83045: नित्यं समासेऽनुत्तरपदस्थस्य ================================== **Padacheda:** नित्यम् | S | 1 | 1 | समासे | S | 7 | 1 | अनुत्तरपदस्थस्य | S | 6 | 1 | Sutrartha --------- **समासस्य विषये - इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते ।** **इसुसोः सामर्थ्ये** (8.3.45) अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते - 1) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति । 2) यदि समस्तपदस्य निर्माणे पूर्वपदमपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते । उदाहरणानि - 1) 'धनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'धनुः + काण्डम्' इति स्थिते **इसुसोः सामर्थ्ये** (8.3.44) इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण नित्यं षत्वादेशः भवति । यथा - धनुष्काण्डम् । 2) 'शिवधनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'शिवधनुः + काण्डम्' इति स्थिते **इसुसोः सामर्थ्ये** (8.3.44) इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण अत्र षत्वम् नित्यम् निषिध्यते, यतः अस्मिन् समासे प्रयुक्तम् पूर्वपदम् स्वयमेव समस्तपदमस्ति । अतः अत्र केवलम् **कुप्वोः≍क≍पौ च** (8.3.37) इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । यथा - शिवधनुःकाण्डम्, शिवधनु≍काण्डम् । 3) 'धनुः काण्डम् छिन्नति' अस्मिन् वाक्ये 'धनुः' तथा 'काण्डम्' एतयोः योजनेन समस्तपदम् न जायते, परन्तु अत्र द्वयोः शब्दयोः मध्ये अन्वयः अस्ति एव । अतः अत्र **इसुसोः सामर्थ्ये** (8.3.44) अनेन सूत्रेण विकल्पेनैव षत्वादेशः भवति । अत्र वर्तमासूत्रस्य प्रसक्तिः नास्ति । यथा - धनुष्काण्डम्, धनु≍काण्डम्, धनुःकाण्डम् । ज्ञातव्यम् - 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'सर्पिष्कुण्डिका' , 'धनुष्कपालम्', यजुष्पात्रम्' एते शब्दाः अस्मिन् गणे निर्दिष्टाः सन्ति । वस्तुतः वर्तमानसूत्रेण समासे कृते एतेषु षत्वम् विधीयते एव । परन्तु एते शब्दाः कस्कादिगणे सन्ति, अतः एतेषाम् शब्दानाम् विषये 'सर्वदा' षत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; सामर्थ्यम् भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु एतेषाम् विषये षत्वम् भवति इत्यर्थः । यथा - 'तिष्ठतु सर्पिः, कुण्डिकामानय' अस्मिन् वाक्ये यद्यपि सामर्थ्यम् नास्ति तथापि संहितायाम् सत्याम् विसर्गस्य षत्वं कृत्वा 'तिष्ठतु सर्पिष्कुण्डिकामानय' इत्येव सिद्ध्यति । तथैव, 'धनुः कपालम् छिन्नति' इत्यत्रापि षत्वे कृते 'धनुष्कपालं छिनत्ति' इति जायते । Sutrartha (English) ------------------- While doing a समास, the विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is always converted to a षकार whenever the words involved in the समास are associated with each other. However, if the पूर्वपद of this समास is a समास on its own, then the षत्व is completely prohibited. Vasu English Summary -------------------- The विसर्ग of इस् or उस् ending word which is not preceded by any other word is invariably changed to ष् in a compound when followed by a hard consonant or a labial. Vasu English Translation ------------------------ The विसर्ग of इस् or उस् ending word which is not preceded by any other word is invariably changed to ष् in a compound when followed by a hard consonant or a labial. The words इस् and उस् are understood here. Thus सर्पिष्कुण्डिका, धनुष्कपालम्, सर्पिष्पानम्, धनुष्फलम् ॥ Why do we say when it is not preceded by another word? Observe परमसर्पिः कुण्डिका, परमधनुः कपालम् ॥ The option even of the last sutra does not apply to these examples. Question: The word सर्पिस् is derived from the root सृप् by adding the *Unadi* affix इसि (*Unadi* II.109), and यजुस् by the Unadi affix उसि (*Unadi* II.117), therefore on the maxim प्रत्ययग्रहणे &c, the word इसुसोः would denote the mere forms सर्पिस् and यजुस् and not forms like परमसर्पिस् &c. then what is the necessity of employing the word अनुत्तरपदस्थस्य in the *sutra*? The very employment of the word *anuttara*-*pada*-*sthasya* in this *sutra*, is an indicator (*jnapaka*), that the restriction of the following maxim does not apply with regard to the affixes इस् and उस् : प्रत्ययग्रहणे यस्मात् स विहित स्तदादेस्तदन्तस्य ग्रहणम् "an affix denotes, whenever it is employed in Grammar, a word-form which begins with that to which that affix has been added and ends with the affix itself". This maxim not applying, we have परमसर्पिष्करोति or परमसर्पिः करोति by the previous *sutra* (8.3.44). Question: Why is not there option in the case of compounds also by the previous *sutra*? Answer:- Because the word सामर्थ्य there means व्यपेक्षा, and therefore does not apply to compounds. Bhashya ------- नित्यं समासेऽनुत्तरपदस्थस्य अनुत्तरपदस्थस्येति किमर्थम्?॥ परमसर्पिःकुण्डिका॥ अथेदानीमनेन मुक्ते पूर्वेण षत्वं विभाषा कस्मान्न भवति-इसुसोः सार्मथ्य इति?॥ ॥ नाना पदार्थयोर्वर्तमानयोः ख्यायते यदा योगः। तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह॥1॥ व्यपेक्षासार्मथ्ये पूर्वयोगो(1) न चाऽत्र व्यपेक्षासार्मथ्यम्॥ किं पुनः कारणं पूर्वस्मिन्योगे(2) व्यपेक्षासार्मथ्यमाश्रीयते न पुनरेकार्थीभावो, यथाऽन्यत्र?॥ ॥ ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत॥ ऐकार्थ्ये सार्मथ्ये सति वाक्ये षत्वं न स्यात्- सर्पिष्करोति, सर्पिःकरोतीति॥ ॥ तस्मादिह व्यपेक्षां(3) सार्मथ्यं साधु मन्यन्ते॥ अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः॥ यदि कृदन्तमेतत्ततोऽधिकस्य षत्वं न प्राप्नोति(5)॥ किं कारणम्?॥ प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति॥ वाक्येऽपि तर्हि न प्राप्नोति परमसर्पिष्करोति परमसर्पिः करोतीति॥ ॥ वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत॥ यदयमनुत्तरपदस्थस्येति प्रतिषेधं शास्तितज्ज्ञापयत्याचार्यो भवति वाक्ये विभाषेति॥ अथ चेत्संविज्ञानं नित्ये षत्वे(1) ततो विभाषेयम्॥ अथाऽव्युत्पन्नं प्रातिपदिकं ततो नित्ये षत्वे प्राप्ते इयं विभाषा आरभ्यते॥ सिद्धं च मे समासे॥ सिद्धं च(2) मे समासे षत्वम्। किमर्थं तर्हीदमुच्यते?॥ प्रतिषेधार्थस्तु यत्नोऽयम्॥ प्रतिषेधार्थोऽयं यत्नः। अनुत्तरपदस्थस्येति प्रतिषेधं वक्ष्यामीति। ॥ नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योगः। तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह॥1॥ ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत। तस्मादिह व्यपेक्षां सार्मथ्यं साधु मन्यन्ते॥2॥ अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः। वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत॥3॥ अथ चेत्संविज्ञानं नित्ये षत्वे ततो विभाषेयम्। सिद्धं च मे समासे, प्रतिषेधार्थस्तु यत्नोऽयम्॥4॥ Kashika ------- इसुसोरिति वर्तते। समासविषय इसुसोर्विसर्जनीयस्यानुत्तरपदस्थस्य नित्यं षत्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति। एतदेवानुत्तरपदस्थस्येति वचनं ज्ञापकम् — इसुसोः प्रत्ययग्रहणे **यस्मात् स विहितस्तदादेः०** इत्ययं नियमो न भवति। तेन वाक्येऽपि — परमसर्पिष्करोति, परमसर्पिः करोति, **इसुसोः सामर्थ्ये**(८.३.४४) इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति॥ Siddhanta Kaumudi ----------------- इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥ Padamanjari ----------- परसमर्पिष्कुण्डिकेति । ननु च ठर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिःऽ,'जनेरुसिः' , ठतिपयजितनिधनिवपिभ्यो नित्ऽ इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुतरपदग्रहणम् ? अत आह - एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह -तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह -व्यपेक्षा चेति । केचितु'ठ्ठ्नित्यं समासे' इत्येको योगः, ठनुतरपदस्थस्यऽ इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुतरपदस्थस्य प्रतिषिध्यते' इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ॥ Nyaas ----- `सपिष्कुण्डिका` इति। षष्ठीसमासः। एवं `धनुष्कपालम्` इत्यादावपि। `परममपिःखुम्डिका` इति। परमसर्पिः शब्दयोः सन्महत्` (2.1.60) इत्यादिना कर्मधारयं कृत्वा कुण्डिकाशब्देन सह षष्ठीसमासः। अत्र परमशब्दापेक्षया सर्पिःशब्द उत्तरपदम्, तत्रस्थश्च विसर्जनीय इति षत्वं न भवति।ननु च **इसुसोः सामर्थ्ये** (8.3.44) इत्यत्र `इसुसोः` इति प्रत्ययग्रहणमेतत्, तत्र `प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य` (भो।पु।सू।7) इति नियमाद्यत एवेसुसौ विहितौ तदादेरेव ग्रहणेन भवितव्यम्, नाधिकस्य, अधिकश्च परमशाब्दः; केवलाद्धि सपेरिस्प्रत्ययो विहितः, न परमशब्दादेः; एवञ्चोत्तरपदप्रकृतिरेव नास्ति, किं प्रतिवेधेन? इत्याह -`एतदेव` इत्यादि। यद्ययमिह नियमः स्यात्? `अनुत्तरपदस्थस्य` इति नोक्तं स्यात्, उक्तञ्च, तस्मादेतज्ज्ञापयति -नायमिह नियमो भवतीति। किमस्य ज्ञापकस्य प्रयोजनम्? इत्याह -`तेन` इत्यादि। यस्मादयमिह नियमो न भवति, तेन हेतुना वाक्येऽधिकस्यापि ग्रहणे सति परमसर्पिः करोति, परमसर्पिष्करोतीत्यत्र पूर्वसूत्रेण षत्वबिकल्पो भवति; नियमे तु सति न स्यात। समासेऽपि तर्हि परमसर्पिःकुण्डिकेत्यत्र षत्वविकल्पेन भवितव्यम्; नियमाभावात्? इत्यत आह -`व्यपेक्षा च तत्र` इत्यादि। चकोरोऽवधारणार्थः। इतिकरणो हेतौ। तत्र `इसुसोः` (8.3.44) इत्यादौ सूत्रे सामाथ्र्यग्रहणाद्व्यपेक्षैव सामर्थ्य वत्वविकल्पस्य निमित्तं यस्मादाश्रितं तस्मात्? समासे न धवति; तत्र तदभावात्॥ Praudhamanorama --------------- **व्यपेक्षाविरहेऽपीति।** तिष्ठतु सर्पिष्कुण्डिकामानयेत्यादावित्यर्थः। **व्यपेक्षायामिति।** इदं सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थः। यत्तु पारायणिका आहुः— 'कस्कादिषु सर्पष्कुण्डिकादीनां पाठ उत्तरपदस्थत्वेऽपि षत्वार्थः' इति। तद्भाष्यविरोधादुपेक्ष्यम्। Prakriyasarvasvam ----------------- समासे त्वनुत्तरपदस्थस्य इसुसोर्विसर्गस्य कुप्वोः परयोः नित्यं सः स्यात् । शोचिष्केशः । हविष्पाकः । वपुष्कान्तिः । धनुष्पाणिः । उत्तरपदस्थत्वे तु पूर्वेण विकल्पोऽपि नेष्यते । दृढधनुःपाणिरित्येव । असमासे तु उत्तरपदस्थस्यापि पूर्वेण विकल्पः । दृढधनुष्कर्षति । दृढधनुःकर्षति । समासे त्वनुत्तरपदस्थस्य इसुसोर्विसर्गस्य कुप्वोः परयोः नित्यं सः स्यात् । शोचिष्केशः । हविष्पाकः । वपुष्कान्तिः । धनुष्पाणिः । उत्तरपदस्थत्वे तु पूर्वेण विकल्पोऽपि नेष्यते । दृढधनुःपाणिरित्येव । असमासे तु उत्तरपदस्थस्यापि पूर्वेण विकल्पः । दृढधनुष्कर्षति । दृढधनुःकर्षति । Sutra Prayogas -------------- * **धनुष्खण्डम्** (किरातार्जुनीयम्): `नित्यं समासेऽनुत्तरपदस्थस्य` इति विसर्जनीयस्य षत्वम्। * **आयुष्-करं** (भट्टिकाव्यम्): `नित्यं समासे` इत्यादिना षत्वम्।