83067: स्तम्भेः =============== **Padacheda:** स्तम्भेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- having an इ or उ। Vasu English Translation ------------------------ having an इ or उ। Thus अभिष्टभ्नाति । परिष्टभ्नाति । अभ्यष्टभ्नात् । पर्यष्टभ्नात् । अभितष्टम्भ । परितष्टम्भ । The word अप्रतेः of the last *sutra* is not to be read here. Hence we have forms like:- प्रतिष्टभ्नाति । प्रत्यष्टभ्नात्, प्रत्यतितष्टम्भ ॥ Bhashya ------- स्त(1)म्भेः अप्रतेरिति वर्तते(2) उताहो निवृत्तम्?॥ निवृत्त(3)मित्याह॥ कथं ज्ञायते?॥ योगविभागकरणसार्मथ्यात्(3)। इतरथा हि सदिस्तम्भ्योरप्रते(1)रित्येव ब्रूयात्॥ अस्त्यन्यद्योगविभागकरणे प्रयोजनम्॥ किम्?॥ अवाच्चालम्बनाविदूर्ययोरिति वक्ष्यति तत्स्तम्भेरेव(1) यथा स्यात्सदेर्मा भूदिति॥ नैतदस्ति प्रयोजनम्। एकयोगेऽपि सति यस्यालम्बनाविदूर्येस्तस्तस्य भविष्यति॥ कस्य चाऽऽलम्बनाविदूर्ये स्तः?॥ स्तम्भेरेव(1)॥ (स्तम्भेः)॥ Kashika ------- उपसर्गादिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थाद् निमित्तादुत्तरस्य मूर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेरित्येतदिह नानुवर्तते, तेनैतदपि भवति — प्रतिष्टभ्नाति। प्रत्यष्टभ्नात्। प्रतितष्टम्भ॥ Siddhanta Kaumudi ----------------- स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥ Laghu Siddhanta Kaumudi ----------------------- स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ {$ {! 7 युञ् !} बन्धने $} (धातुपाठे (09.0011)) ॥ युनाति, युनीते। योता॥ {$ {! 8 क्नूञ् !} शब्दे $} (धातुपाठे (09.0012)) ॥ क्नूनाति, क्नूनीते॥ {$ {! 9 द्रूञ् !} हिंसायाम् $} (धातुपाठे (09.0013)) ॥ द्रूणाति, द्रूणीते॥ {$ {! 10 पूञ् !} पवने $} (धातुपाठे (09.0014)) ॥ Balamanorama ------------ **स्तम्भेः** - स्तम्भेः । नकारोपधनिर्देशस्य प्रयोजनमाह — सौत्र्येति ।स्तन्भुस्तुन्भु॑इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । स हि प्रतिपदोक्तः । 'ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् ।उदः स्थास्तम्भ्वो॑रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननुसदिस्तन्भ्योरप्रते॑रित्येकमेव सूत्रं कुतो न कृतमित्यत आह — योगविभाग उत्तरार्थ इति ।अवाच्चालम्बनाविदूर्ययो॑रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह — किंचेति । नानुवर्तत इति । स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः ।अप्रते॑रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह -बाहुप्रतिष्टम्भेति । Tattvabodhini ------------- **स्तम्भेः** - स्तम्भेः । सौत्रस्येति ।स्तन्भुस्तुन्भु॑ इति सूत्रे निर्दिष्टस्य रोधनार्थस्य, न तुष्टभि प्रतिबन्धे॑ इत्यस्येति भावः । एवंजृस्तम्भु॑ इत्यङ्विधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम् । एतच्चलक्षणप्रतिपदोक्त॑ परिभाषया लभ्यते । सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः । इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः । तेन विस्तम्भते मकारस्योभयत्रापि लाक्षणिकत्वात् । उत्तरार्थ इति । उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः । ननुसदिस्तन्भ्यो॑रिति सूत्रितेऽपि एकदेशे स्वरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह — किंचेति । नानुवर्तत इति । तथा चस्तन्भे॑रित्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः । Padamanjari ----------- स्तन्भिः सौत्रो धातुः । अभिष्टभ्नातीति ।'स्तुन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति श्नाप्रत्ययः, ठनिदिताम्ऽ इति नलोपः । अप्रतेरित्येतदिह नानुवर्तत इति । यद्यनुवर्तेत, पूर्वसूत्र एव स्तम्भिग्रहणं कुर्यात्किं योगविभागेन ? अस्ति प्रयोजनम्, किम् ? ठवाच्चालम्बनाविदूर्ययोःऽ इति वक्ष्यति, तत्स्तम्भेर्यथा स्यात्, सदेर्मा भूत् ? नैतदस्ति; एकस्मिन्नपि योगे यस्यालम्बनाविदूर्ये स्तः, स एवानुवर्तिष्यते, स्तम्भेरेव च ते सम्भवतः ॥ Nyaas ----- स्तन्भिः सौत्रो धातुः। स यदि` अज्दन्त्यपराः सादयः षोपदेशाः` (6.1.62) , भाष्यम्) इति लक्षणत्वात्? षोपदेशस्तस्य ततः पूर्ववत्? षत्वप्रतिषेधे प्राप्ते वचनम्। अथ सूत्रे तथा पाठादषोपदेशः, ततोऽप्राप्त एव। **स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च** (3.1.82) इति चकारेण श्नाप्रत्ययः समुच्चीयते। `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः। `अप्रतेरेतदिह नानुवर्तते`[`अप्रतेरित्येतदिह` -काशिका, पदमञ्जरी च] इति। एतच्च योगाविभागदेव गम्यते; इतरथा हि पूर्वसूत्र एव स्तन्मभेग्र्रहणं कुर्यात्। स्यादेतत् -`अवाच्चालम्बनाविदूर्ययोःट (8.3.68) इति षत्वं वक्ष्यति। ततः स्तन्भेरेव यथा स्यात्, सदेर्मा भूदित्येवमर्थो योगविभाव इति? नैतदस्ति; एकयोगेऽपि यस्यालम्बनादिदूर्ये वृत्तिरस्ति तस्यैव भविष्यते। कस्य चैते स्तः? स्तम्भेरेव॥ Prakriyasarvasvam ----------------- प्रादिस्थादिणः परस्य स्तन्भेः सस्य षः स्यात् । विष्टभ्नाति । शव्गतस्य स्तन्भेर्न षः । विस्तम्भते¹ । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविबृद्धमन्युः । Sutra Prayogas -------------- * **अ-प्रतिस्तब्ध-विक्रान्तम** (भट्टिकाव्यम्): `स्तन्भः` इति प्राप्तस्य षत्वस्य प्रतिषेधः। * **व्यष्टभ्नान्** (भट्टिकाव्यम्): `अड्रव्यवाये वेः स्तन्भेः` इति षत्वम्। * **व्य्ष्टभ्नाद्रघु-नन्दनः** (भट्टिकाव्यम्): `स्तम्भेः` इति मूर्धन्यः।