83110: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ========================================== **Padacheda:** न | S | 0 | 0 | रपर-सृपि-सृजि-स्पृशि-स्पृहि-सवनादीनाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The ष् substitution does not take place if र् follows the स् as well as in 1. सृप 2. सृज 3. स्पृश 4. स्पृह and 5. सवन etc. Vasu English Translation ------------------------ The ष् substitution does not take place if र् follows the स् as well as in 1. सृप 2. सृज 3. स्पृश 4. स्पृह and 5. सवन etc. Thus विस्रंसिकायाः काण्डं जुहोति ॥ The word विस्रंसिक is formed by the affix ण्वुल् (3.3.109), विस्रब्धः कथयति ॥ This word is from the root सृम्भु विश्वासे, the इट् is not added by (7.2.15) and the nasal is elided by (6.4.24). before the *nisthha* त ॥ सृप :- पुरा क्रूरस्य विसृपः ॥ The word विसृपः is formed by the affix कसुन् (3.4.17), सृज :- वाचो विसर्जनात् ॥ स्पृश :- विविस्पृशम् ॥ स्मृहि :- निस्पृहं कथयति ॥ The following is a list of सवनादि words : 1 सवने सवने, 2 सूते सूते, 3 सोमे सोमे, 4 सवनमुखे सवनमुखे, 5 किंसः किंसः (किंस्यतीति किंसः), 6 अनुसवनमनुसवनम्, 7 गोसनिं गोसनिम्, 8 अश्वसनिमश्वसनिम् ॥ In some books this is the list 9 सवने सवने, 10 सवनमुखे सवनमुखे, 11 अनुसवनमनुसवनम् (अनुसवने २),12 संज्ञायां बृहस्पतिसवः, 13 शकुनिसवनम्, 14 सोमे, सोमे, 15 सुते सुते (सूते २), 16 संवत्सरे संवत्सरे, 17 बिसं बिसम्, 18 किंसं किंसम् (किसं किसम्), 19 मुसलं मुसलम् 20 गोसनिम्, अश्वसनिम् ॥ Bhashya ------- न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् किमर्थं सवनादिष्वश्वसनिशब्दः पठ्यते? ॥ षत्वबाधनार्थम्॥ पूर्वपदादिति षत्वं प्राप्नोति तद्बाधनार्थम्॥ नैतदस्ति प्रयोजनम्, इणन्तादिति तत्रानुवर्तते, अनिणन्ताश्चायं, नैव प्राप्नोति नाऽर्थः प्रतिषेधेन॥ एवं तर्हि सिद्धे सति यत्सवनादिष्यश्वसनिशब्दं पठति तज्ज्ञापयत्याचार्योऽनिणन्तादपि षत्वं भवतीति॥ किमेतस्य ज्ञापने प्रयोजनम्?॥ जलाषाहं माष इत्येतत्सिद्धं भवति॥ अथ वैकदेशविकृतार्थोऽयमारम्भः। अश्वषा इति॥ Kashika ------- रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर — वि॒स्रं॑सि॒कायाः॒ का॑ण्डा॒भ्यां जुहोति (मै०सं० २.६.१) । विस्रब्धः कथयति। सृपि — पु॒रा क्रू॒रस्य॑ वि॒सृपः॑ (मा०सं० १.२८)। सृजि — वाचो विसर्जनात्। स्पृशि — दि॑वि॒स्पृश॑म् (ऋ० १.१४२.८)। स्पृहि — निस्पृहं कथयति। सवनादीनाम् — सवनेसवने। सूतेसूते। सामेसामे। सवनमुखेसवनमुखे। किं स्यतीति किंसंकिंसम्। अनुसवनमनुसवनम्। गो॒सनिं॒ (शौ०सं० ३.२०.१०) गोसनिम्। अश्वसनिमश्वसनिम्। **पूर्वपदात्** (८.३.१०४) इति प्राप्तेः प्रतिषेधः। अश्वसनिग्रहणमनिणोऽपि षत्वमस्तीति ज्ञापनार्थम्। तेन जलाषाहमश्वषाहमित्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः — सवनेसवने। अनुसवनेऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमेसोमे। सूतेसूते। संवत्सरेसंवत्सरे। किंसंकिंसम्। बिसंबिसम्। मसुलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः॥ Siddhanta Kaumudi ----------------- रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । पूर्वपदात् (SK3643) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- (SK2410) इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदश्रु ॥ Tattvabodhini ------------- शासिवसीति प्राप्तमपि नेति। एवं च `अविन्द उरिउआयाः` इति मन्त्रे षत्वाऽभावः सिद्धः। माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे। `उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः` इति मेदिनी। `माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी`त्यमरः। `वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे` इति मेदिनी। `वाश्रो रासभपक्षिणोः` इति केचित्। माधवेन तु `वाश्रेव विद्युन्मिमाति` इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम्। `शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी। Padamanjari ----------- परिसेसिच्यत इति । अत्राभ्याससकारस्य ठुपसर्गात्सुनोतिऽ इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात्'स्थादिष्वभ्यासेन च' इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं'सिचो यङ्' इत्येतिमपि बाधेत ? अत आह - उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते,'सिचो यङ्' इत्येतिस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा -'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्' इति । अनेनैतदपि निरस्तम् -'स्थादिष्वभ्यासेन च' इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ॥ Nyaas ----- रः परो यस्मादिति रपरः। `सृप्लृ गतौ` (धा।रा।983), `सृज विसर्गे` (धातुपाठः-1414), `स्पृश संस्पर्शे`, [संस्पर्शने -धातुपाठः-] `स्पृह ईप्सायाम्` (धातुपाठः-1871) चुरादावदन्तः पठते। सवनमादिर्येषामिति बहुव्रीहिः। `विरुआंसिकायाः` इति। `रुआन्सु अवरुआंसने` (धातुपाठः-754) अस्माद्विपूर्वात्? `रोयख्यायां ण्वुल्? बहुलम्` (3.3.108) इति ण्वुल्। `विरुआब्धः` इति। `रुआन्भु विश्रम्भे` [`विआआसे` -धातुपाठः-] (धातुपाठः-757), `अनिदिताम्` (6.4.24) इति न लोपः, `झषस्तथोर्थोऽधः` (8.2.40) इति धकारः, **झलां जश् झशि** (8.4.53) इति भकारस्य बकारः। `विसृपः` इति। **सृपितृदोः कसुन्** (3.4.17) इति कसुन्। `विसर्जनात्` इति। ल्युट्। `दिविस्पृशम्` इति। **स्पृशोऽनुदके क्विन्** (3.2.58) , **तत्पुरुषे कृति बहुलम्** (6.3.14) इति सप्तम्या अलुक्। `निस्यृहः` [निस्पृहम् -काशिका] इति। स्पृहणं स्पुहः, `एरच्` (3.3.56) इत्यच्, णिलोपः, निर्गतः स्पृहो निःस्पृहः। `सवनेसवने` इति। सुनोतेर्ल्युट्, सप्सम्येकवचनम्, वीप्सायां द्विर्वचनम्। `सूतेसूते` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1131) सुवतेर्वा, निष्ठा। `सोमेसोमे` इति। सुञित्येतस्मात्? `अर्त्तिस्तु` (द।उ।7।26) इत्यादिना सोमशब्दः व्युत्पादितः। `सवनमुखेसवनमुखे` इति। सवनस्य मुखमिति षष्ठीसमासः। `किंसं किंसम्` इति। `षो अन्तकर्मणि` (दा।पा।1147), `आतोऽनुपसर्गे कः (3.2.3) । तत्र किमो कमारस्यानुस्वारे कृते `अयोगवहानामट्सूपदेशादङ्व्यवायेऽपि इति पूर्वपदस्थान्निमित्तात्? प्राप्तः। `अनुसवनमनुसवनम्` [`अनुसवनमिति` -इति प्रांउ।पाठः] इति। ल्युडन्तमेतत्। अश्यसनेव्र्युत्पत्तिर्गोसनिवत्। अगाआसनिग्रहणं किमर्थम्? न ह्यत्र सकारस्य षत्वं प्राप्नोति, तथा हि पुर्वस्थादिण उत्तरस्य षत्वं प्राप्नोति, न चासाविण उत्तरः सकारः? इत्यत आह -`अआसनिग्रहणम्` इत्यादि। किमेतज्ज्ञापनेन प्रयोजनम्? इत्यत आह -`जलाषाहम्`इत्यादि। क्वचित्? `विसंबिसम्, मुसलमुसलम्` इति पाठः। स्थाने द्विर्वचनपक्षे `आदेशप्रहत्यययोः` (8.3.59) इत्यादेशसकारत्वात् प्राप्तस्य षत्वस्य प्रतिषेधो वक्तव्यः॥ Prakriyasarvasvam ----------------- रपरस्य सकारस्य न षः पूर्वपदादिति । तथा सृधादिधातूनां सवनादिगणस्य च ॥ ८८५ ॥ अभिस्रवधन्वा पूयमानः । पुरा क्रूरस्य विसृपो विरप्शिन् । अपां विसर्गे यत् । अनुस्पृश धृषता शोशुचानः । निस्पृहः । सवनेसयने । सुते सुते । सवनमुखे सवनमुखे । इत्यादि ।