11036: अन्तरं बहिर्योगोपसंव्यानयोः

Padacheda: अन्तरं | S | 1 | 1 |

बहिर्योग-उपसंव्यानयोः | S | 7 | 2 |

Sutrartha

‘स्थलात् बहिः’ तथा ‘अन्तर्वस्त्रम्’ एतयोः अर्थयोः प्रयुक्तस्य ‘अन्तर’ शब्दस्य ‘जस्’ प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनाम’ इति संज्ञा । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अन्तिमम् (दशमम्) सूत्रम् । इदं विभाषासूत्रम् अस्ति । ‘अन्तर’ इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।

सर्वादिगणस्य ‘**अन्तरं बहिर्योगोपसंव्यानयोः’ इति गणसूत्रम्**

सर्वादीनि सर्वनामानि (1.1.27) अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे **अन्तरं बहिर्योगोपसंव्यानयोः ** इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण ‘अन्तर’ इति शब्दस्य ‘बहिर्योगः’ (बहिः स्थितः, located outside) तथा च ‘उपसंव्यानम्’ (Undergarments) एतयोः अर्थयोः सर्वनामसंज्ञा भवति । यथा - भिक्षुः नगरात् अन्तरः (बहिः) वसति । सः अन्तरम् (अन्तर्वस्त्रम्) धारयति । उभयत्र ‘अन्तर’शब्दस्य सर्वनामसंज्ञा भवति । ‘अन्तर’ शब्दस्य ‘मध्ये’ इत्यपि कश्चन अर्थः अस्ति । यथा, नगरस्य अन्तरे नदी वहति । अस्मिन् अर्थे ‘अन्तर’शब्दस्य सर्वनामसंज्ञा न भवति । ‘अन्तर’शब्दस्य सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन **अन्तरं बहिर्योगोपसंव्यानयोः ** इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।

जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः

सर्वादिगणे विद्यमानेन **अन्तरं बहिर्योगोपसंव्यानयोः ** इत्यनेन गणसूत्रेण ‘बहिर्योगः’ तथा ‘उपसंव्यानम्’ एतयोः अर्थयोः प्रयुक्तस्य ‘अन्तर’ शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य ‘अन्तर’ शब्दस्य पुंल्लिङ्गस्य ‘अन्तरे / अन्तराः’ इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि ‘सर्व’शब्दसदृशानि एव ज्ञेयानि ।

प्राप्तविभाषा

प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।

व्यवस्थितविभाषा

प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन विहितः अकच्-प्रत्ययः ‘अन्तर’ शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा ‘अन्तरके / अन्तरकाः’ एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।

Sutrartha (English)

The word ‘अन्तर’, when used in the meaning of ‘outside a certain place’ or ‘undergarment’, is optionally called ‘सर्वनाम’ when followed by the ‘जस्’ प्रत्यय.

Vasu English Summary

The word अन्तर always being a सर्वनाम , when meaning ‘outer’ or ‘lower garment’, is optionally so before the affix जस्।

Vasu English Translation

The word अन्तर always being a सर्वनाम , when meaning ‘outer’ or ‘lower garment’, is optionally so before the affix जस्। The word अन्तर when it means बहिर्योग, viz., ‘outer’ is always sarvanama, so also, when it means उपसंव्यान or ‘a lower garment.’ Thus, अन्तरे गृहाः or अन्तरा गृहाः ‘outer houses, the residence of Chandal, and other low castes.’ So अन्तरे or अन्तराः शाटकाः “the inner garments, such as petticoats worn under the upper garments.” The word अन्तर when used in the above sense is always sarvanama, but in the nominative plural, it is optionally so. But, when it is not used in the above senses, it is never a sarvanama, e. g., ग्रामयोरंतरे वसति ‘he lives between the two villages,’ where the regular locative is अन्तरे. With this sutra * ends the section on *sarvanamas, which began with *sutra * (1.1.26).

Vart:- The word अन्तर when qualifying the word पुरि ‘a city,’ is not to be treated as a sarvanama, and is, therefore, declined like ordinary nouns. As, अन्तरायां पुरि वसति ‘he lives out of the city.’

Vart:- The words formed by the affix तीय such as, द्वितीय and तृतीय, are optionally declined as sarvanama before the case-affixes having an indicatory ङ (ङित्), which are the singular terminations of dative, ablative, genitive and locative, as, द्वितीयस्मै or द्वितीयाय, तृतीयाय or तृतीयस्मै.

Bhashya

अन्तरं बहिर्योगोपसंव्यानयोः उपसंव्यानग्रहणमनर्थकं बहिर्योगेन कृतत्वात्। उपसंव्यानग्रहणमनर्थकम्। किं कारणम्? बहिर्योगेन कृतत्वात्। बहिर्योग इत्येव सिद्धम्। न वा शाटकयुगाद्यर्थम्। नवानर्थकम्। किं कारणम्? शाटकयुगाद्यर्थम्। शाटकयुगाद्यर्थं तर्हीदं वक्तव्यम्। यत्रैतन्न ज्ञायते - किमन्तरीयं किमुत्तरीयमिति। अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातं तस्य भवति इदमन्तरीयमिदमुत्तरीयमिति। अपुरि। ॥ अपुरीति वक्तव्यम् । इह मा भूत् - अन्तरायां पुरि वसति। ॥ वाप्रकरणे तृतीयस्य ङित्सूपसङ्ख्यानम् । वाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानं कर्तव्यम्। द्वितीयायै। द्वितीयस्यै। तृतीयायै। तृतीयस्यै। विभाषा द्वितीयातृतीयाभ्यामित्येतन्न वक्तव्यं भवति। किं पुनरत्र ज्यायः ? उपसङ्ख्यानमेवात्र ज्यायः। इदमपि सिद्धं भवति। द्वितीयाय। द्वितीयस्मै। तृतीयाय। तृतीयस्मै।

Kashika

अत्रापि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरमित्येतच् छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योग उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तरा गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। अन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम्। बहिर्योगोपसंव्यानयोरिति किम्? अनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनोऽन्तरशब्दः। गणसूत्रस्य चेदं प्रत्युदाहरणम्॥ अपुरीति वक्तव्यम्॥ अन्तरायां पुरि वसति॥ विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम्॥ द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय॥

Siddhanta Kaumudi

बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥

Laghu Siddhanta Kaumudi

बाह्ये परिधानीये चार्थऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा । अन्तरे, अन्तरा वा गृहाः , बाह्या इत्यर्थः । अन्तरे, अन्तरा वा शाटकाः परिधानीया इत्यर्थः ॥

Balamanorama

अन्तरं बहिर्योगोपसंव्यानयोः - अन्तरम् । अत्रापिसर्वनामानी॑तिविभाषा जसी॑ति चानुवर्तते । बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम् । तदाह — बाह्रा इत्यादिना ।

Tattvabodhini

अन्तरं बहिर्योगोपसंव्यानयोः - अन्तरं बहिर्योगोपसंव्यानयोः ।बहि॑रित्यनावृतो देशो, बाह्रं चोच्यते । तत्राद्यमर्थं गृहीत्वाह — बाह्रा इत्यर्थ इति । द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः । बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति । अर्थद्वयमप्याकरे स्थितम् । इदमेवार्थद्वयं मनसि निधायअन्तरायां पुरी॑त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम् ।उपसंव्यान॑ शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः ।

Padamanjari

बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । ‘जसि’ इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह - गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? ‘अपुरीति वक्तव्यम्’ इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा ‘विभाषा द्वितीयातृतीयाभ्याम्’ इत्यत्र वक्ष्यामः ॥

Nyaas

बर्हिर्योगे इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्रस्य वस्तुनो भवति। उपसंव्याने च इति। उपसंवीयते परिधीयते यत्तदुपसंव्यानम्- कृत्यल्युटो बहुलम् (3.3.113) इति कर्मणै ल्युट्। अथ वा, संवीयतेपिधीयतेऽनेनेति संव्यानम्- करणाधिकरणयोश्च (3.3.117) इति ल्युट्। संव्यानस्य समीपमुपसंख्यानम्। अबहिर्योगे सामर्थ्यात् तदेव वेदितव्यम्। नगरबाह्राः इति। अनेन बहिर्योगं दर्शयति- परिधानीयमुच्यते इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्। वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामर्थ्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। न प्रावरणीयम् इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात्बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः।अन्तरे तापसः प्रतिवसति इति। अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवर्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाहृतमित्यत आह-गुणसूत्रस्य च इत्यादि। अपुरीति वक्तव्यम् इति। अनन्तरं गणसूत्रस्य च`इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठते,तथापि `प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् (व्या।प।29) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वर्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। विभाषाप्रकरणे इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः।अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कर्तव्यमि-त्यर्थः। तत्रेदं प्रतिपादनम् विभाषा जसि (1.1.32) इत्यत्र विभाषा इति योग-विभागः क्रियते, तत्र च सर्वादीनि द्वन्द्वे इति च निवृत्तम्, तेन तीयस्य विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेःनापि विभाषा द्वितीयतृतीयाभ्याम् (7.3.115) इत्यस्य वैयथ्र्यापत्तिः; प्रपञ्चार्तत्वात्। ततः जसि द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्वग्रहणं चानुवर्तते।

Praudhamanorama

बहिरित्यनावृतो देशो बाह्यं चोच्यते। तत्राद्यमर्थं गृहीत्वाऽऽह—बाह्या इत्यर्थ इति। द्वितीये तु आभ्यन्तरा इत्यर्थो बोध्यः । बाह्येन हि आभ्यन्तरस्य योगोऽस्ति। अर्थद्वयमप्याकरे स्थितम्। उपसंख्यानशब्दोऽपि करणव्युत्पत्त्योत्तरीयपरः, कर्मव्युत्पत्यात्वन्तरीयपरः।

Prakriyasarvasvam

एषामर्थः संज्ञाखण्ड उक्तः । एते तु जसि वा ‘सर्वनामाख्याः’, पूर्वे, पूर्वाः । स्वे, स्वाः । अन्तरे, अन्तराः ।

Sarala

प्राप्ता = “अन्तरं बहिर्योगोपे”ति पूर्वोक्तिन गणसूत्रेण सर्वत्र नित्यं प्राप्ता । सेयं सर्वनामसञ्ज्ञा जसि परतो विकल्पेन भवतीत्यर्थः ॥

Sudha

अन्तरमिति । अत्रापि सर्वनामानीति विभाषा जसीतिचानुवर्तते । बहिःअनावृतप्रदेशः तेन योगः-सम्बन्धो यस्य स बहिर्योगः, बहिर्विद्यमानोऽर्थः इति यावत् । उपसंवीयते - परिधीयते इति उपसंख्यानम् अन्तरीयं वस्त्रम् । तदाह - बाह्य इत्यादिना । अन्तरे अन्तरा वेति । अन्तरशब्दाज्जसि **अन्तरं बहिर्योगोपसंव्यानयोः**(1.1.36) इत्यनेन सर्वनामसंज्ञायां **जसः शी**(7.1.17) इति जसः स्थाने श्यादेशे **लशक्वतद्धिते**(1.3.8) इतीत्संज्ञायां लोपे च “अन्तर-ई” इति स्थिते **आद्गुणः**(6.1.87) इति गुणे “अन्तरे” इति । सर्वनामत्वाभावे “अन्तरा” इति ।

Vartika

अपुरीति वक्तव्यम् ।