84036: नशेः षान्तस्य ==================== **Padacheda:** नशेः | S | 6 | 1 | षान्तस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ण् is not the substitute of the verb नश 'to destroy', when ending in ष्। Vasu English Translation ------------------------ ण् is not the substitute of the verb नश 'to destroy', when ending in ष्। When the श् is changed to ष् in नश्, the न of नश् is not changed. Thus प्रनष्टः, परिनष्टः ॥ The नुम् ordained by (7.1.60), is elided by (6.4.24), and श् changed ष् by (8.2.36). Why do we say षान्तस्य ? Observe प्रणश्यति, परिणश्यति ॥ The word अन्त is taken in order that the prohibition may apply to words like प्रनङ्क्ष्यति, which did end with ष् though the ष has been changed by other rules, and is no longer visible. For here the श् of नश् is changed to ष् by (8.2.36), and then this ष् is changed to क् by (8.2.41); and the नुम् is added by (7.1.60). Bhashya ------- नशेः षान्तस्य ॥ नशेरशः॥ नशेरश इति वक्तव्यम्। इहापि यथा स्यात्- प्रनङ्क्ष्यति। परिनङ्क्ष्यति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। इह पुनर्नशेः(4) ष इतीयता सिद्धं, सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तस्यैतत्प्रयोजनं षान्तभूतपूर्वस्यापि यथा स्यात्॥(नशेः षान्तस्य)॥ Kashika ------- नेति वर्तते। नशेः षकारान्तस्य णकारादेशो न भवति। प्रनष्टः। परिनष्टः। षान्तस्येति किम्? प्रणश्यति। परिणश्यति। अन्तग्रहणं षान्तभूतपूर्वमात्रस्यापि यथा स्यात् — प्रनङ्क्ष्यति। परिनङ्क्ष्यति॥ Siddhanta Kaumudi ----------------- णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति ।{$ {!1195 तृप!} प्रीणने$} । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् ।{$ {!1196 दृप!} हर्षमोहनयोः$} । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता ।{$ {!1197 द्रुह!} जिघांसायाम्$} । वा द्रुहमुह - (SK327) इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् ।{$ {!1198 मुह!} वैचित्ये$} । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् ।{$ {!1199 ष्णुह!} उद्गिरणे$} । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् ।{$ {!1200 ष्णिह!} प्रीतौ$} । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः ।{$ {!1201 शमु!} उपशमे$} ॥ Balamanorama ------------ **नशेः षान्तस्य** - नशे षान्तस्य ।रषाभ्या॑मित्यतो ण इति, 'न भाभूपू' इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — णत्वं न स्यादिति । षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति । पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः । प्रनङ्क्ष्यतीति । अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः । तृप प्रीणने । तृप्तिस्तर्पणं चेति । आद्येऽकर्मकः । द्वितीये सकर्मकः । रधादित्वाद्वेडिति मत्वाह — ततर्पिथ ततर्प्थेति । तत्रप्थेति च ।अनुदात्तस्य चर्दुपधास्ये॑त्यमिति भावः । ततृपिव — ततृप्व.सिज्वेति । पक्षे पुषाद्याङिति भावः । रधादित्वादिड्विकल्पः । तत्र सिचि इट्पक्षे आह — अतर्पीदिति । इडभावपक्षे आह -अतार्प्सीदिति । रहलन्तलक्षणा वृद्धिरिति भावः ।अनुदात्तस्य चे॑त्यम्पक्षे आह -अत्राप्सीदिति । पुषाद्यङ्पक्षे आह — अतृपदिति । ङित्त्वान्न गुण इति भावः । दृप हर्षे इति । तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह — रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति । द्रुह जिघांसायाम् । अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट् । तत्र इडभावे आह — वा द्रुहमुहेति । ध्रोक्ष्यतीति ।वा द्रुहे॑ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपिषढो॑रिति कत्वे एतदेव रूपम् । तदाह — ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति । पुषादित्वादङिति भावः । मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट् ।मुमोहिथेति । इट्पक्षे रूपम् । अनिट्पक्षे तुवा द्रुहमुहे॑ति घत्वं मत्वाऽऽह — मुमोग्धेति । ढत्वपक्षे आह — मुमोढेति । मोक्ष्यतीति । घत्वढत्वयोस्तुल्यं रूपम् । ष्णुह ष्णिहेति । षोपदेशौ । तदाह - सुष्णोह सिष्णेहेति । थलादावनिट्पक्षेवा द्रुहे॑ति घत्वविकल्पः । पक्षे ढः । इतिरधादयः । आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः । सिद्धान्त इति । माधवादिभिस्तथाऽभ्युपगमादिति भावः । उपशमे इति । उपशमो — नाशः, इन्द्रियनिग्रहश्च । Tattvabodhini ------------- **नशेः षान्तस्य** - नशेः ।न बाभूपूकमिगनी॑त्यतो नेत्यनुवर्तते । तदाह — णत्वं न स्यादिति ।षस्ये॑त्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह - भूतपूर्वेति । काष्ठानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । तत्रप्थेति ।अनुदात्तस्य चर्दुपधस्ये॑ति विकल्पेनाऽमागमः । रधादय इति । रधनशतृपदृपद्रुहमुहष्णुहष्णिह इत्यर्थः । उदित्तवाक्त्वायां वेट् । शमित्वा । शान्त्वा ।यस्य विभाषे॑ति निष्ठायामनिट् । शान्तः । Padamanjari ----------- प्रनष्ट इति ।'मश्जिनशोर्झलि' इत्यागतस्य नुमः ठनिदिताम्ऽ इति नलोपः, व्रश्चादिषत्वम् । । नशेरशः । । अशकारान्तस्य नशेरिति वक्तव्यम्, न तु षान्तस्येति, इहापि यथा स्यात् - प्रनङ्क्ष्यतीति,'षढोः कः सि' इति कत्वं भवति । ततर्हि तथा वक्तव्यम् ? नेत्याह - अन्तग्रहणमिति । षकारेण नशेर्विशेषणात्'षन्तस्य' इति सिद्धे पुनरन्तग्रहणसामर्थ्याद्यः सम्प्रति षान्तो यश्च भूतपूर्वः, तस्य भवति प्रतिषेधः ॥ Nyaas ----- `उपसर्गादसमासे` (8.4.14) इत्यादिना प्राप्तस्य णत्वस्य प्रतिषेधः क्रियते। `प्रनष्टः` इति। `णश अदर्शने` (धातुपाठः-1194), तस्मान्निष्ठा, मस्जिनशोर्झलि` (7.1.60) इति नुम्, **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इति नलोपः; व्रश्चादिसूत्रेण (8.2.36) षत्वम्। `प्रणश्यति` इति। दिवादित्वाच्छ्यम्। अथान्तग्रहणं किमर्थम्; यावता `नशेः षः` इत्युच्यमान नशो विशिष्यमाणे **येन विधिस्तदन्तस्य** (1.1.72) इति तदन्तविधौ षान्तस्य णत्वप्रतिषेधो भविष्यति? इत्याह -`अन्तग्रहणम्` इत्याह। `प्रनङ्क्ष्यति` इति। पूर्ववत्? षत्वे **षढोः कः सि** (8.2.41) इति कत्वम्। अत्र यद्यन्तग्रहणं न क्रियेत, कत्वे षान्तता नास्तीति प्रतिषेधो न स्यात्। अस्मस्तु सति कत्वेऽपि कृते भवति। एतदेव हि तस्य प्रयोजनम् -भूतपूर्वेऽपि षान्ते प्रतिषेधो यथा स्यात्॥ Prakriyasarvasvam ----------------- कृतषत्वस्य नशेर्णत्वं न । प्रनष्टा । कुत्वमपि षत्वे कृत एव जातमिति तत्रापि षान्तत्वाण्णत्वं न । प्रनङ्क्ता । अपान्तत्वे तु प्रणशिता । तृपिदृप्योरिटि तर्पिता दर्पिता । इडभावे, 'अनुदात्तस्य च -' (६-१-५९) इति वाम् । त्रप्ता, तर्पिता दर्पिता । इडभावे, 'अनुदात्तस्य च—' (६-१-५९) इति वाम् । त्रप्ता, तर्प्ता । द्रप्ता, दर्प्ता । द्रुहादेरिटि द्रोहिता मोहिता । 'ष्णुह् उद्गिरणे', स्रोहिता । Sutra Prayogas -------------- * **प्रनष्ट** (भट्टिकाव्यम्): `नशेः पान्तस्य` इति प्रतिषेधः ।