83085: मातुःपितुर्भ्यामन्यतरस्याम् ================================== **Padacheda:** मातुः-पितुर्भ्याम् | S | 5 | 2 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is optionally substituted for the स् of स्वसृ after मातुर् and पितुर् in a compound. Vasu English Translation ------------------------ ष् is optionally substituted for the स् of स्वसृ after मातुर् and पितुर् in a compound. Thus मातुःस्वसा or मातुःष्वसा; पितुःस्वसा or पितुःष्वसा ॥ The word मातुर् and पितुर् end in र्, which is changed to *visarga* (See (8.2.24)). In fact, the word पितुर् is so exhibited in the *sutra* itself, with a र्, the word मातुः therefore, by the rule of साहचर्य is also to be understood as a र् ending word. Question:- Well, if this be so, when this र् is changed to a *visarga*, and the *visarga* changed to स् by (8.3.36), then there would be no ष change ? Answer:- The ष change would take place both after the *visarga*-ending or स-ending words, on the maxim एकदेशविकृतस्यानन्यत्वात् "That which has undergone a change in regard to one of its parts, is by no means, in consequence of this change, something else than what it was before the change had taken place". Therefore, these words are taken to end in र् ॥ For if they were taken to end in स्, then the rule would not apply when they ended in a *visarga*. If they be supposed to end in a *visarga*, then the form पितुर्भ्याम् with a र् before भ्याम् in the *sutra* is hard to explain. The word समासे is understood here also. Therefore not here मातुः स्वसा when the words are used separately in a sentence. Bhashya ------- मातुः पितुर्भ्यामन्यतरस्याम् ॥ सान्ताभ्यां(1) च ॥ सान्ताभ्यां चेति वक्तव्यम्। इहापि यथा स्यात्-मातुःष्वसा मातुःस्वसा। पितुःष्वसा पितुस्वसा (इति(2))॥ मातुः पितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात्॥ मातुः पितुरिति सान्तग्रहणमनर्थम्॥ किं कारणम्?॥ एकदेशविकृतस्यानन्यत्वात्॥ एकदेशविकृतमनन्यवद्भवतीति सान्तस्यापि(3) भविष्यति॥ Kashika ------- मातुर् पितुर् इत्येताभ्यामुत्तरस्य स्वसृशब्दस्यान्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुःपितुरिति रेफान्तयोरेतद्ग्रहणम्। एकदेशविकृतस्यानन्यत्वात् विसर्जनीयान्तात् सकारान्तात् च षत्वं भवति। समास इत्येव — वाक्ये मा भूत् — मातुः स्वसेत्येव नित्यं भवति॥ Siddhanta Kaumudi ----------------- आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥ Balamanorama ------------ **मातुःपितुर्भ्यामन्यतरस्याम्** - पूर्वण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह — मातुःपितुभ्र्यामन्यतरस्याम् ।मातृपितृभ्यामन्यतरस्याम् ।मातृपितृभ्यां स्वसे॑ति पूर्वसूत्रात्स्वसेत्यनुवर्तते । षष्ठर्थे प्रतमा । 'सहेः साडः सः' इति सूत्रात्स इति षष्टन्तं पदमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । 'मातुः'पितु॑रिति षष्ठन्ताभ्यामित्यर्थः । समासे इति ।समासेऽङ्गुलेः सङ्गः॑ इत्यतस्तदनुवृत्तेरिति भावः ।मातुःष्वसा॒॑पितुःष्वसे॑ति अलुकि षत्वे रूपम् ।मातुःस्वसा॒॑पितुःस्वसे॑त्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । 'विशेषो वक्ष्यते' इति शेषः । Padamanjari ----------- एकदेशविकृतस्यानन्यत्वाद्,'विसर्जनीयशर्व्यवाये' इत्यधिकाराच्च पूर्वेण नित्ये प्राप्ते विकल्पः । मातुः ष्वसेति ।'विभाषा स्वसृपत्योः' इति षष्ठ।ल अलुक् । रेफान्तयोरिदं ग्रहणमिति । तच्चोतरपदे स्पष्ट्ंअ पूर्वपदमपि तत्साहचर्याद्रेफान्तमेव । यद्येवम्, रेफस्य विसर्जनीये कृते तस्य'वा शरि' इति पक्षे सत्वे कृतेऽरेफान्तत्वान्न प्राप्नोति ? अत आह - एकदेशविकृतस्यानन्यत्वादिति । यदि तु सकारान्तयोर्ग्रहणं क्रियेत, विसर्जनीयान्तयोर्न स्यात् । विसर्जनीयान्तयोस्तु ग्रहणे भ्यामि परतो निर्देशो दुर्घटः स्यात् ॥ Prakriyasarvasvam ----------------- 'विभाषा स्वसृपत्योः' (६-३-२४) इत्यलुक्पक्षे षत्वं वा स्यादित्यर्थः । मातुःष्वसा, मातुःस्वसा । पितुःष्वसा, पितुःस्वसा ।।