसूत्रेण तदन्तविधेः प्रयोगः भवति ।
तदन्तविधेः प्रतिषेधः
प्रकृतसूत्रेण उक्तः तदन्तविधिः द्वयोः स्थलयोः नैव इष्यते । तदर्थम् वार्त्तिककारः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् अस्मिन् सूत्रे पाठयति । समासविधौ, प्रत्ययविधौ च तदन्तविधेः प्रयोगः न करणीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा — <listsp> 1. द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (2.1.24) अनेन सूत्रेण “श्रित/अतीत/पतित/गत” इत्यादिभिः शब्दैः सह सुबन्तस्य द्वितीयातत्पुरुषः समासः विधीयते; यथा — कृष्णं श्रितः = कृष्णश्रितः । अस्मिन् सूत्रे “श्रित/अतीत/पतित/गत” एतानि सर्वाणि “सुपः” इत्यस्य विशेषणानि सन्ति । अत्र यदि तदन्तविधेः प्रयोगः भवेत्, तर्हि “कृष्णं श्रितः” इत्येतत्सदृशं “कृष्णं परमश्रितः” इत्यस्य विषये अपि प्रकृतसूत्रेण अनिष्टः द्वितीयातत्पुरुषसमासः सम्भवेत् । परन्तु समासविधिं दृष्ट्वा अत्र <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकम् उपयुज्यते, येन अस्य सूत्रस्य विषये तदन्तविधिः नैव प्रवर्तते । अतएव “कृष्णं परमश्रितः” इत्यत्र द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (2.1.24) इति सूत्रेण द्वितीयातत्पुरुषसमासः न भवति । 2. नडादिभ्यः फक् (4.1.99) इत्यनेन सूत्रेण नडादिगणस्य शब्देभ्यः “फक्” इति प्रत्ययः विधीयते । अस्मिन् सूत्रे “नडादिभ्यः” इति शब्दः “प्रातिपदिकेभ्यः” इत्यस्य विशेषणम् अस्ति । अत्र यदि प्रकृतसूत्रेण तदन्तविधिः विधीयेत, तर्हि “सूत्रनड” इत्यस्य तदन्तस्य विषये अपि नडादिभ्यः फक् (4.1.99) सूत्रेण अनिष्टः फक्-प्रत्ययः प्राप्नुयात् । परन्तु अत्र वार्त्तिककारेण <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इत्येतं वार्त्तिकं दत्त्वा प्रत्ययविधेः विषये तदन्तस्य प्रतिषेधः उच्यते, अतः फक्-प्रत्ययस्य विधानसमय तदन्तविधिः नैव प्रयुज्यते । अतएव केवलम् “नड”-शब्दात् एव “फक्”-प्रत्ययः भवति, “सूत्रनड”-शब्दात् फक्-प्रत्ययः न विधीयते । </listsp>
तदन्तविधेः प्रतिषेधस्य प्रतिषेधः
केषुचन विशिष्टेषु स्थलेषु समासविधौ उत प्रत्ययविधौ अपि तदन्तविधिः अवश्यम् इष्यते । अतः एतादृशेषु स्थलेषु <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन प्राप्तं तदन्तविधेः प्रतिषेधम् बाधित्त्वा पुनः तदन्तविधेः विधानार्थम् वार्त्तिककारः प्रथमवार्त्तिकस्य निषेधरूपेण द्वितीयम् वार्त्तिकं पाठयति — <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> — इति । यत्र उगित्-ग्रहणम् वर्णग्रहणम् वा क्रियते, तत्र समासविधौ प्रत्ययविधौ च अपि तदन्तग्रहणम् अवश्यमेव भवति **— इति अस्य वार्त्तिकस्य आशयः । यथा — <listsp> 1) **उगितश्च (4.1.6) अनेन सूत्रेण उगित्-शब्दात् स्त्रीत्वं द्योतयितुम् “ङीप्”-प्रत्ययः विधीयते । यथा, “भवतुँ” इत्यस्मात् उगित्-शब्दात् अनेन सूत्रेण “ङीप्”-प्रत्यये कृते “भवती” इति शब्दः सिद्ध्यति । अस्य सूत्रस्य प्रयोगः समासस्य विषये अपि इष्यते, अतः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन प्राप्तस्य तदन्तविधिप्रतिषेधस्य अपि <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> इति द्वितीयवार्त्तिकेन प्रतिषेधः क्रियते, येन उगित्-शब्दानां विषये समासे अपि तदन्तविधेः प्रयोगः अवश्यम् सम्भवति । अतएव “अतिभवत्” इति समस्तपदस्य विषये तदन्तविधिना “ङीप्”-प्रत्ययः एव विधीयते, येन “अतिभवती” इति इष्टशब्दः सिद्ध्यति । 2) एरच् (3.3.56) इत्यस्मिन् सूत्रे विद्यमानः “एः” इति शब्दः “इ” इत्यस्य पञ्चम्येकवचनम् अस्ति । अयं शब्दः अत्र “धातोः” इत्यस्य विशेषणरूपेण निर्दिष्टः अस्ति । अनेन सूत्रेण “अच्”-प्रत्ययस्य विधानम् कृतम् अस्ति, अतः <! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इति वार्त्तिकेन अत्र वस्तुतः तदन्तविधिः प्रतिषिध्यते । इत्युक्ते, अनेन सूत्रेण केवलम् “इ”-धातोः एव “अच्-“प्रत्ययः विधीयेत, न हि इवर्णान्त-धातुभ्यः । परन्तु अत्र एरच् (3.3.56) इति सूत्रस्य प्रयोगः बहुभ्यः इवर्णान्तधातुभ्यः इष्यते । अतः अत्र वार्त्तिककारस्य <!उगिद्वर्णग्रहणवर्जम् इति वाच्यम्!> इति द्वितीयस्य वार्तिकस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे “इ”-इति वर्णनिर्देशेन प्रत्ययविधानं कृतम् अस्ति, एतादृशे वर्णनिर्देशे कृते तदन्तविधिः अवश्यं भवति — इति अस्मात् वार्त्तिकात् स्पष्टी भवति । अतएव अत्र “इ”-धातोः तु अच्-प्रत्ययः भवत्येव, परन्तु “जि, क्षि, चि, डी” एतादृशानाम् इवर्णान्त-धातुभ्यः अपि अच्-प्रत्ययः अवश्यं विधीयते —
**इ-धातोः अच्-प्रत्ययः —**
इण् (गतौ, अदादिः, (2.40))
→ इ + अच् [**एरच्** (3.3.56) इति अच्-प्रत्ययः]
→ ए + अ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ अय् + अ [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
→ अय
<br/>
**जि-धातोः अच्-प्रत्ययः —**
जि (अभिभवे, भ्वादिः, (1.1096))
→ जि + अच् [**एरच्** (3.3.56) इति अच्-प्रत्ययः]
→ जे + अ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ जय् + अ [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
→ जय
</listsp>
तदन्तग्रहणसम्बन्धिन्यः भिन्नाः परिभाषाः
प्रकृतसूत्रस्य भाष्ये, तदनुषङ्गेन परिभाषेन्दुशेखरे च तदन्तविधेः सम्बन्धिन्यः नैकाः परिभाषाः परिगणिताः विद्यन्ते । एताभ्यः काश्चन परिभाषाः प्रकृतसूत्रस्यैव अर्थम् भिन्नरूपेण स्पष्टीकुर्वन्ति, काश्चन अन्याः च परिभाषाः प्रकृतसूत्रस्य विशिष्टेषु सन्दर्भेषु नियमनं कुर्वन्ति । एताभ्यः केवलम् मुख्यानाम् कासाञ्चित् परिभाषाणाम् सङ्क्षेपः अधः दत्तः अस्ति । एतासाम् विस्तरः, तथा च अस्मिन्नेव सन्दर्भे पाठिताः अन्याः परिभाषाः तु प्रकृतसूत्रस्य भाष्ये, परिभाषेन्दुशेखरे च द्रष्टव्याः । <hlb>1. <light>(परिभाषा-23)</light> प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम्</hlb> — येन विधिस्तदन्तस्य (1.1.72) इति प्रकृतसूत्रात् एव इयं परिभाषा सिद्ध्यति । धातूनाम्, प्रत्ययानाम्, समासस्य च विधानम् यत्र विशिष्टप्रत्ययग्रहणेन क्रियते तत्र तदन्तविधिः अवश्यं भवति ** इति अस्याः परिभाषायाः आशयः । यथा, **सनाशंसभिक्ष उः (3.2.168) इत्यनेन सूत्रेण “उ”-प्रत्ययस्य विधानम् “सन्”-प्रत्ययस्य ग्रहणेन कृतम् अस्ति । अतः अत्र तदन्तविधिः अवश्यं क्रियते, येन ‘सन्-प्रत्ययान्तशब्देभ्यः उ-प्रत्ययः भवति’ इति समुचितः अर्थः सिद्ध्यति । <hlb>2. <light>(परिभाषा-25)</light> उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्</hlb> — पूर्वोक्तायाः ** प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ** इत्यस्याः परिभाषायाः अपवादरूपेण इयं परिभाषा दीयते । षष्ठाध्यायस्य तृतीयपादे विद्यमाने **अलुगुत्तरपदे (6.3.1) अस्मिन् अधिकारे प्रत्ययग्रहणेन तदन्तग्रहणं न भवति** इति अस्याः परिभाषायाः आशयः । यथा, घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43) इत्यस्मिन् सूत्रे विद्यमानेन “घरूप” इति शब्देन घरूपान्तशब्दस्य ग्रहणं न भवति । इत्युक्ते, घप्रत्ययः उत्तरपदरूपेण विद्यते चेत् अनेन सूत्रेण अवश्यं ह्रस्वादेशः भवति, परन्तु घप्रत्ययान्तशब्दः उत्तरपदरूपेण विद्यते चेत् अयं ह्रस्वादेशः न प्रवर्तते । अतएव “ब्राह्मणिरूपा” इत्यत्र अनेन सूत्रेण “ब्राह्मणी”-शब्दस्य ह्रस्वादेशः क्रियते, परन्तु “कुमारीब्राह्मणिरूपा” इत्यत्र “कुमारी”-शब्दस्य ह्रस्वादेशः न भवति । <hlb>3. <light>(परिभाषा-27)</light> संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति</hlb> —पूर्वोक्तायाः प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहणम् ** इत्यस्याः परिभाषायाः अपवादरूपेण इयम् अपि परिभाषा दीयते । **यत्र प्रत्ययस्य ग्रहणं कृत्वा संज्ञायाः विधानम् क्रियते, तत्र प्रत्ययग्रहणेन तदन्तग्रहणं न भवति इति अस्याः परिभाषायाः आशयः । यथा, तरप्तमपौ घः (1.1.22) इत्यनेन सूत्रेण पाठिता घसंज्ञा तरप्-तमप्-प्रत्यययोः एव भवति, तरप्-तमप्-प्रत्ययान्तशब्दानाम् न । <hlb>4. <light>(परिभाषा-29)</light> पदाङ्गाधिकारे तस्य च तदन्तस्य च</hlb> — येन विधिस्तदन्तस्य (1.1.72) इत्यस्य सूत्रस्य एव भिन्नरूपेण अर्थप्रतिपादनम् अनया परिभाषया क्रियते । पदाधिकारे अङ्गाधिकारे च प्रातिपदिकग्रहणेन तदन्तस्य अपि ग्रहणं भवति इति अस्याः परिभाषायाः आशयः । अतएव सान्तमहतः संयोगस्य (6.4.10) इत्यनेन “महत्”-शब्दस्य उपधा-अकारस्य विहितः दीर्घादेशः “परममहत्” इत्यस्य विषये अपि प्रवर्तते, येन अस्य प्रथमैकवचनस्य रूपम् “परममहान्” इति भवति । <hlb>5. <light>(परिभाषा-31)</light> ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति </hlb> —<! समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> इत्यस्मिन् वार्त्तिके विद्यमानस्य “प्रत्ययविधौ” इति अंशस्य विवेचनम् अनया परिभाषया क्रियते । यत्र प्रातिपदिकस्य निर्देशं कृत्वा प्रत्ययस्य विधानं कृतम् अस्ति, तत्र प्रातिपदिकेन तदन्तस्य ग्रहणं न भवति ** इति अस्याः परिभाषायाः अर्थः । अतएव **नडादिभ्यः फक् (4.1.99) इत्यनेन “नड”-शब्दात् विहितः “फक्”-प्रत्ययः “सूत्रनड”-शब्दस्य विषये न प्रवर्तते । <hlb>6. <light>(परिभाषा-33)</light> यस्मिन् विधिस्तदादावल्ग्रहणे</hlb> — येन विधिस्तदन्तस्य (1.1.72) इत्यस्य अपवादरूपेण प्रकृतसूत्रे भाष्यकारेण इयं परिभाषा पाठ्यते । यत्र सप्तमीविभक्तौ एकवर्णात्मकं विशेषणम् प्रयुक्तम् वर्तते, तत्र तदन्तविधेः अपवादरूपेण तदादिविधिः प्रवर्तते ** — इति अस्याः परिभाषायाः अर्थः । इत्युक्ते, सप्तम्यन्तम् एकाल्-विशेषणम् यस्य शब्दस्य आदौ विद्यते तस्य शब्दस्य अपि तेन विशेषणेन ग्रहणम् क्रियते — इत्याशयः । यथा, **नेड् वशि कृति (7.2.8) इत्यत्र “वशि” इति सप्तम्यन्तं पदम् “कृति” इत्यस्य विशेषणरूपेण उपयुज्यते, तथा च अत्र “वशि” इत्यनेन वर्णनिर्देशः क्रियते, अतः अत्र ** यस्मिन् विधिस्तदादावल्ग्रहणे ** इत्यनया परिभाषया तदादिविधेः प्रयोगं कृत्वा — वशादिकृत्प्रत्ययस्य इडागमः न भवति — इति अर्थः सिद्ध्यति । </listsp> इतोऽपि काश्चन परिभाषाः प्रकृतसूत्रात् सिद्ध्यन्ति । तासाम् अवगमनार्थम् जिज्ञासुभिः परिभाषाग्रन्थाः एव द्रष्टव्याः ।
Sutrartha (English)¶
A विधि mentioned using an adjective happens in the context of that adjective, and also in context of the words which end in that adjective.
Vasu English Summary¶
An injunction which is made with regard to a particular attribute, applies to words having that attribute at their end as well as to that attribute itself.
Vasu English Translation¶
An injunction which is made with regard to a particular attribute, applies to words having that attribute at their end as well as to that attribute itself. This sutra consists of three words :- येन ‘by what (attribute),’ विधिः ‘rule,’ तदन्तस्य ‘having that (attribute) at its end.’
This is a rule of interpretation. When a rule is made with regard to a particular attribute or letter, it means also words having those attributes or letters at their end. Thus there is a rule (3.1.97) declaring “let there be the affix यत् after the vowels.” Here the phrase “after the vowels” means and includes “after the roots ending in vowels, as well as roots consisting of a single vowel.” Thus चि + यत् = चेयम्. Therefore, this sutra means that when a rule is laid down in this grammar with regard to a particular attribute, that rule, besides being applicable to that particular attribute, is also applicable to words ending in that particular attribute. Thus a rule laid down generally with regard to vowels, will apply to words ending in vowels; a rule laid down with regard to certain forms, will apply to words ending in those forms.
Thus the sutra एरच् (3.3.56) ‘after इ there is अच् ‘declares that the affix ach would come not only after इ, but after any expression that ends in इ. Thus इ + अच् = अयः, चि + अच् = चयः ॥
Vart:- The present rule, (called tadanta-vidhi) must not be applied to rules relating to compounds (samasa), and to pratyayas (affixes). Thus sutra * (2.1.24), declares that a word in the accusative case is compounded with the words *srita, atita &c. As कष्टं + श्रितः = कष्टश्रितः ‘involved in pain.’ The present sutra must not be applied here, and we cannot say that a word in the accusative case would be compounded with another that ends in srita; for tadanta-vidhi does not apply here. Hence we cannot form a compound of कष्टं + परमश्रितः ॥
Similarly, in rules of affixes. Thus sutra (4.1.99) declares “that the words नड &c., take the affix फक्.” Thus नड+ फक् = नाडायनः । But we cannot apply the affix phak to the word सूत्रनड, the tadanta-vidhi not being applicable here. The descendant of सूत्रनड will be called सोत्रनाडि and not as above.
The above vartika is however qualified by the following:
Vart:- The above vartika does not apply to words formed by affixes that have an indicatory उक् (उ, ॠ, लृ), short or long, or where a rule is propounded with regard to letters. Thus the affix ktavatu (1.1.26) has an indicatory उ, and we have कृतवत्. A rule which will apply to kritavat will apply also to the word which ends in kritavat. Thus the feminine of kritavat is कृतवती (4.1.6), the feminine of sukritavat will be sukritavati. Similarly rule (4.1.95) अत इञ् says “after अ there is the affix इञ्.” This is a rule relating to pratyayas, but as it is propounded by mere letters, the rule of tadanta-vidhi will apply here. Thus दक्ष + इञ् = दाक्षि ‘the son of Daksha.’
Vart:- When a term, which denotes a letter, is exhibited in a rule in the form of the locative case and qualifies something else which likewise stands in the locative case, that which is qualified by it must be regarded as beginning with the letter which is denoted by the term in question, and not as ending with it.
Thus sutra (6.4.77), achi snu dhatu bhruvam yvor iyan uvanau, means “iyan and uvan are the substitutes of what ends with the pratyaya snu and what ends in a verbal root in इ or उ, whether long or short, and of the inflective base bhru, when an affix beginning with a vowel follows.” Here the word ‘achi’ is exhibited in the seventh case, which literally means ‘when a vowel follows;’ but by virtue of the present vartika it means, ‘when an affix beginning with a vowel follows,’ as, श्रियः, भ्रुवः ॥
Bhashya¶
येन विधिस्तदन्तस्य इह कस्मान्न भवति। इको यणचि। दध्यत्र, मध्वत्र। अस्तु। अलोन्त्यस्य विधियो भवन्तीत्यन्त्यस्य भविष्यति। नैवं शक्यम्। येऽनेकाल आदेशास्तेषु दोषः स्यात्- एचोऽयवायावः इति। नैष दोषः। यथैव प्रकृतितस्तदन्तविधिर्भवति एवमादेशतोऽपि भविष्यति। तत्रैजन्तस्यायाद्यन्ता आदेशा भविष्यन्ति। यदि चैवं क्वचिद् वैरूप्यं तत्र दोषः स्यात्। ब्रह्योदकम्। ब्रह्येन्द्रः। अपि चानतरङ्गबहिरङ्गे न प्रकल्पेयाताम्। तत्र को दोषः? स्यानः,स्योना। अनतरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणो गुणो बाधिकः प्रसज्येत। ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुणः। अलविधिश्च न प्रकल्पेत। द्यौः, पन्थाः स इति। तस्मात् - प्रकृते तदन्तिविधिरिति वक्तव्यम्। न वक्तव्यम्। येनेति करण एषा तृतीया। अन्येन चान्यस्य विधिर्भवति। तद्यथा - देवदत्तस्य समाशं शरावैरोदनेन च यज्ञदत्तः प्रतिविधत्ते। तथा संग्रामं हस्त्यश्वरथपदातिभिः। एवमिहाप्यचा धातोर्यतं विधते। अकारेण प्रातिपदिकस्य इञ्ञं विधत्ते। येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः। येन विधिस्तदन्तस्येति चेद् ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः। ये ग्रहणोपाधयः ते तदन्तोपाधयः स्युः। तत्र को दोषः? उतश्च प्रत्ययादसंयोगपूर्वादिति असंयोगपूर्वग्रहणमुकारान्तविशेषणं स्यात्। तत्र को दोषः? असंयोगपूर्वग्रहणेन इहैव पर्युदासः स्यात्- अक्ष्णुहीति, तक्ष्णुहीति। इह न स्यात्- आप्नुहि शक्नुहि इति। तथा उदोष्ठपूर्वस्येति ओष्ठ्यपूर्वग्रहणमकारान्तविशेषणं स्यात्। तत्र को दोषः? ओष्ठ्यपूर्वग्रहणेन इह प्रसज्येत। संकीर्णे संकीर्णमिति। इह च न स्यात् निपूर्ताः पिण्डा इति। सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्। सिद्धमेतत्। कथम्? यथेष्टं विशेषणविशेष्ययोर्योगो भवति। यावता यथेष्टम् इह तावदुतश्च प्रत्ययादसंयोगपूर्वदिति नासंयोगपूर्वग्रहणेन उकारान्तं विशेष्यते। किं तर्हि? उकार एव विशेष्यते। उकारोयोऽसंयोगपूर्वस्तदन्तात् प्रत्ययादिति। तथा उदोष्ठयपूर्वस्येति नौष्ठ्यपूर्वग्रहणेन ऋकार एव विशेष्यते। ऋकारो य ओष्ठ्यपूर्वस्तदन्तस्य धातोरिति। समासप्रत्ययविधौ प्रतिषेधः। समासविधौ प्रत्ययविधौ च प्रतिषेधो वक्तव्यः। समासविधौ तावत्। द्वितीया श्रितादिभिः। कष्टश्रितः। नरकश्रितः। कष्टं परमश्रित इत्यत्र मा भूत्। प्रत्ययविधौ। नडस्यापत्यं नाडायनः। इह न भवति। सूत्रनडस्यापत्यं सौत्रनाडिः। किमविशेषेण ? नेत्याह। उगिद्वर्णग्रहणवर्जम्। उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा। उगिद्ग्रहणमुगितश्च। भवती। अतिभवतौ। महती, अतिमहती। वर्णग्रहणम् - अत् इञ्ञ्। दाक्षिः, प्लाक्षिः। अस्ति चेदानीं कश्चित् केवलोऽकारः प्रातिपदिकं यदर्था विधिः स्यात्। अस्तीत्याह। अततेर्डः, अः। तस्यापत्यमत इञ्ञ् - इः। अकच् श्नम्वतः सर्वनामाव्ययधातुविधावुपसङ्ख्यानम्। अकज्वतः सर्वनामाव्ययविधौ इनम्वतो धातुविधावुपसङ्ख्यानं कर्तव्यम्। अकज्वतः- सर्वके। विश्वके। अव्ययविधौ- उच्चकैः, नीचकैः। श्नम्वतः- भिनत्ति, छिनत्ति। किं पुनः कारणं न सिध्यति? इह तस्य वा ग्रहणं भवति तदन्तरस्य वा। न चेदं तत्। नापि तद्न्तम्। सिद्धं तु तदन्तान्तवचनात्। सिद्धमेत्त। कथम्? तदन्तान्तवचनात्। तदन्तान्तस्येति वक्तव्यम्। किमिदं तदन्तान्तस्येति? तस्यान्तः तदन्तः। तदन्तोऽन्तो यस्य तदिदं - तदन्तान्तं, तदन्तान्तस्येति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः तद्यथा उष्ट्रमुखमिव मुखमस्य - उष्ट्रमुखः। खरमुखः। एवमिहापि तदन्तः अन्तो यस्य - सोऽयं तदन्तः तदन्तस्येति। तदेकदेशविज्ञानाद्वा सिद्धम्। तदेकदेशविज्ञानाद्वा पुनः सिद्धमेतत्। तदेकदेशभूतःतद्ग्रहणेन गृह्यते। तद्यथा - गङ्गा ,यमुना, देवदत्तेति। अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते। देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यते। विषम उपन्यासः। इह केचिच्छब्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति। य एते सङ्ख्याशब्दाः परिमाणशब्दाश्च। पञ्चसप्तेति। एकेनाप्यपाये न भवन्ति। द्रोणः, खारी आढकमिति नैवाधिके भवन्ति, न न्यूने। केचिद् यावदेव तद् भवति तावदेवाहुः। य एते जातिशब्दा गुणशब्दाश्च। तैलं घृतमिति। खार्यामपि भवति द्रोणेपि। शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रेऽपि द्रव्ये। इमाश्चापि सञ्ज्ञा अक्तपरिमाणानामर्थानां क्रियन्ते ताः केनाधिकस्य स्युः। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति। यदयं नेदमदसोरकोरिति सककारयोरिदमदसोः प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम् ? इदमेदसोः कार्यमुच्यमानं कः प्रसङ्गे यत् सककारयोः स्यात्। पश्यति त्वाचार्यस्तदेकदेशभूतं तद्ग्रहणेन गृह्यत इति ततः सककारयोः प्रतिषेधं शास्ति। कानि पुनरस्य योगस्य प्रयोजनानि ? प्रयोजनं सर्वनामाव्ययसञ्ज्ञायाम्। सर्वे परमसर्वे। विश्वे परमविश्वे। उच्चैः, परमोच्चैः। नीचैः, परमनीचैरिति। उपपदविधौ भयाढ्यादिग्रहणं प्रयोजनम् ॥ भयङ्करः । अभयंकरः। आढ्यंकरणनम्। स्वाढ्यंकरणम् ङीब्दिधावुगिद्ग्रहणम्। प्रयोजनम्। भवती अतिभवती। महती अतिमहती। प्रतिषेधे स्वरत्रादिग्रहणम्। प्रयोजनम्। स्वसा। परमस्वसा। दुहिता। परमदुहिता। अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे प्रयोजनम्। अपरिमाणबिस्तादिग्रहणं च ङीप्प्रतिषेधे प्रयोजनम्। अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्वितलुकीति। द्विबिस्ता, द्विपरमबिस्ता। त्रिबिस्ता, त्रिपरमबिस्ता। द्वयाचित, द्विपरमाचित। दिति। दितिग्रहणं च प्रयोजनम्। दितेरपत्यं दैत्यः। अदितेरपत्यमादित्यः। दित्यदित्यादित्येत्यदिग्रहणं न कर्तव्यं भवति। रोण्या अण्। रोण्या अण् ग्रहणं च प्रयोजनम्। आजकरोणः। सौहिकरोणः। तस्य च। तस्य चेति वक्तव्यम्। रौणः। किं पुनः कारणं न सिध्यति? न तदन्ताच्च तदन्तविधिना सिद्धं केवलाच्च व्यपदेशिवद्भावेन। व्यपदेशिवद्भावोऽप्रातिपदिकेन। किं पुनः कारणं व्यपदेशिवद्भावोऽप्रातिपदिकेन? इह सूत्रान्ताट्ठग् भवति। दशान्ताड्डो भवतीति केवलादुत्पत्तिर्मा भूदिति। नैतदस्ति ज्ञापकम्। सिद्धमत्र तदन्ताच्च तदन्तविधिना केवलाच्च व्यपदेशिवद्भावेन। सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तज्ज्ञापयत्याचार्यः - सूत्रान्तादेव दशान्तादेवेति नात्र तदन्तादुत्पत्तिः प्राप्नोति। इदानीमेव ह्युक्तं समासप्रत्ययविधौ प्रतिषेध इति। सा तर्ह्येषा परिभाषा कर्तव्या। न कर्तव्या। आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषा - व्यपदेशिवद्भावोऽप्रातिपदिकेनेति। यदयं पूर्वादिनिः सपूर्वाच्च इत्याह। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? सपूर्वादिनिं वक्ष्यामीति। यत्तर्हि योगविभागं करोति। इतरथा पूर्वात् सपूर्वादिनिः इत्येव ब्रूयात्। किं पुनरयमस्यैव शेषस्तस्य चेति? नेत्याह। यच्चानुक्रान्तं यच्चानुक्रंस्यते सर्वस्यैव शेषस्तस्य चेति। रथसीताहलेभ्यो यद्विधौ प्रयोजनम्। रथसीताहलेभ्यो यद्विधौ प्रयोजनम्। रथ्यः। परमरथ्यः। सीत्यं परमसीत्यम्। हल्या परमहल्या। सुसर्वार्धदिक् शब्देभ्यो जनपदस्य। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य प्रयोजनम्। सु- सुपाञ्ञ्चालकः, सुमागधकः। सर्व- सर्वपाञ्ञ्चालकः, सर्वमागधकः। अर्ध- अर्धपाञ्ञ्चालकः। अर्धमागधकः। दिक्शब्द- पूर्वपाञ्ञ्चालकः। अपरपाञ्ञ्चालकः। पूर्वमागधकः। अपरमागधकः। ऋतोर्वृद्धिमद्विधाववयवानाम्। ऋतोर्वृद्धिमद्विधाववयवानां प्रयोजनम्। पूर्वशारदम्। अपरशारदम्। पूर्वनैदाघम्। अपरनैदाघम्। ठञ्ञ्विधौ सङ्ख्यायाः। ठञ्ञ्विधौ सङ्ख्यायाः प्रयोजनम्। द्विषाष्टिकम्। पञ्ञ्चाषाष्टिकम्। धर्मान्नञ्ञः। धर्मान्नञ्ञः प्रयोजनम्। धर्मे चरति धार्मिकः। अधर्मे चरति आधर्मिकः। अधर्माच्चेति न वक्तव्यं भवति। पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च। पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वक्तव्यम्। पदाधिकारे किं प्रयोजनम् ? प्रयोजनमिष्टकेषीकामालानां चिततूलभारिषु। इष्टकेषूकामालानां चिततूलभारिषु प्रयोजनम्। इष्टकचितं चिन्वीति। पक्वेष्टकचितं तिन्वीत। इषीकतूलेन। मुञ्ञ्जेषीकतूलेन। मालभारिणी कन्या। उत्पलमालभरिणी कन्या। अङ्गाधिकारे किं प्रयोजनम् ? प्रयोजनं महदप्स्वसृनप्तॄणां दीर्घविधौ। महान्। परममहान्। अप्- आपः तिष्टन्ति स्वापस्तिष्ठन्ति। स्वसृ- स्वसा स्वसारौ स्वसारः। परमस्वसा। परमस्वसारौ। परमस्वसारः। नप्तृ- नप्ता, नप्तारौ, नप्तारः। एवं परमनप्ता, परमनप्तारौ, परमनप्तारः। पदयुष्मदस्मदस्थ्याद्यानडुहो नुम्। पद्भावः प्रयोजनम्। द्विपदः पश्य। अस्ति चेदानीं कश्चित् केवलः पाच्छब्दो यदर्थे विधिः स्यात्। नास्तीत्याह। एवं तर्हि अङ्गाधिकारे प्रयोजनं नास्तीति कृत्वा पदाधिकारस्य प्रयोजनमुक्तम्। हिमकाषिहतिषु च। यथा पत्काषिणौ, पत्काषिणः। एवं परमपत्काषिणौ। परमपत्काषिणः। यदि पदाधिकारे पादस्य तदन्तविधिरभवति। पादस्य पदाज्यातिगोपहतेषु यथेह भवति - पादेनोपहतं - पदोपहतम्। अत्रापि स्यात्दिग्धपादेनोपहतं - दिग्धपदोपहतम् इति। एवं तर्ह्याधिकार एव प्रयोजनम्। ननु चोक्तं न केवलः पाच्छब्द इति। अयमस्ति - पादयतेरप्रत्ययः - पात्। पदः। पदा। पदे। युष्मद्, अस्मद्। यूयम्, वयम्। परमयूयम्। परमवयम्। अस्थादि। अस्थना दध्ना सक्थना। परमास्थना। परमदध्ना। परमसक्थ्ना। अनडुहो नुम्। अनड्वान्। परमानड्वान्। द्युपथिमथिपुंगोसखिचतुरनडुत्त्रिग्रहणम्। प्रयोजनम्। द्यौः, सुद्यौः। पन्थाः, सुपन्थाः। मन्थाः, परममन्थाः। पुमान्। परमपुमान्। गौः। सुगौः। सखा। सखायौ। सखायः। सुसखा। सपसखायौ। सपसखायः। परमसखा। परमसखायौ। परमखायः। चत्वारः। परमचत्वारः। अनड्वाहः। परमानड्वाहः। त्रयाणां परमत्रयाणाम्। त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च। प्रयोजनम्। सः। अतिसः। भस्त्रका। भस्त्रिका। बहुभस्त्रिका। बहुभस्त्रिका। निर्भस्त्रका। निर्भस्त्रिका। स्त्रीग्रहणं च प्रयोजनम्। स्त्रियौ, स्त्रियः। राजस्त्रियौ, राजस्त्रियः। वर्णग्रहणं च सर्वत्र। प्रयोजनम्। क्व सर्वत्र? अङ्गाधिकारे चान्यत्र च। अन्यत्रोदाहृतम्। अङ्गाधिकारे अतो दीर्घो यञ्ञि ,सुपि च। इहैव स्यात् - आभ्याम्। घटाभ्याम् इत्यत्र न स्यात्। प्रत्ययग्रहणं चापञ्चम्याः। प्रत्ययग्रहणं च अपञ्चम्याः प्रयोजनम्। यञ्ञिञ्ञोः फग् भवति। गार्ग्यायणः। वात्स्यायनः। परमवात्स्यायनः। दाक्षायणः। परमदाक्षायणः। अपञ्चम्या इति किमर्थम् ? दृषत्तीर्णा। परिषत्तीर्णा। अलैवानर्थकेन। अलैवानर्थकेन तदन्तविधिर्भवति नाम्येनानर्थकेनेति वक्तव्यम्। किं प्रयोजनम् ? हन्ग्रहणे प्लीहन् ग्रहणं मा भूत्। उद्ग्रहणे गर्मुद्ग्रहणम्। स्त्रीग्रहणे शास्त्रीग्रहणम्। संग्रहणे पायसंग्रहणम् करोतीति मा भूत्। किमर्थमिदमुच्यते। न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य चेत्यव सिद्धम्। न चेदं तत्, नापि तदुत्तरपदम्। तन्न वक्तव्यं भवति। किं पुनरत्र ज्यायः ? तदन्तविधिरेव ज्यायान्। इदमपि सिद्धं भवति। परमातिमहान्। एतद्धि नैव तत्। नापि तदुत्तरपदम्। अनिनस्मन्ग्रहणानि च। अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तद्न्तविधिं प्रयोजयन्ति। अन्- राज्ञा इत्यर्थवता, साम्नेत्यनर्थकेन। इन्- दण्डीत्यर्थवता, वाग्ग्मीत्यनर्थकेन। अस्- सुपयाः इत्यर्थवता, सुस्त्रोताः इत्यनर्थकेन। मन्- सुशर्मा इत्यर्थवता, सुप्रथिमा इतायनर्थकेन। यस्मिन् विधिस्तदादावल्ग्रहणे। यस्मिन् विधिस्तदादाविति वक्तव्यम्। किं प्रयोजनम् ? अचि श्नुधातुभ्रुवां य्वोरियङुवङाविति इहैव स्यात्- श्रियौ। भ्रुवौ। श्रियो भ्रुवः इत्यत्र न स्यात्।
Kashika¶
येन विशेषणेन विधिर्विधीयते स तदन्तस्यात्मान्तस्य समुदायस्य ग्राहको भवति, स्वस्य च रूपस्य। एरच् (३.३.५६) — इवर्णान्तादच्प्रत्ययो भवति। चयः। जयः। अयः। ओरावश्यके (३.१.१२५) — उवर्णान्ताद् ण्यत् भवति। अवश्यलाव्यम्। अवश्यपाव्यम्॥ समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः॥ द्वितीयान्तं श्रितादिभिः सह समस्यते। कष्टश्रितः। इह मा भूत् — कष्टं परमश्रित इति। प्रत्ययविधौ — नडादिभ्यः फक् (४.१.९९)। नडस्यापत्यं नाडायनः। इह मा भूत् — सूत्रनडस्यापत्यं सौत्रनाडिः। किमविशेषेण? नेत्याह॥ उगिद्वर्णग्रहणवर्जमिति वाच्यम्॥ उगितश्च (४.१.६) इति ङीप्प्रत्ययस्तदन्तादपि भवति। भवती। अतिभवती। वर्णग्रहणम् — अत इञ् (४.१.९५) — दाक्षिः। प्लाक्षिः॥ यस्मिन् विधिस्तदादावल्ग्रहणे॥ अल्ग्रहणेषु यस्मिन् विधिस्तदादाविति वक्तव्यम्। अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति। श्रियः। भ्रुवः॥
Siddhanta Kaumudi¶
विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ।<!समासप्रत्ययविधौ प्रतिषेधः !> (वार्तिकम्) ।<!उगिद्वर्णग्रहणवर्जम् !> (वार्तिकम्) ॥
Laghu Shabdendushekhar¶
- येन विधिस्तदन्तस्य । येनेति करणे तृतीया विधिरिति भावे किः । कर्मात्र विधेयम्, कर्त्ता चाचार्य: प्रसिद्धत्वाल्लभ्यत एव । यत्तु करणं कर्त्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणमिति लब्धमिति, तन्न । सुब्विभक्तौ न लक्षणेत्यस्य सर्वसम्मतत्वात् । किं बहुना, येषां प्रत्ययानामन्येषां वा शब्दानामर्थे विधानं कृतं शास्त्रेण तेषामन्यत्रार्थे तदर्थे चान्येषां लक्षणयाऽपि साधुत्वाभावस्य प्रत्ययः (3.1.1) पुंयोगात् (4.1.48) इत्यादिभाष्यतो लाभात् । करणस्य व्यापारवत्त्वनियमादन्येषाञ्च व्यापाराभावाद्विशेषणमेवात्र करण तृतीयान्तेनोच्यते । तस्य चेतरव्यावृत्तिकरणमेव व्यापारः; तदुक्तं भाष्ये— येनेति करणे एषा तृतीयाऽन्येन चान्यस्य विधिर्भवति । यथा चैत्रस्य सङ्ग्रामं हस्त्यश्वादिभिर्विधत्ते । एवम् **अचो यत् (3.1.97) इति अचा धातोर्यतं विधत्ते** इति । अन्येन चान्यस्येत्यनेन यस्य कार्यं यस्मिन् परतश्च तयोरकरणत्वं दर्शितम् । अन्यस्येत्यन्यस्मिन्नित्य स्याप्युपलक्षणम् । तत्र शब्दोपस्थितविशेष्यस्य तादृशं विशेषणमेव तदन्तग्राहकम् । क्वचित्सति गमकेऽतादृशं शब्दरूपं विशेष्यमादायापि तदन्तविधिः । तच्चान्तरङ्गत्वात्समानाधिकरणमेव । तत्र तदन्तविधौ सति तथा विशेषणत्वयोग्यताऽप्येतत्प्रवृत्तौ निमित्तम् । अत एव इन्हन् (6.4.12) इत्यादौ इनंशे तदन्तविधिः । न हि ‘इनङ्ग’मित्यन्वयो भवति । तदन्तस्येत्यस्य तदन्तशब्दस्येत्यर्थः । नन्वेवम् एरच् (3.6.56) इति ‘अय’ इत्यत्र न स्यादत आह— स्वस्य चेति । स्वमित्यनुवृत्तं षष्ठ्या विपरिणम्यत इति भावः । स्वं रूपमित्यस्य प्रत्याख्याने तु तस्य तदन्तस्य तु चेति पाठ्यमिति बोद्ध्यम् ।
समासप्रेति । विशेषणविशेष्यभावव्यत्यासे तात्पर्यग्राहकमिदम् । एवञ्च द्वितीया श्रित (2.1.24) इत्यादौ श्रितादयोऽधिकारप्राप्तसमर्थैरित्यस्य विशेष्य भूता इति न तदन्तविधिः | तस्य तत्प्रकृतिके लक्षणया सुपेत्यनेनान्वयः । तेन कृष्णं परमश्रित इत्यत्र न समासः । नडादिभ्यः फक् (4.1.99) इत्यादावपि नडादि विशेष्यं, प्रातिपदिकं विशेषणमिति सौत्रनाडिरित्यत्र न फक् ।
उगिदिति । तेन ‘अतिभवती’ इत्यत्रोगितश्चेति ङीप्, दाक्षिरित्यत्र अत इञ् (4.1.95) च सिद्धः । एवञ्चोक्तनिषेधः प्रत्ययांशे गृह्यमाणप्रातिपदिक विषये, प्रत्ययविधिविषयेण गृह्यमाणप्रातिपदिकेन तदन्तविधिर्नास्ति इत्यनेनैक वाक्यत्वलाभात् । उगिद्वर्ण इति त्वेकदेशानुवाद इति बोध्यम् । अत एव वनो र च (4.1.7) इत्यादौ प्रत्ययग्रहणे तदन्तग्रहणम् इत्यस्य नायं निषेध इति दिक् ।
Balamanorama¶
येन विधिस्तदन्तस्य - यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः । विधीयत इति विधिः ।उपसर्गे घोः कि॑रिति धाधातोर्भावे किप्रत्ययः । येनेति करणे तृतीया । शास्त्राकृद्विधाने कर्ता । धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः । करणं च व्यापारवत् । एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः । ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते । स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठन्ततया च विपरिणम्यते । एवं चविशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक॑ इति फलति । तदाह — विशेषणमित्यादि । विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत् । ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति । यथा-चयः, अयः । केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः । तत्तु शब्देन्दुशेखरे दूषितम् । समासेति । वार्तिकमेतत् । समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्रद्वितीया श्रिते॑ति समासो न भवति । सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः ।अत इञ् । अनुशतिकादीनां चेत्युभयपदवृद्धिः । अत्र नडादिभ्यः फगिति फग्नभवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्रउगितश्चे॑ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र अत इञिति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह — उगिदिति । इदमपि वार्तिकम् ।द्वितीयायां चे॑ति वर्जयतेर्णमुल् ।उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती॑त्यर्थः । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति ।
Tattvabodhini¶
येन विधिस्तदन्तस्य - येन विधिः ।विधि॑रित्यत्रउपसर्गे॑ घोः किः॑ इति कर्मणि किः प्रत्ययः ।येने॑ति करणे तृतीया, न तु कर्तरि । तस्याः कृद्योगषष्टआ बाधात् । नचउभयप्राप्तौ कर्मणी॑ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात् । तथा चात्र करणे तृतीयैव । करणं च परतन्त्रं, कत्र्रधिष्ठितस्यैव करणत्वात् । एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते । नचएर॑जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम् । तेन विशेषणमप्रधानम् । तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह — विशेषणं तदन्तस्यैति । स्वस्य चेति ।स्व रूप॑-मित्यनुवृत्तेरेतल्लभ्यते ।एरच् । इकारान्तादिकाररूपाच्च धातोरच् । चयः, जयः, अयः । समासप्रत्ययविधावाते । कृष्णं श्रितः कृष्णश्रितः । [॒द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॑ । द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ] । नेह-कृष्णमुपश्रितः ।नडादिभ्यः फक् । नडस्य गोत्रापत्यं नाडायनः । नेह-[सूत्रनडस्यापत्यं] सौत्रनाडिः । अनुशतिकादित्वादुभयमदवृद्धिः । उगिद्वर्णेति । उगिद्वर्णग्रहणं वर्जयित्वा,-उगिद्वर्णग्रहणवर्जं ।द्वितीयायां चे॑ति णमुल् । महान्तमतिक्रान्ता अतिमहती । महच्छब्दस्य गौरादित्वेऽप्युपसर्जनेषिद्गौरे॑ति ङीषोऽप्रवृत्तेःउगितश्चे॑त्युगिदन्तान्ङीप् ।अत इञ् । दाक्षिः । न चेह सामर्थ्यात्तदन्तविधिः , अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात् । न चैवमिञो ञित्त्वं व्यर्थमिति वाच्यम्,बाह्वादिभ्यश्चे॑त्यत्र यथायथं वृध्द्याद्युदात्ताभ्यां चपितार्थत्वात् । नन्वेवमपि औपगविरित्यादावेव अत इञ्स्यान्नतु दाक्षिरित्यादौ, अकारस्येहानर्थकत्वादिति चेन्नः, वर्णग्रहणे अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः ।
Padamanjari¶
स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह - आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह - समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, ‘लुम्पेदवश्यमः कृत्ये’ इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति ‘एचोऽयवायावः’ इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; ‘निर्दिश्यमानस्यादेशा भवन्ति’ इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि’आद् गुणः’ इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च ‘एरच्’ इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-‘ईदूदेद्द्विवचनम्’ इति द्विवचनस्य । क्वचिदधिकारद्यथा-‘एरच्’ इति धातोः । क्वचिदाक्षेपाद्, यथा-‘इको झल्’ इति सना धातोः । ‘एचोऽयवायावः’ इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः ‘उदोष्ठ।ल्पूर्वस्य’ इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् ‘उतश्च प्रत्ययादसंयोगपूर्वाद् ‘ इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च ‘उतश्च प्रत्ययाद्’ इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्’ इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥
Nyaas¶
स्वं रूपं शब्दस्येत्यस्यायमपवादः। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्यत्र नियमरूपता परिभाषाधर्मो विद्यते। येन इति करमए तृतीया। विधीयते = अपूर्व एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः` (3.3.92) इति किप्रत्ययान्तः।तदन्तस्य` इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयंसंज्ञा विज्ञायत इत्याह - समुदायस्य संज्ञा भवति इति।अवश्यलाव्यम् इति। अवश्यपाव्यम् इति। लूञ् छेदने (धातुपाठः-1484), पूञ् पवने (धातुपाठः-1483) वृद्धौ कृतायाम् वान्तो यि प्रत्यये (6.1.79) इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; लुम्पेदवश्यमः कृत्येः (काशिका।6.1.149) इति मकारलोपः।अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, एचोऽयवायावः (6.1.78) इति? किञ्चस्यात्? चयनं चायको लवनं लावकः इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; निर्दिश्यमानस्यादेशा भवन्ति (व्या।प।106) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा - अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कर्ताप्याश्रितः। स पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात् - ईदूदेद्द्विचनम् (1.1.11) इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा हीदादिभिः करणैः प्रगृह्रसंज्ञां विदधाति। क्वचित् प्रकरणात् - यथा एरच् (3.3.56) इति, अत्र धातोः (3.1.91) इत्यधिकाराद्धातुः प्रकरणात् कर्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामर्थ्यात् - यथा इको झल् (1.2.9) इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामर्थ्याद्धातुः कर्ता सन्निहितः; सइका करणेन सनः कित्त्वं विदधाति। तदेवम्, ईदूदेद्द्विवचम् (1.1.11) इत्यादौ कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। एचोऽयवायावः (6.1.78) इत्यत्र तु न केनचित् कर्ता सन्निहितः प्रकारेण, न चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः।वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम् - द्वितीया श्रित 2.1.25) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन चतदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। नडादिभ्यः फक् इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकमतोऽत्रापि नास्ति तदन्तविधिरिति।उगिद्वर्णग्रहणवर्जम् इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते।विशेषणेन च तदन्तविधिर्भवत्येव।यस्मिन् विधिः इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि-ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात् - श्रियाविति,इह तु न स्यात् - श्रियः इति? तदादिविधौ तु सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।
Prakriyasarvasvam¶
येन विशेषणेन विधिः क्रियते, स तदन्तस्येति ज्ञेयम् । ‘अचो यत्’ (३-१-९७) इत्युक्तेऽजन्ताद् धातोरित्यर्थः ।
Vartika¶
यस्मिन् विधिस्तदादावल्ग्रहणे ।