83061: स्तौतिण्योरेव षण्यभ्यासात् ================================= **Padacheda:** स्तौति-ण्योः | S | 6 | 2 | एव | S | 0 | 0 | षणि | S | 7 | 1 | अभ्यासात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् after इ or उ in the reduplication of a Desiderative, if the स् of सन् is changed to ष् but only in स्तु and in Causative of roots which in the धातुपाठ begin with ष्। Vasu English Translation ------------------------ ष् is substituted for the स् after इ or उ in the reduplication of a Desiderative, if the स् of सन् is changed to ष् but only in स्तु and in Causative of roots which in the धातुपाठ begin with ष्। This rule is confined to the Desideratives of स्तु and of स् beginning roots in the Causative, provided that the Desiderative sign स् is changed to ष् ॥ The rule applies to the स् of the substitute, and not to the affix स् as there can be no such स् after a reduplicate syllable. Therefore स् means that स which replaces the ष् of the roots. Thus from स्तु we have तुष्टूषति ॥ Here the स of सन् is changed to ष by the last *sutra*, and therefore so also after the reduplicate उ, the स of स्तु is changed to put ष ॥ Of the Causatives of roots beginning with ष् in *Dhatupatha*, we have सिषेवयिषति, सिषिञ्जयिषति, सुष्वापयिषति ॥ In this last, the व् is changed to उ by (7.4.67). Though this ष change would have taken place by the previous *sutra* (8.3.59), yet the separate enunciation of this rule indicates that this is a *niyama* aphorism - the ष change takes place only in these cases of स्तु and Causatives of Desideratives under the conditions mentioned in this *sutra*, and no where else. Thus सिसिक्षति from the root षिच क्षरणे (*Tudadi* 140). This is a root, which is exhibited in the *Dhatupatha* with a ष, therefore the form ought to have been सिषिक्षति by (8.3.59), but it is not so, because of the *niyama* of the present *sutra*. So also सुसूषते from षूङ् प्राणिप्रसवे (*Divadi* 24): and सुसूषति from षू प्रेरणे (*Tudadi* 115). If this is a *niyama* rule by the very fact of its separate enunciation, what is then the necessity of using the word एव in the aphorism ? Answer:- इष्टतोऽवधारणार्थम्; so that, the *sutra* may mean "if स्तु and Causatives only, when षण् follows" ? and not "if स्तु and Causatives when षण् only follows". In the latter view, we could not get the form तुष्टाव; and the rule would have applied to सिसिक्षति also. Why do we say "in the Desiderative ष"? So that the *niyama* may not be any where else. Had षणि not been used in the *sutra*, the restriction would have been with regard to every affix, and the *sutra* would have meant "if there is occasion of षत्व change after a reduplicate, it should take place only in the case of स्तु and the Causatives". Therefore ष change would not have taken place in सिषेव, as it is not a Causative. Question:- को विनतेऽनुरिधः ? Why have we used the word षण् with ष्, and not the word सन्? That is, what compulsion was there to exhibit the Desiderative affix सन्, in this changed form? The word विनत is the name given in the *Pratisakhyas* to ष and ण change. Answer:- So that the restrictive rule may not apply to the अविनत form of सन् ॥ As सुषुप्सति ॥ The सन् is here कित् by (1.2.8), and there is vocalisation by (6.1.15). For had सनि been used in the *sutra*, then the restriction would have been with regard to all Desideratives in general, whether the सन् was changed to ष or not. Therefore as there is restriction of (8.3.59), in the case of सिसिक्षति where स is not changed to ष; so there would have been restriction in सुषुप्सते, the स् could not have been changed to ष् by (8.3.59). Similarly in तिष्ठासति ॥ Question:- What is the necessity of exhibiting षण् with the *anubandha* म्? So that the rule should not apply to ष in general, but to the Desiderative affix ष only. As सुषुपिष इन्द्रम् ॥ This सुषुपिषे is the Perfect of स्वप्, the affix थास् is added as *Chhandas* irregularity instead of थल्; for थास् there is से, the affix is कित् by (1.2.5), and so there is vocalisation by (6.1.15), and reduplication, and the augment इट् is added by (7.2.13), the ए is changed to अय्, as सुषुपिषय् इन्द्रं, the य् is elided by (8.3.19). Here after the reduplicate सु, the स् is changed to ष, in षु by the general rule (8.3.59), as the restriction of this *sutra* does not apply in this case. But had ष in general been taken, then सुषुपिष has an affix ष, and therefore *sutra* (8.3.59), would have been restricted, and there would have been no change of सु to षु after the reduplicate, as it is not a causative. Hence षण् has been employed with an *anubandha*. Why do we say 'after a reduplicate'? Answer:- So that this restriction may apply to that ष which would have been caused by the इ or उ of an *abhyasa*, and not to that which would have been caused by an *upasarga*. As अभिषिषिक्षति, though without the Preposition, the form is सिरिक्षति ॥ Question:- No, this cannot be the reason, because the ष caused by the *upasarga* is considered as *asiddha*, and hence there would be no restriction. Answer:- Then we say, the *abhyasa* is taken to be qualified by सन्, namely that *abhyasa* which is caused by सन्, would give occasion to this rule and not any other *abhyasa*. Therefore if a reduplication has been caused by यङ्, and then षण् is added to it, then the restriction of the present *sutra* will not apply, and षत्व change will take place though the root may not be a Causative &c. Thus the यङ् of स्वप् is सोषुप्य (6.1.19), the Desiderative of this root is सोषुपिषते, with इट् augment, the elision of अ (6.4.48) of य, the elision of य् by (6.4.49). Question:- No this also cannot be the reason : because the षत्व change is *antaranga*, while the restriction *niyama* is *Bahiranga*. Therefore, the word *abhyasa* is employed superfluously in the *sutra*. Answer:- The word *abhyasa* is taken in the *sutra*, so that the restriction may be with regard to that ष which might have been caused by the इ or उ of the *abhyasa*; and not to that ष which might be occasioned by the इ or उ of a *dhatu* or verbal root. Thus प्रतिषिषति, अधीषिषति ॥ Here the root इ in the sense of बोधन, is turned to Desiderative with सन्; and by (6.1.2), the स is reduplicated, then by (7.4.79), the अ is changed to इ ॥ Thus इसिस; here by the force of the इ of the *abhyasa* सि, the स is changed to ष as इसिष; (8.3.59) then as the restriction of this *sutra* does not apply, the root इ causes the षत्व of the *abhyasa*, as इषिष ॥ Had the word अभ्यासात् not been used in the *sutra*, the स of *abhyasa* could not have been changed to ष, for then the *sutra* would have meant "ष is substituted for स, only in the case of स्तु and Causatives in the Desiderative षण्"; and as इसिष is not a Causative-Desiderative, the restriction would have applied. Bhashya ------- स्तौतिण्योरेव षण्यभ्यासात् स्तौतिणिग्रहणं(1) किमर्थम्?॥ अस्तौतिण्यन्तानां मा भूत्-सिसिक्षति(2)॥ अथैवकारः किमर्थः॥ एवकारो नियमार्थः(3)॥ (एवकारो नियमार्थः)। स्तौतिण्यन्तानामेव नान्येषा(1)मिति॥ नैतदस्ति प्रयोजनं, सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारकरणं(4) नियमार्थो भविष्यति॥ इष्टतोऽवधारणार्थस्तर्हि। यथैवं विज्ञायेत स्तौतिण्योरेव(5) षणीति, मैवं विज्ञायि-स्तौतिण्योः(5) षण्येवेति। इह न स्यात्-तुष्टाव॥ अथ षणीति किमर्थम्?॥ सेषीव्यते। को विनतेऽनुरोधः?॥ अविनते नियमो मा भूत्-सुषुप्सतीति॥ कः सानुबन्धेऽनुरोधः?॥ षशब्दमात्रे नियमो मा भूत्-सुषुपिष इन्द्रम्। सुषुपिष इहेति॥ अभ्यासादिति किमर्थम्?॥ अभ्यासाद्या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद्या प्राप्तिस्तस्या नियमो मा भूत्-अभिषिषिक्षति॥ नैतदस्ति, असिद्धमुपसर्गात्षत्वं, तस्याऽसिद्धत्वान्नियमो न भविष्यति॥ इदं तर्हि प्रयोजनं,-सनि योऽभ्यासस्तस्माद्या प्राप्तिस्तस्या नियमो यथा स्याद्यङि योऽभ्यासस्तस्माद्या प्राप्तिस्तत्र नियमो मा भूत्सोषुप्यतेः(6) सन्(1)-सोषुपिषते॥ अथ वाऽभ्यासाद्या प्राप्तिस्तस्या नियमो यथा स्याद्धातोर्या प्राप्तिस्तस्या नियमो मा भूत्(2)-अधीषिषति प्रतीषिषतीति(7)॥ ननु च षणीत्युच्यते; षणीति नैषा परसप्तमी शक्या विज्ञातुम्। सन्यङन्तं हि द्विरुच्यते, तस्मादेषा सत्सप्तमी षणि सतीति। सत्सप्तमी चेत्प्राप्नोति॥ Kashika ------- स्तौतेर्ण्यन्तानां च षभूते सनि परतोऽभ्यासादिण उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति। तुष्टूषति। ण्यन्तानाम् — सिषेचयिषति। सिषञ्जयिषति। सुष्वापयिषति। सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योरेव षण्यभ्यासाद् यथा स्याद्, अन्यस्य मा भूत् — सिसिक्षति। सुसूषते। एवकारकरणमिष्टतोऽवधारणार्थम्। स्तौतिण्योः षण्येवेति हि विज्ञायमाने तुष्टावेत्यत्र न स्यात्, इह च स्यादेव — सिसिक्षतीति। षणीति किम्? अन्यत्र नियमो मा भूत् — सिषेच। को विनतेऽनुरोधः? अविनते नियमो मा भूत् — सुषुप्सति। तिष्ठासति। कः सानुबन्धेऽनुरोधः? षशब्दमात्रे नियमो मा भूत् — सुषुपिष इन्द्रम्। अभ्यासादिति किम्? अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यात्, धातोर्या प्राप्तिस्तस्या नियमो मा भूत् — प्रतीषिषति। अधीषिषति॥ Siddhanta Kaumudi ----------------- अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य । तुष्टूषति । द्युतिस्वाप्योः - (SK2344) इत्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन च -(SK2277) इति षत्वम् । परिषिषिक्षचि । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥ Tattvabodhini ------------- **स्तौतिण्योरेव षण्यभ्यासात्** - स्तौतिण्योरेव । एवंच रिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम् । उपसर्गात्त्विति । मध्येऽपवादन्यायात्स्तौतिम्यो॑रिति नियमेनआदेशप्रत्यययो॑रिति षत्वमेव बाध्यते न तुस्थादिष्वभ्यासेन चे॑त्युत्तरेण विहितमिति भाव- । सुषुप्सतीति ।रुदविदे॑ति सनः कित्त्वान्न गुणः । प्रतीषिषतीति । इह षभूते सनीण् गताविति धातोः परसय् सत्य षत्वं भवत्येवेत्यर्थः । Padamanjari ----------- षत्वभूत् इति । षत्वं प्राप्ते, कृतषत्व इत्यर्थः । आदेशसकारस्येति । प्रत्ययसकारस्त्वसम्भवान्न सम्बध्यते । सुष्वापयिषतीति ।'द्यौतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणम् । सिसिक्षतीति ।'सिचि क्षरणे' । सुसूषत इति ।'षूङ् प्राणिप्रसवे' । परस्मैपदपाठे तु'षू प्रेरणे' - इत्यस्य रूपम् । यदि सिद्धे सत्यारम्भो नियमार्थः, एवकारस्तहि किमर्थः ? तत्राह - एवकारकरणमिति । अथ विपरीतेऽवधारणे को दोषः ? इत्यत आह - स्तौतिण्योः षण्येवेति । इह च स्यादेवेति । षण्येवेत्यनेन ह्यवधारणेन प्रत्ययान्तरे स्तौतिण्योः षत्वं व्यवच्छिन्नम्, न तु धात्वन्तरस्य षणि, ततश्चाभिहितदोषद्वयप्रसङ्गः । सिषेचेति । षणीत्यनुच्यमाने प्रत्ययमात्रे नियमः स्याद् - अभ्यासात्परस्य यदि षत्वं भवति स्तौतिण्योरेवेति, ततश्च सिषेचेत्यादौ न स्यात् । को विनतेऽनुरोध इति । विनतमिति पत्वणत्वयोः प्रातिशाख्येषु प्रसिद्धिः - एकवर्णमनोकारं विनते सुस्मेति, नः पर इति यथा । अनुरुध्यते आनुकूल्येन प्राप्यत इत्यनुरोधःउप्रयोजनम् । कृतषत्वस्य निर्देशे किं प्रयोजनमित्यर्थः । सुषुप्सतीति । रुदविदऽ इत्यादिना सनः कित्वम्,'वचिस्वपि' इत्यादिना सम्प्रसारणम् । सनीत्युच्यमाने सन्मात्रे नियमः स्यात्, ततश्च यथा - षत्वभूते सनिधात्वन्तरस्य षत्वं न भवति, एवमिहाषत्वभूतेऽपि न स्यात् । कः सानुबन्धेऽनुरोध इति । नकारानुबन्धवतो ग्रहणे किं प्रयोजनमित्यर्थः । णत्वस्य तु प्रयोजनं न पृच्छति; तस्य लक्षणप्राप्तत्वात् । सुषुपिष इन्द्रमिति । स्वपेर्लिट्, छान्दसत्वाद्'व्यत्ययो बहुलम्' इति थास्,'थासः सेः' , ठसंयोगाल्लिट् कित्ऽ इति लिटः कित्वात् पूर्ववत्सम्प्रसारणम्, द्विर्वचनम्, क्रादिनियमादिट्, इन्द्रशब्दे परतो यादेशः,'लोपः शाकल्यस्य' इति यलोपः । अत्र नियमाभावादभ्यासात् परस्य षत्वं भवत्येव,'ष' इत्युच्यमाने तु यावान् कश्चित् षशब्दस्तत्र सर्वत्र नियमः स्यात्, तस्मात्सानुबन्धकग्रहणम् । अभ्यासादिति किमिति । अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद् या प्राप्तिस्तस्या नियमो मा भूत्; अभिषिषिक्षतीत्येततावदप्रयोजनम्, कथम् ? असिद्धमुपसर्गात्पत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति । स्यादेतत् - यथा ठत एकहल्मध्येऽ इत्यत्र लिटा आदेशो विशेष्यते, तथेह सनाभ्यासः, सनि योऽभ्यासस्तस्मात् स्तौतिण्योरेवेति, तेन यङ् योऽभ्यासिस्तस्मात्षणि धात्वन्तरस्यापि षत्वं भवति, स्वपेर्यङ्, स्वपिस्यमिव्येञां यङ्ऽ ईति सम्प्रसारणम्, सोषुप्यतेः सन्, इट्, ठतो लोपःऽ,'यस्य हलः' , सोषुपिषते - तदेतद्भवति प्रयोजनमिति ? तन्न; अन्तरङ्गमत्र षत्वम्, बहिरङ्गो नियमः; तस्मादनर्थकमभ्यासग्रहणमिति प्रश्नः । परिहरति - प्रतिषिषतीति । इणो बोधनार्थत्वाद् गम्यादेशाभावोऽजादेरिति सशब्दस्य द्विर्वचनम्,'सन्यतः' इतीत्वम् । तत्राभ्यासाश्रये प्रत्ययस्य षत्वे कृतेऽस्य नियमस्याभावाद् धात्वाश्रयं षत्वमभ्यासस्य प्रवर्तते । ननु षणीति परसप्तमी, ततश्च षणि परे स्तौतिण्योरेवेति षत्वनियमः क्रियमाणस्तुल्यजातीयस्य षण्वस्य सिसिक्षतीत्यादेः षत्वं निवर्तयति । प्रतीषिषतीत्यत्र तु सनि एव द्विर्वचनमिति षण्परत्वाभावादयं नियमो न प्रवतिष्यते ।'सन्यतः' इतीत्वमपि तर्हि न प्रापनोति, समुदायस्य सयूपत्वातस्य च सन्परत्वाभावात् । तस्मात्सन्प्रदेशेषु सत्सप्तमी विज्ञेया, ततश्च यथेत्वं प्रवर्तते तथा षत्वनियमोऽपि स्यादित्यभ्यासग्रहणम् ॥ Nyaas ----- `षभूते` इति। `ष` इतीदं रूपमापन्न इत्यर्थः। `तुष्टुषति` इति। **इको झल्** (1.2.9) इति सनः कित्त्वम्` **अज्झनगमां सनि** (6.4.16) इति दीर्घः, दिर्वचनम्, `शपूर्वाः खयः` (7.4.61) इति खयः शेषः। `सिवेचयिषति` इति। सिचेः **हेतुमति च** (3.1.26) इति णिच्, सन्, इट्, गुणायादेशौ। `णौ कृतं स्थानिवद्भवति` (चां।प।21) इति सिचो द्विर्वचनम्। `सिषञ्जयिषति` इति। `सन्ज सङ्गे` (धातुपाठः-987), सन्, द्विर्वचनम्, `सन्यतः` (7.4.79) इतीत्त्वम्। `सुष्वापयिषति` इति। स्वापेण्र्यन्तस्य **द्युतिस्वाप्योः सम्प्रसारणम्** (7.4.67) इत्यभ्यासस्य सम्प्रसारणम्। ननु च सिद्धोऽत्र भूर्धन्यः पूर्वणैव, तत्? किमर्थोऽस्यारम्भ,? इत्याह -`सिद्धे सति` इत्यादि। `सिसिक्षति` इति। सिचः सन्, **इको झल्** (1.2.9) इत्यनुवर्तमाने **हलन्ताच्च** (1.2.10) इति कित्त्वाद्गुणाभावः, **चोः कुः** (8.2.30) इति कुत्वम्। `सुसूषते`[सुसूषति -काशिका] इति। `षूङ प्राणिगर्भविभोचने` (धातुपाठः-1031), `पूर्ववत्सनः` (1.3.62) इत्यात्मनेपदम्। क्वचित्? तिप्प्रत्ययान्तं सुसूषतीति प्रत्युधरणम्, तत्? `षू प्रेरणे` (धातुपाठः-1408) इत्यस्य द्रष्टव्यम्। अथैवकारकरणं किमर्थम्, सिद्धे सत्यारम्भसामर्थ्यादेव नियमो विज्ञास्यते? इत्याह -`एवकारकरणम्` इत्यादि। कः पुनः स्तौतिण्योः षण्येवेत्यस्मिन्नियमे दोषो यतः स नेष्यते? इत्यत आह -`स्तौतिण्योः षण्येव` इत्यादि। षण्येदेत्यनेनावधारणेन स्तौतिण्योः सन्प्रत्ययेन प्रत्ययान्तरस्य व्यवच्छेदः क्रियते -स्तौतिण्योर्यदिमूर्धन्यो भवति तदा षण्येव, नान्यस्मिन्? प्रत्यय इति। ततश्च तुष्टावेति लिटि न स्यात्। इह तु स्यादेव -सिसिक्षतीति; अवधारणेन षत्वस्याव्यवच्छिन्नत्वात्। `अन्यत्र` इत्यादि। यदि षणीति नोच्येत ततोऽविशेषेण सर्वत्र नियमः स्यात्। ततश्च नियमोन व्यावर्त्तितत्वाद्? यथा सिसिक्षतीत्यत्र न भवत्यभ्यासादुत्तरस्य सकारस्य षत्वम्, तथा सिषेचेत्यत्र लिटपि न स्यात्। तस्मात्? षणोऽन्यत्र लिडादौ मा भूदित्येवमर्थं षणीत्युच्यते। `को विनतेऽनुरोधः` इति। विनत इति पूर्वाचार्यसंज्ञा षत्वणत्वयोः। अनुरुध्यत इत्नुरोधः= प्रयोजनम्। किं प्रयोजनं षत्वस्य यतः कृतषत्वस्येहोपादानं कृतमित्यभिप्रायः। `अर्विनते नियमो मा भूत्` इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातोरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूत्` इति। अविनत इति अविद्यमानषत्व इत्यर्थः। सनीत्युच्यमाने सन्मात्रे नियमः स्यात्। तत्र यथा षभूते सन्यन्यधातीरभ्यासान्मूर्धन्यो न भवति, एवमषत्वभूतेऽपि न स्यात्। तस्मादषत्वभूते नियमो मा भूदित्येवमर्थं विनतस्य ग्रहणम्। `सुषुप्सति` इति। स्वपेः सन्, `रुदविद` (1.2.8) इत्यादिना कित्त्वाद्? वच्यादिसत्रेण (6.1.15) सम्प्रसारणम्। `कः सानुबन्धकेऽनुरोधः` इति। नकारोऽनुबन्धः। नकारानुबन्धस्य ग्रहणं किमर्थम्, किं प्रयोजनमित्यर्थः। `षशब्दमात्रे नियमो मा भूत्` इति। `ष` इत्युच्यमाने यो नाम कश्चित्? षशब्दस्तत्र सर्वत्र नियमः स्यात्। सानुबन्धकग्रहणे तत्रैव भवति, नान्यत्र। तेन निरनुबन्धकषशब्देऽन्यस्यापि भवत्येव मूर्धन्यः। `सुषुपिष इन्द्रम्` इति। स्वपेर्लिट्, व्यत्यर्येनात्मनेपदम्, `थासः से` (3.4.80) , `असंयोगाल्लिट्? कित्` (1.2.5) इति कित्त्वम्; वच्चादिसूत्रेण (6.1.15) सम्प्रसारणम्, क्रादिनियमादिट्, द्विर्वचनम्, प्रत्ययसकारस्य मूर्धन्यः, इन्द्रशब्दे परतोऽयादेशः, **लोपः शाकल्यस्य** (8.3.19) इति यकारलोपः; सूषुपिष इन्द्रमिति स्थित इह निरनुबन्धके नियमाभावादभ्यासान्मूर्धन्यो भवत्येव। `अभ्यासस्य या प्राप्तिः`[`अभ्यासात्` -काशिका, पदमञ्जरी च] इत्यादि। असत्यभ्यासग्रहणे धातोर्य इण्? तस्यापि नियमः स्यात्, न चेध्यते। तस्मादभ्यासाद्या प्तिस्तस्या नियमो यथा स्यादित्यभ्यासग्रहणम्। `प्रतीषिषति` इति। प्रतिपूर्वादिमः सन्। `अधोषिषति` इति। अघिपूर्वादिकः सन्, अजादित्वाद्द्वितोयैकाच्? `सन्यङोः (6.1.9) इति द्विरुच्यते, `सन्यतः` (7.3.79) इतोत्त्वम्, धातूपसर्गयोरेकादेशः; अधीषिष इति, प्रतीषिष इति स्थिते धातुप्रापतिनियमाभावात्? षभूतेऽपि सनि धातोः परस्य सकारस्य मूर्धन्यो भवत्येव॥ Prakriyasarvasvam ----------------- अभ्यासात् प्राप्तं षत्वं कृतषत्वे सनि परे स्तौतेर्ण्यन्तानां चैव स्यात् । तुष्टूषति । ण्यन्तानाम् सिषेचयिषति । षण्णि परेऽन्येषां षत्वं न । सिसिक्षति । सिसनिषति । अकृतषत्वे सनि परे तु सर्वत्र षत्वमस्त्येव । तिष्ठासति । सुषुप्सति । सिषासति । Sutra Prayogas -------------- * **प्रतुष्टूषुः** (भट्टिकाव्यम्): `स्तौति - ण्योः` इति अभ्यासादुत्तरस्य षत्वम्।