83046: अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ================================================= **Padacheda:** अतः | S | 5 | 1 | कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु | S | 7 | 3 | अनव्ययस्य | S | 6 | 1 | Sutrartha --------- **समासस्य विषये - अकारात् परस्य अव्ययभिन्नस्य विसर्गस्य कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी - एतेषु परेषु नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते ।** यदि कस्मिंश्चित् अव्यवभिन्ने शब्दे अकारात् परः पदान्ते विसर्गः अस्ति, तर्हि - कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी एतेषु परेषु समासे कृते अस्य विसर्गस्य सकारादेशः भवति । परन्तु यदि सः विसर्गान्तः शब्दः स्वयम् समस्तपदमस्ति, तर्हि अयम् सकारादेशः न भवति । उदाहरणानि अधः दत्तानि सन्ति । एतेषु उदाहरणेषु 'अयस्' इति अव्ययभिन्नम् पूर्वपदम् स्वीकृत्य उपरिनिर्दिष्टैः शब्दैः समासः कृतः अस्ति । अयस् इत्युक्ते 'लोह' । 1. 'कृ' इत्यनेन कृ-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कारः = अयस्कारः (लोहनिर्माता इत्यर्थः) 2. 'कमिँ' इत्यनेन कम्-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कामः = अयस्कामः (लोहचुम्बकम्) । 3. 'कंस' शब्दः = अयः + कंसः = अयस्कंसः (लोहपात्रम्) । 4. 'कुम्भ' शब्दः = अयः + कुम्भः = अयस्कुम्भः (लोहपात्रम्) । 5. 'कुशा' शब्दः = अयः + कुशा = अयस्कुशा (लोहदण्डिका ) । 6. 'कर्णी' शब्दः = अयः + कर्णी = अयस्कर्णी (लोहदण्डिका) । अनेनैव प्रकारेण पयस्कारः, तमस्कान्तः यशस्करमादीनि रूपाणि अपि सिद्ध्यन्ति । परन्तु यदि पूर्वपदम् स्वयम् समस्तपदमस्ति तर्हि अनेन सूत्रेण सत्वम् निषिध्यते । यथा - परमयशः + कारः = परमयशःकारः, परमयश≍कारः । ज्ञातव्यम् - 1. 'कृ' तथा 'कमिँ' एतयोः निर्देशेन तेषाम् कृदन्तरूपस्यैव ग्रहणं भवति, यतः **सह सुपा** (2.1.4) इत्यनेन केवलं सुबन्तानामेव समासे प्रयोगः भवति, तिङन्तानाम् न । 2. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति । अतः आकारान्तात् परस्य विसर्गस्य अनेन सूत्रेण षत्वम् न भवति । यथा - भाः + करणम् = भाःकरणम्, भा≍करणम् । अत्र **कुप्वोः≍क≍पौ च** (8.3.37) इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । 3. यदि पूर्वपदमव्ययमस्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - श्वः + कारः = श्वःकारः, श्व≍कारः । 4. यदि समासः नास्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - पयः करोति = पयःकरोति, पय≍करोति । 5. 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'अयस्कान्तः' अयम् शब्दः अस्मिन् गणे निर्दिष्टः अस्ति । वस्तुतः वर्तमानसूत्रेण अयः + कान्त' इत्यत्र समासे कृते सत्वम् विधीयते एव । परन्तु अयं शब्दः कस्कादिगणे अस्ति, अतः अस्य शब्दस्य विषये 'सर्वदा' सत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु अस्य शब्दस्य विषये षत्वम् भवति इत्यर्थः । Sutrartha (English) ------------------- While doing a समास, if all the following conditions are met - 1. the पूर्वपद ends in a विसर्ग that follows an अकार, 2. the उत्तरपद is either a form of the verb 'कृ', or a form of the verb 'कमि' or is one of these words - कंस/कुम्भ/पात्र/कुशा/कर्णी 3. पू्र्वपद is not an अव्यय 4. पू्र्वपद is not a समास - then the विसर्ग of the पूर्वपद is converted to सकार. Vasu English Summary -------------------- For the विसर्ग of a word ending in अस् with the exception of an indeclinable, स् is substituted in a compound when a form of कृ and कम् or the words 1. कंस 2. कुम्भ 3. पात्र 4. कुशा and 5. कर्णी follow and the first word is not preceded by another word. Vasu English Translation ------------------------ For the विसर्ग of a word ending in अस् with the exception of an indeclinable, स् is substituted in a compound when a form of कृ and कम् or the words 1. कंस 2. कुम्भ 3. पात्र 4. कुशा and 5. कर्णी follow and the first word is not preceded by another word. Thus कृ :- अयस्कारः, पयस्कारः (3.2.1) कम् :- अयस्कामः, पयस्कामः, कंस :- अयस्कंसः, पयस्कंसः, कुम्भः, - अयस्कुम्भः पयस्कुम्भः ॥ So also अयस्कुम्भी पयस्कुम्भी, on the maxim प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति ॥ पात्र :- अयस्पात्रम्, पयस्पात्रम्, अयस्पात्री, पयस्पात्री कुशा :- अयस्कुशा, पयस्कुशा ॥ कर्णी :- अयस्कर्णी, पयस्कर्णी ॥ The form शुनस्कर्णः belongs to *Kaskadi* class (8.3.48). Why do we say अतः "a *visarga* preceded by short अ, or the *visarga* of the word ending in अः"? See गीःकारः, धूःकारः ॥ Why do we say 'preceded by short अ'? Observe भाःकरणम् ॥ The form भास्करः belongs to *Kaskadi* class (8.3.48). See also (3.2.2). Why do we say "with the exception of an Indeclinable"? Observe श्वःकारः, पुनःकारः ॥ The word समासे is understood here also. Therefore not here; यशः करोति पयः करोति, यशः कामयते ॥ The word अनुत्तरपदस्थस्य is also to be read in this. Therefore not here, परमपयः कारः, परमपयः कामः ॥ Question: The word कंस need not have been taken, because it is a form of the root कम्, since it is derived from कम् by adding the *Unadi* affix स (III.62 *Unadi*)? Answer:- The employment of कंस indicates the existence of the following maxim:- उणादयोऽव्युत्पन्नानि प्रातिपदिकानि "Words which end with उण् &c. are crude-forms that do not undergo or cause such operations as would depend on their etymological formation." Kashika ------- अकारादुत्तरस्यानव्ययविसर्जनीयस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ — अयस्कारः। पयस्कारः। कमि — अयस्कामः। पयस्कामः। कंस — अयस्कंसः। पयस्कंसः। कुम्भ — अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भीत्यत्रापि भवति, **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति** इति। पात्र — अयस्पात्रम्। पयस्पात्रम्। अयस्पात्री। पयस्पात्री। कुशा — अयस्कुशा। पयस्कुशा। कर्णी — अयस्कर्णी। पयस्कर्णी। शुनस्कर्ण इत्ययं तु कस्कादिषु (८.३.४८) द्रष्टव्यः। अत इति किम् ? गीःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्कर इत्ययं तु कस्कादिषु (८.३.४८) द्रष्टव्यः। अनव्ययस्येति किम्? श्वःकारः। पुनःकारः। समास इत्येव — यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्येत्येव — परमपयःकारः। परमपयःकामः॥ Siddhanta Kaumudi ----------------- अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥ Laghu Siddhanta Kaumudi ----------------------- आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥ Padamanjari ----------- कृ, कमीति धातुग्रहणम् । इतरेषां स्वरूपग्रहणम् । अयस्कार इति ।'कर्मण्यण्' । अयस्काम इति ।'शीलिकामि' इत्यादिना णप्रत्ययः, अयस्कंसादयः षष्ठीसमासाः । कंसग्रहणमनर्थकम्, कमिग्रहणेनैव सिद्धत्वात्, कंसशब्दो हि'वृतृवदिहनिकमिभ्यः सः' इति कमेरेव व्युत्पाद्यते ? ज्ञापनार्थं तु, एतत् ज्ञापयति - उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीति । अयस्कुम्भीति । कुम्भशब्दाज्जातिलक्षणो ङीष् । अयस्पात्रीति । पात्रशब्दः ष्ट्रन्प्रत्ययान्तः, षित्वान्ङीष् । अयस्कुशेति । नात्रायोविकारो विवक्षितः, तेन'जानपद' इति सूत्रेण ङीष् न भवति । अयस्कर्णीति । अय इव कर्णी यस्याः सा अयस्कर्णी,'नासिकोदर' इत्यादिना ङीष् । शुनस्कर्ण इत्ययं त्विति । सूत्रे त्वीकारान्तस्य कर्णीशब्दस्य निर्देशादत्राप्रसङ्गः । भाः करणमिति । षष्ठीसमासः । भास्कर इत्ययं त्विति ।'दिवाविभा' इत्यादिना टप्रत्ययः । जयादित्यस्तु तस्मिन्सूत्रेऽवोचद् -'भास्करान्तेति प्रत्ययसन्नियोगेन सत्वं निपात्यते' इति । श्वः कारः, पुनः काम इति । धञन्तेन मयूरव्यंसकादित्वात् समासः ॥ Nyaas ----- `कुप्वोः क पौ च` (8.3.37) इति प्राप्ते वचनमिदम्। `अयस्कारः` इति। `कर्मण्यण` (3.2.1) । एवं `अयस्कामः` इत्यत्रापि। `शीलिकामिभिक्ष्याचरिभ्यो णो वकतव्यः` (वा।229) इति त्वत्र न प्रवर्तते। तत्रोपसंख्याने ण्यन्तस्य कमेरुपादानात्, इह त्वण्न्तस्य। यदा `आयादय आर्धधातुके वा` (3.1.31) इति कमेर्णिङ्? नास्ति, तदा कमेरण्यन्तता। `अयस्कंसः` इति। षष्ठीसमासः। ननु कमेरेव `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।29) इति से कृते कंस इति भवति, तत्र कमिग्रहणेनैव सिद्धत्वात्। कंसग्रहणमनर्थकम्? न; ज्ञापनार्थत्वात्। एतदनेन ज्ञाप्यते -अस्तीदमपि दर्शनम् -`उणादयोऽव्युत्पन्नानि। प्रापतिपदिकानि` (है।प।पा।103) इति,। `अयस्कुम्भः` इति। अयसो विकारः कुम्भ इति `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इति पध्यपदलोपी समासः। षष्ठीसमासो वा। `अय स्कुम्भी` इति। गौरादित्वाङङीष्। अयस्कुम्भवत्समासः। `अयस्पात्री` इति। पात्रशब्दः ष्टुन्प्रत्ययान्तः, `षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदाविसूत्रेण (4.1.42) इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदादिसूत्रेण (4.1.42) ङीष्? न भवति। अय इव कर्णावस्या इत्ययस्कर्णी, `नासिकोदर` (4.1.55) इत्यादिना ङीव्। ईकारान्तस्य कर्णशब्दस्य ग्रहणम्। अतः शुनःकर्ण इत्यत्र सत्वेन त भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, निराकर्तुमाह -`शुनस्कर्ण इत्ययं तु` इत्यादि। `भाःकरणम्` इति। ल्युडन्तेन समासः। यदि तर्हि तपरकरणं न क्रियेत भास करोतीति विवादिसूत्रेण (3.2.21) टे कृते भास्कर इत्यत्रापि भवति? अत आह -`भास्कर इत्ययं तु` इत्यादि। सुबोधम्॥ Praudhamanorama --------------- **अयःसहितेति।** न त्वयसो विकारः, **जानपद—** (4.1.42) इति ङीष्प्रसङ्गात्। **अयस्कर्णीति।** अय इव कर्णौ यस्याः। **नासिकोदरौष्ठ—** (4.1.55) इत्यादिना ङीष्॥ Prakriyasarvasvam ----------------- अतः परस्यानव्ययस्यानुत्तरपदस्थस्य विसर्गस्य समासे कृकमिधात्वोः कंसादिषु च परेषु नित्यं सः स्यात् । यशस्करः । यशस्कामः । पयस्कंसः । पयस्कुम्भः । अयस्पात्रम् । अयस्कुशा । कुशा खलीनम् । द्राघीयस्कर्णी । कर्णी गोबन्धनरज्जुः । अव्ययस्य न । स्वः कामः । उत्तरपदस्थत्वेऽपि न । सुयशः कामः । अतः परस्यानव्ययस्यानुत्तरपदस्थस्य विसर्गस्य समासे कृकमिधात्वोः कंसादिषु च परेषु नित्यं सः स्यात् । यशस्करः । यशस्कामः । पयस्कंसः । पयस्कुम्भः । अयस्पात्रम् । अयस्कुशा । कुशा खलीनम् । द्राघीयस्कर्णी । कर्णी गोबन्धनरज्जुः । अव्ययस्य न । स्वः कामः । उत्तरपदस्थत्वेऽपि न । सुयशः कामः । Sutra Prayogas -------------- * **यशस्-करीषु** (भट्टिकाव्यम्): `अतः कृ-कमि` इत्यादिना विसर्जनीयस्य सत्वम् । * **यशस्-करो** (भट्टिकाव्यम्): `अतः कृकमि` इत्यादिनानव्ययविसर्जनीयस्य सत्वम्।