84056: वाऽवसाने =============== **Padacheda:** वा | S | 0 | 0 | अवसाने | S | 7 | 1 | Sutrartha --------- **अवसाने परे झल्-वर्णस्य विकल्पेन चर्-वर्णादेशः भवति ।** **झल्** = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । **चर्** = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः । यदि झल्-वर्णात् परः अवसानम् (= विरामः / वर्णानाम् अभावः) विद्यते, तर्हि प्रकृतसूत्रेण झल्-वर्णस्य विकल्पेन अन्तरतमः चर्-वर्णादेशः भवति । वस्तुतस्तु पदान्त-झल्-वर्णस्य **झलां जशोऽन्ते** (8.2.39) इत्यनेन आदौ जश्त्वम् भवति । अतः प्रकृतसूत्रेण केवलम् जश्-वर्णस्य एव चर्त्वम् सम्भवति ।क्रमेण उदाहरणानि एतानि — **1. पदान्तगकारस्य अवसाने परे वैकल्पिकः ककारः **— .. code-block:: text वाच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → वाच् + स् [इत्संज्ञालोप;] → वाच् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → वाक् [**चोः कुः** (8.2.30) इति पदान्तचकारस्य कुत्वे ककारः] → वाग् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तककारस्य जश्त्वे गकारः] → वाक्, वाग् [**वाऽवसाने** (8.4.56) इति पदान्तगकारस्य पाक्षिके चर्त्वे ककारः] **2. पदान्तजकारस्य विषये इदं सूत्रं नैव प्रवर्तते**, यतः **चोः कुः** (8.2.30) इत्यनेन पदान्तजकारस्य गकारादेशः एव विधीयते । **3. पदान्तडकारस्य अवसाने परे वैकल्पिकः टकारः ** — .. code-block:: text सम्राज् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → सम्राज् + स् [इत्संज्ञालोप;] → सम्राज् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → सम्राष् [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारादेशः] → सम्राड् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तषकारस्य जश्त्वे डकारः] → सम्राट् , सम्राड् **वाऽवसाने** (8.4.56) इति पदान्तडकारस्य पाक्षिके चर्त्वे टकारः] **4. पदान्तदकारस्य अवसाने परे वैकल्पिकः तकारः ** — .. code-block:: text मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → मरुत् + स् [इत्संज्ञालोप;] → मरुत् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → मरुद् [**झलां जशोऽन्ते** (8.2.39) इति पदान्ततकारस्य जश्त्वे दकारः] → मरुत्, मरुद् [**वाऽवसाने** (8.4.56) इति पदान्तदकारस्य पाक्षिके चर्त्वे तकारः] **5. पदान्तबकारस्य अवसाने परे वैकल्पिकः पकारः ** — .. code-block:: text ककुभ् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → ककुभ् + स् [इत्संज्ञालोप;] → ककुभ् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → ककुब् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तभकारस्य जश्त्वे बकारः] → ककुप्, ककुब् [**वाऽवसाने** (8.4.56) इति पदान्तबकारस्य पाक्षिके चर्त्वे पकारः] Sutrartha (English) ------------------- A झल् letter is optionally converted to a corresponding चर् -letter when it is not followed by any other letter. Vasu English Summary -------------------- The चर् is optionally the substitute of a झल् that occurs in a Pause. Vasu English Translation ------------------------ The चर् is optionally the substitute of a झल् that occurs in a Pause. The words झलां चर् is understood in the *sutra*. A sonant or a surd non-aspirate may stand as final in a Pause: but not an aspirate consonant. By (8.2.39), a non-aspirate sonant can only stand in a final position. This ordains that a non-aspirate surd may also stand as the final, when there is Pause. Thus वाक् or वाग्, त्वक् or त्वग्, श्वलिट् or श्वलिड्, त्रिष्टुप् or त्रिष्टुब् ॥ Kashika ------- झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक् ,वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्॥ Siddhanta Kaumudi ----------------- अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे (SK121)ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥ Laghu Siddhanta Kaumudi ----------------------- अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥ Balamanorama ------------ **वाऽवसाने** - वाऽवसानेझलां जश्झशी॑त्यतोझला॑मितिअभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — अवसान इति । द्वित्वे रूपेति । तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः । तत्र चर्त्वपक्षे द्वतकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्य इति । चतुर्थीवत्प्रक्रिया सुगमिति भावः । अथ षष्ठीविभक्तिः । ङसो ङकारस्य 'लशक्लतद्धित' इति इत्त्वं, लोपः । ङकारोच्चारणं तुङिति ह्रस्वश्चे॑त्याद्यर्थम् ।टाङसिङसा॑मिति स्यादेशं सिद्धवत्कृत्याह — रामस्येति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्यखरि चे॑ति चर्त्वेन दन्तस्थानतो ।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह — सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः ।एव॑कारव्यावर्त्त्यमाह — नतु तकार इति । ननु दन्तस्थानतः आआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे ।ञप्यविशिष्टमित्यत आह — अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्रप्रयत्नभेदात्तकारो न भवति । इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम् । अत एवेति । 'वस निवासे' इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः । Tattvabodhini ------------- **वाऽवसाने** - जश्त्वं वावसान इति । अत्राहुः — जश्त्वे कृतेऽवसाने चर्त्वमिति न मन्तव्यं, किंतु येननाप्राप्तिन्यायेन अवसाने चर्त्वस्य जश्त्वापवादत्वाच्चर्त्वाऽभावपक्षे जश्त्वमिति योज्यमिति । द्वित्व इति ।अनचि चे॑त्यनेन ।अनचीति प्रसज्यप्रतिषेध॑ इति प्रागेवोक्तम् । पर्युदासाभ्युपगमे तु इह द्वित्वं न स्यात् । तादेश आरभ्यत इति । वत्स्यतीत्यादौ चर्त्वेन तकारो न लभ्यत इतिसः स्याद्र्धधातुके॑ इत्यनेन सकारस्य तकारो विधीयत इत्यर्थः । Padamanjari ----------- 'झलां जशो' न्तेऽ इति नित्ये जश्त्वे प्राप्ते चर्त्वं विधीयते, वावचनात् पक्षे सोऽपि भवति ॥ Nyaas ----- **झलां जशोऽन्ते** (8.2.39) इति नित्ये जश्त्वे प्राप्तेऽवसाने वा चरो विधीयन्ते। वावचनात्? पक्षे जश्त्वमपि भवत्येव॥ Prakriyasarvasvam ----------------- अवसाने झलां वा चर्त्वं स्यात् । कृष्णभाक् कृष्णभाग् । प्रभाक् (प्रभाग्) । हव्ये वहेर्युडिष्टः । हव्यवाहनः । Sarala ------ वावसाने । **वा** - अव्ययपदम्, **अवसाने** - सप्तम्यन्तम् ॥ Sudha ----- **वाऽवसाने इति ।** **झलां जश् झशि**(8.4.53) इत्यतो झलामिति **अभ्यासे चर्च**(8.4.54) इत्यतश्चरिति चानुवर्तते । तदाह - **अवसान इत्यादिना । रामादिति ।** रामशब्दात् पञ्चम्येकवचनविवक्षायां ङसौ समागते "राम ङसि" इत्यत्र **टाङसिङसामिनात्स्याः**(7.1.12) इति ङसेरादादेशे कृते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे **झलां जशोऽन्ते**(8.2.39) इति तस्य दत्वे **वाऽवसाने**(8.4.56) इति दस्य विकल्पेन तत्वे "रामात्" इति । पक्षे - "रामाद्" इति । **रामाभ्यामिति ।** "राम भ्याम्" अत्र **सुपि च**(7.3.102) इति दीर्घे "रामाभ्याम्" इति । **रामेभ्य इति ।** 'राम भ्यस् अत्र **बहुवचने झल्येत्**(7.3.103) इत्येवे "रामेभ्यः" इति । **रामस्येति ।** रामशब्दात् पष्ठ्येकवचनविवक्षायां ङसि "राम ङस्" अत्र **टाङसिङसामिनात्स्याः**(7.1.12) इति ङसः स्यादेशे "रामस्य" इति रूपम् ।