83103: युष्मत्तत्ततक्षुःष्वन्तःपादम् ==================================== **Padacheda:** युष्मत्-तत्-ततक्षुःषु | S | 7 | 3 | अन्तःपादम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स् standing in the inner half of a stanza is changed to ष् before the त of त्वम् etc. and युष्मद्। Vasu English Translation ------------------------ The स् standing in the inner half of a stanza is changed to ष् before the त of त्वम् etc. and युष्मद्। The word युष्मद् here means the substitutes त्वम्, त्वाम्, ते, तव. As अग्निष्ट्वं, नामासीत् ॥ त्वा, अग्निष्ट्वो वर्द्धयामसि ॥ ते, अग्निष्टे विश्वमानय ॥ तव, अप्स्वग्ने सधिष्टव, (*Rig* VIII.43.9) ॥ तत्, अग्निष्टद्विश्वमापृणाति, (*Rig* X. 2.4) ततक्षुस्, द्यावापृथिवी निष्टतक्षुःषु ॥ अन्तः -पादमिति किम्, नित्यमात्मनो विदाभूदग्निस्तत्पुनराह जातवेदो विचर्षणिः ॥ Why do we say in the inner half of a stanza ? Observe यन्म आत्मनो मिन्दाभूदग्नि स्तत्पुनराह जातवेदा विचर्षणिः ॥ Here the word अग्निः is at the end of the first stanza while तत् is at the beginning of the second stanza, therefore the स् of अग्निस् is not in the middle of a stanza. Kashika ------- युष्मत् तत् ततक्षुस् इत्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत् सकारोऽन्तःपादं भवति। युष्मदादेशास्त्वम्, त्वाम्, ते, तव। अग्निष्ट्वं नामासीत्। त्वा — अग्निष्ट्वा वर्धयामसि। ते — अग्निष्टे विश्वमानय। तव — अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ (ऋ० ८.४३.९)। तत् — अ॒ग्निष्टद्विश्व॒मापृ॑णाति (ऋ० १०.२.४)। ततक्षुस् — द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः (ऋ० १०.३१.७)। अन्तःपादमिति किम् ? यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षणिः (तै०सं० ३.२.५.४)॥ Siddhanta Kaumudi ----------------- पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ॥ Balamanorama ------------ **युष्मत्तत्ततक्षुःष्वन्तःपादम्** - ह्रस्वात्तादौ ।इण्को॑रित्यत इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इति च । तदाह — ह्रस्वादिण इति । निष्ट इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः ।अरण्याण्ण्य इति । 'वक्तव्य' इति शेषः । आरण्याः सुमनस इति ।स्तिरयः सुमनसः पुष्प॑मित्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि 'आरण्या' इति रूपम् । अणि तु ङीप् स्यादिति भावः । दूरादेत्य इति । 'वक्तव्य' इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वाऽर्थः । दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः ।उत्तरादाहञिति । 'वाच्य' इति शेषः । औत्तराह इति । उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः । औत्तर इति त्वसाधु । Tattvabodhini ------------- **युष्मत्तत्ततक्षुःष्वन्तःपादम्** - ह्रस्वात्तादौ । पदान्तत्वात्षत्वस्याऽप्राप्तावयमारम्भः । आदिग्रहणं तु व्यर्थं,यस्मिन्विधि॑रित्येव सिद्धेः । ह्वस्वांत्किम् । गीस्तराम् । धूस्तराम् । तदौ किम् । सर्पिःसाद्भवति । तद्धिते किम् । सर्पिस्तरति ।तिङन्तस्य प्रतिषेधो वाच्यः॑ । भिन्द्युस्तरम् । दूरादेत्यः । दूरेत्य इति । दूरादागत इत्यादिरर्थः ।उत्तरादाहञ् । औत्तराह इति । इहाद्युदात्तत्वं स्त्रियां टाप्च बोध्यः । यदा तुउत्तराच्च॑त्याहिप्रत्यये ततोऽण्क्रियते,अमेहे॑ति परिगणनेन त्यपोऽभावात्, तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप्च विशेषः । Padamanjari ----------- पूर्वपदादित्येव सिद्ध इति । पूर्वपदमिति सामान्येन तत्राश्रीयते, न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थम् । च्छन्दोग्रहणं तूतरार्थं कर्तव्यमेव ॥ Nyaas ----- अयमापि पदान्तार्थ आरम्भः। `अन्तःपादम्` इति। पादस्य मध्ये। विभक्त्यर्थेऽव्ययीभावसमासः। पादग्रहणेन ऋक्पादश्लोकपादयोः सामान्येन ग्रहणम्। तकारादित्वं त्विह युष्मद एव विशेषणम्, नेतरयोः; अव्यभिचारात्। युष्मच्छब्दस्यापि त्वादिष्वादेशेषु तकारादित्वं भवतीत्यत आह -`युष्मदादेशाः` इत्यादि। `अग्निष्ट्वम्` इति। **त्वाहौ सौ** (7.2.94) इति त्वादेशः, `ङ प्रथमयोरम्` (7.1.28) इति सोरम्भावः, **शेषे लोपः** (7.2.90) । `अग्निष्ट्वः` इति। **त्वामौ द्वितीयायाः** (8.1.23) इति द्वितीयान्तस्य त्वादेशः। `अग्निष्टे` इति। **तेमयावेकवचनस्य** (8.1.22) इति षष्ठन्तस्य तयादेशः। `अग्निष्टव` इति। **तवममौ ङसि** (7.2.96) इति तदादेशः, `युष्मदस्मद्भ्यां ङसोऽक्ष्` (7.1.27) । `अग्निष्टत्`[ण्स्वग्ने सधिष्टव -इति काशिकायामुदाहरणम्, `अग्निष्ट्व` -इति कांउ।पाठः] इति। तच्छब्दोऽयं निपातः। सर्वनाम वा। `निष्टतक्षुः` इति। तक्षेर्लिट्, उस्। `अग्निस्तत्पुनः` इति। अग्निशब्दोऽत्र पूर्वपदस्यान्ते वर्तते। तेनायं सकारः पादस्यान्ते वर्तते, न पादमध्ये॥