83037: कुप्वोः ≍क≍पौ च ====================== **Padacheda:** कुप्वोः | S | 7 | 2 | ≍क≍पौ | S | 1 | 2 | च | S | 0 | 0 | Sutrartha --------- **विसर्गस्य ककारे/खकारे परे जिह्वामूलीयः विसर्गः वा भवतः । विसर्गस्य पकारे/फकारे परे उपध्मानीयः विसर्गः वा भवतः ।** **विसर्जनीयस्य सः** (8.3.34) इत्यनेन विसर्गस्य खरि परे सकारे प्राप्ते वर्तमानसूत्रेण तस्य अपवादत्वेन कवर्गे पवर्गे च परे (क्रमेण) जिह्वामूलीय-उपध्मानीयौ उच्येते । एतौ आदेशौ विकल्पेनैव भवतः, अतः विकल्पाभावे विसर्गः एव तिष्ठति । उदाहरणानि 1) विसर्गात् परः ककारः - रामः कः → रामःकः, राम≍कः [**कुप्वोः ≍क≍पौ च** (8.3.37) इति विसर्गस्य विकल्पेन जिह्वामूलीयः] 2) विसर्गात् परः खकारः - रामः खनति → रामःखनति, राम≍खनति [**कुप्वोः ≍क≍पौ च** (8.3.37) इति विसर्गस्य विकल्पेन जिह्वामूलीयः] 3) विसर्गात् परः पकारः - रामः पातुः → रामःपातुः, राम≍पातु [**कुप्वोः ≍क≍पौ च** (8.3.37) इति विसर्गस्य विकल्पेन उपध्मानीयः] 4) विसर्गात् परः फकारः - वृक्षः फलतु → वृक्षः फलतु, वृक्ष≍फलतु [**कुप्वोः ≍क≍पौ च** (8.3.37) इति विसर्गस्य विकल्पेन उपध्मानीयः] ज्ञातव्यम् - 1. 'जिह्वामूलीयः' इति कश्चन अयोगवाहः वर्णः अस्ति । वर्तमानसूत्रेण विसर्गात् परः ककारः खकारः वा आगच्छति चेदेव अस्य निर्माणम् भवति । अस्य उच्चारणमर्धविसर्गसदृशम् भवति । अस्य उच्चारणस्थानम् जिह्वायाः मूलमस्ति । लेखने जिह्वामूलीयस्य निर्देशः '≍' अनेन चिह्नेन क्रियते । 2. 'उपध्मानीयः' इति कश्चन अयोगवाहः वर्णः अस्ति । वर्तमानसूत्रेण विसर्गात् परः पकारः फकारः वा आगच्छति चेदेव अस्य निर्माणम् भवति अस्य उच्चारणमपि अर्धविसर्गसदृशम् भवति । अस्य उच्चारणस्थानम् औष्ठौ स्तः । लेखने उपध्मानीयस्य निर्देशः अपि '≍' अनेन चिह्नेन क्रियते । 3. यद्यपि अस्मिन् सूत्रे 'कु' / 'पु' इत्यनेन कवर्ग-पवर्गयोः उल्लेखः कृतः अस्ति, तथापि विसर्गस्य निर्माणम् खर्-वर्णे परे एव भवति, अतः अस्य सूत्रस्य प्रसक्तिः अपि ककारे परे / खकारे परे / पकारे परे / फकारे परे एव विद्यते । 4. वर्तमानसूत्रम् **विसर्जनीयस्य सः** (8.3.34) इत्यस्य अपवादरूपेण आगच्छति । तथा च, **शर्परे विसर्जनीयः** (8.3.35) एतत् सूत्रम् वर्तमानसूत्रस्य अपवादः अस्ति । 5. 'पुम्स् + कोकिल', 'कान् + कान्' एतादृशानाम् शब्दानाम् विषये **वा शरि** (8.3.36) अस्मिन् सूत्रे पाठितम् एतत् वार्त्तिकम् वर्तमानसूत्रस्य अपवादरूपेण विधीयते, अतः एतेषाम् विषये जिह्वामूलीयः न भवति । यथा - पुम् + कोकिलः [इति स्थिते -] → पुरुँ + कोकिलः [**पुमः खय्यम्परे** (8.3.6) इति मकारस्य रुँत्वम् भवति ।] → पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः] → पुँः + कोकिलः / पुंः + कोकिलः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → पुँस् + कोकिलः / पुंस् + कोकिलः [**कुप्वोः ≍क ≍पौ च** (8.3.37) इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति ।] → पुँस्कोकिलः / पुंस्कोकिलः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । अहरादिगणस्य शब्दानाम् पत्यादिगणस्य शब्देषु परेषु विकल्पेन रेफः भवति । यथा - अहन् + पतिः = अहर् + पतिः = अहर्पतिः । रेफाभावे - अहन् + पतिः → अहरुँ + पतिः [अहन् ८.२.६८ इत्यनेन रूत्वम्] → अहः + पतिः [खरवसानयोर्विसर्जनीयः ८.३.१५ इत्यनेन विसर्गः] → अहः पतिः, अह≍पतिः । [कुप्वोः ≍क ≍पौ च ८.३.३७ इति विकल्पेन उपध्मानीयः] अस्मिन् वार्तिके 'अहरादिगण' तथा 'पत्यादिगण' एतेषाम् विषये उक्तमस्ति । एते गणाः एतादृशाः - अहरादिगणः = {अहर् , गिर्, धुर् }(अहर्-इत्यनेन अहन्-शब्दः स्वीक्रियते) । पत्यादिगणः = { पति, गण, पुत्र } अतः अनेन वार्तिकेन एतानि पदानि सिद्ध्यन्ति - अहर्पतिः, गीर्पतिः, धूर्पतिः , अहर्गणः, गीर्गणः, धूर्गणः, अहर्पुत्रः, गीर्पुत्रः, धूर्पुत्रः । Sutrartha (English) ------------------- When a विसर्ग is followed by a ककार or a खकार, it is converted either to a जिह्वामूलीय or to a विसर्ग. When a विसर्ग is followed by a पकार or a फकार, it is converted either to a उपध्मानीय or to a विसर्ग. Vasu English Summary -------------------- Xक and Xप are optionally substituted for the विसर्ग when followed by a hard Guttural or a hard labial. Vasu English Translation ------------------------ Xक and Xप are optionally substituted for the विसर्ग when followed by a hard Guttural or a hard labial. Thus वृक्षᳵकरोति or वृक्षः करोति, वृक्षᳵखनति or वृक्षः खनति, वृक्षᳶपचति or वृक्षः पचति, वृक्षᳶफलति or वृक्षः फलति ॥ The क and प in ᳵक and ᳶप are for the sake of pronunciation only. The substitutes are the *Jihvamuliya* and the *Upadhmaniya* : two lost sibilants belonging to the class of क and प respectively. When the rule (8.3.34). does not apply, then this *sutra* will apply; and will debar that. But (8.3.35). will not be debarred. As वासः क्षौमम्, अद्भिः त्सातम् ॥ There is no *vipratishedha* between (8.3.35). and (8.3.37), because of the *asiddhahood* of one with regard to the other. (VIII.2. I). In fact, every rule in these three chapters stands by itself, and ignores the existence of the subsequent rule. Hence (8.3.35) would not have been debarred by (8.3.37). To get this, some divide this *sutra* into two :- (1) कुप्वोः "The *visarga* is the substitute of *visarga* before a guttural or labial which is followed by a sibilant." (2) ᳵक ᳶपौच The *jihvamuliya* and *upadhmaniya* are substitutes of a *visarga* before a guttural and a labial in every other case." Bhashya ------- कुप्वोः )(क)(पौ च ॥ सस्य कुप्वोर्विसर्जनीयजिह्वामूलियोपध्मानीयाः॥ सस्य कुप्वोर्विसर्जनीयजिह्वामूलीयोपध्मानीया वक्तव्याः॥ विसर्जनीयादेशे(2) हि शर्परयोरेवादेशप्रसङ्गः॥ विसर्जनीयादेशे हि सति शर्परयोरेव कुप्वोः)(क)(पौ स्याताम्-अदि्भः प्सातं वासः क्षौमम्॥ वचनान्न भविष्यतः॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ पुरुषः त्सरुकः॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। यदेतद्विसर्जनीयस्य स इत्यत्र विसर्जनीयग्रहणमेतदुत्तरत्रानुवर्तिष्यते, तस्मिंश्च शर्परे विसर्जनीयोऽसिद्धः॥ नाऽसिद्धः॥ कथम्?॥ अधिकारो नाम त्रिप्रकारः। कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति(1)। यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माऽभिज्वलयति। अपरो(1) यथा-रज्ज्वाऽयसा वा बद्धं काष्ठमनुकृष्यते तद्वत्। अपरोऽधिकारः प्रतियोगं तस्याऽनिर्देशार्थ इति योगे योगे उपतिष्ठते। तद्यदैष पक्षः-प्रतियोगं तस्याऽनिर्देशार्थइति तदा हि यदेतद्विसर्जनीयस्य स इत्यत्र विसर्जनीयग्रहणमेतदुत्तरत्राऽनुवृत्तं सदन्यत्संपद्यते। तस्मिंश्च सर्परे विसर्जनीयः सिद्धः। एवं च कृत्वा शर्परयोरेव कुप्वोः)(क)(पौ स्याताम्, वासः(2) क्षौममदि्भः प्सातमिति॥ एवं तर्हि योगविभागः करिष्यते। शर्परे विसर्जनीयः। वा शरि। ततः कुप्वोः। कुप्वोश्च शर्परयोर्विसर्जनीयस्य(3) विसर्जनीयो भवतीति॥ किमर्थमिदम्?॥ कुप्वोः)(क)(पौ वक्ष्यति तद्बाधनार्थम्। ततः)(क)(पौ(4) च।)(क)(पौ च भवतः। कुप्वोरित्येव। शर्परयोरिति निवृत्तम्॥ अथवा शर्परे विसर्जनीय इत्येतत् कुप्वोः )(क)(पौ चेत्यत्रानुवर्तिष्यते॥ Kashika ------- कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासंख्यं क प इत्येतावादेशौ भवतः, चकाराद् विसर्जनीयश्च। वृक्ष करोति, वृक्षः करोति। वृक्ष खनति, वृक्षः खनति। वृक्ष पचति, वृक्षः पचति। वृक्ष फलति, वृक्षः फलति। कपावुच्चारणार्थौ। जिह्वामूलीयो — पध्मानीयावेतावादेशौ। **विसर्जनीयस्य सः** (८.३.३४) इत्येतस्मिन् नाप्राप्त इदमारभ्यत इत्येतस्य बाधकम्,**शर्परे विसर्जनीयः** (८.३.३५) इत्येतत् तु न बाध्यते — वासः क्षौमम्, अद्भिः प्सातम्। पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति **शर्परे विसर्जनीयः** (८.३.३५) इत्येतदेव भवति। केचित् तु एतदर्थं योगविभागं कुर्वन्ति। कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीय आदेशो भवति। किमर्थमिदम्? क पौ चेति वक्ष्यति, तद्बाधनार्थमिति॥ Siddhanta Kaumudi ----------------- कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स (SK138) इत्यस्यापवादोऽयम् । न तु शर्परे विसर्जनीय (SK150) इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । नॄँ≍ पाहि । नॄं≍ पाहि । नॄँःपाहि । नॄंःपाहि । नॄन्पाहि ॥ Laghu Siddhanta Kaumudi ----------------------- कवर्गे पवर्गे च विसर्गस्य ≍क ≍पौ स्तः, चाद्विसर्गः । नॄँ ≍पाहि, नॄँः पाहि, नॄं≍ पाहि नॄंः पाहि । नॄन्पाहि॥ Balamanorama ------------ **कुप्वोः क्ष्कक्ष्पौ च** - ॒खरवसानयो॑रिति रेफस्य नित्यं विसर्गे प्राप्ते-कुप्वौ ᳵकᳶपौ च । 'कुप्वोः' इति छेदः । ओसस्सस्य रुत्वे तस्य खर्परत्वाद्विसर्गः, जिह्वामूलीयस्य शर्पूपसङ्ख्यातत्वेन खत्र्वात् । तस्य च विसर्गस्यखर्परे शरि वा विसर्गलोपो वक्तव्य॑ इति लोपः । अतः सूत्रे कुप्वोरिति विसर्गो न श्रूयते । 'विसर्जनीयस्य स' इत्यतो विसर्जनीयस्येत्यनुवर्तते । तदाह-कवर्गे इत्यादिना ।क्रमा॑दिति यथासंख्यसूत्रलभ्यम् । चाद्विसर्ग इति 'शर्परे विसर्जनीयः' इत्यतो 'विसर्जनीय' इत्यनुकृष्यत इत्यर्थः । चकारः पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोलपध्मानीयाभ्यां विसर्गस्य बाध एव स्यादिति भावः । एवं च प्रकृते पकारे परे विसर्गस्य सत्वं बाधित्वा कदाचिदुपध्मानीयः कदाचिद्विसर्गः । तयोरुच्चारणे भेदः । इहादेशयोः कपावुच्चारणार्थौ, न तु विधेयकोटिप्रविष्टौ । ननु कुप्वोरिति जिह्लामूलीयोपध्मानीयविसर्गविधना यथा विसर्जनीयस्य सत्वं बाध्यते, तथा 'शर्परे विसर्जनीय' इति केवलविसर्गविधिरपि बाध्येत । तथाच वासः क्षौममित्यत्रापि कुप्वोरिति कदाचिज्जिह्वामूलीयः कदाचिद्विसर्गश्च स्याताम् । इष्यते तु केलविसर्ग इत्यत आह — येन नाप्राप्तीति ।येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवादः॑ इति न्यायः । प्रापेति भावे क्तः । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति,न लोके॑ति निषेधात् । द्वौ नञावावश्यकत्वं द्योतयतः । यस्य विधेरवश्यं प्राप्तौ सत्यामित्यर्थः । अनेन न्यायेन कुप्वोरिति विधिः 'विसर्जनीयस्य स' इत्यस्यैपवादः । सत्वे प्राप्त एव तदारम्भात् । 'शर्परे विसर्जनीय' इत्यस्य तु कुप्वोरिति नापवादः ।कः करोती॑त्यादौ शर्परे खरीत्यप्राप्तेऽपि कुप्वोरित्यस्यारम्भादित्यर्थः । तेनेति ।वासः क्षौम॑मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाऽभावेन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ । नॄँᳶपाहिं, नॄंᳶपाहीत्युपध्मानीयपक्षे आनुनासिक्येऽनुस्वारे च सति रूपद्वयम् । नॄँःपाहि,नॄंःपाहीति विसर्गपक्षेऽनुनासिकानुस्वाराभ्यां रूपद्वयम् । नॄन्-पाहीति रुत्वाऽभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे 'पे' इत्यकार उच्चारणार्थः । तथाच नृन्रुनातीत्यादावपि पञ्च रूपाणि भवन्ति । Padamanjari ----------- विसर्जनीयश्चेति । अनेन चकारो विसर्जनीयानुकर्षणार्थ इति दर्शयति । अथ वाग्रहणमेवानुवर्त्य जिह्वामूलीयोपध्मानीयौ कस्मान्न विल्प्येते, एवं हि चकारो न कर्तव्यो भवति ? नैवं शक्यम्; एवं ह्याभ्यामुक्ते'विसर्जनीयस्य सः' इति सत्वमेव स्यात् । तस्माच्चकारेणैवानुकृष्य विसर्जनीयो विधातव्यः, वाग्रहणं च नानुवर्त्यम् । तदनुवृतौ हि त्रिभिरपि मुख्ये पक्षे सत्वं प्रसज्येत । सूत्रे ककारपकारसहितयोर्जिह्वामूलीयोपध्मानीययोरुच्चारणातथाभूतावेव विसर्जनीयस्यादेशाविति शङ्कमानं प्रत्याह - कपावुच्चारणार्थाविति । ताभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः । कीदृशौ तर्ह्यादेशौ ? इत्याह - जिह्वामूलीयेति । इह विसर्जनीयस्य स्थाने आदेशत्रयं विधीयते, ततश्च शर्परयोरेव कुप्वोः प्राप्नोति - वासः क्षौमम्, अद्भिः प्सातमिति, अत्र हि'शर्परे विसर्जनीयः' इति विसर्जनीयोऽस्ति, न च तस्य वैयर्थ्यम्; यत्र कुपुभ्यामन्यः शर्परः खरस्तिपुरुषः त्सरुक इत्यादौ, तत्र सावकाशत्वात् । अशर्परयोस्तु कुप्वोर्न स्यात्, न हि तस्य विसर्जनीयोऽस्ति,'विसर्जनीयस्य सः' इति सत्वेन निर्वर्तितत्वात् । किं पुनः कारणं सत्वमेव तावद्भवति ? तत्र कर्तव्ये तस्य विधेरसिद्धत्वात् । तस्मादत्र सकारः स्थानी निर्देअष्टव्यः - यः'विसर्जनीयस्य सः' इति सः, तस्य स्थाने कुप्वोरादेशत्रयं भवतीति । एवं हि शर्परयोः कुप्वोः सकारापवादो विसर्जनीयो विधीयेत इति सकाराभावादादेशाप्रसङ्गः, केवलयोस्त्वादेशप्रसङ्गः, तस्मात्सस्येति वक्तव्यम्, यदाह वार्तिककारः -'सकारस्य कुप्वोर्विसर्जनीय - जिह्वामूलीयोपध्मानीयाः, विसर्जनीयादेशे हि शर्परयोरेवादेशप्रसङ्गः' इति ? अत्र परिहारामाह - विसर्जनीयस्य स इत्येतस्मिन्निति । अयमभिप्रायः -'विसर्जनीयस्य सः' इति सकारस्य स्थानी विसर्जनीय उपातः, स च द्विविधः सम्भवति - शर्परलक्षणः, खरवसानलक्षणश्च । तत्र शर्परलक्षणस्यासिद्धत्वादितरः सकारस्य स्थानी, स एव चेहानुवर्तते; ततश्च नाप्राप्ते सत्वे इदमारभ्यते; सर्वस्य विषयस्य तेन व्याप्तत्वात् ।'शर्परे विसर्जनीयः' इत्येततु शर्परयोः कुप्वोः प्राप्तम्, केवलयोस्त्वप्राप्तमिति न तं प्रति अस्य बाधकलक्षणयोग इति । स्यादेतत्, मा भूदपवादत्वम्, परत्वातु शर्परयोरपि कुप्वोरयमेव विधिः प्राप्नोति ? तत्राह - पूर्व्रत्रासिद्धे इति । परिहारान्तरमाह - केचित्विति ।'कुप्वोः' इत्येको योगः, अत्र'शर्परे विसर्जनीयः' इति वर्तते, शर्परयोः कुप्वोः विसर्जनीय एव भवति, न ःकःपाविति । किञ्च - पूर्वंसूत्रे'नेति वक्तव्ये विसर्जनीयविधानं तद्विकारनिवृत्यर्थम्' इत्युक्तम् । तेन शपरयोः कुप्वोरस्य विधेरप्रसङ्ग एव ॥ Nyaas ----- `विसर्जनीयश्च` इति। अनेन विसर्जनीयानुकर्षणार्थश्चकार इति दर्शयति। अथ वाग्रहणमनुवच्यं जिह्वामूलीयोपध्मानीयौ कस्मान्न विकल्प्येते, एवञ्च विसर्जनीयानुकर्षणार्थश्चकारो न कर्तव्यो भवति; आभ्यां हि मुक्ते पक्षे विसर्जनीय एव भविष्यति? नैवम्; शपंरयोरेव हि कुप्वोरेवं स्यात्। अशर्परयोस्तु पक्षे **विसर्जनीयस्य सः** (8.3.34) इति सकारः प्रतज्येत। तस्माच्चकारः कर्तव्यः। इह ककारपकारयोर्जिह्वामूलोयोपष्मानोययोः सूत्र उच्चारणात्? तथाभूतावादेशो विसर्जैनीयस्य विज्ञायेते? इति कस्याचिवाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह -`ककारपकारावुच्चारणार्थो` इति। आभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः। कीदृशौ तावादेशौ? इत्यत आह -`जिह्वामूलीयोपध्मानीयावेव त्वादेशौ` इति। तुशब्द आशङ्किताभ्यां समुदायरूपाभ्यामादेशाभ्यां विशेषं द्योतयति। एवकारोऽवधारणार्थः। जिह्वामूलीयोपध्मानीयावेव केवलौ। न तु समुदायरूपावित्यर्थः।इह सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्? **कुप्वोः ≍क≍पौ च** (8.3.37) इत्यस्यानवकाशत्वम्, अतो यथा वृक्षः करोतीत्यादौ **विसर्जनीयस्य सः** (8.3.34) इतीमं विधिं बाधित्वः `कुप्वोः क पौ च` इति प्रवर्तते, तथा वासः क्षौमम्, अद्भिः प्सातमित्यादौ `शर्परे` (8.3.35) इतीममपि विधिं कस्मान्न बाधते? इति यो देशयेत्? तं प्रत्याह -`विसर्जनीयस्य` इत्यादि। **शर्परे विसर्जनीयः** (8.3.35) इत्येतस्मिन्? प्राप्ते चाप्राप्ते चेदमारभ्यते। वाशः क्षौमम्, अद्भिः प्सातमित्यादौ प्राप्ते; वृक्ष करोति वृक्ष पचतीत्यत्राप्राप्ते। **विसर्जनीयस्य सः** (8.3.34) इत्येतस्मस्तु सर्वत्र प्राप्ते। एवं तस्य विशेषणं खर्मात्रे विधानात्? स्यात्, तस्यैवेदं बाधकम्; नेतरस्य विधेः; तं प्रति बाधकलक्षणस्यायोगात्। स्यादेतत् -शर्परे विसर्जनीयस्य कवर्गपवर्गाभ्यामन्यः शर्परः खरवकाशः, `कुप्वोः क पौ च` (8.3.37) इत्यस्याशर्परौ कवर्गपवर्गौ -वासः क्षौमम्, अद्भिः प्सतमित्यत्रोभयं प्राप्नोति, तत्र `विप्रतिषेधे परं कायम्` (1.4.2) इति विसर्जनीयं बाधित्वा जिह्वामूलीयोपध्मानीयाभ्यां भवितुं युक्तम्? इत्याह -`पूर्वत्रासिद्धे` इत्यादि। अत्रैवोपपत्तिमाह -`अभावादुत्तरस्य` इति। द्वयोस्तुल्यबलयोर्युगपदेकत्र प्राप्तौ विरोधो भवति, नचात्र युगयत्? प्राप्तिरस्ति; पूर्वस्मिन्? कर्तव्ये सत्यसिद्धत्वादुत्तरस्याविद्यमानत्वात्। इतिकरणो हेतौ। यस्मात्? पूर्वत्रासिद्धीये नास्ति विप्रतिषेधः, तस्माद्वासः क्षौमम्, अद्भिः प्सातमित्यत्र **शर्परे विसर्जनीयः** (8.3.35) इत्येतदेव भवति, न जिह्वामूलीयोपध्मानीयाविति। `केचित्` इत्यादि। वासः क्षौमम्; अद्भिः प्सातमित्यत्र विसर्जनीयो यथा स्यादित्येवमर्थ `कुप्वोः क पौ च` इत्यत्र योगविभाघं कुर्वन्ति -`कुप्वोः` योगः, ` क पौ` इति द्वितीयः। तत्र पूर्वस्मिन्? योगे **शर्परे विसर्जनीयः** (8.3.35) इत्येतदनुवर्तते। तेन शर्परयोः कुप्वोर्विसर्जनीय एव भवति, न जिह्वामूलीयोपध्मानीयाविति॥ Praudhamanorama --------------- सूत्रे खर्परत्वाद्विसर्गः जिह्वामूलीयस्य खर्त्वात्। 'खर्परे शरि' इति विसर्गस्य लोपः, जिह्वामूलीयस्य शर्त्वात्। **वा शरि** (8.3.36) इति विसर्ग एव वा। आदेशयोः कपावुच्चारणार्थौ। **चाद्विसर्ग इति।** यत्तु प्राचा चाद्विकल्प इत्युक्तम्। तन्न, कपाभ्यां मुक्ते विसर्गस्य सत्वप्रसङ्गात्। Prakriyasarvasvam ----------------- कवर्गपवर्गरूपे खरि परे' विसर्गस्य क्रमादेतौ स्तः । चकाराद् विसर्गश्च । तयोः कपावुच्चारणार्थौ । कृष्ण‿क्रीडति । कृष्णः क्रीडति । दैत्य‿पतति । दैत्यः पतति । तपःख्यातिरित्यदौ ख्याधातोर्यस्य शबद्भावात् ‘शर्पर-’ (८-३-३५) इति विसर्ग एव । Sarala ------ **शर्परे विसर्जनीयः** (८.३.३५) इत्यतो "विसर्जनीयः" इति चकारेणानुकृष्यते । **विसर्जनीयस्य सः** (८.३.३४) इत्यतो "विसर्जनीयस्य" इति चानुवर्त्तते । तदाह - **विसर्गस्येति** । तेन "गजो गच्छति" इत्यादौ रोरुत्वं सिध्यति । विसर्जनीयपदानुवृत्त्यभावे तु रोः - स्थानेऽपि तदादेशापत्तिः स्यादिति बोध्यम् ॥ Sudha ----- **नॄँ≍पाहीति । ** "नॄन् पाहि" इत्यत्र **नॄन् पे** (8.3.10) इत्यनेन नस्य रुत्वे उकारलोपे **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनुनासिके, पक्षे **अनुनासिकात्परोऽनुस्वारः** (8.3.4) इत्यनुस्वारे **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गे, **कुप्वोः ≍क ≍पौ च** (8.3.37) इत्युपध्मानीये च "नॄँ≍पाहि", "नॄंपाहि" इति । उपध्मानीयाभावे सति विसर्गे "नॄँः पाहि", "नॄंः पाहि" इति । पक्षे — "नॄन्पाहि" इति पञ्च रूपाणि । सूत्रे पे इत्यत्राकार उच्चारणार्थः । तेन "नॄन् पुनाति" इत्यादावपि पञ्च रूपाणि बोध्यानि ॥ Sutra Prayogas -------------- * **रक्षस्-पाशान्यशस्-काम्यंस्तमस्-कल्पानदुद्रुवत्** (भट्टिकाव्यम्): `कुप्वोः कपौ च` इति जिह्वामूलीयोपध्मानीयौ।