84037: पदान्तस्य ================ **Padacheda:** पदान्तस्य | S | 6 | 1 | Sutrartha --------- **रेफषकारात् परस्य पदान्तनकारस्य णत्वं न भवति ।** यद्यपि पदे णत्वनिमित्तकः रेफः षकारः वा अस्ति, तथापि तस्य उपस्थितौ पदान्ते विद्यमानस्य नकारस्य णत्वम् न भवति । यथा - पूषन् , वृक्षान् , अकुर्वन्, चरन् - एतेषु पदेषु विद्यमानस्य नकारस्य णत्वं न भवति । Sutrartha (English) ------------------- A नकार occurring at end of a पद does not get णत्वम् । Vasu English Summary -------------------- Of a न् final in a पद , ण् is not the substitute. Vasu English Translation ------------------------ Of a न् final in a पद , ण् is not the substitute. Thus वृक्षान्, प्लक्षान्, अरीन्, गिरीन् ॥ Kashika ------- पदान्तो यो नकारस्तस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्॥ Siddhanta Kaumudi ----------------- पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥ Laghu Siddhanta Kaumudi ----------------------- नस्य णो न। रामान्॥ Balamanorama ------------ **पदान्तस्य** - पदान्तस्य । 'रषाभ्यां नो ण' इत्यनुवर्तते ' न भाभूपू' इत्यतोने॑ति च, तदाह — पदान्तस्येति । अथ तृतीयाविभक्तिः । तत्र टा इति टकारस्य 'चुटू' इतीत्संज्ञायां लोपः । टकारोच्चारणं तु 'टाङसिङसां'द्वितीयाटौस्स्वि॑त्यादौ विशेषणार्थम् । Tattvabodhini ------------- **पदान्तस्य** - णत्वं न स्यादिति ।न भाभूपूकमिगमी॑त्यतोने॑त्यनुवर्तत इति भावः । Padamanjari ----------- हे करिन्नित्याद्यप्युदाहरणम् ॥ Nyaas ----- `अट्कृप्वाङनुञ्व्यवायेऽपि` (8.4.2) इति प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। `वृक्षान्` इति। **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति दीर्घः, **तस्माच्छसो नः पुंसि** (6.1.103) इति सकारस्य नकारः॥ Prakriyasarvasvam ----------------- पदान्तस्य नस्य णत्वं न । नुमि-माषवापाणि । अत्र नपुंसके नुम् वक्ष्यते । विभक्तौ-माषवापेण । विकल्पान्माषवापिनावित्यादि । युवादीनां न । रम्ययूना । रम्यपक्वेन । रम्याह्ना ॥ Sarala ------ (पदान्तस्य नस्य णत्वं न स्यात्) । **रषाभ्यां नो णः समानपदे** (८.४.१) इत्यतो "नः" इत्यनुवर्त्याह - **नस्येत्यादि** । {**न भाभूपूकमिगमिप्यायीवेपाम्** (८.४.३४) इत्यतो "न" इत्यनुवर्तते । पदान्तस्य नस्य णत्वं न स्यात्} ॥ Sudha ----- **पदान्तस्येति ।** **न भाभूपूकमिगमिप्यायीवेपाम्**(8.4.34) इत्यतो न इत्यनुवर्तते । **रामानिति ।** रामशब्दाद् द्वितीयाबहुवचन -विवक्षायां शसि समागते **लशक्वतद्धिते**(1.3.8) इति शस्येत्संज्ञायां लोपे च "राम अस्" इत्यवशिष्टे, अत्र **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे विहिते "रामास्" इति जाते **तस्माच्छसो नः पुंसि**(6.1.103) इति सस्य नत्वे कृते "रामान्" इति रूपम् । अत्र **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति नस्य णत्वे प्राप्ते **पदान्तस्य**(8.4.37) इति निषिद्धे सति णत्वाभावेन "रामान्" इति जायते ।