11068: स्वं रूपं शब्दस्याशब्दसंज्ञा¶
Padacheda: स्वम् | S | 1 | 1 |
रूपम् | S | 1 | 1 |
शब्दस्य | S | 6 | 1 |
अ-शब्दसंज्ञा | S | 1 | 1 |
Sutrartha¶
व्याकरणशास्त्रे संज्ञाशब्दान् वर्जयित्वा अन्यत्र शब्दग्रहणेन स्वरूपग्रहणं भवति । संज्ञाशब्दानां ग्रहणेन तु अर्थग्रहणं क्रियते ।
अष्टाध्याय्यां विद्यमानेषु सूत्रेषु प्रयुक्तानां शब्दानाम् कः अर्थः सामान्यरूपेण स्वीकरणीयः अस्मिन् विषये अनेन सूत्रेण द्वौ नियमौ उच्येते । तदित्थम् — 1) स्वम् रूपम् शब्दस्य — सामान्यतः व्यवहारे (इत्युक्ते, भाषायाम्) शब्दानां प्रयोगः ‘अर्थम्’ अभिलक्ष्य क्रियते । यथा, ‘अग्निः दहति’ अस्य वाक्यस्य अर्थः ‘अग्निः इति शब्दः दहनं करोति’ — इति नास्ति, अपितु ‘अग्निः नाम यः कश्चन पदार्थः अस्ति सः दहति’ — इति अस्य अर्थः । अतएव, ‘अग्निः दहति’, ‘वह्निः दहति’, ‘पावकः दहति’ — एतानि सर्वाणि अपि वाक्यानि समानार्थकानि एव स्वीक्रियन्ते । एवमेव, ‘गाम् आनय’ इत्युक्ते ‘गाम् नाम कञ्चन शब्दम् आनय’ इति न, अपितु ‘गौः इति नाम्ना प्रचलितम् प्राणिनम् आनय’ इति अर्थः भवति । अनेन प्रकारेण भाषायाम् ‘अर्थप्राधान्यम्’ वर्तते, न हि ‘शब्दप्राधान्यम्’ । परन्तु, व्याकरणशास्त्रे तु शब्दस्यैव प्राधान्यम् अस्ति, अर्थस्य न। यथा, अग्नेर्ढक् (4.2.33) इत्यनेन सूत्रेण यः ढक्-प्रत्ययः विधीयते, सः ‘अग्नि’ इति ‘शब्दस्य’ विषये उक्तः अस्ति, हि ‘अग्नि’ इति अर्थस्य विषये । अतएव, अनेन सूत्रेण उक्तः ढक्-प्रत्ययः ‘पावक’, ‘वह्नि’, ‘अनल’, एतादृशेभ्यः शब्देभ्यः नैव भवति, अपि तु केवलम् ‘अग्नि’ इत्येतस्मात् शब्दात् एव विधीयते । व्याकरणशास्त्रे उक्तम् सर्वम् अपि कार्य ‘शब्दनिष्ठितम्’ ज्ञेयम्, न हि ‘अर्थनिष्ठितम्’ इत्येन अस्य आशयः । अयमेव बिन्दुः अस्य सूत्रस्य प्रथमांशेन ज्ञाप्यते । व्याकरणशास्त्रे ‘शब्दस्य स्वं रूपम् स्वीकर्तव्यम्’ इति अस्य अंशस्य अर्थः । ‘स्वं रूपम्’ इत्युक्ते शब्दस्य आनुपूर्वी (the exact sequence of letters) — इति । एतत् रूपमेव व्याकरणशास्त्रे ग्राह्यम्, न हि तस्य अर्थः । अयम् अस्य सूत्रस्य पूर्वार्धः अस्ति । 3. अशब्दसंज्ञा — व्याकरणशास्त्रे शब्दानां वर्णानां वा लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः पाठिताः सन्ति । एतासाम् संज्ञानाम् विषये तु अर्थस्य एव ग्रहणं भवति, न हि शब्दस्य । यथा, विरामोऽवसानम् (1.4.110) इति सूत्रेण ‘अवसान’ इति काचित् संज्ञा पाठ्यते । ‘वर्णानाम् अभावः अवसानसंज्ञकः भवति’, इति अस्य सूत्रस्य अर्थः । अत्र पाठिता ‘अवसान’इति संज्ञा अग्रे खरवसानयोर्विसर्जनीयः (8.3.15) इत्यस्मिन् सूत्रे यदा प्रयुज्यते, तदा तत्र ‘अवसान’ इति शब्देन न हि वर्णक्रमः (आनुपूर्वी) लक्ष्यते, अपि तु ‘विरामः’ इति अर्थः एव गृह्यते । इत्युक्ते खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन सूत्रेण रेफस्य यः विसर्गादेशः विधीयते, सः ‘विरामे’ परे भवति, न हि ‘अवसानशब्दे परे’ । अनेनैव प्रकारेण व्याकरणशास्त्रे प्रयुक्तानां सर्वासाम् अपि संज्ञानाम् विषये सूत्रेषु अर्थस्य ग्रहणं कर्तव्यम्, न हि शब्दस्वरूपस्य । अयमेव बिन्दुः अस्य सूत्रस्य द्वितीयांशेन ज्ञाप्यते । ‘संज्ञाशब्दानां विषये शब्दस्वरूपम् न ग्राह्यम्’ इति अस्य अंशस्य अर्थः । अयम् अस्य सूत्रस्य उत्तरार्धः अस्ति । अनेन प्रकारेण, एतौ द्वौ अंशौ मिलित्वा — व्याकरणशास्त्रे संज्ञाशब्दानां विषये अर्थस्य ग्रहणम् करणीयम्, अन्येषां शब्दानां विषये च शब्दस्य ग्रहणं करणीयम् इति सूत्रार्थः अत्र सिद्ध्यति ।
पर्यायशब्दानां ग्रहणार्थम् अनुबन्धयोजनम्
यद्यपि प्रकृतसूत्रेण ‘शब्दानां स्वस्य रूपस्यैव ग्रहणं करणीयम्’ इति नियमः उच्यते, तथापि अष्टाध्याय्यां केषुचन स्थलेषु तत्र निर्दिष्टानाम् शब्दानाम् अर्थस्य अपि ग्रहणम् इष्यते । यथा, पक्षिमत्स्यमृगान् हन्ति (4.4.35) इत्यस्मिन् सूत्रे विद्यमानेन ‘मत्स्य’ इति शब्देन तत्पर्यायवाचकस्य मीनशब्दस्यापि ग्रहणं भवति इति अस्य सूत्रस्य व्याख्याने स्पष्टीकृतम् अस्ति । एतादृशान् (इत्युक्ते, येषाम् अर्थग्रहणम् इष्यते तादृशान्) शब्दान् अन्यशब्दानाम् अपेक्षया पृथग् रूपेण दर्शयितुम् वार्त्तिककारेण — एतादृशेषु शब्देषु केचन अनुबन्धाः (इत्संज्ञकवर्णाः) स्थापनीयाः — इति उक्त्वा आहत्य चतुर्णाम् अनुबन्धानाम् भिन्नेषु अर्थेषु विधानम् कृतम् अस्ति । तदित्थम् — 1. <!सित्तद्विशेषाणां वृक्षाद्यर्थम्!> (<light>सित् तद्विशेषाणाम्; वृक्षाद्यर्थम्</light>) — यत्र शब्दग्रहणेन स्वस्य रूपस्य ग्रहणं न इष्यते अपि तु जातिनिर्देशः इष्यते, तत्र तेषु शब्देषु **सकारः अनुबन्धरूपेण योजनीयः** — इति अस्य वार्त्तिकस्य अर्थः । यथा, विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (2.4.12) अस्मिन् सूत्रे विद्यमानै: ‘वृक्ष’, ‘मृग’ आदिभिः शब्देः जातेः ग्रहणम् इष्यते, न हि शब्दस्वरूपस्य ग्रहणम् । इत्युक्ते, अस्मिन् सूत्रे विद्यमानः ‘वृक्ष’ इति शब्दः वस्तुतः वृक्षजातेः (names of all the trees) निर्देशं करोति, न हि ‘वृक्ष’शब्दस्य, तत्पर्यायवाचकानाम् वा शब्दानाम् । अतएव ‘प्लक्ष’ (एकस्य वृक्षस्य नाम) तथा च ‘न्यग्रोध’ (अन्यप्रकारकस्य वृक्षस्य नाम) इत्येतयोः शब्दयोः अनेन सूत्रेण द्वन्द्वसमासे कृते ‘प्लक्षन्यग्रोधम्’ इति रूपं सिद्ध्यति । एतादृशः जातिनिर्देशः येषां शब्दानां विषये इष्यते, तेषु शब्देषु इत्संज्ञकः सकारः योजनीयः (अतश्च, अत्र पाठिताः शब्दाः ‘वृक्षस्’, ‘मृगस्’, ‘तृणस्’ एतादृशाः सितः ज्ञेयाः), इति अस्य वार्त्तिकस्य आशयः । 2. <!पित्पर्यायवचनस्य च स्वाद्यर्थम्!> (<light>पित् पर्यायवचनस्य, [तद्-विशेषाणाम्, स्वस्य] च; स्वाद्यर्थम्</light>)— यत्र शब्दग्रहणेन स्वस्य रूपस्य, पर्यायशब्दानां, तथा च जातेः - इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु **पकारः अनुबन्धरूपेण योजनीयः** — इति अस्य वार्त्तिकस्य अर्थः । यथा, स्वे पुषः (3.4.40) अस्मिन् सूत्रे विद्यमानेन ‘स्व’ इति शब्देन - (1) ‘स्व’ इति आनुपूर्वी, (2) स्व-शब्दस्य सर्वे अर्थाः, यथा धन, बान्धव, आत्मीय - एते शब्दाः, (3) तथा च ‘स्व’ इत्यस्य विशेषाः (specific instances of things that belong to oneself) - यथा अश्वः, गौः - आदयः — इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते । अतएव ‘स्व’, ‘धन’, ‘अश्व’ एतेषाम् सर्वेषाम् अपि उपपदानाम् उपस्थितौ ‘पुष्’ धातोः णमुल्-प्रत्ययं कृत्वा ‘स्वपोषम्’, ‘धनपोषम्’, ‘अश्वपोषम्’ - एतानि कृदन्तरूपाणि सिद्ध्यन्ति । अस्यां स्थितौ ‘स्व’ इति शब्दस्य निर्देशः इत्संज्ञकपकारेण सह (इत्युक्ते, ‘स्वप्’ इति) करणीयः, इति अस्य वार्त्तिकस्य अर्थः । 3. <!जित्पर्यायवचनस्यैव राजाद्यर्थम्!> (<light>जित् पर्यायवचनस्य एव; राजाद्यर्थम्</light>) — यत्र शब्दग्रहणेन केवलम् पर्यायवाचकशब्दानाम् एव ग्रहणम् इष्यते, न हि स्वस्य रूपस्य उत जातेः, तत्र तेषु शब्देषु **जकारः अनुबन्धरूपेण योजनीयः** — इति अस्य वार्त्तिकस्य अर्थः । यथा, सभा राजामनुष्यपूर्वा (2.4.23) अस्मिन् सूत्रे विद्यमानेन ‘राजा’ इति शब्देन ‘राजा’ इति साक्षात् शब्दः न गृह्यते अपितु ‘राजा’ इत्यस्य समानार्थकाः शब्दाः (यथा ‘इन’, ‘नृप’, ‘प्रभुः’ आदयः) एव गृह्यन्ते । अतएव अनेन सूत्रेण ‘इनसभम्’, ‘नृपसभम्’ एते सर्वे तत्पुरुषसमासाः नपुंसकलिङ्गाः भवन्ति; परन्तु ‘राजा’ इति साक्षात्-शब्दस्य ग्रहणम् अनेन सूत्रेण न भवति, अतः ‘राजसभा’ इति शब्दः स्त्रीलिङ्गे एव प्रयुज्यते । एतादृशम् केवलानाम् पर्यायशब्दानाम् ग्रहणम् यत्र भवति, तत्र ‘जकारः’ अनुबन्धरूपेण योजनीयः (इत्युक्ते, अत्र ‘राजा’ इत्यस्य स्थाने ‘राजाज्’ इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः । 4. <!झित्तद्विशेषाणां च मत्स्याद्यर्थम्!> (<light>झित् तद्विशेषाणाम्, [स्वस्य] च; मत्स्याद्यर्थम्</light>) — यत्र शब्दग्रहणेन तस्य शब्दस्य स्वस्य रूपस्य, तथा च तस्याः जातेः अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु **झकारः अनुबन्धरूपेण योजनीयः** — इति अस्य वार्त्तिकस्य अर्थः । यथा, पक्षिमत्स्यमृगान् हन्ति (4.4.35) अस्मिन् सूत्रे विद्यमानेन ‘पक्षि’ इति शब्देन ‘पक्षि’ इति आनुपूर्वेः ग्रहणम् तु अवश्यमेव भवति, परन्तु पक्षिजातेः निर्देशकशब्दानाम् (यथा, शकुन, मयूर, तित्तिर - एतेषां शब्दानाम्) अपि ग्रहणम् भवति । अतएव ‘शकुनं हन्ति’, ‘मयूरं हन्ति’, ‘तित्तिरं हन्ति’ तथा च ‘पक्षिणं हन्ति’ इत्यत्र सर्वत्र पक्षिमत्स्यमृगान् हन्ति (4.4.35) इति सूत्रेण ठक्-प्रत्यये कृते ‘शाकुनिक’, ‘मायूरिक’, ‘तैत्तिरिक’, ‘पाक्षिक’ एते सर्वे शब्दाः सिद्ध्यन्ति । अनेन प्रकारेण यत्र मूलशब्दस्य, तद्विशेषाणां च ग्रहणम् इष्यते, तत्र झकारः अनुबन्धरूपेण योजनीयः (अतश्च अत्र ‘पक्षि’ इत्यस्य स्थाने ‘पक्षिझ्’ इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः । एतानि चत्वारि वार्त्तिकानि संक्षेपेण —
<li>**सित्** — स्वस्य ग्रहणम् ❌ । पर्यायवाचकशब्दानां ग्रहणम् ❌ । तद्विशेषशब्दानां ग्रहणम् ✅ । <li>**पित्** — स्वस्य ग्रहणम् ✅ । पर्यायवाचकशब्दानां ग्रहणम् ✅ । तद्विशेषशब्दानां ग्रहणम् ✅ । <li>**जित्** — स्वस्य ग्रहणम् ❌ । पर्यायवाचकशब्दानां ग्रहणम् ✅ । तद्विशेषशब्दानां ग्रहणम् ❌ । <li>**झित्** — स्वस्य ग्रहणम् ✅ । पर्यायवाचकशब्दानां ग्रहणम् ❌ । तद्विशेषशब्दानां ग्रहणम् ✅ ।
परिभाषा - अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्
महाभाष्ये अस्य सूत्रस्य व्याख्याने भाष्यकारः आदौ पृच्छति - अस्मिन् सूत्रे स्वम् शब्दस्य ग्रहणम् किमर्थम् कृतम् अस्ति — इति । ‘रूपम्’ इति शब्देनैव ‘शब्दस्वरूपम्’ इति अर्थे सिद्धे, तत्र पुनः ‘स्व’शब्दस्य ग्रहणम् ‘अर्थ’निर्देशार्थम् अस्ति इति उत्तरम् अत्र भाष्यकारेण दीयते । इत्युक्ते, अत्र ‘स्व’ इति शब्दः ‘अर्थः’ इत्यस्मिन् अर्थे प्रयुज्यते, इति आशयः । एतादृशं क्रियते चेत् ‘अर्थवता शब्देन स्वस्य ग्रहणं भवति’ इति सूत्रार्थः फलति । अस्यैव अपरः अर्थः — ‘अनर्थकशब्देन कस्यापि ग्रहणं न भवति’ इति वक्तुं शक्यते । एतम् बिन्दुम् आधारीकृत्य एव भाष्यकारः अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषाम् अपि अस्मिन् सन्दर्भे विदधाति । यत्र शब्दस्य किमपि कार्यम् उच्यते, तत्र अर्थवता शब्दस्यैव ग्रहणं करणीयम्, न हि अनर्थकशब्दस्य — इति अस्याः परिभाषायाः आशयः । अस्मिन् विषये अधिकं जिज्ञासवः अस्य सूत्रस्य भाष्यम्, अथ वा परिभाषेन्दुशेखरे परिभाषा-14 इत्यत्र पश्येयुः ।
Sutrartha (English)¶
The words used in the rules of the grammar represent the verbatim sequence of the letters (and not their underlying meaning); except for the technical terms which represent the meaning rather than the verbatim sequence of the letters.
Vasu English Summary¶
In this Grammar, when an operation is directed with regard to a word, the individual form of the word possessing meaning is to be understood, except with regard to a word which is a definition.
Vasu English Translation¶
In this Grammar, when an operation is directed with regard to a word, the individual form of the word possessing meaning is to be understood, except with regard to a word which is a definition. This is a rule of interpretation. The word स्वं which means ‘one’s own’ denotes ‘the meaning,’ and the word रूप denotes ‘the individual form of a word.’ The sense of the sutra is that a word denotes both things expressed by those two words स्वं and रूप, viz., its meaning, and its form. Thus a rule applicable to अग्नि will be applicable to the word composed of अ, ग्, न्, इ and not to the words synonymous with agni, such as, पाककः, ज्वलनः &c.
In this science, therefore, the very word-form is to be taken, and understood and operated upon, and not external sense: with the exception of words which are definitions, in the latter case the things defined are to be taken.
This sutra is begun in order to remove the difficulty which might otherwise arise from a consideration that a word connotes a certain meaning, and as no grammatical operation is possible in a concrete object, we must take the words having the same meaning. As when a person is called to bring a ‘cow,’ he brings the animal cow, and not the letters c, o, w. It may therefore be said, that as no grammatical operation is possible in a material thing, we may take all the names synonymous with the word and operate upon them; this sutra removes that doubt.
Thus the sutra अग्नेर्ढक् (4.2.33) declares:- “that the affix ‘dhak’ comes after the word ‘agni’.” Thus अग्नि + ढक् = आग्नेयम् “belonging to agni,” as in the following sentence आग्नेयमष्टाकपालं निर्वपेत्. Here the word अग्नि indicates the individual word-form अग्नि and not its synonyms. Similarly sutra (4.2.19) declares :- ‘let there be optionally ठक् after उदश्वित्.’ As औदश्वित्कम् (7.3.50) and (7.3.51) or औदश्वितम्. The rule applies to the word-form ‘udasvita’ meaning ‘curd-milk’ and not to तक्र, अरिष्ट, कालशेप, दण्डाहत and मथित, which are synonyms.
There is an important exception to this rule, and that is in favour of terms which are technical terms of Grammar and have been so defined.
Thus दाधाघ्वदाप् (1.1. 20) and तरप्तमपौ घः (1.1.22). Here the words ‘घु’ and ‘घ’ denote the words connoted by those terms and not to their word-form. There are, however, some sutras in Panini which are apparently exceptions to this rule. These exceptions have been arranged under four heads, technically called सित्, पित्, जित्, and झित्. When there is a rule about a word, it may mean that very word-form, or words representing species falling under that word, or words which are synonymous with it. Thus rule (2.4.12) declares, :- “वृक्ष ‘tree’ मृग ‘deer,’ तृण ‘grass,’ &c., may optionally be compounded as dvandva.” Here the word वृक्ष stands as a generic name for the species falling under it, and does not represent the word-form, वृक्ष. Thus we have dvandva-compound of प्लक्ष + न्यग्रोध, as प्लक्षन्यग्रोधम् or प्लक्षन्यग्रोधाः । Such sutras are called सित्.
Then in sutra * (3.4.40), we have an example of पित्. That *sutra means “the word पुष ‘to feed’ takes the affix णमुल (अम्) when compounded with the word स्व.” Here the word ‘स्व’ means both the word-form स्व, as well as the synonyms of स्व and the species of स्व. Thus स्व and धन ‘wealth’ are synonyms; while स्व ‘wealth’ and गो ‘cow’ are genus and species. Thus स्व + पुष् + णमुल् = स्वपोषम्. Similarly रैपोषम्, धनपोषम्, गोपोषम्, अश्वपोषम्. Such sutras are called पित्.
Then in sutra (2.4.23), we have an example of जित्. “A Tatpurusha compound ending with the word सभा ‘court’ is neuter, provided that it is preceded by the word raja, or by a word denoting a non-human being.” Here the synonyms only of the word ‘raja’ are taken, and neither the word-form ‘raja,’ nor the special instances falling under it. Thus इन ‘king’ + सभा = इनसभम् ‘king’s assembly,’ ईश्वर + सभा = ईश्वरसभम् ‘king’s assembly.’ But not राजसभम्, but राजसभा. Nor can we take particular kings, such as चन्द्रगुप्त or पुष्पमित्र. In their case we must have पुष्पमित्रसभा, चन्द्रगुप्तसभा.
Then in sutra (4.4.35), we have an example of झित्. The sutra means “the words पक्षि ‘bird’ मत्स्य ‘fish’ मृग ‘deer,’ take the affix ठक् when the meaning is the killer thereof.” Here the words पक्षि &c. denote both the word-forms पक्षि &c. as well as the species denoted by those terms, but not their synonyms. Thus पक्षि + ठक् = पाक्षिकः ‘a bird-killer,’ मात्स्यिकः, ‘a fish-catcher.’ शकुनि + ठक् = शाकुनिकः ‘a vulture-killer.’ But we cannot take the synonyms of ‘पक्षि,’ &c. except in the case of ‘मत्स्य,’ when we may take the word ‘मीन.’ As मात्स्यिकः and मैनिकः a fish killer.’
Bhashya¶
स्वं रूपं शब्दस्याशब्दसञ्ज्ञा रूपग्रहणं किमर्थम् ? न स्वं शब्दस्याशब्दसञ्ज्ञा भवतीत्येव रूपं शब्दस्य सञ्ज्ञा भविष्यति। न ह्यन्यत् स्वं शब्दस्यास्ति, अन्यदतो रूपात्। एवं तर्हि सिद्धे सति यद् रूपग्रहणं करोति तज्ज्ञापयत्याचार्यः - अस्त्यन्यद् रूपात् स्वं शब्दस्येति। किं पुनस्तत्? अर्थः। किमेतस्य ज्ञापने प्रयोजनम्? अर्थवद्ग्रहणे नानर्थकस्येत्येषा परिभाषा न कर्तव्या भवति। किमर्थं पुनरिदमुच्यते ? शब्देनार्थावगतेः अर्थे कार्यस्यासम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वं रूपवचनम्। शब्देनोच्चारितेनार्थो गम्यते। गामानय दध्यशानेति अर्थ आनीयते अर्थश्च भुज्यते। अर्थे कार्यस्यासंभावात्। इह च व्याकरणे अर्थे कार्यस्यासम्भवः। अग्नेर्ढगिति न शक्यतेऽङ्गारेभ्यः परो ढक कर्तुम्। शब्देनार्थावगतेरर्थे कार्यस्यासम्भवात् यावन्तस्तद्वाचिनः शब्दास्तावद्भ्यः सर्वेभ्य उत्पत्तिः प्राप्नोति। इष्यते च तस्मादेव स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थं स्वंरूपवचनम् एवमर्थमिदमुच्यते। न वा शब्दपूर्वको ह्यर्थे सम्प्रत्ययतस्मादर्थनिवृत्तिः। न वा एतत् प्रयोजनमस्ति। किं कारणम्? शब्दपूर्वको ह्यर्थे सम्प्रत्ययः। आतश्च शब्दपूर्वकः। योपि ह्यसावाहूयते नाम्ना। नाम च यदानेन नोपलब्धं भवति तदा पृच्छति किं भवानाहेति। शब्दपूर्वकश्चार्थस्य सम्प्रत्ययः। इह च व्याकरणे शब्दे कार्यस्य संभावः, अर्थेऽसंभावः तस्मात् तदर्थनिवृत्तिर्भविष्यति। इदं तर्हि प्रयोजनम्। अशब्दसंज्ञेति वक्ष्यामीति। इह मा भूत् दाधा घ्वदाप्। तरप्तमपौ घ इति। शब्दसञ्ज्ञाप्रतिषेधानर्थक्यं वचनप्रमाण्यात्। शब्दसञ्ज्ञायाः प्रतिषेधोऽनर्थकः। शब्दसञ्ज्ञायां स्वरूपविधिः कस्मान्न भवति। वचनप्रामाण्यात्। शब्दसञ्ज्ञावचनसामार्थ्यात्। ननु च वचनप्रामाण्यात् सञ्ज्ञिनां सम्प्रत्ययः स्यात् स्वरूपग्रहणाच्च सञ्ज्ञायाः। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - न शब्दसञ्ज्ञायां स्वरूपविधिर्भवतीति। यदयं ष्णान्ता षडिति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां शास्ति। इतरथा हि वचनप्रामाण्याच्च नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात्। स्वरूपग्रहणाच्च षकारान्तायाः। नैतदस्ति ज्ञापकम्। नहि षकारान्ता सञ्ज्ञा। का तर्हि? डकारान्ता। असिद्धं जश्त्वं, तस्यासिद्धत्वात् षकारान्ता। मन्त्राद्यर्थं तर्हीदं वक्तव्यम्। मन्त्रे ऋचि यजुषीति यदुच्यते तन्मन्त्रशब्दे ऋक्शब्दे यजुःशब्दे च मा भूत्। मन्त्राद्यर्थमिति चेच्छास्त्रसार्मथ्यादर्थगतेः सिद्धम्। मन्त्राद्यर्थमिति चेत् तन्न। किं कारणम्? शास्त्रस्य सामार्थ्यादर्थस्य गतिर्भविष्यति। मन्त्रे ऋचि यजुषिति यदुच्यते मन्त्रशब्दे ऋक् शब्दे यजुःशब्दे च तस्य कार्यास्य सम्भवो नास्तीति कृत्वा मन्त्रादिसहचारितो योऽर्थस्तस्य गतिर्भविष्यति साहचर्यात्। सित्तद्विशेषाणां वृक्ष्याद्यार्थम्। सिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवतीति। किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगेति। प्लक्षन्यग्रेधं प्लक्षन्यग्रोधाः। पित्पर्यायवचनस्य च स्वाद्यर्थम्। पिन्निर्देशः कर्तव्यः। ततो वक्तव्यम्। पर्यायवचनस्य च तद्विशेषाणां च ग्रहणं भवति स्वस्य रूपस्येति। किं प्रयोजनम्? स्वाद्यर्थम्। स्वे पुषः। स्वपोषं पुष्यति। रैपोषम्। धनपोषम्। अश्वपोषम्। गोपोषम्। जित्पर्यायवचनस्यैव राजाद्यर्थम्। जिन्निर्देशः। कर्तव्यः। ततो वक्तव्यम्। पर्यावचनस्यैव ग्रहणं भवति। किं प्रयोजनम्? राजाद्यर्थम्। सभा राजाऽमनुष्यपूर्वा। इनसभम्। इर्श्वरसभम्। तस्यैव न भवति। राजसभा। तद्विशेषाणां च न भवति। पुष्यमित्रसभा। चन्द्रगुप्तसभा। झित्तस्य च तद्विशेषाणां च मत्स्याद्यार्थम्। झिन्निर्देशः। कर्तव्यः। ततो वक्तव्यम् - तस्य च ग्रहणं भवति तद्विशेषाणां चेति। किं प्रयोजनम्? मत्स्याद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति। मात्स्यिकः। तद्विशेषाणाम्शाफरिकः,। शाकुलिकः। पर्यायवचनानां न भवति। अजिह्यान् हन्ति। अनिमिषान् हन्ति। अस्यैकस्य पर्यायवचनस्येष्यते- मीनान् हन्ति मैनिकः।
Kashika¶
शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसंज्ञां वर्जयित्वा। शब्देनार्थावगतेरर्थे कार्यस्यासंभवात् तद्वाविचां शब्दानां संप्रत्ययो मा भूदिति सूत्रमिदमारभ्यते। अग्नेर्ढक् (४.२.३३) — आग्नेयमष्टाकपालं निर्वपेत् (वै०श्रौ० १.१९)। अग्निशब्दोऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः पावको धूमकेतुरिति, नातः प्रत्ययो भवति। उदश्वितोन्यतरस्याम् (४.२.१९) — औदश्वित्कम्। औदश्वितम्। तक्रमरिष्टं कालशेयं दण्डाहतं मथितमिति नातः प्रत्ययो भवति। अशब्दसंज्ञेति किम्? दाधा घ्वदाप् (१.१.२०), तरप्तमपौ घः (१.१.२२) घुग्रहणेषु घग्रहणेषु च संज्ञिनां ग्रहणम्, न संज्ञायाः॥ सित्तद्विशेषाणां वृक्षाद्यर्थम्॥ सिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवतीति। किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगतृण० (२.४.१२) इति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः॥ पित्पर्यायवचनस्य च स्वाद्यर्थम्॥ पिन्निर्देशः कर्तव्यः। ततो वक्तव्यं पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां चेति। किं प्रयोजनम्? स्वाद्यर्थम्। स्वे पुषः (३.४.४०) — स्वपोषं पुष्टः। रैपोषम्। धनपोषम्। अश्वपोषम्। गोपोषम्॥ जित्पर्यायवचनस्यैव राजाद्यर्थम्॥ जिन्निर्देशः कर्तव्यः। ततो वक्तव्यं पर्यायवचनस्यैव ग्रहणं भवतीति, न स्वरूपस्य, नापि तद्विशेषाणाम्। किं प्रयोजनम्? राजाद्यर्थम्। सभा राजामनुष्यपूर्वा (२.४.२३) — इनसभम्। ईश्वरसभम्। तस्यैव न भवति — राजसभा। तद्विशेषाणां च न भवति — पुष्यमित्रसभा। चन्द्रगुप्तसभा॥ झित्तद्विशेषाणां च मत्स्याद्यर्थम्॥ झिन्निर्देशः कर्तव्यः। ततो वक्तव्यं तस्य च ग्रहणं भवति तद्विशेषाणां चेति। किं प्रयोजनम्? मत्स्याद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति (४.४.३५) इति ठक्। पाक्षिकः। मात्स्यिकः। तद्विशेषाणाम् — शाकुनिकः। पर्यायाणां न भवति — अजिह्मान् हन्ति। अनिमिषान् हन्तीति। अथैकस्येष्यते। मीनान् हन्ति मैनिकः॥
Siddhanta Kaumudi¶
शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥
Laghu Shabdendushekhar¶
स्वं रूपं स्वरूपमित्यस्य बोद्ध्यमिति शेषो व्याख्यानात्तदाह सञ्ज्ञीति । राज्ञो यत् ((4.1.137)) इत्यादौ लौकिकव्युत्पत्त्योपस्थितार्थस्य प्रत्ययेन पौवपर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासम्भवाच्च तदर्थकशब्दमात्रग्रहणापत्तौ नियमार्थं सूत्रम् । तत्र स्वशब्द आत्मीयत्वेनार्थमाह - रूपशब्देन शब्दस्वरूपम्, एतदुभयं सञ्ज्ञीत्यर्थः । तत्रार्थो न विशेष्यः, उक्तयुक्तेः, किन्तु शब्दविशेषणम् । एवञ्च — अर्थविशिष्टः शब्दः सञ्ज्ञी इत्यर्थवद्ग्रहणपरिभाषा सिद्धा । अत्र चार्थः — कल्पितान्वयव्यतिरेककल्पितः, प्रकृतिप्रत्ययादिबोध्यः शास्त्रीयोऽपि । स च मुख्यः प्रसिद्धश्चेति — गौणमुख्यन्यायः, अभिव्यक्तपदार्था ये इति न्यायश्च सिद्धः। अत एवेयं विशिष्टरूपोपादान एव, इदं सूत्रञ्च । तत्रैवार्थोपस्थितेस्तत्रैवानियमप्रसक्तेश्च, न तु वर्णग्रहणे इत्याकरे स्पष्टम् । दाधाघु (1.1.20) इत्यस्य ई हल्यघो: (6.4.113) इत्यादौ चारितार्थ्येन उपसर्गे घोः (3.3.92) इत्यादौ स्वरूपमित्यनेन परत्वाद्बाधशङ्कावारणार्थम् — अशब्दसञ्ज्ञेति । नात्र षष्ठीतत्पुरुषः, कर्मसञ्ज्ञादेरर्थसञ्ज्ञात्वेन निषेधाप्रवृत्तौ कर्मण्यण् (3.2.1) इत्यादौ स्वरूपग्रहणापत्तेः, किन्तु सप्तमीतत्पुरुषः । शब्दपदेन च शब्दशास्त्रं तदाह शब्दशास्त्रे इति । भाष्ये तु अर्थे कार्यस्य बाधेऽप्युपस्थितत्वात् ‘राज्ञ’ इत्यादौ तज्जन्यबोधे प्रकारतया भासमानस्य राजन्-शब्दस्यैव ग्रहणं भविष्यतीति व्यर्थं सूत्रम् । उपस्थितार्थत्यागे मानाभावेन तस्य विशेषणतयाऽन्वयसम्भवेन चार्थवत्परिभाषापि सिद्धा । लक्ष्यानुसारात् तत्तत्संज्ञाकरणज्ञानरूपप्रकरणाच्च षान्तसंख्यावाचकषष्शब्दस्य षट्सञ्ज्ञाकरणेन शब्दशास्त्रीयसञ्ज्ञायां स्वरूपाग्रहणज्ञापनाच्च उपसर्गे घोः (3.3.92) इत्यादावदोषेणाशब्दसञ्ज्ञेत्यपि व्यर्थमित्युक्तम् । अत एव जनपदापत्यपशुदेवतादिशब्देषु न दोषः । अत एव वृक्षादिषु विशेषाणां ग्रहणं स्वे पुष (3.4.40) इत्यत्र पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, सभाराजा (2.4.23)) इत्यत्र पर्यायाणामेव ग्रहणम्, पक्षिमत्स्यमृगान्हन्ति (4.4.35) इत्यादौ मृगपक्षिणोः पर्यायाणां विशेषाणां स्वरूपस्य च ग्रहणम्, मत्स्यपदेन स्वरूपस्य विशेषाणां मीनरूपपर्यायस्य च ग्रहणं सिद्ध्यति । अन्यथा तदर्थं यत्नः कर्त्तव्यः । परेश्च घाङ्कयोः (8.2.22) इत्यत्र घशब्देन स्वरूपग्रहणं नदीपौर्णमासि (5.4.110) इत्यत्र नदीपदेन च स्वरूपग्रहणं सिद्ध्यति । लक्ष्यानुसारिव्याख्यानेन च मम सर्वेष्टसिद्धिः । ज्ञापकपक्षेऽपि ज्ञापकसिद्धस्यासार्वत्रिकत्वान्न दोषः । अत एव भगवता ज्ञापकेन सिद्धं वचनं प्रत्याख्यातमिति दिक् ।
Balamanorama¶
स्वं रूपं शब्दस्याशब्दसंज्ञा - ॒अग्नेर्ढक्॒वाय्वृतुपित्रुषसो यत्राज्ञो य॑दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते — स्वं रूपम् ।अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि । शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम॑ इत्यर्थः । तदाह — शब्दस्य स्व रूपं संज्ञीति । बोध्यमित्यर्थः । न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्,उपसर्ग घोः कि॑रित्यत्र ‘घु शब्दे’ इति घुधातुनिवृत्त्यर्थत्वात् ‘दाधा ध्वदाप्’ इति संज्ञाकरणस्यघुमास्थागापाजहातिसां हलि॑ इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः । इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
Tattvabodhini¶
स्वं रूपं शब्दस्याशब्दसंज्ञा - स्वं रूपं शब्दस्य ।अग्नेर्ढक् । आग्नेयम् ।आङो यमहनः॑ । आयच्छते, आहते । इह-अग्नि, आङ्, यम्, हन्, -एते एव संज्ञिनः । नन्वग्न्यादिवाच्यादङ्गारादेर्ढगादिप्रत्ययो न संभवतीति स्वरूपादेव स्यात्,प्रातिपदिका॑दित्याद्यधिकाराच्च किमनेन सूत्रेणेति चेत् , सत्यम् । अग्न्यादिशब्दपर्यायेभ्योवह्वयादिभ्यो मा भूदिति सूत्रस्याऽस्यारम्भः । नन्वत्र रूपग्रहणं विनापि स्वशब्देन रूपमेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च । अर्थो हि प्रतीतौ संबन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणः , पदज्ञानजन्यवोधविषयत्वाद्बहिरङ्गः, अनुकरणदशायामप्रतीतेरनियतोपस्थितिकश्चेति किमनेन रूपग्रहणेन ।उच्यते-॒इह शास्त्रे अर्थोऽपि विवक्षितो रूपव॑दिति ज्ञापनार्थं रूपग्रहणम् । तेनअर्थवद्ग्रहणे नानर्थकस्ये॑त्युपपन्नं भवति । तत्रोक्ताज्ञापकादर्थो ग्राह्रः,स्व॑मिति वचनात्स्वं रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेनकाशे॑कुशे॑ इत्यत्रशे॑ इत्ययं प्रगृह्रसंज्ञो न भवति ।प्रादूहोढेइत्यत्र तुऊढग्रहणेन क्तान्तमेव गृह्रते नतु क्तवत्वन्तस्यैकदेशः॑ इत्यन्यत्र विस्तरः । अशब्दसंज्ञेति किम् उपसर्गे घोः किः॑-दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थकान्मा भूत् । नचदाधा घु॑ इति घुसंज्ञाकरणसामर्थ्यादेव दाधाभ्यः किः स्यादिति वाच्यम्,घुमास्थे॑त्यादिना आत ईत्त्वविधौ संज्ञाकरणस्यावश्यकतया सामर्थ्योपक्षयात् । इह (अ) शब्दस्य संज्ञा (अ) शब्दसंज्ञेति न षष्ठीसमासः,कर्म॑करण॑मित्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः, किंतु शब्दः-शब्दशास्त्रं, तत्र संज्ञा शब्दसंज्ञेति सप्तमीसमासस्तदाह — शब्दशास्त्रे या संज्ञेति ।
Padamanjari¶
स्वरूपस्य पर्यायाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयम् । शास्त्राङ्गत्वाच्च परिभाषाणां शास्त्र एव नियमः, न लोक इत्याह - शास्त्रे स्वमेवेत्यादि, ग्राह्यमिति । ‘ग्राह्मम्’ इति णिजन्ताद् यत्, एतच्चाध्याहारेण लब्धम् । शब्दस्येति ‘कृत्यानां कर्तरि वा’ इति षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयतीत्यर्थः । संज्ञापक्षे तु वृतावेव शब्दः संज्ञानुच्चारणं च नोपपद्येत । सूत्रे षष्ठीनिर्देशोऽपि नातीव युक्तः स्यात्; संज्ञासंज्ञिसम्बन्धे प्रायेण सामानाधिकरण्यदर्शनात् । रूपशब्देन चेहाग्निशब्दत्वादिकं शुकसारिकापुरुषादिभिरुदीरिता सुभिन्नासु शब्दव्यक्तिषु समवेतं सामान्यमिभिधीयते । ‘अग्नेर्ढक्’ इति सूत्रकारेण या व्यक्तिरुच्चारिता, तस्याः सर्वोच्चारणेष्वनुगतं सामान्यं वाच्यमित्यर्थः । सामान्यस्य कार्ययोगो व्यक्तिद्वारक इति तेन तेनोच्चारिताया स्तस्यास्तस्या व्यक्तेर्ढग् भवतीत्यर्थः सम्पद्यते । एवकारस्य व्यच्छेद्यं दर्शयति - न बाह्यएऽर्थ इति । शब्दसंज्ञां वर्जयित्वेति । शब्दसंज्ञासु स्वरूपं ग्राह्यं नभवतीत्यर्थः । अनियमप्रसङ्गे नियमः कर्तव्यस्तं दर्शयति-शब्देनेत्यादि । लोके गौरुपलभ्यतामित्युक्तेऽर्थ एव कार्ययोगो गम्यते, न हि शब्दरूमुपलभ्य कृती भवति; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थे न सम्भवति, तेन सह पौर्वापर्यायोगात् । तेन ‘अग्नेर्ढक्’ इत्युक्ते लोकवदर्थ एव तावत्प्रतीयते, तत्र सम्भवो नास्ति; अतस्तद्वाचिनां सर्वेषां सम्प्रत्ययः स्याद्, यथा-आकृतियोदनायां व्यक्तीनाम्, मा भूदेष दोषः; उपातादेव यथा स्यादिति नियमार्थमिदमारभ्यत इत्यर्थः । औदश्वित्कमिति । उदश्विति संस्कृतमिति सप्तमीसमर्थाट्टक्, ‘इसुसुक्तान्तात्कः’ । घुग्रहणेष्वित्यादि । अन्यथा ‘उपसर्गे घोः किः’ इति किप्रत्ययो धातोरेव घोः शब्दार्थत्स्यात्, न तु दाधाभ्यः । ‘ई हल्यघोः’ इत्यत्र तु घुशब्दस्यानाकारान्तत्वाद्दाधानामेव ग्रहणं सिध्यति । कुमारीघ इत्यत्र ‘घरूप’ इति ह्रस्वप्रसङ्गः । ननु च प्रदेशेषु संज्ञिसम्प्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात् स्वरूपग्रहणं न भविष्यति, नैतदस्ति; उभयगतिरिह शास्त्रे सम्भवतीति सङ्ख्याकर्मकरणादिष्विव स्वरूपस्य संज्ञिनश्च प्रदेशेषु ग्रहणं स्यात् । ज्ञापकात्सिद्धम्; यदयं ‘ष्णान्ता षट्’ इति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां विदधाति, तज्ज्ञापयति-संज्ञाशब्दो न स्वरूपग्राहक इति । अन्यथा ‘षड्भ्यो लुक्’ ‘षट्चतुर्भ्यश्च’ इत्यादौ स्वरूपस्यापि षडित्यस्य ग्रहणात् षकारान्तायाः सङ्ख्यायाः षट्संज्ञां न विदध्यात् । ननु च षकारान्ता संज्ञा षकारान्तस्य कार्यमिष्यते, संज्ञापि षकारान्तैव; अतो नार्थोऽशब्दसंज्ञेत्यनेन ? सत्यम्; प्रतिपतिगौरवपरिहारार्थः प्रतिषेधः । शब्दशब्देन चाभेदीपचारात् व्याकरणमुच्यते, शब्दे संज्ञा शब्दसंज्ञा; एवं च कर्मकरणमित्यादिष्वर्थसंज्ञास्वपि शास्त्रीयासु स्वरूपग्रहणं न भवति । अथ रूपग्रहणं किमर्थम्, इह यावता प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वान्नित्यसम्बन्धित्वाच्च तदेव शब्दस्य स्वार्थो हि स्वप्रतीतौ सम्बन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणश्चानित्यसंबन्धश्चानुकरणदशायामभावात्, न चार्थो ग्राहकः शक्यते कर्तुम्, ग्राह्यत्वे च सूत्रमनर्थकं स्यादिति नार्थो रूपग्रहणेन ? एवं तर्ह्योतज् ज्ञापयति - शास्त्रे स्वरूपेण समानकक्ष्योऽर्थः’ इति । तेनार्थवद्ग्रहणेनानर्थकस्येत्युपपन्नं भवति । तत्र ज्ञापकादर्थोऽपि ग्राह्यः; स्वं रूपमिति वचनाद् । रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र ‘शे’ प्रगृह्यसंज्ञाभावः सिद्धः । सितद्विशेषाणामिति वार्तिकं व्याचष्टे-सिन्निर्देशः कर्तव्य इति । वृक्षस् इत्येवम् । ततो वक्तव्यमिति । स्वं रूपमित्यस्यानन्तरम् । ननु किं प्रयोजनमित्युक्ते वृक्षादीतिवक्तव्यम्, किमुच्यते-वृक्षाद्यर्थमिति ? वृक्षादिषु प्रयोजनमस्येत्युक्ते वृक्षाद्यस्य प्रयोजनमित्यर्थादुक्तं भवतीत्यदोषः । अस्यार्थस्य न्यायतः सिद्धिं विभाषेत्यत्र वक्ष्यामः । पित्पर्यायवचनस्य चेति । चकारात्स्वस्वरूवस्य विशेषाणां च । इदं वाचनिकमेव । जित्पर्यायस्येत्यास्यापि न्यायतः सिद्धिं वक्ष्यामः । झितस्य चेति । इदं वाचनिकमेव । मृगपक्षिणस्तु पिन्निर्देशः कर्तव्य इत्याहुः । अथैकस्येति । इयमिष्टिरेव ॥
Nyaas¶
शास्त्रे स्वमेव इत्यादि। शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्रत्वात्। शब्दस्येति कृत्यानां कर्तरि वा (2.3.71) इति कर्तरि षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयति, प्रत्याययतीत्यर्थः। कः पुनः शब्दस्य स्वरूपस्य च भेदः? येन शब्दस्येत व्यतिरेकनिबन्धना षष्ठी भवति। परमार्थतो वस्तुगतो नास्त्येव भेदः। तथा हि - स्वं रूपं शब्दस्य स्वभावः। तच्चेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेवस्यात्। असत्यपि तु वास्तवे भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति। बुद्धिर्हि स्वबीजपरिपाकवशादाकारविशेषपरिग्रहवत्युपजायमाना वस्तुनोऽसत्यपि भेदे भेदमापादयति, यथा - राहोः शिरः, स्वस्य स्वभाव इति। न बाह्रोऽर्थः इति एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति।अतिप्रसक्तस्यापवादमाह - अशब्दसंज्ञा इत्यादि। किमर्थं पुनरिदमारभ्यतइत्याह - शब्देन इत्यादि। शब्देनोच्चारितेनार्थः कार्योपयोगितया गम्यते, न शब्द-स्वरूपम्। तथा हि - गौरुपलभ्यतमित्युक्तेऽर्थमेवोपलब्धुमाद्रियते, न शब्दस्वरूपम्; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति; तेन सह शब्दस्य पौर्वापर्याभावात्। न चार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः। तेन अग्नेर्ढक् (4.2.33) इत्युक्ते नायं संप्रत्ययो भवति। अग्निशब्दस्य योऽर्थः, स इह कार्यी, तस्येदं कार्यं विधीयत इति। ततश्च तस्यार्थस्य ये वाचकाः विधेयमिति। यथा - आकृतिवादिनांगौर्दुह्रतामिति शब्देन जातौ चोदितायां तत्र तत्कार्यासम्भवात् तदाधारायां व्यक्तौ संभवात् तत्साहचर्याच्च तस्यामेव व्यक्तौ संप्रत्ययो भवति, न जातौ; तथेहापि तन्मा भूत् तद्वाचिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते। तद्वाचिनामिति कर्मणि षष्ठी।तद्वाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः।तत्र केचिदाहुः - स्वरूपस्य पर्यायाणां च कार्ये प्रसक्ते श्रूयमाणस्यैवतद् यथा स्यात्, पर्यायाणां भूदिति नियमार्था परिभाषेयमिति।अन्ये तु - ` लिङ्गवती परिभाषा भवति` , यथा, इको गुणवृद्धी (1.1.3) इति गुणवृद्धी लिङ्गम्। विध्यन्तरशेषभूता वा; यथा - विप्रतिषेधे परं कार्यम् (कात।प।67) इति परस्य विध्यन्तरस्य शेषभावमापद्यते। न वास्या लिङ्गं विध्यन्तरशेषभावो वा विद्यत इति संज्ञासूत्रमिदम्` इति प्रतिपन्नाः। यद्यपि वृत्तौ संज्ञाशब्दो नोच्चारिनः, तथापि स्वमेव रूपं शब्दस्य ग्राह्रम् इत्येवं ब्राउवता वृत्तिकारेण संज्ञैवेत्याख्यातं भवति। अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि, असाधारणमपि अग्निशब्दत्वादि, तत्र साधारणरूपव्युदासेनासाधारणस्याग्निशब्दत्वादि-रूपस्य परिग्रहार्थं स्वम् ग्रहणम्। तद्धि स्वमेव तस्य रूम्, इतरत् पुनः परस्यापि। प्रतीति प्रत्यनुपदेशाच्छब्दस्य स्वरूपमेवासन्नम्, नार्थः; विपर्ययात्, अहेयत्वा-च्च, तन्नित्यसम्बन्धित्वाच्च। तथा ह्रनुकरणशब्दा ह्रर्थं जहति, न तु स्वरूपम्। असाधारणञ्च रूपम्र्थस्तु साधारणः; शब्दान्तरैरपि प्रत्यायमानत्वात्।तदेवमासन्नत्वान्नित्यसम्बधित्वादसाधारणत्वाच्च रूपमेव शब्दस्य स्वम्,नार्थः। ततश्च स्वग्रहणादेव रूपपरिग्रहे सिद्धे व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थं रूपग्रहणम्। तेन - अर्थवद्ग्रहणेन नानर्थकस्य (व्या।प।1) इत्येतदुपपन्नं भवति। शब्दानुशासननप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणम् - यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते, नार्थपरो निर्देश इति ज्ञापनार्थम्। तेन स्वे पुषः (3.4.40) इत्यत्र स्वरूपस्य ग्रहणं न भवति। अर्थपरत्वं तु निर्देशस्याविच्छिन्नपारम्पर्यादाचार्योपदेशाद्विज्ञायते।आग्नेयम् इति। अग्निर्देवताऽस्येत्यत्रार्थे ढक्।औदइआत्कम् इति। आत्राप्युदइआता संस्कृतमित्यत्रार्थे ढक्। उदइआतो-ऽन्यतरस्याम् (4.2.18) इत्यत्र दध्नष्ठक् (4.2.18) इत्यस्यानुवत्तेः, इसुसु-क्तान्तात्कः (7.3.51) इति ठकः कादेशः।घग्रहणेषु इत्यादि। यदि घुप्रभृतिरपि संज्ञाशब्द स्वरूपस्य ग्राहकः स्यात् उपसर्गे घोः किः (3.3.92) इत्यत्र यद्यपि धात्वधिकारस्तथापि घुग्रहणाद् घुशब्दात् किप्रत्ययः स्यात्। उपसर्गग्रहणं तु प्राद्युपलक्षणार्थ स्यात्। यथा - अञ् नासिकायाः संज्ञायां, नसञ्चास्थूलात् (5.4.118) उपसर्गाच्च (5.4.119) इत्यत्र। कुमारीघ इत्यत्र च घ इति संज्ञाशब्देन स्वरूपप्रत्यायने सति घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43) इत्यादिन घशब्दे परतो ह्रस्वत्वं प्रसज्येत।ननु च संज्ञाविधानसामर्थ्यात् संज्ञायाः स्वरूपग्रहणं न भवति, संज्ञा हि संज्ञिनः प्रत्यायनार्था क्रियते; यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात्, नैतदस्ति; संज्ञाविदानसामर्थ्याद्धि संज्ञिनं प्रत्याययेत्, परिभाषाविधानसामर्थ्याच्च स्वरूपम्। तस्मात् प्रतिषेधः कर्तव्यः? न कर्तव्यः, ज्ञापकात् संज्ञाशब्दो रूपस्य ग्राहको न भविष्यति। यदयं ष्णान्ता षट् (1.1.24) इति षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति,तज्ज्ञापयति- संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति; अन्यथा हि षड्भ्यो लुक् (7.1.22) इत्यत्र षट्शब्देनस्वरूपस्य प्रत्यायितत्वात् ततोऽपि लुग् भवतीति षकारन्तायायः संख्यायाः षडिति संज्ञा न कुर्यात्। षट्शब्दो हि षकारान्ता संख्या, नान्या, सत्यमेतत्; तथापि येषां ज्ञापकद्वारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्, तान् प्रतितत्परिहाराययाशब्द-संज्ञेति प्रतिषेधः कृतः। शब्दग्रहणम्- व्याकरणे या संज्ञा तस्या एव प्रतिषेधो न लौकिक्या इति प्रदर्शनार्थम्। सित्त्दविशेषाणाम् इत्यादि। यत्र विशेषाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कर्तव्यः वृक्षस्य,मृगस्िति। `ततो वक्तवयः इत्यादि। सिन्निर्देशं कृत्वा ततः प्रथमेऽध्यायेऽन्यत्र वा परिभाषेयं कर्तव्या - सित्तद्विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः, स तद्विशेषाणां वृक्षादिविशेणाणां खदिरादीनां प्रतिपादक इति वक्तव्यम्। एवं पित्पर्यायवचनस्य च स्वाद्यर्थम् (कात्या।वा।519) इत्यादावपि वेदितव्यम् न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति। यथा सिध्यति तथा यथावससं पुरस्तात् प्रतिपादयिष्यामः सुखावबोधनार्थं सित्तद्विशेषाणामित्यादिग्रन्थोपन्यासः॥
Prakriyasarvasvam¶
वृद्ध्यादिशब्दशास्त्रोक्तसंज्ञातोऽन्येषां शब्दानां स्वरूपमेव ग्राह्यं नत्वर्थग्रहः । ‘अग्नेर्ढक्’ (४-२-३३) इत्युक्ते पावकादेर्न । क्वचित्⁴ त्वर्थग्रहोऽस्ति । स तत्र वक्ष्यते ।
Vartika¶
अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् ।