84002: अट्कुप्वाङ्नुम्व्यवायेऽपि ================================ **Padacheda:** अट्-कु-पु-आङ्-नुम्-व्यवाये | S | 7 | 1 | अपि | S | 0 | 0 | Sutrartha --------- **रेफात् षकारात् परस्य नकारस्य णकारादेशः अट्-वर्णस्य, कवर्गीयवर्णस्य, पवर्गीयवर्णस्य, आङ्-अस्य उपसर्गस्य, अनुस्वारस्य च व्यवधाने अपि भवति ।** **रषाभ्यां नो णः समानपदे** (8.4.1) अनेन सूत्रेण रेफषकाराभ्याम् परस्य अव्यवहितस्य नकारस्य णकारादेशः विधीयते । वर्तमानसूत्रेण अयं णकारादेशः अट्-वर्णस्य / कवर्गीयवर्णस्य / पवर्गीयवर्णस्य / आङ्-अस्य उपसर्गस्य / अनुस्वारस्य व्यवधाने अपि भवति । उदाहरणानि - 1) स्वरस्य व्यवधानम् - वारि + औट् → वारिणी । 2) हकारस्य स्वरस्य च व्यवधानम् - द्रोह + टा → द्रोहेण । 3) हकारस्य पवर्गस्य स्वरस्य च व्यवधानम् - ब्रह्म + जस् → ब्रह्माणि । 4) पवर्गस्य स्वरस्य च व्यवधानम् - पुष्प + शस् → पुष्पाणि । 5) कवर्गस्य स्वरस्य च व्यवधानम् - मूर्ख + टा → मूर्खेण । 6) आङ्-इत्यस्य व्यवधानम् - निर् + आ + नह् + क्त → निराणद्ध । 7) अनुस्वारस्य व्यवधानम् - तृंह् + अनीयर् → तृंहणीय । ज्ञातव्यम् - 1. अट्-प्रत्याहारे सर्वे स्वराः, तथा हकार-यकार-वकाराः समाविष्टाः सन्ति । 2. 'अट्-कु-पु-आङ्-नुम्' एतेषु एकस्य अनेकस्य वा व्यवधानमस्ति चेदपि णत्वं भवति । 3. 'आङ्' इति कश्चन उपसर्गः अस्ति । **प्राग्रीश्वरान्निपाताः** (1.4.56) इत्यनेन सर्वे उपसर्गाः निपाताः सन्ति । **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन सर्वे निपाताः अव्ययानि, इत्युक्ते पदानि सन्ति । अस्य कः अर्थः ? 'निर् + आङ् + नद्धम्' इति शब्दं स्वीकुर्मश्चेत् अत्र वस्तुतः पदत्रयमस्ति - निर्, आङ् तथा नद्धम् । अस्याम् स्थितौ **पदव्यवायेऽपि** (8.4.38) इत्यनेन प्रथमपदे उपस्थितः रेफः तृतीयपदस्थस्य नकारस्य णत्वं न कारयितुम् शक्नोति - द्वितीयपदस्य व्यवधानात् । परन्तु अत्र आङ्-ग्रहणेन अस्य अपवादः उक्तः अस्ति । यदि मध्यस्थं पदम् 'आङ्' इति अस्ति, तर्हि प्रथमपदस्थ-रेफषकारेण तृतीयपदस्थस्य नकारस्य णत्वं भवति - इत्यर्थः । अतः 'निर् + आ + नद्धम्' इत्यत्र णत्वं दृश्यते । 4. अस्मिन् सूत्रे निर्दिष्टः नुम्-शब्दः 'अनुस्वारः' इत्यर्थे युक्तः अस्ति, नुम्-इत्यर्थे न । अनुस्वारः अयोगवाहः अस्ति, अतः शिवसूत्रेषु तस्य ग्रहणमकारात् अनन्तरम् भवति । अतः अट्-प्रत्याहारे अनुस्वारस्य समावेशः अस्ति एव । अतः अस्मिन् सूत्रे नुम्-इत्यस्य ग्रहणम् व्यर्थमस्ति । 5. ऋवर्णात् परस्य नकारस्य अपि एतेषु व्यवधानेषु परेषु णकारादेशः भवति । यथा - कृप + टा → कृपेण । 6. अस्य सूत्रस्य अस्मिन् णत्वप्रकरणे (इत्युक्ते, **क्षुभ्नादिषु च** (8.4.39) इति यावत्) सर्वेषु सूत्रेषु अनुवृत्तिः दृश्यते । इत्युक्ते, अस्मिन् णत्वप्रकरणे यत्र यत्र णत्वं विधीयते, तत्र तत्र अट्-कु-पु-आङ्-नुम् एतेषां व्यवधाने अपि भवति इत्यर्थः । Sutrartha (English) ------------------- a नकार occurring after ष् or र् in the same पद is converted to a णकार even when it is separated from the ष् or र् by one or more letters from the अट् प्रत्याहार, कवर्ग, पवर्ग, आङ् , or अनुस्वार. Vasu English Summary -------------------- The substitute ण् takes the place of न् , even when a vowel or य् , व् , ह् or a guttural, or a labial, or the preposition आ , or the augment नुम् intervenes, causing separation. Vasu English Translation ------------------------ The substitute ण् takes the place of न् , even when a vowel or य् , व् , ह् or a guttural, or a labial, or the preposition आ , or the augment नुम् intervenes, causing separation. The *pratyahara* अट् stands for vowels and the letters ह य व र. Thus करणम्, हरणम्, किरिणा, गिरिणा, कुरुणा, गुरुणा &c. The कु means all the gutturals, e. g. अर्केण, मूर्खेण, गर्गेण, अर्घेण ॥ The पु means all the labials, e. g. दर्पेण, रेफेण, गर्भेण, चर्म्मणा, वर्मणा ॥ The आङ् means the particle आ : e. g. पर्याणद्धम् from नह् (8.2.34) निराणद्धम् (cf (8.4.14). The particle आ is a vowel and so included in अट् *pratyahara*. Its specification in the *sutra* shows that the restriction of the rule to the letters occurring in the same word, does not apply in the case of आङ्, in which case the rule applies to letters separated by another word. So also when the *anusvara* separates the letters e. g. वृंहणम्, वृंहणीयम् ॥ It is from the root वृहिवृद्धौ, the नुम् is added, because the root is इदित (7.1.58) and न् changed to *anusvara* by (8.3.24). Question:- Well the intervention is here by *Anusvara* and not नुम्, why is then नुम् taken in the *sutra*? The word नुम् in the *sutra* refers to *anusvara*, and must be taken co-extensive with it. Otherwise the rule would not apply to words like तृंहणं from तृंह स्तृंह हिंसार्थे ॥ Here the *anusvara* is not the substitute of the augment नुम् but an original *anusvara*. Even where there is an augment नुम्, but where it is not changed into *anusvara*, the rule does not apply. As प्रेन्वनम्, प्रेन्वनीयम् from इविः प्रीणनार्थः ॥ The rule will apply even when these letters are combined in any possible way, or occur singly. As अर्केण, here a guttural and a vowel i. e. 2 letters come between र and न ॥ See (8.3.58) in the case of ष ॥ Bhashya ------- अट्कुप्वाङ्नुम्व्यवायेऽपि ॥ अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः॥ अड्व्यायेणत्वेऽन्यव्यवाये प्रतिषेधो वक्तव्यः। आदर्शेन। अक्षदर्शेन(3)॥ न वाऽन्येन व्यपेतत्वात्(4)॥ न वा वक्तव्यः(5)॥ किं कारणम्?॥ अन्येन व्यपेतत्वात्(4)। अन्येनाऽत्र व्यवायः॥ यद्यप्यत्रान्ये व्यवायोऽटाऽपि तु व्यवायोऽस्ति(6)। तत्रास्त्यड्व्यवाय(1) इति प्राप्नोति॥ अटैव व्यवाये भवति॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमुच्यमानं गंस्यते?॥ अड्ग्रहणसार्मथ्यात्। यदिहि यत्राऽटा चाऽन्येन च व्यवायस्तत्र स्यादड्ग्रहणमनर्थकं स्यात्। व्यवाये नो णो भवतीत्येव ब्रूयात्॥ अस्त्यन्यदड्ग्रहणस्य प्रयोजनम्॥ किम्?॥ योऽनिर्दिष्टैरेव व्यवायस्तत्र मा भूत्-कृत्स्नं मृत्स्नेति॥ यद्येतावत्प्रयोजनं स्यार्च्छव्यवाये(1) नेत्येव ब्रूयात्॥ तत्समुदाये णत्वाऽप्रसिद्धिर्यथान्यत्र॥ तत्समुदाये-व्यवायसमुदाये-णत्वस्याऽप्रसिद्धिः-अर्केण अर्घेण। (यथान्यत्र(2))। यथाऽन्यत्रापि व्यवायसमुदाये कार्यं न भवति॥ क्वाऽन्यत्र?॥ नुम्विसर्जनीयर्शव्यवायेऽपि। निंस्से निंस्स्वेति॥ किं पुनः कारणमन्यत्रापि व्यवायसमुदाये कार्यं न भवति?॥ प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा-वृद्धिगुणसंज्ञे प्रत्येकं भवतः॥ ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिरिति। तद्यथा गर्गाः शतं दण्ड्यन्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति॥ यद्येवमेकेन व्यवाये न प्राप्नोति -किरिणा गिरिणेति॥ उभयथापि वाक्यपरिसमाप्तिर्दृश्यते, तद्यथा-गर्गैः सह न भोक्तव्यमिति, प्रत्येकं च न भुज्यते समुदितैश्च॥ कुव्यवाये हादेशेषु प्रतिषेधः(1)॥ कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः॥ किं प्रयोजनम्?॥ प्रयोजनं वृत्रघ्नः स्रुघ्नः(2) प्राघानीति॥ (वृत्रघ्नः(3) स्रुघ्नः प्राघानीति प्रयोजनम्)॥ हन्तेरत्पूर्वस्येत्यत्पूर्वग्रहणं न कर्तव्यं भवति॥ नुम्व्यवाये णत्वेऽनुस्वाराऽभावे प्रतिषेधः॥ नुम्व्यवाये णत्वेऽनुस्वाराऽभावे प्रतिषेधो वक्तव्यः। प्रेन्वयनम् प्रेन्वनीयम्॥ अनागमे च णत्वम्॥ अनागमे च णत्वं वक्तव्यम्(4)। तृम्फणम्(5) तृम्फणीयम्(6)॥ अनुस्वारव्यवाये वचनात्तु(7) सिद्धम्॥ अनुस्वारव्यवाये नो णो भवतीति वक्तव्यम्॥ तदनुस्वारग्रहणं कर्तव्यम्? न कर्तव्यम्। क्रियते न्यास एव। नकारेऽनुस्वारः परसवर्णीभूतो निर्दिश्यते॥ इहापि तर्हि प्राप्नोति-प्रेन्वनं प्रेन्वनीयम्॥ अनुस्वारविशेषणं नुङ्ग्रहणं-नुमो योऽनुस्वारइति॥ इहापि तर्हि न प्राप्नोति-तृम्फणं(6) तृम्फणीयम्॥ एवं तर्ह्ययोगवाहानामविशेषेणोपदेशश्चोदितस्तत्राऽनुस्वारे कृतेऽड्व्यवाये इत्येव सिद्धम्॥ यद्येवं नार्थो नुङ्ग्रहणेन। अनुस्वारे कृतेऽड्व्यवाय इत्येव सिद्धम्॥(अट्कुप्वाङ्) Kashika ------- अट् कु पु आङ् नुम् इत्येतैर्व्यवायेऽपि रेफषकाराभ्यामुत्तरस्य नकारस्य णकार आदेशो भवति। अड्व्यवाये तावत् — करणम्। हरणम्। किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये — अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये — दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्व्यवाये — पर्याणद्धम्। निराणद्धम्। अड्व्यवाय इति सिद्ध आङ्ग्रहणं **पदव्यवाये०** (८.४.३८) इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुम्व्यवाये — बृंहणम्। बृंहणीयम्। नुम्ग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणम्, तृंहणीयमित्यत्रानुस्वारव्यवाये नुमभावेऽपि णत्वं भवति। सत्यपि च नुमि यत्रानुस्वारो न श्रूयते तत्र न भवति — प्रेन्वनम्, पे्रन्वनीयमिति। व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैश्च व्यवायेऽपि णत्वं भवति॥ Siddhanta Kaumudi ----------------- अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी (SK1057)ति निषेधं बाधितुमाङ्ग्रहणम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥ Balamanorama ------------ **अट्कुप्वाङ्नुम्व्यवायेऽपि** - अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह — अट्कुप्वाङ् ।रषाभ्यां नो णः समानपदे॑ इति पूर्वसूत्रमनुवर्तते । तत्र 'न' इति षष्ठन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्वं विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमारब्धम् । अट्-प्रत्याहार, कुः-कवर्गः, पुः-पवर्गः । अट्च कुश्च पुश्च आङ् च नुम्च तैव्र्यवधानम्, तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं न स्यात् । अतोऽडादिभिव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंचक्षुभ्नादिषु चे॑ति णत्वनिषेधसूत्रे 'क्षुभ्न' शब्दपाठोऽर्थवान् ।सरूपाणा॑मित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह — अटकवर्गेत्यादिना । विवरणावसरे अट् कवर्गेत्याद्यविभक्तिकनिर्देशाश्च न दूष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् । समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । 'मातृभोगीण' इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । अङा व्यवाये पर्याणद्धमित्युदाहरणम् । इह आङ्गहणाऽभावे तु उपसर्गादसमासेऽपीत्यत्र तदनुवृत्त्या णत्वं न स्यात् । नन्वड्व्यवाय इत्येवात्र णत्वं भविष्यति , किमाङ्ग्रहणेनेत्यत आह — नुङ्ग्रहणमिति । नुङ्ग्रहणेन अनस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुङ्ग्रहणं प्रत्याख्येयमित्याह — तच्चेति । ननु नुङ्ग्रहणाऽभावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आह — अयोगवाहानमिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः । अनुपदिष्टाः, उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः=अनुस्वारविसर्गादयः । अट्सूपदेशस्य=पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतद्धयवरट्सूत्रभाष्यवार्तिकयोः । उक्तं चात्रैव सूत्रे भाष्ये — ॒नार्थो नुङ्ग्रहणेन । अनुस्वारे कृते अड्व्यवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्वमिति । शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थः । Tattvabodhini ------------- **अट्कुप्वाङ्नुम्व्यवायेऽपि** - अट्कुप्वाङ् ।रषाभ्या॑मिति पञ्चमीनिर्देशाद्व्यवहितस्याऽप्राप्तौ वचनमिदम् । तत्र सर्वैव्र्यवायोऽसंभवी ।एकैकमात्रव्यवाय॑ इत्यपि नार्थः, क्षुभ्नादिषु क्षु भ्नपाठसामर्थ्यात्,सरूपाणाम्-॑इत्यादिनिर्देशाच्चेत्यभिप्रेत्याह-व्यस्तैर्यथासंभवमिलितैश्चेत्यादि । नन्वेवंकृत्स्नं॑कार्त्स्न्य॑मित्यादावडादिव्यवधानाऽभावण्णत्वाऽभावेप्यादर्शेनेत्यादावड्वयवधानादतिप्रसङ्गः । न च अडादिभिरेव व्यवधान इति नियमः, अप्राप्ते विधिरयमित्युक्तत्वात् । सत्यम् । योगविभागोऽत्र बोध्यः ।व्यवायेऽपि॑ इत्येको योगो विध्यर्थः ।अट्कुप्वाङ्नुम् — ॑इत्यन्यो नियमार्थः । छान्दसो भिसो लुक् । अत्र योगविभागं विनापि निर्वाहः सुकर इति तु नव्याः । तथाहि — अट्कुप्वाङ्-॑इति सूत्रेरषाभ्याम् इत्यनुवर्तते । पञ्चमीश्रुत्यातस्मादित्युत्तरस्ये॑ति परिभाषोपतिष्ठते । उपस्थितापि सा वचनप्रामाण्यादडादिव्यावाये न प्रवर्तते । तदन्यव्यवाये तु प्रवर्तत एव । अतएव-॒येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादेकवर्णव्यवहितस्यैव इको गुणो न तु भिनत्तीत्यादावनेकव्यवहितस्येकः॑ — इतिपुगन्तलघूपधस्ये॑ति सूत्रे वक्ष्यति । एवं च यत्राडादिभ#इरेव व्यवधानं रामेणेत्यादौ तत्र भवत्येव णत्वम् । अत्र त्वडादिभिन्नेन व्यवधानमादर्शेनेत्यादौ, तत्र न भवति,तस्मा॑दिति परिभाषाया जागरूकत्वात् । निषेधं बाधितुमिति । तेनपर्यणद्ध॑मित्यत्रउपसर्गादसमासेऽपि-॑ इति णत्वं सिध्यतीति भावः । उपलक्षणार्थमिति । नुम्स्थानिकस्य, स्वाभाविकस्य वाऽनुस्वारमात्रस्योपलक्षणार्थं नुम्ग्रहणमित्यर्थः । तेनबृहि वृद्धौ॑ । इदित्त्वान्नुम् । तस्यानुस्वारः ।तृंहू हिंसायां॑ । स्वाभाविकोऽत्रानुसवारः । बृंहणम् तृंहणम् । उभयत्रापि णत्वं सिद्धम् । अयोगवाहानामिति । अविद्यमानो योगः=प्रत्याहारेषु संबन्धो येषां ते अयोगाः । अनुपदिष्टत्वादुपदिष्टैरगृहीतत्वाच्च प्रत्याहारसंबन्धशून्या इत्यर्थः । वाहयन्ति निर्वाहयन्ति प्रयोगमिति वाहाः । अयोगाश्च ते वाहाश्च अयोगवाहाः । अनुपदिष्टत्वे उपदिष्टैरगृहीतत्वे च सति श्रूयमाणा इत्यर्थः । अट्स्विति । निष्कर्षस्त्वकारोपरीति । तेन पयःस्वित्यादाविणः परस्येति षत्वं न भवति । अत एवोक्तं प्राक्-॒अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरी॑ति । Padamanjari ----------- रषाभ्याम्ऽ इति पञ्चमीनिर्द्देशाद्व्यवाये न प्राप्नोतीत्ययमारम्भः । पर्याणद्धमिति ।'णह बन्धने' , पर्याङ्पूर्वः निष्ठा,'नहो धः' । ननु च ठड्व्यवायेऽ इत्येवात्र णत्वं सिद्धं तत्किमर्थमाङ्ग्रहणम् ? इत्यत आह - अड्व्यवाय इत्येव सिद्धमिति । क्वचितु आङ्ग्रहणं पदव्यवायेऽपीत्यस्य बाधनार्थमित्येतावत् पठ।ल्ते । बृंहणमिति ।'बृहि वृद्धौ' , ठिदितो नुम्ऽ,'नश्चापदान्तस्य झलि' इत्यनुस्वारः । यद्येवम्, अनुस्वारेणात्र व्यवायो न नुमा ? अत आह - नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । झल्परस्य नुमोऽनुस्वारविधानात्स्थानिना नुमानुस्वार उपलक्ष्यते । एवमपि योऽनुस्वारो नुम्स्थानिको न भवति तद्व्यवाये न प्राप्नोति'तृंह स्तृंह हिंसार्थौ' , तृंहणमिति ? अत आह - तेनेति । नात्र नुम्स्थानिकोऽनुस्वार उपलक्ष्यते, किं तर्हि ? अनुस्वारमात्रं तेनात्रापि भवतीत्यर्थः । यत्र तर्हि नुम एव श्रवणं नानुस्वारस्य तत्र णत्वं भवति वा, न वा ? अत आह - सत्यपि चेति । यथा'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति कालविशेषोपलक्षणपरायां चोदनायां सत्यपि दिवा नक्षत्रदर्शने वाग् न विसृज्यते, उपलक्षितस्य कालस्याभावात्; असत्यपि नक्षत्रदर्शने रात्रौ विसृज्यते, तस्य कालस्य भावात्; तथेहापि द्रष्टव्यम् । प्रेन्वनमिति । ठिविः प्रीणनार्थःऽ, ठिदितो नुम्ऽ, अत्र ठिजादेः सनुमःऽ इति णत्वप्रसङ्गः । इह समुदाये वाक्यपरिसमाप्तिर्दृष्टा, यथा - गर्गाः शतं दण्ड।ल्न्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति; प्रत्येकमपि दृष्टा, यथा - वृद्धिगुणसंज्ञे प्रत्येकं भवतः । तत्रेह यदि पूर्वः कल्प आश्रीयते, न क्वचित् स्यात्, न हि समस्तैरडादिभिर्व्यवायः क्वचिदपि सम्भवति । द्वितीये तु अर्हेणेत्यादौ न स्यात्; अटा कवर्गेण च व्यवायात् । अत आह - व्यवायोप लक्षणार्थत्वादिति । इह ये यदुपलक्षणायोपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिरप्युपलक्षितः स गृह्यते, तद्यथा -'गर्गैः सह न भोक्तव्यम्' इत्युक्ते प्रत्येकं च सह न भुज्यते, समुदितैरपि, तथेहापि शक्नुवन्त्यडादयः समस्ता व्यस्ताश्च व्यवायमुपलक्षयितुमिति सर्वत्र भवति । अडादिव्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः - आदर्शेन, स्पर्शेन । यद्यप्यत्रान्येनापि व्यवायः, यस्त्वटा व्यवायस्तदाश्रयं णत्वं प्राप्नोति, यत्र त्वनिर्दिष्टैरेव व्यवायस्तत्रैव न स्यात् - कृत्स्नम्, मृध्नोतीति ? नैष दोषः; रषाभ्याम्ऽ इत्यत्र'तस्मात्' इति परिभाषोपस्थानाद्व्यवाये णत्वासङ्गात् सूत्रमिदमारभ्यमाणमडादिव्यवाय एव णत्वमनुजानाति, नान्यव्यवाये; तस्य निर्दिष्टग्रहणेन निवर्तितत्वात्, यदि च निदिष्टव्यतिरिक्तैरपि व्यवाये णत्वं स्यात्, नुम्ग्रहणमनर्थकं स्यात्; केवलेन नुमा व्यवायासम्भवात् ॥ Nyaas ----- रवाभ्यामिति पञ्चमीनिर्देशान्निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्? पूर्वेणाडादिव्यवधाने सत्यप्रप्तमेव णत्वमेनन विधीयते। `पर्याणद्धम्` इति। `णह बन्धने` (धातुपाठः-1166), निष्ठा, `नहो धः` (8.2.34) इति हकारस्य धकारः, `झषस्तथोर्षोऽधः` (8.2.40) इति तकारस्य धकारः, पूर्वधकारस्य **झलां जश् झशि** (8.4.53) इति दकारः। ननु चाङ्व्यवायेऽत्र णत्वं सिद्धम्, `अण्? सवर्णान्? गृह्णाति` (1.1.69) इत्यङोऽप्यङ्ग्रहणेन ग्रहणात्? किमर्थमाङ्ग्रहणम्? इत्याह -`आङ्ग्रहणम्` इत्यादि। असत्याङ्ग्रहणे **पदव्यवायेऽपि** (8.4.38) इत्याङ्व्यवाये प्रतिषेधः स्यात्। अतस्तद्बाधनार्थमाङ्ग्रहणम्। `बृंहणम्` इति। `बृह बृहि वृद्धौ` [वहि वृद्धौ शब्दे च -धातुपाठः-] (धापा।735,736) `इदितो नुम- धातोः` (7.1.58) इति नुम्, ल्युट्, **नश्चापदान्तस्य झलि** (8.3.24) इत्यनुस्वारः। कथं पुनरिदं नुम्ग्रहणस्योदाहरणम्, यावताऽनुस्वारेणात्र व्यवायः, न नुमा; `तृंहणम्` इत्यत्रापि नुमोऽभावात्, `प्रेन्वनम्` इत्यत्रैव प्रसज्येत, अस्ति ह्यत्र नुमा व्यवायः? इति देश्यमाशङ्क्याह -`नुम्ग्रहणम्` इत्यादि। अनुस्वारोपलक्षणार्थं ह्यत्र नुम्ग्रहणम्, न नुमः प्रतिपादनार्थम्। तेन किं सिद्धं भवति? इत्याह -`तेन` इत्यादि। `दृंहणम्` [तृंहणम् -काशिका, पदमञ्जरी च] इति। `दृह दृन्ह हिंसायाम्`[तृह -हिंसायाम् -धातुपाठः-1455 तृह हिंसार्थं -धातुपाठः-1350] (धातुपाठः-145501350), ल्युट्, पूर्ववदनुस्वारः। अत्र नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वादसत्यपि नुम्यनुस्यारव्यवाये णत्वं भवत्येव। अपिशब्दोऽयं वृंहणमित्यत्र नुमोऽनुस्वारे तद्व्यवाये णत्वं भवतीत्येवमर्थं द्योतयति। `प्रेन्वनम्` इति। `इवि व्याप्तौ` (धातुपाठः-587)। पूर्थवशुम्, तस्याझल्परत्वादनुस्वारो न भवति। अत्राप्यनुस्वारोपलक्षणार्थत्वाद्विद्यमानेऽपि नुव्यनुस्वारव्यवायो नास्तीति णत्वं न प्रवर्तते। यथैव हि `नक्षत्रं दृष्ट्वा वाचो विसृज्येरन्` इत्यत्र नक्षत्रदर्शनकालस्योपलक्षणार्थत्वादसत्यपि नक्षत्रदर्शने तस्मिन्? कालविशेषे सति वाचा विसुज्यन्ते, सत्यपि च [`च` नास्ति प्रांउ।पाठः] नक्षत्रदर्शने तस्मिश्कालविशेषाभावे वाचो न विसृज्यन्ते; तथेहापि नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वादसत्यपि नुमि यत्रानुस्वारव्यवायो नास्ति तत्र न भवतीत्येधमर्थ वेदितव्यम्। किं पुनरिह समुदायेन वाक्यपरिसमाप्तिः? प्रत्येकं वा? तत्र यदि पूर्वकः पक्ष आश्रौयते, तदा क्वचिदपि न स्यात्। न ह्रेकस्मिन्नुदाहरणे सर्वेरडादिभिव्र्यवायः सम्भवति। अथ द्वितीयस्तदा अर्केणेत्यादौ न स्यात्, अनेकेन व्यवधानात्? इत्यत आह -`व्यवायोपलक्षणार्थतत्वात्` इत्यादि। इहैषामडादीनां व्यवायस्तस्मिन्निति। शक्नुवन्ति चैत एकैकाः परस्परसहिताश्च। तमुपलक्षयितुं ये च तदुपलक्षणार्थमुपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिश्च य उपलक्षितः स सङ्गृह्रत एव। तथा हि -देवदत्तयज्ञदत्तविष्णुमित्रैः सह नाध्येतव्यमियुक्ते देवदत्तादयो ये सहाध्ययनप्रतिषेधोपलक्षणार्थमुपात्तास्तेषामेकेनापि सह नाधीयते, द्वाभ्याम्, बहुभिश्च। तस्मादिहापि व्यषायोपलक्षणार्थत्वादडादीनां तैव्र्यस्तैः, समस्तैश्च व्यवाये णत्वं भवति। `व्यस्तैः` इति। तैरेकैकैरव्यवाय उपलक्ष्यते। `समस्तैः` इति। परस्परसहितैः। समस्तग्रहणमनेकोपलक्षणार्थम्। न हि समस्तैव्र्यवायः क्वचित्? सम्भवति। एवञ्च क्वचित्? प्रत्येकं वाक्यपरिसमाप्तिः, क्वचिद्यथासम्भवं समुदायेन -इत्युक्तं भवति। अथापिग्रहणं किमर्थम्? अव्यवाये यता स्यादिति चेत्? न; पूर्वेणैव सिद्धत्वात्? एवं तर्ह्रुत्तरार्थमपिग्रहणम्। असति हि तस्मिन्नुत्तरार्थे `उपसर्गादसमासेऽपि` (8.4.14) इत्येतदिहैव स्यात् -प्रणयतीति, यत्रास्ति व्यवायः। इह तु न स्यत् -निर्णयतीति, न ह्यत्राडादीनामेकतमेन व्यवायोऽस्ति॥ Praudhamanorama --------------- रषाभ्यामिति पञ्चमीनिर्देशाद्व्यवहितस्याप्राप्तौ वचनमिदम्। अत्र सर्वैर्व्यवायोऽसंभवी, एकैकमात्रव्यवाय इत्यपि नार्थः। क्षुभ्नादिषु क्षुभ्नशब्दपाठसामर्थ्यात्'सरूपाणाम्' इत्यादिनिर्देशाच्चेत्यभिप्रेत्याह— **व्यस्तैर्यथासम्भवं मिलितैश्चेति** । नन्वेवम् 'आदर्शेन'इत्यादौ अतिप्रसङ्गः। न च अडादिभिरेव व्यवधाने इति नियमः। अप्राप्ते विधिरयमित्युक्तत्वात्। सत्यम्, योगविभागोऽत्र बोध्यः—'व्यवायेऽपि' इत्येको योगो विध्यर्थः। 'अट्कुप्वाङ्नुम्' इत्यन्यो नियमार्थः। छान्दसो भिसो लुक्। **निषेधं बाधितुमिति।** तेन पर्याणद्धमित्यत्र 'उपसर्गादसमासेऽपि' इति णत्वं सिध्यतीति भावः। **नुम्ग्रहणमिति।** तत्स्थानिकस्य स्वाभाविकस्य चानुस्वारमात्रस्योपलक्षणमित्यर्थः। तेन 'बृहि वृद्धौ' इदित्वान्नुम्। तस्यानुस्वारः। 'तृंहू हिंसायां' स्वाभाविकोऽत्रानुस्वारः। बृंहणम्, तृंहणम्। उभयत्रापि णत्वं सिध्दम्। 'इवि प्रीणने' प्रेन्वनम्। इह 'कृत्यचः' 'इजादेः सनुमः' इति णत्वं न। यथा 'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति विधौ नक्षत्रदर्शनस्य कालविशेषोपलक्षणत्वात्सत्यपि दिवा नक्षत्रदर्शने वाङ् न विसृज्यते, उपलक्षितस्य कालविशेषस्याभावात्। रात्रौ असत्यपि नक्षत्रदर्शने विसृज्यते, तस्य सत्त्वात्, तथेहापि बोध्यम्। नन्वेवं नुम्ग्रहणं व्यर्थम्, अनुस्वारस्याट्त्वेनैव संग्रहात्। उरःकेणेत्यादौ विसर्गजिह्वामूलीयादिव्यवधाने ह्येषैव गतिरिति चेत्सत्यमित्याह— **तच्चेति।** स्यादेतत्। उक्तरीत्या 'नुम्विसर्जनीय' इति सूत्रेऽपि नुम्ग्रहणं त्याज्यं स्यात्। तत्राप्यनुस्वारस्य लक्षणीयत्वात्। अन्यथाऽसम्भवात्। न हि षत्वप्रवृत्तिवेलायां 'सर्पींषि' इत्यदौ नुम् लभ्यते। षत्वस्यासिध्दत्वेन ततः प्रागेवानुस्वारप्रवृत्तेः। यद्यपि 'सुहिन्सु' इत्यत्र संभवत्येव, तथापि तत्रैवातिव्याप्तिं वारयितुं लक्ष्यानुरोधान्नुम्स्थानिकेऽनुस्वारे लक्षणाऽऽश्रयणीयैव, व्याख्यानात्। तस्य च शर्त्वेन तद्व्यवाये षत्वस्य सिद्धत्वादिति चेत्? मैवम्, उक्तरीत्या तत्रत्यविसर्गग्रहणस्य प्रत्याख्यानसंभवेऽपि नियमार्थं नुम्ग्रहणम्। तथा हि, अनुस्वारेण व्यवधाने चेत् षत्वं तर्हि नुम्स्थानिकेनैव नियम्यते। तेन पुंस्वित्यादौ नेति दिक्। Prakriyasarvasvam ----------------- उक्तं णत्वमडाद्यैर्व्यवधानेऽपि स्यात् । करणीय । 'कृत्तद्धितसमासाश्च' (१-२-४६) इति प्रातिपदिकत्वात् सुविभक्तिः । कर्तव्यः करणीयो वा धर्मः । कृञः सकर्मकत्वात् कर्मणि । भूधातोस्त्वकर्मकत्वाद् भावे । भू तव्य, Sarala ------ **रषाभ्यां नो णः समानपदे** (८.४.१) इति सूत्रमनुवर्ततेऽत आह - **रषाभ्यामिति** । निमित्तानधिकरणनिमित्तिमत्पदाऽघटितत्वं समानपदत्वम् । **रषाभ्यां नो णः समानपदे** (८.४.१) इत्यतो "न" इत्यनुवर्त्याह - **नस्येत्यादि** ॥ Sudha ----- **अट्कुप्वाङिति ।** **रषाभ्यां नो णः समानपदे**(8.4.1) इति सम्पूर्णं सूत्रमनुवर्तते । रषाभ्यामिति पञ्चमीनिर्देशाद्व्यवहितस्याप्राप्तौ वचनमिदम् । तत्र सर्वैर्व्यवायोऽसम्भवी । एकैकमात्रव्यवाय इत्यपि नार्थः, क्षुभ्नादिषु क्षुन्नशब्दपाठसामर्थ्यात्सरूपाणामित्यादिनिद् र्देशाच्चेत्यभिप्रेत्याह - **व्यस्तैर्यथासम्भवेत्यादिना ।** Sutra Prayogas -------------- * **रिणच्मि** (भट्टिकाव्यम्): `अट्कुप्वाङ्नुम्व्यवायेऽपि` इति णत्वम्। * **भिन्न-मर्माणो** (भट्टिकाव्यम्): `अट्कुप्वाङ्नुम्व्यवायेऽपि` इति णत्वम्। * **आरीणं** (भट्टिकाव्यम्): `अट्-कुपु` इति णत्वम्।