84001: रषाभ्यां नो णः समानपदे ============================= **Padacheda:** रषाभ्याम् | S | 5 | 2 | नः | S | 6 | 1 | णः | S | 1 | 1 | समानपदे | S | 7 | 1 | Sutrartha --------- **समानपदे रेफात् षकारात् वा परस्य नकारस्य संहितायाम् णत्वं भवति ।** रेफः / षकारः यस्मिन् पदे अस्ति, तस्मिन्नेव पदे रेफात् षकारात् वा परः नकारः वर्तते चेत् तस्य णकारादेशः भवति । यथा - पुष् + ना + ति = पुष्णाति । चतुर् + नाम् → चतुर्ण्णाम् । अस्मिन् सूत्रे समानपदे इति किमर्थमुक्तमस्ति? यदि रेफः / षकारः यस्मिन् पदे अस्ति तस्मिन् पदे नकारः नास्ति, तर्हि नकारस्य णत्वं न भवति । यथा - अग्नि सुँ + नयति → अग्निर् + नयति [**ससजुषो रुँः** (8.2.66) इति विसर्गस्य रुत्वम् । ] → अग्निर्नयति [समानपदं नास्ति, अतः नकारस्य णत्वं न भवति ।] अत्र एकं वार्तिकमपि ज्ञातव्यम् - । इत्युक्ते, ऋकारात् परस्य अपि नकारस्य णकारादेशः भवति । यथा - तिसृ + नाम् → तिसृणाम् । पितृ + नाम् → पितॄणाम् । Sutrartha (English) ------------------- a नकार occurring immediately after ष् or र् in the same पद is converted to a णकार. Vasu English Summary -------------------- After न् and ष् , the ण् is the substitute of न् , when they occur as component letters in the same word. Vasu English Translation ------------------------ After र् and ष् , the ण् is the substitute of न् , when they occur as component letters in the same word. These letters must be parts of the same *pada* or word, one being the 'occasion' for the application of the rule as regards the other. As आस्तीर्णम्, विस्तीर्णम्, अवगूर्णम् ॥ So also after ष; as कृष्णाति, पुष्णाति, मुष्णाति ॥ The letter ष् is included in this aphorism for the sake of subsequent *sutras* : for न् will be changed into ण् when preceded by ष् by rule (8.4.41) of this Chapter, as well. Why do we say "when occurring in the same word?" Observe अग्निर्नयति, वायुर्नयति ॥ Vart:- So also after the letters ऋ ॥ As तिसृणाम्, चतसृणाम्, मातॄणाम्, पितॄणाम् ॥ This *vartika* may well be dispensed with: because the र in the *sutra* is the common sound र which we perceive both in र and ऋ; and so the र will denote both the vowel ऋ and the consonant र. See contra. (8.2.42). Objection:- But if even this be so, the letter ऋ has three parts, its first part is a vowel, in the middle is the र् sound of a quarter *matra*, and a vowel sound at the end. This vowel-sound will intervene between the र-sound and the subsequent न, and will prevent the application of the *sutra*, hence the *vartika* is valid ? Answer:- This vowel-sound will be no intervention, because it will be included in the exception अट् of the next *sutra*. Objection:- The vowel-sound at the end of ऋ is not a full vowel of one *matra*, but is of half-*matra*, being only a fragment of ऋ, and hence is not included in the *pratyahara* अट्, it has no separate स्थान or प्रयत्न or homogeneity with any vowel. Hence this vowel-sound will prevent the application of this rule. Answer:- The ण change, however, does take place in spite of such intervention of a fragment of a letter, as we know from the *jnapaka* of (8.4.39). In the *kshubhnadi* list there we find नृनमन as an exception, implying that न is generally changed to ण after such a fragmentary interposition. Or we may take नृनमन as a *jnapaka*, that after the letter ऋ also the ण change takes place. Bhashya ------- रषाभ्यां नो णः समानपदे ॥ रषाभ्यां णत्वे ऋकारग्रहणम्॥ रषाभ्यां णत्वे ऋकारग्रहणं कर्तव्यम्। रषाभ्यां नो णः समानपदे ऋकाराच्चेति वक्तव्यम्। इहापि यथा स्यात् - मातॄणां पितॄणामिति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। योऽसावृकारे रेफस्तदाश्रयं णत्वं भविष्यति॥ न सिध्यति॥ किं कारणम्?॥ न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते॥ एकदेशे नुडादिषु चोक्तम्॥ किमुक्तम्?॥ अग्रहणं चेन्नुड्विधिलादेशविनामेष्वृकारग्रहणमिति। तस्माद्गृह्यन्ते॥ एवमपि न सिध्यति॥ किं कारणम्?॥ अननन्तरत्वात्। यत्तद्रेफात्परं भक्तेस्तेन व्यवहितत्वान्न प्राप्नोति॥ अड्व्यवाये इत्येवं भविष्यति॥ न सिध्यति॥ किं कारणम्?॥ वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ये व्यपवृक्ता अपि वर्णा भवन्ति। यच्चात्र रेफात्परं भक्तेर्न तत्क्वचिदपि व्यपवृक्तं दृश्यते॥ एवं तर्हि योगविभागः करिष्यते - रषाभ्यां नो णः समानपदे। ततो व्यवाये। व्यवाये च रषाभ्यां नो णो भवतीति। तत अट्कुप्वाङ्नुम्भिरिति॥ इदमिदानीं किमर्थम्?॥ नियमार्थम् - एतैरेवाक्षरसमाम्नायिकैर्व्यवाये नान्यैरिति। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति भवति ऋकाराण्णत्वमिति यदयं क्षुभ्नादिषु नृनमनशब्दं पठति॥ नैतदस्ति ज्ञापकम्। वृद्ध्यर्थमेतत्स्यात् - नार्नमनिरिति। यत्तर्हि तत्रैव तृप्नोतिशब्दं पठति॥ यच्चाऽपि नृनमनशब्दं पठति॥ ननु चोक्तं वृद्ध्यर्थमेतत्स्यादिति। बहिरङ्गा वृद्धिरन्तरङ्गं णत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे। अथ वोपरिष्टाद्योगविभागः करिष्यते। (इदमस्ति छन्दस्यृदवग्रहादिति। ऋतः।) ऋत उत्तरस्य नो णो भवति। ततः छन्दस्यृवग्रहात्। ऋत इत्येव॥ Kashika ------- रेफषकाराभ्यामुत्तस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेद् निमित्तनिमित्तिनौ भवतः। आस्तीर्णम्। विशीर्णम्। अवगूर्णम्। षकारात् — कुष्णाति। पुष्णाति। मुष्णाति। षग्रहणमुत्तरार्थम्, ष्टुत्वेनैव हि सिद्धमेतत्। समानपद इति किम्? अग्निर्नयति। वायुर्नयति॥ ऋवर्णाच्चेति वक्तव्यम्॥ तिसृणाम्। चतसृणाम्। मातृृणाम्। पितृृणाम्। रश्रुतिसामान्यनिर्देशात् सिद्धम्। ऋवर्णभक्त्या च व्यवधानेऽपि णत्वं भवतीति क्षुभ्नादिषु (८.४.३९) नृनमनतृप्नोतिग्रहणं ज्ञापकम्। अथवा ऋवर्णादपि णत्वं भवतीत्येतदेवानेन ज्ञाप्यते॥ Siddhanta Kaumudi ----------------- एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥ (वार्तिकम्) । (वार्तिकम्) ॥ Laghu Siddhanta Kaumudi ----------------------- स्पष्टम् । **अचो रहाभ्यां द्वे** (LSK60) । अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । चतुर्ण्णाम्, चतुर्णाम् ॥ Balamanorama ------------ **रषाभ्यां नो णः समानपदे** - रषाभ्याम् । रषाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् । समानशब्द एकपर्यायः । यथा - समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । न इति षष्ठी । तदाह - एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्वं विवक्षितं, पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेत्यादौ 'अट्कुप्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तेः । 'मातृभोगीणः' इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति । तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावान्नकारस्य षात्परत्वं नेति शङ्क्यं,रषाभ्यामिति षात्परस्य हि नस्य णत्वे कर्तव्येऽल्लोपस्य स्थानिवद्भावो नापेक्षितः । किंतु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्यं भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रेऽवोचाम । यद्यप्यचः परस्मिन्नित्यत्राशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि, तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरिति । स्थानिभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तेः । इह चाल्लोपस्थानिभूतादकारात्परस्यैव णत्वविधानादिति भावः । नन्वचः परस्मिन्निति सूत्रे स्थानिभूतादचः पूर्वस्मात्परस्य विधावजादेशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः । एवञ्चात्र लोपादेशस्थानिभूतादकारात्पूर्वो यः षकारस्तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्षात्परत्वाऽभावात्कथं णत्वमित्यत आह — पूर्वस्मादिति । पक्षे त्वित्यादिनाऽस्य पक्षस्याऽनित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ 'गण सङ्ख्याने' इत्यदन्तो धातुः । णिच् । अतो लोपः । अल्लोपस्य स्थानिवद्भावात् **अत उपधायाः** (7.2.116) इति वृद्धिर्न । ण्यन्तात्क्त्वो ल्यपि णिलोपं बाधित्वा ,**ल्यपि लघुपूर्वात्** (6.4.56) इति णेरयादेशः । पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्य नित्यत्वे इह ल्यपि लघुपूर्वादिति णेरयादेशो न स्यात् । लोपस्थानिभूतादतः पूर्वस्मात्परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहितत्वेन णेर्लघुपूर्वाण्णकारात्परत्वाऽभावात् । तस्मादचः परस्मिन्नित्यत्र पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्याऽनित्यत्वं विज्ञायते । एवं च गोशब्दात्संबुद्धौ ओतो णित्त्वे वृद्धौ हे गौरिति सिध्यति । अन्यथा औकारस्य स्थानिभूतादोकारात्पूर्वो यो गकारस्तस्मात्परस्याः सम्बुद्धेर्लोपविधौ स्थानिवद्भावे ओकारादेङः परत्वात्सम्बुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति । अट्कुप्वाङिति सूत्रेणैवेत्यर्थः । षादव्यवहितपरस्य नस्य णत्वविधावुदाहरणं तु — पुष्णातीत्यादि बोध्यम् । वस्तुतस्तु तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणमुत्तरार्थमिति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथं स्थानिवद्भावः, पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह — पूर्वत्रेति । संयोगादिलोपे लत्वे च कर्तव्ये, तस्य=पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोषः=बाधः । अप्रवृत्तिरिति यावत् । सयोगादिलोपे यथा - चक्र्यत्र । इह 'अचः परस्मिन्' इति यणादेशस्य स्थानिवद्भावात्स्कोः संयोगाद्योरिति ककारलोपो न । लत्वे यथा - निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात् **अचि विभाषा** (8.2.21) इति लत्वम् । णत्वे यथा - माषवपनी । वपतेर्ल्युट्, अनादेशः, उगित्त्वान्ङीप्, यस्येति च (6.4.148) इति नकारादकारस्य लोपः । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावात् **प्रातिपदिकान्तनुम्विभक्तिषु च** (8.4.11) इति णत्वं न । यूषन्-भ्यामिति स्थिते । Tattvabodhini ------------- **रषाभ्यां नो णः समानपदे** - रषाभ्यां नो णः । अत्र **अपदान्तस्य मूर्धन्यः** (8.3.55) इत्यनुवर्त्त्य णग्रहणं, **पदान्तस्य** (8.4.37) इति सूत्रं च भाष्ये प्रत्याख्यातम् । समानपदे इति । निमित्तनिमित्तिनोरपदस्थत्वाऽसंभवात्पदे इतीयतैव सामर्थ्यादेकपदत्वे लब्धे समानग्रहणं यत्समानमेव पदं, निमित्तवत्पदभिन्नपदस्थत्वाऽभावादिति यावत्, तत्र यथा स्यादित्येतदर्थम् । तेन समासे रामनाम, गन्धर्वगानमित्यादौ न भवति । तत्र हि नकारस्यैकपदवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वात् । भवति हि यूष्ण इत्यादौ णत्वम्, निमित्तवत्पदभिन्नपदत्वाऽभाववद्वृत्तित्वान्नकारस्य । मातृभोगीण इत्यादावपि नस्य णत्वं भवत्येव, प्रत्ययवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वाऽभावात् । एतेन समानग्रहणमखण्डपदलाभार्थमिति व्याख्याय रामनामेत्यादावपि प्रसङ्गे निवारितेऽपि मातृभोगीण इत्यादावव्याप्तिः स्यादेवेति केषांचिदुक्तिः परास्ता । उक्तरीत्या त्वव्याप्तिशङ्काया निरस्तत्वात् । यूष्ण इति । यूषो मण्डः । 'मुद्रामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात् । पूर्वत्रासिद्धे न स्थानिवदिति । एतच्च न्यायसिद्धं, त्रिपाद्या असिद्धत्वेन तत्रत्ये कर्तव्ये अचः परस्मिन्नित्यतिदेशस्याऽप्रवृत्तेः । तस्येति । तस्य पूर्वत्रासिद्धे नेत्यस्य । तथा च स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः । संयोगादिलोपे — चक्र्यत्र । इह अचः परस्मिन्निति यणादेशस्य स्थानिवत्त्वात्स्कोः इति कलोपो न । लत्वे - निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वादचि विभाषेति लत्वम् । णत्वे - माषवपनी । इह यस्येति चेत्यल्लोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावाण्णत्वं न । ननु गर्गभगिनीत्यत्रेव माषवपनीत्यत्रापि णत्वप्राप्तिर्नास्त्येव,उत्तरपदं यत्प्रातिपदिकं तदन्तस्येति वक्ष्यमाणत्वात् । अत्राहुः - साधनं कृतेति ल्युडन्तेन समासे पश्चान्ङीपि यस्येति चेत्यल्लोपे कृते नकारस्योत्तरपदान्तत्वाण्णत्वप्राप्तिरस्त्येवेति । स्यादेतत्, यूष्ण इत्यादौ रषाभ्यामित्यस्य नोपयोगः, ष्टुत्वेनैव रूपसिद्धेः । अत एव च षग्रहणमुत्तरार्थमित्याकरे स्थितमिति चेदुच्यते, उत्तरार्थतयाऽपीह षग्रहणं स्थितं, ततश्च यूष्णः पुष्णातीत्यादौ रषाभ्यामिति णत्वस्य प्रवृत्तिः केन वार्यताम् । ष्टुत्वेनेति चेन्न, तस्याऽसिद्धत्वात् । न च वचनप्रामाण्यात्सिद्धत्वं शङ्क्यम्,पृष्टः पुष्टिः षष्ठः इत्यादौ चरितार्थत्वात् । नस्य षयोगे ण इत्यंशोऽचरितार्थ इति चेन्न, तस्य पृथगनुक्तेः । इह षात्परस्येत्युक्तिरप्यचरितार्थेत्यस्यापि तुल्यत्वाच्च । एवमप्युत्तरार्थं षग्रहणमित्याकरो विरुध्यत इति चेन्न, आकरे हीह षग्रहणं विना पुष्णातीत्यादिलक्ष्यस्याऽसिद्धिर्नास्तीत्येतावदभिप्रेतं, न तु पुष्णातीत्यादौ रषाभ्यामित्यस्याऽप्रवृत्तिरिति । Padamanjari ----------- निमित्तयोरादेशे चाकार उच्चारणार्थः । समानं च तत्पदं समानपदम् । निमित्तनिमित्तिनोश्चायमाधारनिर्द्देशः । तदाह - समानपदस्थो चेदिति । एकपर्यायः समानशब्दः । निमित्ते रषौ, निमित्ती नकारः । यद्यप्यसौ प्रागेव सिद्धस्वरूपः, तथापि तत्स्थाने भवतो णकारस्य यन्निमित्तम्, तस्यापि तेन सम्बन्धोऽस्त्येव । णकार एव वा निमित्ती, तस्य तु विधानोत्तरकालं समानपदस्थत्वम् । षग्रहणमुत्तरार्थमिति । अडादिव्यवाये णत्वं वक्ष्यति, तदस्मादपि यथा स्यात् । अथेहार्थमपि कस्मान्न भवति ? अत आह - ष्टुत्वेनैव सिद्धमेतदिति । ऋवर्णाच्चेति वक्तव्यमिति । रषाभ्यां णत्वमुच्यमानमृकारान्न प्राप्नोतीति वचनम् । न च शक्यं वक्तुम् - ऋवर्णस्थाद्रेफाद् भविष्यतीति । वर्णो ह्यत्र रेफः सूत्र उपात्तः, षकारेण साहचर्यात् । न च वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते । तिसृणामिति ।'न तिसृचतसृ' इति प्रतिषेधात् 'नामि'(6.4.3) इति दीर्घत्वाभावः । ततर्हि वक्तव्यम् ? नेत्याह - रश्रुतिसामान्यनिर्देशात्सिद्धमिति । र इति श्रुतिः श्रोत्रेणोपलब्धिर्ययोस्ते रश्रुती वर्णात्मिका चावर्णात्मिका च व्यक्तिः, तयोर्यत्सामान्यं तन्निर्दिश्यते; न तु वर्णात्मिकैव व्यक्तिरित्यर्थः । नन्वेवमपि ऋकारे त्रयो भागा अभितोऽज्भक्तिर्मध्ये रेफभक्तिर्मात्रा चतुर्भागात्मिका, ततश्च परयाज्भक्त्या व्यवधानान्न प्राप्नोति ? अड्व्यवाय इत्येवं भविष्यति । न पराज्भक्तिरट्सन्निविष्टा, सा ह्यर्द्धमात्रा चतुर्भागात्मिका ऋकारभक्तिः । न च तस्याः सवर्णग्रहणेन नाप्यड्ग्रहणेन ग्रहणम्; असवर्णत्वात्, न हि तस्याः स्थानं प्रयत्नो वा पृथगस्ति । तस्मात्सामान्यनिर्दशेऽपि नैव णत्वं सिध्यति, अत आह - वर्णभक्त्या चेति । वर्णस्य समुदायस्यावयवभूता या पराज्भक्तिस्तयेत्यर्थः । ननु च नृनमनग्रहणं वृद्ध्यर्थं स्यात् - नृनमनस्यापत्यं नार्नमनिरिति ? नैतदस्ति; बहिरङ्गा वृद्धिः, अन्तरङ्गं णत्वम्, असिद्धं बहिरङ्गमन्तरङ्गे । अथ वेति । व्यक्तिनिर्द्देशेऽपि दोष इत्यर्थः । अपरः प्रकारः - अभितोऽज्भक्ती चतुर्भागात्मिके, मध्ये शुद्धो रेफोऽर्धमात्रात्मकः, तेन व्यक्तिनिर्देशेऽप्यदोष इत्यर्थः । ननु च परयाज्भक्त्या व्यवधानम् ? एवं तर्हि उतरसूत्रे योगविभागः करिष्यते -'व्यवायेऽपि' इति, व्यवायेऽपि णत्वं भवति; ततः 'अट्कुप्वाङ्नुम्भिः' इति । इदमिदानीं किमर्थम् ? नियमार्थम् - वर्णात्मकैर्व्यवाये यदि भवति अडादिभिरेवेति । 'अपदान्तस्य मूर्धन्यः' (8.3.55) इत्यधिकारादत्र णग्रहणं शक्यमकर्तुम् । उतरत्र च 'पदान्तस्य' (8.4.37) इति प्रतिषेधः ॥ Nyaas ----- `समानपदस्थौ चेत्` इत्यादि। समानशब्दोऽयमेकपर्यायः। समानमेकम्, अभिन्नमित्यर्थः। समानञ्च तत् पदञ्चेति कर्मधारयः; तत्र तिष्ठत इति समानपदस्थौ, **सुपि स्थः** (3.2.4) इति कप्रत्ययः। अत्र निमित्तं रेफः षकारश्च। तन्निमित्तं यस्यास्तीति णत्वभावेन विपरिणतौ साध्यायां स निमित्ती नकारः। तेनैतदुक्तं भवति -यत्र पदे रेफषकारौ स्तस्तत्र यदि नकारोऽपीत्यर्थः। `आस्तीर्णम्, विशीर्णम्` इति। `स्तृञ् आच्छादने` (धातुपाठः-1484), `शृ हिंसायाम्` (धातुपाठः-1488)। व्याङ्पूर्वाभ्यां निष्ठा; `श्र्युकः किति` (7.2.11) इट्प्रतिषेधः। ॑ॠत इद्धातोः` (7.1.100) इतीत्त्वम्; रपरत्वञ्च। `अवगूर्णम्` इति। `गुरी उद्यमने` (धातुपाठः-1396), `श्वीदितो निष्ठायाम्` (7.2.14) इतीट्प्रतिषेधः। `हलि च` (8.2.77) इति दीर्घः, `रदाभ्यां निष्ठातो नः` (8.2.42) इति तकारस्य नकारः, तस्यानेनैव णत्वम्। `कुष्णाति, पुष्णाति` इति। `कुष निष्कर्षे` (धातुपाठः-1518), `पुष पुष्टौ` (धातुपाठः-1529)। श्नाप्रत्ययः। `षग्रहणमुत्तरार्थम्` इति। अथैतदर्थमपि कस्मान्न भवति? इत्याह -`ष्टुत्वेनैव सिद्धत्वात्` इति। यद्येवम्, कुष्णातीत्यादेरुपन्यासः किमर्थः? उत्तरार्थं षग्रहणं क्रियमाणमेतदर्थमपि भवतीति प्रदर्शनार्थः। असति षग्रहणे कुष्णातीत्येवमादौ ष्टुत्वेनैव सिद्धिर्भवति। सति च तस्मिन्नुत्तरार्थ आरभ्यमाणेऽनेनैव णत्वं कर्तव्यम्। अस्मिन् कर्तव्ये ष्टुत्वस्यासिद्धत्वादन्यत्र चरितार्थत्वान्न च परत्वमुपपद्यते; `पूर्वत्रासिद्धीये नास्ति विप्रतिषेधोऽभावादुत्तरस्य` (जै।प।षृ।67) इति। `ऋवर्णाच्चेति वक्तव्यम्` इत्यादि। रषाभ्यां णत्वमुच्यमानमृवर्णान्न प्राप्नोति, तस्य वर्णान्तरत्वात्। न च शक्यते वक्तुम् -ऋवर्णस्थाद्रेफाद्भविष्यति, वर्णो हि रेफः सूत्रे णत्वं प्रति निमित्तत्वेनाश्रितः। न हि ऋवर्णस्थो रेफो वर्णः, किं तर्हि? वर्णैकदेशः; तदेकदेशत्वात्, न हि वर्णैकदेशो वर्णग्रहणेन गृह्यते। तथा चोक्तम् -`वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न वेति। तच्छायानुकारिणो हि ते, न पुनस्त एव। पृथक्प्रयत्ननिर्वर्त्त्यं वर्णमिच्छन्त्याचार्याः` इति। तस्मात् `ऋवर्णाच्च` इति वक्तव्यम्। `तिसृणाम्, चतसृणाम्` इति। **त्रिचतुरोः स्त्रियां तिसृचतसृ** (7.2.99) इत्येतावादेशौ भवतः। `न तिसृचतसृ` (6.4.4) इति निषेधात् `नामि` (6.4.3) इति दीर्घत्वं न भवति। `रश्रुतिसामान्यनिर्देशात् सिद्धम्` इति। अनेनोपसंख्यानं प्रत्याचष्टे। `र` इतीह श्रुतिरुपलब्धिर्यस्येति बहुव्रीहिः। अथ वा - श्रूयत इति श्रुतिः, रश्चासौ श्रुतिश्चेति रश्रुतिः। तस्याः केवलाया ऋवर्णस्थायाश्च वर्णत्वावर्णत्वकृतभेदमुत्सृज्य यत् सामान्यं रश्रुतिमात्रं तदिह निर्दिश्यते, न तु वर्णात्मिकैव रेफव्यक्तिः। तेनेह सिद्धं तिसृणामित्यादावपि णत्वम्; ऋवर्णे हि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात्। स्यादेतत् -ऋकारे त्रयोऽज्भागाः सन्ति, तन्मध्यवर्ती तुरीयो रेफः, तत्र रश्रुतिसामान्यनिर्द्देशादपि नैव णत्वं सिध्यति; योऽसौ रेफात् परोऽज्भागस्तेन व्यवधानात्? इत्यत आह -`अवर्णभाक्` इत्यादि। यदयं क्षुभ्नादिषु णत्वप्रतिषेधार्थं नृनमनतृप्नोतिग्रहणं करोति तेनैतज्ज्ञाप्यते - अवर्णभागव्यवधानेऽपि णत्वं भवतीति, अन्यथैतयोः पाठोऽनर्थकः स्यात्; प्राप्त्यभावात्, प्राप्तिपूर्वकत्वात् प्रतिषेधानामिति। इदानीं यद्यपि वर्णात्मिकैव रेफव्यक्तिर्निर्द्दिश्यते, तथापि णत्वं भवतीति दर्शयितुमाह -`अथ वा` इत्यादि। पूर्वं सूत्रोपात्ताद्रश्रुतिसामान्यनिर्द्देशादवर्णभागव्यवधानेऽपि णत्वं भवतीति ज्ञापितम्। सम्प्रति तु सूत्रानुपात्तादृवर्णादव्यवहिताद्भवतीत्येव विशेषः। अथ किमर्थं णग्रहणम्? यावता प्रकृतोऽत्र मूर्धन्योऽनुवर्त्तिष्यते। स एव विधेयः; तत्रान्तरतम्यान्नकारस्य णकार एव भविष्यति? सत्यमेतत्; पूर्वसूत्रे मूर्धन्यग्रहणं निषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात् प्रतिषेधशङ्कानिरासार्थं पुनर्ग्रहणं कृतम्। ननु च प्राप्त्यभावादेव प्रतिषेधशङ्का न भविष्यति; प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति, न च केनचिद्रषाभ्यामुत्तरस्य मूर्धन्यप्राप्तिरस्ति? सत्यमेतत्, अस्मादेव प्रतिषेधाद्विधिरनुमीयत इति। अथ वा अनन्तरसूत्रे `वा` इति। वचनाद्विकल्पेनायं विधिर्विज्ञायेत। तस्माद्विकल्पनिवृत्त्यर्थम्, विस्पष्टार्थं वा॥ Praudhamanorama --------------- **इति पक्षे त्विति।** एतेन पञ्चमीसमासस्य पाक्षिकतां ध्वनयति । तथा हि, भाष्ये - बेभिदिता, माथितिकः, अपीपचन्निति प्रयोजनत्रयमुक्तम् । तच्चान्यथा सिद्धम् । **एकाच उपदेशे** (7.2.10) इत्यत्र विहितविशेषणादेव बेभिदितेत्यत्र इण्निषेधो न । मथितं पण्यमस्येति विग्रहे ठकि ठस्येकादेशे **यस्येति च** (6.4.148) इत्यल्लोपे **इसुसुक्तान्तात्कः** (7.3.51) इति कादेशस्तु न भविष्यति । ठस्याभावात् । न च स्थानिवद्भावेन ठत्वमल्विधित्वात् । **ठस्येकः** (7.3.50) इत्यत्र हि स्थान्यादेशयोरकार उच्चारणार्थः । अपीपचन्नित्यपि णिलोपस्य चङन्त्यकारयोरेकादेशस्य च स्थानिवद्भावं विनाऽपि सिद्धम् । विधिसाहचर्यादभ्यस्तादपि लङ एव झेर्जुस्विधानात्। न च सिचा साहचर्याद् लुङ एव किं न स्यादिति वाच्यम् । पूर्वसाहचर्यात्परसाहचर्यस्य बलीयस्त्वादिति दिक् । **पूर्वत्रासिद्धे नेति।** एतच्च न्यायसिद्धमित्यवोचाम । त्रिपाद्या असिद्धत्वेन तत्रत्ये कार्ये कर्तव्ये **अचः परस्मिन्**(1.1.57) इत्यतिदेशस्याप्रवृत्तेः । तस्येति । तस्य 'पूर्वत्रासिद्धे' इत्यस्य । तथा च स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः । संयोगादिलोपे चक्र्यत्र । लत्वे निगाल्यते । णत्वे माषवपनी । इह **यस्येति च** (6.4.148) इत्यल्लोपस्य स्थानिवत्वेन नकारस्य प्रातिपदिकान्तत्वाभावाद् णत्वं न । यत्त्वाहुः — कथंचित्स्थानिवत्वाभावेऽपि यूष्ण इत्यादौ 'रषाभ्याम्' इत्यस्य नोपयोगः, ष्टुत्वेन सिद्धेः । तथा च षग्रहणमुत्तरार्थमिति आकरे स्थितम् । ततश्च रभसवादेनैतदुपन्यस्तमिति । स एवायं रभसवादः । तथा हि, उत्तरार्थतयाऽपीह षग्रहणं स्थितम् । ततश्च यूष्णः, पुष्णाति इत्यादौ 'रषाभ्याम्' इति णत्वस्य प्रवृत्तिः केन वार्यताम्? ष्टुत्वेनेति चेन्न । तस्यासिद्धत्वात् । न च वचनाप्रामाण्यात्सिद्धत्वम् । पुष्टिरित्यादौ चरितार्थत्वात् । तस्य षयोगे ण इत्यंशोऽचरितार्थ इति चेन्न । तस्य पृथगनुक्तेः । इह षात्परस्येत्युक्तिरचरितार्थेत्यस्यापि तुल्यत्वाच्च । आकरे हि इह षग्रहणं विना लक्ष्यासिद्धिर्नास्ति इत्येवाभिप्रेतं, न तु पुष्णातीत्यादौ 'रषाभ्याम्' इत्यस्याप्रवृत्तिरिति दिक्। Prakriyasarvasvam ----------------- रेफषकाराभ्यां परस्यैकपदस्थस्य नस्य णः स्यात् । Vartika ------- ऋवर्णान्नस्य णत्वं वाच्यम् । Sutra Prayogas -------------- * **अवतीर्णवान्** (शिशुपालवधम्): `रषाभ्यां नो णः समानपदे` इति णत्वम्। * **विस्तीर्णोरस्-स्थलं** (भट्टिकाव्यम्): `रषाभ्यां नो णः समानपदे` इति णत्वम्। * **रुधिर-पायिणाम्** (भट्टिकाव्यम्): `पानं देशे` इति णत्वम्।