83078: इणः षीध्वंलुङ्लिटां धोऽङ्गात् ==================================== **Padacheda:** इणः | S | 5 | 1 | षीध्वम्-लुङ्-लिटाम् | S | 6 | 3 | धः | S | 6 | 1 | अङ्गात् | S | 5 | 1 | Sutrartha --------- **इण्-वर्णान्त-अङ्गात् परस्य 'षीध्वम्' इत्यस्य धकारस्य, लुङ्-लकारस्य तथा लिट्लकारस्य अपदान्त-धकारस्य मूर्धन्यादेशः (ढकारः) भवति ।** इण् वर्णात् परस्य (1) आशीर्लिङ्गलकारस्य षीध्वम् प्रत्ययस्य, (2) लुङ्लकारस्य लिट्लकारस्य च प्रत्यये विद्यामानस्य धकारस्य अनेन सूत्रेण मूर्धन्यादेशः भवति । अतः धकारस्य स्थाने सवर्णः ढकारः आदेशरूपेण आगच्छति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'इणः' इति स्पष्टमुक्तमस्ति, अतः अत्र 'इण्कोः' इत्यस्य अनुवृत्तिः न भवति । 2. 'इण्' इति प्रत्याहारः अस्ति । लण्-सूत्रस्य णकारेण सह अस्य ग्रहणं भवति । Vasu English Summary -------------------- The cerebral sound is substituted in the room of ध् of षीध्वम् and of the personal-endings of the Aorist and the लिट् (Perfect Tense), after a अङ्ग (stem) ending in इण् (a vowel other than अ). Vasu English Translation ------------------------ The cerebral sound is substituted in the room of ध् of षीध्वम् and of the personal-endings of the Aorist and the लिट् (Perfect Tense), after a अङ्ग (stem) ending in इण् (a vowel other than अ). The word 'cerebral' is understood here from (8.3.55). Thus च्योषीढ्वम्, प्लोषीढ्वम् ॥ Aorist :- अच्योढ्वम्, अप्लोढ्वम् (8.2.25). Perfect : चकृढ्वे ॥ Though the *anuvritti* of इण्कोः was current here from (8.3.57), yet the repetition of the word इण् here indicates that the *anuvritti* of कु or the guttural ceases. As पक्षीध्वम्, यक्षीध्वम् ॥ Why do we say "the ध of पीध्वं, लुङ् and लिट्"? Observe स्तुध्वे, अस्तुध्वम्, where the ध is of लट् and लङ् ॥ Why do we say अङ्गात् 'after a stem'? Observe परिवेविषीध्वम्, from विष्लृव्याप्तौ of the *Juhotyadi* class. There is *Guna* of the reduplicate by (7.4.75), the स् of सीयुट् is elided by (7.2.79), and षीध्वम् here is made up of the ष् of the root विष्, and ईध्वम् the affix; therefore षीध्वम् here is not after the *anga* परिवे वि, for the *anga* here is परिवे विष्, and ईध्वम् is the affix. This result could have been obtained, without using the word अङ्गात् in the *sutra*, by the maxim अर्थवद् ग्रहणे नानर्थकस्य "a combination of letters capable of expressing a meaning, denotes that combination of letters in so far as it possesses that meaning, but it does not denote a combination void of meaning". Bhashya ------- इणः षीध्वंलुङ्लिटां धोऽङ्गात् विभाषेटः ॥ इण्ग्रहणं किमर्थम्?॥ इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम्॥ इण्ग्रहणं क्रियते॥ (किं प्रयोजनम्? ढत्वे कवर्गनिवृत्त्यर्थम्)॥ कवर्गाड्ढत्वं मा भूत्(1) पक्षीध्वम् यक्षीध्वम्॥ किं पुनरिदमिण्ग्रहणं प्रत्ययविशेषणम्-इण उत्तरेषां षीध्वंलुङि्लटां यो धकार इति, आहो स्विद्धकारविशेषणम् -इणः उत्तरस्य धकारस्य, स चेत्षीध्वंलुङ्लिटान्धकारइति॥ कश्चात्र विशेषः?॥ तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात्॥ तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं न प्राप्नोति। लुलुविढ्वे(4) लुलुविध्व इति॥ किं कारणम्?॥ परादित्वात्। इट् परादिः(5)॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ अलविढ्वमलविध्वम्॥ अस्तु तर्हि धकारविशेषणम्॥ धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावः॥ धकारपरत्वे षीध्वम्यननन्तरत्वादिटो विभाषा न प्राप्नोति। लविषीध्वं लविषीढ्वम्॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ लुलुविढ्वे लुलुविध्वे इति(1)॥ इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः॥ इण्ग्रहस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वं प्राप्नोति। पक्षीध्वं(2) यक्षीध्वमिति॥ नैषः दोषः। अङ्गादिति वक्ष्यामि॥ अङ्गग्रहणाच्च दोषः॥ अङ्गग्रहणाच्च दोषो भवति(2)। इह न प्राप्नोति-उपदिदीयिध्वे उपदिदीयिढ्वे इति(3)। यो ह्यत्राऽङ्गाऽन्त्य इण्न तस्मादुत्तर(4) इट्। यस्माच्चोत्तर इड्गाऽसावङ्गान्त्य इणिति॥ यथेच्छसि तथाऽस्तु॥ अस्तु तावत्प्रत्ययविशेषणम्॥ ननु चोक्तं-तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात् लुलुविध्वे लुलुविढ्वेइति॥ वचनाद्भविष्यति॥ ननु चोक्तमस्ति वचने प्रयोजनम्॥ किम्?॥ अलविढ्वमलविध्वमिति॥ यदेतस्मिन् योगे लिङ्ग्रहणं तदनवकाशं तस्याऽनवकाशत्वाद्वचनाद्भविष्यति॥ अथ वा पुनरस्तु-धकारविशेषणमिति॥ ननु चोक्तं धकारविशेषणत्वे षीध्वम्यननन्तरत्वादिटो विभाषाऽभावो लविषीध्वं लविषीढ्वमिति॥ वचनाद्भविष्यति॥ ननु चोक्तमस्ति वचने प्रयोजनं, किं, लुलुविध्वे लुलुविढ्वेइति॥ यदेतस्मिन् योगे षीध्वंग्रहणं तदनवकाशं, तस्याऽनवकाशत्वाद्वचनाद्भविष्यति॥ यदप्युच्यते-इण्ग्रहणस्य चाऽविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गइति॥ अङ्गादिति वक्ष्यामि॥ ननु चोक्तमङ्गग्रहणाच्च दोषइति॥ पूर्वस्मिन् योगे यदङ्गग्रहणं तदुत्तरत्र निवृत्तम्। अथ वा पूर्वस्मिन् योगे इण्ग्रहणं प्रत्ययविशेषणमुत्तरत्र धकारविशेषणम्॥ Kashika ------- मूर्धन्य इति वर्तते। इणन्तादङ्गादुत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति। च्योषीढ्वम्। प्लोषीढ्वम्। लुङ् — अच्योढ्वम्। अप्लोढ्वम्। लिट् — चकृढ्वे। ववृढ्वे। **इण्कोः** (८.३.५७) इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम्। पक्षीध्वम्। यक्षीध्वम्। षीध्वंलुङ्लिटामिति किम्? स्तुध्वे। अस्तुध्वम्। अङ्गादिति किम्? परिवेविषीध्वम्। अर्थवद्ग्रहणाद् (परि० १४) अप्येतत् सिद्धम्? तत् तु नाश्रितम्॥ Siddhanta Kaumudi ----------------- इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । एधाम्बभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥ Laghu Siddhanta Kaumudi ----------------------- इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥ Balamanorama ------------ **इणः षीध्वंलुङ्लिटां धोऽङ्गात्** - इणः षीध्वं । षीध्वं लुङ्लिट् एषां द्वन्द्वः । 'धः' इति षष्ठएकवचनम् । 'इण' इत्यङ्गविशेषणम् । तदन्तविधिः ।अपदान्तस्य मूर्धन्य॑ इत्यधिकृतं । तदाह — इणन्तादित्यादिना । धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह — एधांचकृञढ्व इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह — एधांचक्रि इति । एधांचकृवह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् । एवं लोटि महिभावे द्वित्वादि पूर्ववत् । सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः । अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति — एधांबभूवेति । एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वादस्तेर्भूरित्यार्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह — अनुप्रयोगेति । कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति — अन्यथेति । अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौक्रस्चानुप्रयुज्यते॑ इति वा,कृभु चानुप्रयुज्यते॑ इति वा ब्राऊयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपिकृ॑ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव । अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते । Tattvabodhini ------------- **इणः षीध्वंलुङ्लिटां धोऽङ्गात्** - ॒इण्को॑रित्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम् । तेनेहन न- पक्षीध्वम् । अङ्गात्परेषामिति ।विहिताना॑मित्युक्तौ तु दाञो लुङि अदिड्ढ्वमित्यत्राऽव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वघत्वधत्वेषु लिक्षीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम् । अङ्गात् किम् । वेविषीध्वम् । यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात्कृषीढ्वमित्यादावेव भवेन्नत्वत्र, तथाप्यर्थवद्ग्रहमपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम् । तेनअनिनस्मन्ग्रहणानी॑ति सिद्धम् । एधांबभूवेत्यादि ।आम्प्रत्ययव॑दिति सूत्रे कृञ्ग्रहणादनुप्रयोगान्तरे तङ् नेतिशेषात्कर्तरी॑ति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव — एधांबभूवे ईक्षांबभूवे इति । अस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते । तथाहि — उभयत्रापिह एती॑ति हादेशे कृते एधामाहे ईक्षामाहे इति केचित् । तासिसाहचर्यादिटएव हत्वं न त्वेशीत्यन्ये । तत्साहचर्यादेव सार्वधातुक एव एति हत्वम् । तथा च कर्मव्यतिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि । तेन एधामासे ईक्षामासे इत्येव रूपमित्यपरे । कृभ्वितीति । यद्यपि कृञित्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं प्रत्याहाराश्रयणे क्लेश इति भावः । Padamanjari ----------- इणन्तादङ्गादुतरेषामित्यादिना इणन्तमङ्गं षीध्वमादीनां विषेणम्, तेऽपि धकारस्येति दर्शयति । धकारस्य त्विणन्तमङ्गं विशेषणं न भवति - इणन्तादङ्गादुतरस्य धस्य स चेत् षीत्वमादीनामिति । तथा हि सति योषिढ्वमित्यादौ वचनसामर्थ्यात्षीशब्देन व्यवाय आश्रयणीयः स्यात् । अच्योढ्वमिति ।'धि च' इति सलोपः । इण्ग्रहणं कवर्गनिवृत्यर्थमिति । प्रकृतं हीण्ग्रहणं कवर्गेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यात् । पक्षीध्वमिति ।'चो कुः' इति कुत्वे कृते ढत्वप्रसङ्गः । यक्षीध्वमिति । व्रश्चादिना षत्वे कृते'षढोः कः सि' इति कत्वम् । स्तुध्वे इति । टेरेत्वम् । अस्तुध्वमिति । लङ् । परिवेविषीध्वमिति ।'विष्लृ व्याप्तौ' जुहोत्यादिः स्वरितेत्,'णिजां त्रयाणां गुणः श्लौ' इत्यभ्यासस्य गुणः,'लिङ्ः सलोपो' नन्त्यस्यऽ इति सीयुटः सकारलोपः । अत्र धातुषकारस्य, ईध्वशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसावङ्गादुतरः । षकारान्तं ह्यत्राङ्गम्, न तु वेवीत्येतावत् । चोदयति - अर्थवद्ग्रहणादपीति । परिहरति - एतत्विति । एतदर्थवतो ग्रहणमत्र नाश्रितम् । किं कारणम् ? न किञ्चित्, नाश्रितमित्येव ॥ Nyaas ----- `इणन्तादङ्गादुत्तरेषाम्` इत्यादना इणन्तमङ्गं षीष्वंलुङ्लटां विशेषणम्। तेऽपि धकारस्येति दर्शयति। अथ धकारस्यैवेणन्तमङ्गं विशेषणं कस्मान्न विज्ञायते -इणन्तादुत्तरो यो धकार इति? एवं मन्यते -इणन्तस्याङ्गस्य धकारविशेषणत्वे सति च्योषीढवम्, प्लोषीढ्वमित्यत्र न स्यात्; षीशब्देन व्यवधानात्। अथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्मात्` (व्या।प।46) इत्येकेन षीशब्देन व्यवधानेऽपि स्यादेव। एवमपि वचनप्रामाच्यादर्थप्रतिपत्तौ मन्दधियः प्रतिपत्तिगौरवं स्यात्। षीध्वमादिषु विशेष्यमाणेषु नायं दोष इति तेषामेवाङ्गमिणन्तं विशेषणं युक्तम्। गुणत्वादयुक्तमिति चेत्? स्यादेतत् -धकारस्य कार्यित्वात्? तैश्च विशेष्यमाणत्वात्? प्राधान्यम्। तेषां तु विपर्ययाद्गुणाभावः। तस्माद्धकारस्यैवेणन्तमङ्गं विशेषणं न्याय्यम्। एतच्च न; यत्र हि विशेषणेन सह सम्बन्धमनुभूय गुमः प्रधानस्य भूयांसमुपकारं कर्त्तुं समर्थो भवति, तत्र विशेषणेन च सह तावदप्रधानेन प्रणमं सम्बन्धमनुभवति। पश्चात्? प्रधानेन सम्बन्धम्। तथा च - गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथा भूयसि वर्तते॥ इति।इह चेणन्तेनाङ्गेन षीष्वमादयो विशेषिता धकारस्य विशिष्टमुपकारं प्रतिपत्तिगौरवदोषरहितं कार्यविशेषं प्रतिपादयन्ति। तस्मादिण्विशिष्टेनाङ्गन षीध्वमादय एव विशेष्यन्ते। तैश्च धकार इत्येतदेव युक्तं भवति। `च्योषीढवम्, प्लोषोढ्वम्` इति। च्युङ्प्लुङ्भ्यामाशिषि लिङ्, सीयुट्, ध्वम्, `एकाचः` (7.2.10) इत्यादिनेटप्रतषेधः, गुणः। `अच्योढवम्, अप्लोढवम्` इति। `धि च` (8.2.25) इति सकारलोपः `चकृढ्वे, ववृढ्वे` इति। कृञो वृञो लिट्। `कुसृभृवृ` (7.2.13) इत्यादिनेट्प्रतिषेधः। द्विर्वचनमभ्यासकार्यम्। ननु चानुवर्तत एवेह `इण्कोः` (8.3.57) इति पूर्वकमिण्ग्रहणम्। कथं पुनरिण्ग्रहणं क्रियते? त्वाह -`इण्ग्रहणम्` इत्यादि। तद्धि पूर्वकमिण्ग्रहणं कवर्गेण सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मत्? तन्निवृत्त्यर्थं पुनरिण्ग्रहणमिह क्रियते। `पक्षीध्धम्, यक्षीध्वम्` यक्षीध्वम्` इति। पचियजिभ्यामाशिषि लिङ्, **चोः कुः** (8.2.30) इति कुत्वम्, तस्मिन्? कृते कवर्गस्येह निवृत्तत्वान्मूर्धन्यो न भवति। `स्तुध्वम्` इति। स्तोतेर्लोट्, अदादित्वाच्छपो लुक्। `अस्तुध्वम्` इति। लङ्। `परिवेविषोध्वम्` इति। `विष्लृ ष्याप्तौ` (धातुपाठः-1095), विध्यादिलिङ, सीयुट्; तस्य `जुहोत्यादिभ्यः` (2.4.75) इति श्लुः, `श्लौ` (6.1.10) इति द्विर्वचनम्, `णिजां[`निजां` इति -प्रांउ।प्राठः] त्रयाणणम्` (7.4.75) इत्यभ्यासस्य गुणः, **लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति सकारस्य लोपः, **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः। अत्र धातुषकारस्य ईध्वंशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसाविणन्तावङ्गादुत्तरः। तथा हि -वेविषित्यस्याङ्गसंज्ञा, न तु वेषीत्येतावान्मात्रास्य षकारात्पूर्वभागस्य। `अर्थवद्ग्रहणादप्येतत्? सिद्धम्` [`एतत्` -नास्ति काशिकायाम्] इति। चोदकस्यैतद्वचनम्। मृह्रतेऽनेनेति ग्रहणम्, अर्थयतो ग्रहणमर्थवद्ग्रहणम्। तत्पुनः `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इति परिभाषासूत्रम्। ततोऽपि परिवेविषीध्वमित्येतत्? सिद्धम्। अर्थवद्ग्रहणपरिभाषया (व्या।प।1) अर्थवत एव षोध्वंशब्दस्य ग्रहणे सत्यस्यैव ढत्वेन भवितव्यम्। न चे ह षीध्र्वशब्दोऽर्थवान्, किं तर्हि? तदवयव ईध्र्वशब्दः; तत्किमेतन्निवृत्त्यर्थेनाङ्गग्रहणेनेत्यभिप्रायः। अत्रोत्तरमाह -`एतत्तु नाश्रितम्` इति। एतदिति `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इति भाषावचनम्।अथ वा -गृहीतिः=ग्रहणम्, अर्थवतो ग्रहणमिति षष्ठीसमासः। अतोऽप्येतत्? सिद्धमितीह पूर्वक एवाभिप्रायः। `एतत्तु नाश्रितम्` [तत्तु नाश्रितम् -काशिका] इत्युत्तरम्। एतदर्धवतो ग्रहणमिति नाश्रतम्; अर्थवद्ग्रहणपरिभाषाया (व्या।प।1) अनाश्रयणात्। तदनाश्रयणं तु प्रतिपत्तिगौरवदोषपरिहाराय। सूत्रानुपात्तवचनाश्रयेण ह्रभीष्टमर्व प्रतिपद्यमानस्य मन्वधियः प्रतिपत्तुः प्रतिपत्तिगौरवं स्यात्। इह त्वङ्गग्रहणे क्रियमाणे सुखत एवाभिमतोऽर्थः प्रतीयते। लिङ्ग्रहण एव कर्तव्ये षीध्वंग्रहणमस्य रूपस्य यो धकारस्तस्य यता स्यात्। तेनायीध्वम्, स्तुवीध्वमित्यत्र न भवति॥ Prakriyasarvasvam ----------------- इणन्तादङ्गात् परेषां षीध्वं लुङ्लिटा धस्य मूर्धन्यः स्यात् इति नित्यं ढः । अजेढ्वम् ।। लिटि णलि वृद्धयायौ । जाय । वृद्धयायोः स्थानिवत्त्वाद् जिशब्दस्य द्वित्वम् । जि जि अ । पुनर्वृद्धयायौ जि जाय, Sutra Prayogas -------------- * **कृषीढ्वं** (भट्टिकाव्यम्): `इणः पीध्वं` इति मूर्धन्यः । * **नाध्यगीढ्वं** (भट्टिकाव्यम्): `इणः षीध्वम्` इति मूर्धन्यः।