11070: तपरस्तत्कालस्य¶
Padacheda: तपरः | S | 1 | 1 |
तत्कालस्य | S | 6 | 1 |
Sutrartha¶
तकारात् परः वर्णः, तथा च तकारः यस्मात् परः सः वर्णः — उभौ अपि स्वकालवाचकानाम् सवर्णानाम् एव निर्देशं कुरुतः ।
अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) इति सूत्रेण ‘अविधीयमानः (इत्युक्ते, आदेशरूपेण न उक्तः) अण्-वर्णः सवर्णग्रहणं करोति’ इति ज्ञायते । एतादृशस्य सवर्णग्रहणस्य विशिष्टासु अवस्थासु नियमनम् कर्तुम् प्रकृतसूत्रम् निर्मितम् अस्ति । यदि अविधीयमानात् अण-वर्णात् पूर्वम् उत परम् अव्यवहितः तकारः वर्तते, तर्हि सः अण्-वर्णः केवलं तादृशानाम् सवर्णानाम् एव ग्रहणं करोति येषाम् उच्चारणकालः तस्य वर्णस्य उच्चारणकालसदृशः वर्तते — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1) बहुवचने झल्येत् (7.3.103) अस्मिन् सूत्रे ‘अतः’ इति पदस्य अनुवृत्तिः अस्ति । अतः इति शब्दः ‘अत्’ इत्यस्य पञ्चमी-एकवचनस्य रूपम् । ‘अत्’ इत्यत्र अकारात् अनन्तरम् तकारः स्थापितः दृश्यते । अस्य तकारस्य प्रयोगः अत्र सवर्णग्रहणस्य नियमनार्थम् कृतः अस्ति । अकारस्य वस्तुतः अष्टादश सवर्णाः विद्यन्ते । परन्तु तेषु केवलम् षण्णाम् सवर्णानाम् (=ह्रस्वसंज्ञकानाम्) उच्चारणकालः एव अकारसदृशः अस्ति, अन्येषाम् द्वादशानाम् सवर्णानाम् (दीर्घसंज्ञकानाम्, प्लुतसंज्ञकानां च इत्याशयः) उच्चारणकालः अकारस्य उच्चारणकालात् भिद्यते । अतः अस्मिन् सूत्रे ‘अतः’ इति शब्देन केवलम् ह्रस्व-अकारस्यैव षण्णाम् भेदानाम् ग्रहणं क्रियते, अन्येषाम् द्वादशानाम् सवर्णानाम् ग्रहणम् निषिध्यते । अतएव, ‘बाल’ इति ह्रस्व-अकारान्तशब्दस्य विषये बहुवचने झल्येत् (7.3.103) इत्यस्य प्रयोगं कृत्वा ‘बालेभ्यः’ इति रूपे एकारः श्रूयते, परन्तु ‘बाला’ इति आकारान्तशब्दस्य विषये अस्य सूत्रस्य प्रयोगः नैव सम्भवति, अतएव ‘बालाभ्यः’ इत्यत्र एकारादेशः न भवति । प्रकिये एतादृशे -
बाल + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]
→ बाले + भ्यस् [**बहुवचने झल्येत्** (7.3.103) इत्यनेन बहुवचनस्य प्रत्यये परे ह्रस्व-अकारान्तस्य अङ्गस्य एकारादेशः]
→ बालेभ्यः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) ]
बाला + भ्यस् [पञ्चमीबहुवचनस्य भ्यस्-प्रत्ययः।]
→ बाला + भ्यस् [**बहुवचने झल्येत्** (7.3.103) इत्यस्मिन् सूत्रे 'अतः' इति अनुवृत्तेः ग्रहणात् ह्रस्व-अकारेण दीर्घ-अकारस्य ग्रहणं निषिध्यते, अतः अस्य सूत्रस्य अत्र प्रसक्तिः न वर्तते ।]
→ बालाभ्यः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) ]
अदेङ् गुणः (1.1.2) अस्मिन् सूत्रे ‘अत् + एङ्’ इत्यत्र विद्यमानः तकारः एकस्मिन् एव समये अकारात् परः, तथा च एङ्-प्रत्याहारात् च पूर्वः विद्यते । अतः अत्र अयम् तकारः ‘अ’ तथा ‘एङ्’ एताभ्याम् द्वाभ्याम् सह अपि अन्वेति । इत्युक्ते ‘अत्’ इत्यनेन अकारस्य केवलम् तत्कालिक-सवर्णानाम् (ह्रस्वभेदानाम्) एव ग्रहणं क्रियते, न हि दीर्घ-प्लुत-भेदानाम् । एवमेव, ‘अएङ्’ इत्यनेन अपि एकार-ओकारयोः दीर्घ-भेदानाम् एव ग्रहणं भवति, न हि प्लुत-भेदानाम् ।
इदितो नुम् धातोः (7.1.58) अस्मिन् सूत्रे ‘इत्’ इत्यत्र तकारः इकारात् परः विद्यते । अतः अनेन इकारेण दीर्घभेदस्य ग्रहणं न भवति । अतएव, ‘ओप्यायीँ’ एतादृशेषु ईदित्-धातुषु अनेन सूत्रेण नुमागमः न भवति ।
ऋत्यकः (6.1.128) इति सूत्रे ‘ऋत्’ इत्यत्र ऋकारात् परः तकारः विद्यते । अतः अनेन ऋकारस्य दीर्घ/प्लुतसवर्णानाम् ग्रहणं न भवति । परन्तु अनेन ऋकारेण ह्रस्व-ऌकारस्य तु अवश्यम् ग्रहणं भवति, यतः <!ऋऌवर्णयोः मिथः सावर्ण्यम् वाच्यम्!> अनेन वार्त्तिकेन ऋकार-ऌकारयोः सावर्ण्यम् उक्तम् अस्ति, अपि च ह्रस्व-ऌकारस्य उच्चारणकालः अपि ह्रस्व-ऋकारसदृशः एव (एकमात्रायावत्) वर्तते । अतएव ‘माला + ऌकार’ इत्यत्र ऋत्यकः (6.1.128) इति सूत्रेण पाक्षिकः प्रकृतिभावः विधीयते ।
सूत्रे विद्यमानः ‘तपर’ शब्दः
सूत्रे पाठितः ‘तपर’शब्दः एकस्मिन् एव समये तत्पुरुषसमासरूपेण, बहुव्रीहिसमासरूपेण च स्वीक्रियते । तदित्थम् - 1. तात् परः तपरः — इति तत्पुरुषसमासः । अनेन तकारात् अनन्तरम् विद्यमानः वर्णः निर्दिश्यते । अतः अदेङ् गुणः (1.1.2) अस्मिन् सूत्रे ‘अत् + एङ्’ इत्यत्र तकारात् परस्य एङ्-इत्यस्य अत्र ‘तपर’शब्देन ग्रहणं भवति । एङ्-प्रत्याहारः तपरः अस्ति, अतः तस्य विषये सवर्णग्रहणं नियम्यते — इति अत्र आशयः । 2. तः परः यस्मात् सः तपरः — इति बहुव्रीहिसमासः । अनेन तकारात् पूर्वं विद्यमानः वर्णः निर्दिश्यते । अतः अदेङ् गुणः (1.1.2) अस्मिन् सूत्रे ‘अत् + एङ्’ इत्यत्र तकारात् पूर्वस्य ‘अ’ इत्यस्य ‘तपर’शब्देन ग्रहणं भवति । अवर्णः तपरः अस्ति, अतः तस्य विषये सवर्णग्रहणं नियम्यते — इति अत्र आशयः ।
तकारस्य उच्चारणार्थः अपि प्रयोगः
बहुषु सूत्रेषु तकारः उच्चारणार्थः अपि प्रयुक्तः अस्ति । यथा, दिव उत् (6.1.131) इत्यत्र उकारात् परः विद्यमानः तकारः उच्चारणार्थः वर्तते । तत्कथम् इति चेत्, दिव उत् (6.1.131) अस्मिन् सूत्रे उकारः विधीयमानः (आदेशः) अस्ति, अतः अनेन उकारेण मूलतः एव सवर्णग्रहणं न भवति । अस्यां स्थितौ सवर्णग्रहणस्य नियमनम् अपि नैव सम्भवति । अतः अत्र विद्यमानः तकारः केवलम् उच्चारणार्थः एव अस्ति इति स्वीक्रियते । एवमेव, दिव औत् (7.1.84) इत्यस्मिन् सूत्रे विद्यमानः तकारः अपि उच्चारणार्थः एव अस्ति, यतः औकारः अत्र विधीयमानः अस्ति अतश्च सवर्णग्रहणे नैव समर्थः । ॠत इद्धातोः (7.1.100) अस्मिन् सूत्रे दीर्घ-ॠकारात् परः यः तकारः विद्यते, तस्यापि प्रयोजनम् उच्चारणम् एव । दीर्घ-ॠकारेण कुत्रापि सवर्णग्रहणं न सम्भवति (यतः दीर्घः ॠकारः अण्-प्रत्याहारे एव न वर्तते) अतः तत्रापि सवर्णग्रहणनियमनेन न कश्चन लाभः । <note>यत्र यत्र वर्णात् अनन्तरम् तकारः प्रयुक्तः वर्तते, तत्र तत्र ‘तपरकरणम् कृतम् अस्ति’ इति उच्यते । यथा, अदेङ् गुणः (1.1.2), दिव उत् (6.1.131), ऋत्यकः (6.1.128), ॠत इद्धातोः (7.1.100) इत्येतेषु सर्वेषु अपि सूत्रेषु तपरकरणम् विद्यते । एतादृशं तपरकरणम् सवर्णग्रहणनियमार्थम् भवितुम् अर्हति, अथ वा उच्चारणार्थम् / असन्देहार्थम् अपि भवितुम् अर्हति । </note>
Sutrartha (English)¶
A letter that follows or is followed by ‘त्’ represents only those सवर्णाः which require the same time for pronunciation as that letter.
Vasu English Summary¶
The letter which has त् after or before it, besides referring to its own form, refers to those homogeneous letters which have the some prosodial length or time.
Vasu English Translation¶
The letter which has त् after or before it, besides referring to its own form, refers to those homogeneous letters which have the some prosodial length or time. By the previous sutra it was declared that a vowel standing by itself included all the letters of its class. Thus अ includes आ; and इ, ई; &c. This sutra lays down the rule by which the very form of the letter is taken and not all the letters of its class. This is done by placing a त् either after or before the letter. Thus अत् means the very letter अ and not all its homogeneous letters. Similarly उत् means short उ only and not long or protracted उ. We had to refer to this sutra, in our very first sutra, in explaining the term आत्.
The sutra consists of two words तपरः and तत्कालस्य. Taparah means that which has a त् after it or that which is after त्. Tat-kala means having the same time. According to time the vowels are divided into short, long and protracted. Short vowels have one measure, long vowels two, and protracted vowels three. A consonant lasts half the time of a short vowel. Therefore a letter preceded or followed by त्, refers to its own form as well as to those only of its homogeneous letters which have the same time. Thus the letter अत् will include the udatta, anudatta, svarita (both nasalised and non-nasalised) अ and not the long and protracted forms.
This sutra declares an injunction. The anuvritti of अण् of the previous sutra does not run into this sutra. Any other letter than अण् may be followed by त् and the rule of this sutra will apply to that also. This rule qualifies the previous sutra which would therefore mean that an अण् letter which is not followed or preceded by a त् includes its homogeneous letters also.
Thus in the sutra (7.1.9) अतोभिस ऐस्. ‘After words ending in अत् (i. e. short अ), ऐस् takes the place of भिस्.’ Thus वृक्षः. But in खट्वा which ends in long आ and whose prosodial time is different from अ, this rule will not apply, and we have खट्वाभिः.
Bhashya¶
तपरस्तत्कालस्य अयुक्तोऽयं निर्देशस्तत्कालस्येति। तदित्यनेन कालं प्रतिनिर्देश्यते। तदित्ययं च वर्णः। तत्रायुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्। कथं तर्हि निर्देशः कर्तव्यः? तत्कालकालस्येति। किमिदं तत्कालकालस्येति। तस्य कालः तत्कालः। तत्कालः कालो यस्येति सोऽयं तत्कालकालः तत्कालकालस्येति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य सोऽयमुष्ट्रमुखः। खरमुखः। एवं तत्कालकालः तत्कालः तत्कालस्यति। अथवा साहचर्यात् ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णोपि काल एव। किं पुनरिदं नियमार्थमाहोस्वित् प्रापकम् ? कथं च नियमार्थे स्यात् कथं वा प्रापकम्। यद्यत्राण्ग्रहणमनुवर्तते ततो नियमार्थम्। अथ निवृत्तं ततः प्रापकम्। कश्चात्र विशेषः? तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नाग्रहणम्। तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नानां ग्रहणं न प्राप्नोति। केषाम्? उदात्तानुदात्तस्वरितानुनासिकानाम्। अस्तु तर्हि प्रापकम्। प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः। प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतयोः प्रतिषेधो वक्तव्यः। न वक्तव्यः। विप्रतिषेधात् सिद्धम्। अण् सवर्णान् गृह्णातीत्येतदस्तु। तपरस्तत्कालस्य वा। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन। अण् सवर्णान् गृह्णातीत्यस्यावकाशः ह्रस्वा अतपरा अणः। तपरस्तत्कालस्येत्यस्यावकाशः दीर्घास्तपराः। ह्रस्वेषु तपरेषूभयं प्राप्नोति। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन। यद्येवम् - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसमख्यानं कालभेदात्। द्रुतायां तपरकरणे मध्यमविसम्बितयोरुपसङ्ख्यानं कर्तव्यं, तथा मध्यमायां द्रुतविलम्बितयोः, तथा विलम्बितायां द्रुतमध्यमयोः। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम्। सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते। सिद्धमेतत्। कथम्? अवस्तिथा वर्णा द्रुतमध्यमविलम्बितासु। किंकृतस्तर्हि वृत्तिविशेषः? वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते। वक्ता कश्चिदाश्वभिधायी भवति। आशु वर्णानभिधत्ते। कश्चिच्चिरेण। कश्चिच्चितरेण। तद्यथा - तमेवाध्वानं कश्चिदाशु गच्छति। कश्चिच्चिरेण कश्चिच्चितरेण। कश्चिच्चरतरेण गच्छति। रथिक आशु गच्छति। आश्विकश्चिरेण। पदातिश्चिरतरेण। शिशुश्चिरतरेण। विषम उपन्यासः। अधिकरणमत्राध्वा व्रजति-क्रियायाः। तत्रायुक्तं यदधिकरणस्य वृद्धिह्रासौ स्याताम्। एवं तर्हि स्फटोः शब्दः। ध्वनिः शब्दगुणः। कथम्? भेर्याघातवत्। तद्यथा - भेर्याघातः भेरीमाहत्य कश्चिद्विंशति पदानि गच्छति। कश्चि त्र्रिंशत्। कश्चिच्चत्वारिशत्। स्फटोस्तावानेव भवति। ध्वनिकृता वृद्धिः। ध्वनिः स्फटोश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते। अल्पो महांश्च केषांचिदुभयं तत् स्वभावतः ॥
Kashika¶
तः परो यस्मात् सोऽयं तपरः, तादपि परस्तपरः। तपरो वर्णस्तत्कालस्यात्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य। विध्यर्थमिदम्। अणिति नानुवर्तते। अणामन्येषां च तपराणाम् इदमेव ग्रहणकशास्त्रम्। अतो भिस ऐस् (७.१.९) इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव। अतपरा अणस्तस्यावकाशः। किमुदाहरणम्? अतो भिस ऐस् (७.१.९) — वृक्षैः। प्लक्षैः। विड्वनोरनुनासिकस्यात् (६.४.४१) — अब्जाः। गोजाः। तत्कालस्येति किम्? खट्वाभिः। मालाभिः॥
Siddhanta Kaumudi¶
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥
Laghu Siddhanta Kaumudi¶
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
Laghu Shabdendushekhar¶
अतो भिस (7.1.9) इत्यादौ तपरकरणात् सहिवहो**(6.3.112) इति सूत्रस्थवर्णग्रहणाद्व्याख्यानाच्च तपरपदे बहुव्रीहिपञ्चमीतत्पुरुषावित्याह - तः पर** इत्यादिना। वर्णग्रहणे तु तत्सामर्थ्यादत्वावच्छिन्नसर्ववर्णग्रहणयोधनेन तपरसूत्राप्रवृत्तिः । आद्योदाहरणम्- अतो भिस (7.1.9) इति, अन्त्योदाहरणं- वृद्धिरादैच् (1.1.1) इति । यद्यप्यत्र सञ्ज्ञा तात्परा, न च तत्समकालस्तत्सवर्णो वा प्रसिद्धस्तथापि तपरकरणाद्भाष्यप्रामाण्याच्च तात्परशब्दबोद्ध्यो वर्णः स्वसमकालग्राहक इत्यर्थेनाऽदोषः । इदञ्च विद्ध्यर्थमेव, अण्ग्रहणाननुवृत्तेः गुणानां भेदकतयाऽनणि विधित्वेऽपि वृद्धिरादैच् (1.1.1) इत्यादावाकारांशे सावकाशेनानेन अतो भिस (7.1.9) इत्यादौ परत्वेन अणुदित् (1.1.69) सूत्रबाध: । सङ्ख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टतयेह विरोधस्य सत्त्वात् । गुणानामभेदकत्वे त्वनवकाशत्वाद्बाध इति बोद्ध्यम् । अत्रावध्यवधिमतोः साजात्येन वर्णस्यैव सञ्ज्ञात्वेऽपि विशिष्टाद्विभक्त्युत्पत्तिः सौत्रत्वाद्बोध्या। तत्कालस्येत्यस्य तदुच्चारणकालसमकालस्येत्यर्थस्तदाह - समकालस्यैवेति । एवकारो न्यायसिद्ध बाध्यबाधकभावस्यानुवादक इति भावः । जातिपक्षे तु नियमार्थमेव सवर्णग्रहणानुवृत्तेः एवं गुणानामभेदकत्वमिति- वृद्धिरादैच् (1.1.1) इति सूत्रभाष्यसम्मत सिद्धान्तपक्षेऽपि नियमार्थमेव । इदम् आद्गुणः (6.1.87) इत्यादौ विभक्तितकारे न प्रवर्तते, उपसर्गादृति (6.1.91) इति तपरकरणात् । ॠदोरप् (3.3.57) इत्यादौ दकार एवेति न दोषः । स च पञ्चमीसमासाभावे तकार इवोच्चारणार्थो, मुखसुखार्थो वा । तपरसूत्रे दकारप्रश्लेषपक्षे तु धकारादिस्थानिको दकारो बोध्यः ।
Balamanorama¶
तपरस्तत्कालस्य - ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम् । एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते — तपरस्तत्कालस्य । ‘तपर’ इत्यावर्तते । प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः । द्वितीयस्तु तात् पर इति पञ्चमीसमासः । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः । ऊकालः उष्ट्रमुख इत्यादिवत् समासः । एवं च ‘अत्॒इत्’ इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः । तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः । एत्, ऐत्, ओत्ौत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः । तत्र ह्रस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात्सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते — ॒अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये॑ति । एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम् । वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति । तदिदं सर्वमभिप्रेत्य व्याचष्टे — तः परोयस्मादित्यादिना । नियमविधानस्य फलमाह — तेनेत्यादिना । तेन=नियमविधानेन । आदिना लृदित्यादिसंग्रहः । अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत् — इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः । ऋदिति द्वादशानामिति । ऋऌवर्णयोरिति सावण्र्यविधानादिति भावः । नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा चपुषादिद्युताद्य्लृदितः॑ इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन ऌकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात् । अन्यथाऋतो ङी॑त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः । प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति । अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम् । आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम् , नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात् । न द्वितीयः । उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात् । एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत् । तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च ।
Tattvabodhini¶
तपरस्तत्कालस्य - स च तापरश्चेति । तव्रादिना उभयं विवक्षितमिति भावः ।
Padamanjari¶
तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः । एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम् - ‘अतो भिस ऐस्’ इति तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्’ इत्यैजर्थं हि तदित्युक्तम् । तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् । तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो यथा - दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः; वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः, यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति - आत्मनेत्यादिना ॥ तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः । गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ? अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे ‘आतो धातोः’, ‘आतां पुङ्णौ’ ‘यस्येति च’ ‘विड्वनोरनुवासिकस्यात्’ इत्यादौ ‘भेदका गुणाः’ ‘इत्यस्मिन् दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति । एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति । किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः, अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् । विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । ‘आतो धातोः’ ‘यस्येति च’ इत्यादावेव प्रयोजनम् । तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते । खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥
Nyaas¶
तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम् - अतो भिस ऐस् (7.1.9) इति तपरकरणम्। न ह्यत्र पञ्चमीतत्पुरुष उपपद्यते। अवर्णो ह्यत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम् - वृद्धिरादैच् (1.1.1) इति तपरकरणम्। न ह्यत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽऽकारस्य तपरत्वं स्यात्,न चाऽऽकारार्थं तपरकरणम्, अपि त्वैजर्थम्। एतच्च तत्रैव प्रतिपादितम्। सवर्णस्येति वर्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह - तपरो वर्णः इति। तत्कालस्येति बहुव्रीहिः - स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि - तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्रुक्तम् - आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे।भिन्नमावृत्तिभेदेन कालं कालविदो विदुः॥ (वा।प।3.9.76) इति।तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम्? एवं तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह - आत्मना इत्यादि। यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वर्तते। कुत एतत्? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर-वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण-क्रिया यस्येति यावत्। गुणान्तरयुक्तस्य इति। यन गुणेन धर्माख्येनोदात्तादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः।स्वस्य च रूपस्य इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात्? विध्यर्थं वा? यद्यणित्यनुवर्तते,ततः पूर्वेणैव सिद्धे सत्यारम्भो नियमा-र्थो भवति - (कात्य।प।62)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति।अथाणिति निवृत्तम्, ततो विध्यर्थम्।तत्राद्ये पक्षे विड्वनोरनुनासिकस्यात् (6.4.41) इत्याकारो दीर्घस्तपरोनिरनुनासिकः सूत्र उपात्तः भेदका गुणाः इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह - विध्यर्थमिदम् इति। कथं विध्यर्थमित्याह - अणिति नानुवर्तते इति। अणामन्येषां च ` इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह - `अतो भिस ऐस् इत्यादि।स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह - अत पराः इत्यादि।आद्गुणः (6.1.87) इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा विड्वनोरनुनासिकस्यात् (6.4.41) इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवर्तत इत्यभिप्रायः।वृक्षै प्लक्षैः इति। तृतीयाबहुवचनं भिस्।अतो बिस ऐस् ( (7.1.9) इत्यैसादेशः; वृद्धिरेचि` (6.1.85) इति वृद्धिः। अब्जाः गोजाः इति। जनी प्रादु-र्भावे (धातुपाठः-1149) अप्सु जायते, गोषु जायत इति - जनसनखनक्रमगमो विट् (3.2.67) ।खट्वाभिः इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता अन्तादिवच्च (6.1.85) इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति तद्वयवच्छेद्यं भविष्यति - कीलालपाभिः, सोमपाभिः इत्यादि? नैष दोषः; अन्तदिवच्च` (6.1.82) इत्यत्र वक्ष्यति - वर्णाश्रयविधावन्तादिवद्भावो नेष्यते`इति। तथा हि - खट्वाभिरितद्यत्रान्तवद्भावाभावात् **अतो भिस ऐस्** (7.1.9) न भवतीति।अथ वा - `अतः इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।
Prakriyasarvasvam¶
तकारयुक्ता वर्णस्तन्मात्रस्यैव ग्राहकः, न सर्ववर्णानाम् । सवर्णास्तूच्यन्ते—
Sarala¶
तपरः - प्रथमान्तं, तत्कालस्य - षष्ठ्यन्तम् । “तत्पर” इत्यत्र तः परो यस्मादिति बहुव्रीहिः, अतो भिस ऐस् (७.१.९) इत्यत्र तपरकरणात् । अत्र तात्पर इति पञ्चमीतत्पुरुषोऽपि, सहिवहोरोदवर्णस्य (६.३.११२) इत्यत्र वर्णग्रहणात् । तदाह - तःपर इति । वर्णग्रहणे तु तत्सामर्थ्यादत्वावच्छिन्नाष्टादशाकारग्रहणबोधनेन न सहिवहोरोदवर्णस्य (६.३.११२) इत्यत्रास्य तपरसूत्रस्य प्रवृत्तिरिति तच्चारितार्थ्यम् । तः परो यस्मादित्यस्योदाहरणम् - अतो भिस ऐस् (७.१.९) - “विश्वपाभिः” । “तत्पर” इति द्वितीयस्योदाहरणं - वृद्धिरादैच् (१.१.१) अदेङ्गुणः (१.१.२) इति । तत्कालेत्यस्य - उच्चारणकालसमकालेत्यर्थः, तत्फलितमाह - उच्चार्यमाण इति । सवर्णस्येत्यपि बोध्यं, तेन हरिभिरित्यत्र अतो भिस ऐस् (७.१.९) न । अकारेकारयोः सावर्ण्याभावात् ॥
Sudha¶
** तः परः इति ** तपरपदे बहुव्रीहितत्पुरुषसमासद्वयं व्याख्यानादतो वृत्तावाह — <w>तः परो यस्मात्तात्परश्चेति <w> ॥