84052: दीर्घादाचार्याणाम् ========================= **Padacheda:** दीर्घात् | S | 5 | 1 | आचार्याणाम् | S | 6 | 3 | Sutrartha --------- **भिन्नानाम् आचार्याणाम् मतेन दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति ।** **अचो रहाभ्यां द्वे** (8.4.46) तथा च **अनचि च** (8.4.47) इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् **नादिन्याक्रोशे पुत्रस्य** (8.4.48) इत्यतः **दीर्घादाचार्याणाम्** (8.4.52) इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं पञ्चमम् (अन्तिमम्) सूत्रम् । **दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति ** — इति अस्य सूत्रस्य आशयः । यथा, 'दात्रम्', 'पात्रम्' इत्यादिषुर आकारात् (दीर्घस्वरात्) अनन्तरम् विद्यमानस्य तकारस्य **अनचि च** (8.4.47) इत्यनेन विहितम् द्वित्वम् न भवति । **मतप्रतिपादनार्थम् इदं सूत्रम्** अस्मिन् सूत्रे 'आचार्याणाम्' इति शब्देन पाणिनिः केषाम् आचार्याणाम् निर्देशं करोति इति अत्र स्पष्टं नास्ति । परन्तु यर्-वर्णस्य द्वित्वस्य विषये पाणिनेः यत् मतम्, तस्मात् भिन्नम् मतम् केषाञ्चन आचार्याणाम् वर्तते इति ज्ञापयितुम् (to acknowledge the difference of opinions) पाणिनिना इदं सूत्रं स्थापितम् अस्ति । अतएव न्यासकारः अत्र 'नित्यार्थः अयम् आरम्भः' इति ब्रूते । पाणिनेः मतेन यत्र वैकल्पिकं द्वित्वम्, तत्र केषाञ्चन मतेन नित्यं द्वित्वनिषेधः - इति अस्य आशयः । Sutrartha (English) ------------------- According to various experts, a यर्-letter following a दीर्घ letter does not undergo द्वित्वम्. Vasu English Summary -------------------- According to the opinion of all the Teachers, there is no doubling after a long vowel. Vasu English Translation ------------------------ According to the opinion of all the Teachers, there is no doubling after a long vowel. As दात्रम्, पात्रम्, मूत्रम्, सूत्रम् ॥ Kashika ------- दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्॥ Siddhanta Kaumudi ----------------- द्वित्वं न । दात्रम् । पात्रम् ॥ Padamanjari ----------- दात्रमित्यादौ ठनचि चऽ इति प्राप्तिः ॥ Nyaas ----- नित्यार्थोऽयमारम्भः। अत्रारम्भसामर्थ्यादेव सिद्ध आचार्यग्रहणं पूजार्थ। दातद्रमित्यादौ `अनचि च` (8.4.46) इति प्राप्तिः॥