83072: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ========================================== **Padacheda:** अनु-वि-परि-अभि-निभ्यः | S | 5 | 3 | स्यन्दतेः | S | 6 | 1 | अप्राणिषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is optionally the substitute of the स् of स्यन्द् after the उपसर्ग (Prepositions) अनु , वि , परि , अभि and वि when the subject is not a living being. Vasu English Translation ------------------------ ष् is optionally the substitute of the स् of स्यन्द् after the उपसर्ग (Prepositions) अनु , वि , परि , अभि and वि when the subject is not a living being. The root स्यन्दू प्रस्रवणे is *anudatta*. Thus अनुष्यन्दते । विष्यन्दते । परिष्यन्दते । अभिष्यन्दते तैलम् । निष्यन्दते । अनुस्यन्दते । विस्यन्दते । परिस्यन्दते । Why do we say 'when the subject is not a living being'? Observe अनुस्यन्दते मत्स्य उदके ॥ The option of this *sutra* will apply, when the subject is a compound of living and non-living beings. Thus अनुस्यन्देते or अनुष्यन्देते मत्स्योदके ॥ The subject here is a *Dvandva* compound, and it is not in the singular number because of (2.4.6). The word अप्राणिषु is a *Paryudasa* and not a *Prasajya*-*pratishedha*. If it be the latter sort of prohibition, then the force will be on the word living, and in a compound like मत्स्योदके, consisting of living and non-living beings, the prohibition will apply because it has a living being in it, and so there will be no षत्व ॥ In the other view, the force is on the word non-living, and because the compound contains a non-living being, therefore the option will be applied, and the presence of the living being along with it will be ignored. The *anuvritti* of परि, नि and वि is understood here from (8.3.70). So these words could well have been omitted from the *sutra*, which might have then been अन्वभिभ्यांच स्यन्दतेरप्राणिषु, and by the force of च we would draw in the *anuvritti* of परि &c. Bhashya ------- अनुविपर्याभिनिभ्यः स्यन्दतेरप्राणिषु ॥ अथ यः प्राण्यप्राणी च कथं तत्र भवितव्यम्, अनुष्यन्देते मत्स्योदके इति, आहो स्विदनुस्यन्देते मत्स्योदके इति ? यदि तावदप्राणी विधिनाश्रीयते, अस्त्यत्राप्राणीति कृत्वा भवितव्यं षत्वेन , अथ प्राणी प्रतिषेधेनाश्रीयते , अस्त्यत्र प्राणीति कृत्वा भवितव्यं प्रतिषेधेन॥ किं पुनरत्राऽर्थसत्त्वं ? देवा एतज्ज्ञातुमर्हन्ति॥ Kashika ------- अनु वि परि अभि नि इत्येतेभ्य उत्तरस्य स्यन्दतेरप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति। अनुष्यन्दते। विष्यन्दते। परिष्यन्दते। अभिष्यन्दते तैलम्। निष्यन्दते। अनुस्यन्दते। विस्यन्दते। परिस्यन्दते। अभिस्यन्दते। निस्यन्दते। अप्राणिष्विति किम्? अनुस्यन्दते मत्स्य उदके। प्राण्यप्राणिविषयस्यापि स्यन्दतेरयं विकल्पो भवति। अनुष्यन्देते मत्स्योदके, अनुस्यन्देते। अप्राणिष्विति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः॥ Siddhanta Kaumudi ----------------- एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ।{$ {!762 कृपू!} सामर्थ्ये$} ॥ Balamanorama ------------ **अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु** - अनुविपर्यभिनि । एभ्य इति । अनु वि परि अभि नि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहेः साडः सः ' इत्यतः स इति षष्ठन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारादिति भावः । ननुमत्स्योदके अनुष्यन्देते॑ इत्यत्र कतं षत्वं, प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह — अप्राणिष्विति पर्युदासादिति ।प्राणिकर्तृकस्य ने॑ति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वाऽनपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्ये इति । सामर्थ्यं — कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्कोऽयम् । ऋदुपधः । Tattvabodhini ------------- **अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु** - अनुविपर्यभिनिभ्यः । एभ्य इति । पञ्चभ्य इत्यर्थः । षत्वं भवत्येवेति । प्राण्यप्राणिकर्तृकस्याऽप्यप्राणिकर्तृकत्वानपायादिति भावः । असमर्थसमास — वाक्यभेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह - प्राणिषु नेत्युक्ताविति । कृपू सामर्थ्ये । भाष्यकृतां व्याख्यामाह — कृप उ इति । Padamanjari ----------- 'स्यन्दू प्रस्रवणे' अनुदातेत् । अनुस्यन्देते मत्स्योदके इति । मत्स्यश्चोदक च मत्स्योदके ।'जातिरप्राणिनाम्' इत्यनेन यत्र सर्वाण्यवयवपदान्यप्राणिवाचीति, तत्रैकवद्भावः; इह तु मत्स्यशब्दस्य प्राणिवाचित्वादेकवद्भावाभावः । अत्राप्राणिष्विति प्रसज्यप्रतिषेधः, तेन प्राण्यप्राणिसमुदायेऽपि प्राण्यस्तीति प्रतिषेधो भवति । अन्ये तु पर्युदासं मन्यमाना भवितव्यमेवात्र षत्वेनेत्याहुः । इह पर्यादिग्रहणं शक्यमकर्तुम्, एवं वक्ष्यामि - ठन्वभिभ्यां चऽ इति, चकारात् परिनिविभ्यश्चेति ॥ Nyaas ----- `स्यन्दू रुआवणे` [`प्ररुआवणे` -धातुपाठः-] (धातुपाठः-761)। अस्याषोपदेशत्वादप्राप्त एव षत्व इदं वचनम्। `अनुस्यन्दते मत्स्य उदके` इति। अथ कथमिदं प्रत्युदाहरणमुपपद्यते? यद्यप्राणिष्विति प्रसज्यप्रतिषेध आश्रीयते; प्राणिषु न भवतीति। प्रसजयप्रतिषेधे हि यत्र प्राणिगन्धोऽस्ति तत्र श्रूर्धन्येन न भवितव्यम्। इह चास्ति मत्स्यः प्राणीति षत्वं न प्रवर्तते। यदि तु पर्युदास आश्रीयते, प्राणिभ्योऽन्यत्र भवतीति तदा प्राण्यप्राणिसमुदायः प्राणिभ्योऽन्यो भवतीति स्यादेवात्र प्राण्यप्राणिसमुदायात्मके विषये मूर्धन्यः॥ Sutra Prayogas -------------- * **विष्यन्दमान** (भट्टिकाव्यम्): `अनु- वि-पर्यभि-निभ्यः स्यन्दतेः` इति विभाषा पत्वं रक्तस्याप्राणित्वात्।