83065: उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ========================================================================= **Padacheda:** उपसर्गात् | S | 5 | 1 | सुनोति-सुवति-स्यति-स्तौति-स्तोभति-स्था-सेनय-सेध-सिच-सञ्ज-स्वञ्जाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for स् after an इ and उ of an उपसर्ग (Preposition) in the following verbs - 1. सू (सुनोति) 2. सू (सवति) 3. सो (स्यति -- ओतः श्यनि (7.3.71)) 5. स्तु (स्तौति - उतो वृद्धिर्लुकि हलि (7.3.89)) 6. स्तुभ (स्तोभते) 7. स्था 8. सेनय (Denominative) 9. सिध् (सेधति) 10. सिच् 11. सञ्ज् and 12. स्वञ्ज्। Vasu English Translation ------------------------ ष् is substituted for स् after an इ and उ of an उपसर्ग (Preposition) in the following verbs - 1. सू (सुनोति) 2. सू (सवति) 3. सो (स्यति -- ओतः श्यनि (7.3.71)) 5. स्तु (स्तौति - उतो वृद्धिर्लुकि हलि (7.3.89)) 6. स्तुभ (स्तोभते) 7. स्था 8. सेनय (Denominative) 9. सिध् (सेधति) 10. सिच् 11. सञ्ज् and 12. स्वञ्ज्। Thus अभिषुणोति, परिषुणोति, अभ्यषुणोत्, पर्यषुणोत् ॥ सुवति, अभिषुवति, परिषुवति, अभ्यषुवत्, पर्यषुवत् ॥ स्यति, अभिष्यति, परिष्यति, अभ्यष्यत् । पर्यष्यत् ॥ स्तौति, अभिष्टौति, परिष्टौति, अभ्यष्टौत् ॥ स्तोभति, अभिष्टोभते, परिष्टोभते, अभ्यष्टोभत, पर्यष्टोभत ॥ स्था, अभिष्ठास्यति, परिष्ठास्यति, अभ्यष्ठात्, पर्यष्ठात्, अभितष्ठौ, परितष्ठौ ॥ सेनय, अभिषेणयति, परिषेणयति, अभ्यषेणयत्, पर्यषेणयत् ॥ अभिषिषेणयिषति, परिषिषेणयिषति ॥ सेध, अभिषेधति, परिषेधति, अभ्यषेधत्, पर्यषेधत् ॥ सिच, अभिषिञ्चति, परिषिञ्चति, अभ्यषिञ्चत्, पर्यषिञ्चत्, अभिषिषिक्षति, परिषिषिक्षति ॥ सञ्ज, अभिषजति, परिषजति, अभ्यषजत्, पर्यषजत्, अभिषिषङ्क्षति, परिषिषङ्क्षति ॥ ष्वञ्ज, अभिष्वजते, परिष्वजते, अभ्यष्वजत, पर्यष्वजत, अभिषिष्वङ्क्षते, परिषिष्वङ्क्षते ॥ सेध इति शब्विकरणनिर्द्देशः सिध्यति निवृत्त्यर्थः ॥ उपसर्गादिति, किम्? दधि सिञ्चति, मधु सिञ्चति, निगताः ॥ सेचका अस्माद्देशान्निः सेचको देश इति ॥ नायं सिचेरुपसर्गः ॥ अभिसावकीयतीत्यत्रापि न सुनोतिं प्रति क्रियायोगः किं तर्हि सावकीयं प्रति ॥ अभिषावयतीत्यत्र तु सुनोतिमेव प्रति क्रियायोगो न सावयतिमिति षत्वं भवति ॥ The root सिध् is exhibited in the *sutra* as सेध with शप् *vikarana*, thus debarring सिध् — सिध्यति ॥ Why do we say "after an *upasarga*"? Observe दधि सिञ्चति, मधु सिञ्चति (8.3.111). So निःसेचको देशः = निर्गता सेचका अस्माद् देशात् ॥ Here निः is not an *Upasarga* to सिच्, but to the noun सेचक ॥ Similarly in अभिसावकीयति, the *upasarga* अभि is not added to the root सु (सुनोति), but to the third derivative of सु (सुनोति), Namely, from सु we derive सावक with ण्वुल, and from सावक we form the Denominative root सावकीय with क्यच्; and to this Denominative root अभि is added. The *upasarga*, however may be added to the root first, and then ण्वुल् and क्यच् added. In that case, the rule will apply. As अभिषावकीयति ॥ So also with the Causative, as अभिषावयति, for here the *upasarga* is added to the root सु and not to the causative form सावय ॥ The roots षुञ् अभिषवे belongs to *Svadi* class, षु प्रेरणे to *Tudadi* class, षोऽन्तकर्मणि to *Divadi* class, ष्टुञ् स्तुतौ to *Adadi* class and ष्टुभ स्तंभे, to *Bhuadi* Class. These have been shown in the *sutra* in their declined form in order to indicate that the rule does not apply to their यङ लुक्, as अभिसोषवाति ॥ See (7.1.6) for this rule of श्तिप् exhibited roots. On the other hand, the roots सिच् &c. being not so exhibited, change their स in यङ् लुक् also, as अभिषेषिचीति ॥ The *upasarga* need not end with इ and उ for the purposes of this rule. Thus निष्षुणोति, दुष्षुणोति, where the *upasarga* is निस् and दुस् ॥ Bhashya ------- उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जाम् ॥ उपसर्गात्षत्वे निस उपसङ्ख्यानमनिणन्तत्वात्॥ उपसर्गात्षत्वे निस उपसङ्ख्यानं कर्तव्यम्। निष्षुणोति। निष्षिञ्चति॥ किं पुनः कारणं न सिध्यति?॥ अनिणन्तत्वात्। इणन्तादुपसर्गात्षत्वमुच्यते न च निसिणन्तः॥ न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषक उपसर्गो धातुश्च॥ न वा वक्तव्यम्। किं कारणम्?। वर्णाश्रयत्वात् षत्वस्य। वर्णाश्रयं षत्वम्। तद्विशेषक उपसर्गो धातुश्च। नैवं विज्ञायते-इणन्तादुपसर्गादिति॥ कथं तर्हि?॥ इण उत्तरस्य सकारस्य, स चेदिणुपसर्गस्य, स चेत्सकारस्सुनोत्यादीनामिति। तत्र र्शव्यवायेःइत्येव(1) सिद्धम्॥ यद्येवं धातूपसर्गयोरभिसम्बन्धोऽकृतो भवति॥ तत्र को दोषः?॥ इहापि प्राप्नोति-विगताः सेचका(1) अस्माद्वामात्-विसेचको ग्रामः॥ धातूपसर्गयोश्चाऽभिसम्बन्धः कृतः॥ कथम्?॥ सुनोत्यादिभिरत्रोपसर्गं विशेषयिष्यामः सुनोत्यादीनां य उपसर्गस्तस्य (उपसर्गस्य(2)) य इणिति॥ सुनोत्यादीनां(1) षत्वे ण्यन्तस्योपसङ्ख्यानमधिकत्वात्॥ सुनोत्यादीनां षत्वे ण्यन्तस्योपसङ्ख्यानं कर्तव्यम्। अभिषावयति॥ किं कारणं(3)(न सिध्यति?(2))। अधिकत्वात्। व्यतिरिक्तः सुनोत्यादिरिति कृत्वोपसर्गात्सुनोत्यादीनामिति षत्वं न प्राप्नोति॥ न वाऽवयवस्याऽनन्यत्वात्॥ न वा वक्तव्यम्॥ किं कारणम्?॥ अवयवस्यानन्यत्वात्। अवयवोत्राऽनन्यः (इति(2))॥ नामधातोस्तु प्रतिषेधः॥ नामधातोस्तु प्रतिषेधो वक्तव्यः। सावकमिच्छत्यभिसावकीयति। परिसावकीयति(4)॥ न वाऽनुपसर्गत्वात्॥ न वा वक्तव्यः॥ किं कारणम्?॥ अनुपसर्गत्वात्। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाऽत्र सुनोतिं प्रति क्रियायोगः॥ किं तर्हि?॥ सावकीयतिं प्रति॥ इहापि तर्हि न प्राप्नोति-अभिषावयति। अत्रापि न(2) सुनोतिं प्रति क्रियायोगः॥ किं तर्हि?॥ सावयतिं प्रति॥ सुनोतिं प्रत्यत्र क्रियायोगः॥ कथम्?॥ नासावेवं प्रेष्यतेसुन्वभीति॥ किं तर्हि?॥ उपसर्गविशिष्टामसौक्रियां प्रेष्यते-अभिषुण्विति॥ Kashika ------- मूर्धन्य इति वर्तते, स इति च। उपसर्गस्थाद् निमित्तादुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुनोति — अभिषुणोति। परिषुणोति। अभ्यषुणोत्। पर्यषुणोत्। सुवति — अभिषुवति। परिषुवति। अभ्यषुवत्। पर्यषुवत्। स्यति — अभिष्यति। परिष्यति। अभ्यष्यत्। पर्यष्यत्। स्तौति — अभिष्टौति। परिष्टौति। अभ्यष्टौत्। पर्यष्टौत्। स्तोभति — अभिष्टोभते। परिष्टोभते। अभ्यष्टोभत। पर्यष्टोभत। स्था — अभिष्ठास्यति। परिष्ठास्यति। अभ्यष्ठात्। पर्यष्ठात्। अभितष्ठौ। परितष्ठौ। सेनय — अभिषेणयति। परिषेणयति। अभ्यषेणयत्। पर्यषेणयत्। अभिषिषेणयिषति। परिषिषेणयिषति। सेध — अभिषेधति। परिषेधति। अभ्यषेधत्। पर्यषेधत्। सिच — अभिषिञ्चति। परिषिञ्चति। अभ्यषिञ्चत्। पर्यषिञ्चत्। अभिषिषिक्षति। परिषिषिक्षति। सञ्ज — अभिषजति। परिषजति। अभ्यषजत्। पर्यषजत्। अभिषिषङ्क्षति। परिषिषङ्क्षति। स्वञ्ज — अभिष्वजते। परिष्वजते। अभ्यष्वजत। पर्यष्वजत। अभिषिष्वङ्क्षते। परिषिष्वङ्क्षते। सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः। उपसर्गादिति किम्? दधि सिञ्चति। मधु सिञ्चति। निर्गताः सेचका अस्माद् देशाद् निःसेचको देश इति नायं सिचेरुपसर्गः। अभिसावकीयतीत्यत्रापि न सुनोतिं प्रति क्रियायोगः। किं तर्हि? सावकीयं प्रति। अभिषावयतीत्यत्र तु सुनोतिमेव प्रति क्रियायोगो न सावयतिं प्रतीति षत्वं भवति॥ Siddhanta Kaumudi ----------------- उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥ Balamanorama ------------ **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम्** - उपसर्गात्सुनोति । उपसर्गस्तादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः । निमित्तादिति । इण्रूपादित्यर्थ- ।इण्को॑रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तत इति भावः । षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातुः । सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास । Tattvabodhini ------------- **उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम्** - उपसर्गात् ।सुनोति सुवती॑ इत्यादिश्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादौ षत्वं नेति प्राञ्चः ।स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्वि॑ति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध॑ इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामदातुः । सेनयाऽभियाति — अभिषेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं, न तु सिध्यतेः । परिसिध्यति ।गृहा दारा॑ इत्यत्रेव ता४त्स्थ्यात्ताच्छब्द्यमित्याह — उपसर्गस्थादिति । निमित्तादिति । इण्रूपात् । कवर्गस्तुनेह संबध्यते, असंभवात् । न च निःषुणोति निःषेधति निःषिञ्चतीत्यादौ व्यवदानेन इणः परत्वाऽभावात्सस्य षत्वं न स्यादिति शङ्क्यं, षत्वविधौनुम्विसर्जनीयशव्र्यवायेऽपी॑त्यधिकारात् ।इणन्तादुपर्गा॑दिति व्याख्याने तु स्यादेवात्राऽव्याप्तिः ।दुरः षत्वणत्वयो॑रित्युपसर्गत्वप्रतिषेधाद्दुः सुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक् । मूर्धन्यादेशे फलितमाह — सस्य षः स्यादिति । स्थादिषुप्राक् सिता॑दित्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे- Prakriyasarvasvam ----------------- उपसर्गादिणः परस्यैषां सस्य षः स्यात् । अनुषजति । अभिषजति । लङि । Sutra Prayogas -------------- * **अभितुष्टाव** (भट्टिकाव्यम्): `उपसर्गात्` इत्यादिना षत्वम्। * **अभिष्यन्तः** (भट्टिकाव्यम्): `उपसर्गात्` इति षत्वम्। * **प्रतिष्ठासांचक्रे** (भट्टिकाव्यम्): `उपसर्गात्` इत्यादिना पत्वम्। * **सोऽध्यष्ठीयत** (भट्टिकाव्यम्): `उपसर्गात्` इत्यादिना पत्नमथवायेऽपि। * **स्थाणुं** (भट्टिकाव्यम्): `उपसर्गात्सुनोति` इत्यादिना षत्वं न भवति।