83031: शि तुक्
==============
**Padacheda:** शि | S | 7 | 1 |
तुक् | S | 1 | 1 |
Sutrartha
---------
**पदान्ते विद्यमानस्य नकारस्य शकारे परे संहितायाम् विकल्पेन तुगागमः भवति ।**
पदान्त-नकारस्य शकारे परे संहितायाम् **विकल्पेन ** 'तुक्' इति आगमः भवति । अयम् कित्-आगमः, अतः **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन अयम् नकारात् अनन्तरम् विधीयते ।
यथा, "भवान् शेते" इत्यत्र सन्धिकार्ये कृते भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते/भवाञ्शेते इति चत्वारि रूपाणि सिद्ध्यन्ति । एतेभ्यः आदिस्थानि त्रीणि रूपाणि साधयितुम् प्रकृतसूत्रेण कृतः तुगागमः आवश्यकः वर्तते । तदित्थम् —
.. code-block:: text
भवान् शेते
→ भवान् तुक् शेते [**शि तुक्** (8.3.30) इत्यनेन पदान्तनकारस्य पाक्षिकः तुगागमः । **आद्यन्तौ टकितौ** (1.1.46) इति अयम् अन्त्यावयवरूपेण विधीयते ।]
→ भवान् त् शेते [ककारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ भवान् च् शेते [**स्तोः श्चुना श्चुः** (8.4.40) इति तकारस्य शकारे परे श्चुत्वे चकारः]
→ भवाञ् च् शेते [**स्तोः श्चुना श्चुः** (8.4.40) इति नकारस्य चकारे परे श्चुत्वे ञकारः]
→ भवाञ् च् शेते / भवाञ् च् छेते [**शश्छोऽटि** (8.4.63) इति शकारस्य विकल्पेन छकारः]
→ भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते [छत्वपक्षे **झरो झरि सवर्णे** (8.4.65) इति चकारस्य लोपः]
**शि तुक्** (8.3.30) इत्यनेन उक्तः तुगागमः विकल्पेनैव भवति, अतः पक्षे तुगागमं विना "भवान् शेते" अस्यां स्थितौ **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वे "भवाञ्शेते" इति अपि रूपं सम्भवति ।
**चत्वारि रूपाणि**
**प्रकृतसूत्रस्य प्रयोगेण नित्यम् चत्वारि रूपाणि सम्भवन्ति** । एतानि एव सिद्धान्तकौमुद्याम् एकया कारिकया निर्दिष्टानि सन्ति —
ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥
प्रकृतसूत्रस्य प्रक्रियायाम् यदा प्रयोगः भवति, तदा — (अ) पाक्षिकः तुगागमः, (आ) तुगागमे कृते पाक्षिकम् छत्वम्, (इ) छत्वे कृते पाक्षिकः चकारलोपः — इति त्रिषु स्थलेषु नूतनरूपस्य सम्भवः विद्यते, अतः मूलरूपेण सह त्रीणि नूतनानि रूपाणि गृहीत्वा आहत्य चत्वारि रूपाणि सम्भवन्ति, तानि एव अस्यां कारिकायां निर्दिष्टानि सन्ति । एतानि एतादृशानि —
1. प्रकृतसूत्रेण उक्तः वैकल्पिकः तुगागमः नैव क्रियते चेत् केवलं श्चुत्वे कृते **ञ् + श्** इति ञकारशकारसंयोगघटितं रूपं सिद्ध्यति ।
2. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् नैव क्रियते चेत् **ञ् + च् + श्** इति ञकारचकारशकारसंयोगघटितं रूपं सिद्ध्यति ।
3. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् कृत्वा, ततः वैकल्पिकः चकारलोपः न क्रियते चेत् **ञ् + च् + छ्** इति ञकारचकारछकारसंयोगघटितं रूपं सिद्ध्यति ।
4. प्रकृतसूत्रेण उक्तं तुगागमं कृत्वा, ततः श्चुत्वे कृते अग्रे वैकल्पिकं छत्वम् कृत्वा, ततः वैकल्पिकः चकारलोपः अपि क्रियते चेत् **ञ् + छ्** इति ञकारछकारसंयोगघटितं रूपं सिद्ध्यति ।
यथा — **सन् + शम्भुः = सञ्शम्भुः, सञ्च्शम्भुः, सञ्च्छम्भुः, सञ्छम्भुः** ।
**सूत्रे स्थानिनिर्णयः**
प्रकृतसूत्रे "नः" इति पञ्चम्यन्तं पदम् अनुवर्तते, तथा च सूत्रे "शि" इति पदम् सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते, "नः" इति पूर्वनिमित्तम् स्वीकृत्य शकारः स्थानिरूपेण ग्रहीतव्यः, उत "शि" इति परनिमित्तम् स्वीकृत्य नकारः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते), **"शि" इत्यत्र विद्यमानायाः सप्तमीविभक्तेः अन्यत्र कुत्रापि चारितार्थ्यम् न विद्यते अतः अत्र विद्यमाना सप्तमीविभक्तिः स्वस्य अर्थं न त्यजति** — इति निर्णयः अत्र क्रियते । "नः" इत्यत्र विद्यमानायाः पञ्चमीविभक्तेः तु **नश्च** (8.3.30) इत्यस्मिन् पूर्वस्मिन् सूत्रे चारितार्थ्यम् वर्तते, अतः एकस्मिन् स्थले चारितार्थ्यम् प्राप्य सन्तुष्टा जाता इयम् पञ्चमीविभक्तिः प्रकृतसूत्रस्य कृते षष्ठ्या विपरिणमति, अतश्च प्रकृतसूत्रे "नः" इत्यस्य अर्थः 'नकारस्य स्थाने' इति भवति ।
**कित्-आगमस्य प्रयोजनम्**
अस्मिन् सूत्रे **शकारम्** निमित्तरूपेण स्वीकृत्य **नकारस्य** "तुक्" इति कित् आगमः विधीयते । यदि अत्र **नकारम्** निमित्तरूपेण स्वीकृत्य **शकारस्य** "तुट्" इति टित् आगमः पाणिनिना उच्येत, तर्हि अपि सः नकारात् अनन्तरम् विधाय "न् + त् + श्" इति नकारशकारयोः मध्ये एव उपतिष्ठेत । परन्तु एतादृशं क्रियते चेत् शकारस्य अवयवरूपेण विहितस्य तकारस्य ग्रहणम् नकारग्रहणेन न सम्भवति ।अस्यां स्थितौ तकारः पदान्तत्वं न हि प्राप्नुयात्, अतश्च प्रक्रियायाम् **शश्छोऽटि** (8.4.63) इत्यनेन शकारस्य छत्वम् अपि नैव सम्भवेत्, यतः **शश्छोऽटि** (8.4.63) इति सूत्रस्य कृते पदान्तः झय्-वर्णः निमित्तरूपेण आवश्यकः वर्तते, यः अत्र नैव विद्यते । इत्युक्ते, प्रक्रियायां इष्टं छत्वम् टित्-आगमविधानेन नैव सम्भवति । अतएव अत्र **कित्**-आगमः विधीयते, येन तकारः पूर्वस्य (नकारस्य) अन्त्यावयवरूपेण स्वीकृत्य, तस्य पदान्तत्वम् निमित्तरूपेण गृहीत्वा, प्रक्रियायाम् वैकल्पिकः छकारादेशः अपि सम्भवति ।
**कुर्वन् + शेते इत्यत्र अनिष्टस्य णत्वस्य निवारणम्**
प्रकृतसूत्रेण "कुर्वन् + शेते" इत्यत्र नकारस्य तुगागमे कृते, "कुर्वन् त् शेते" अस्यां स्थितौ तकारम् नकारस्यैव अवयवरूपेण स्वीक्रियते, अतः **कुर्वन्त्** इति सम्पूर्णः शब्दः पदसंज्ञकः भवति । इत्युक्ते, अत्र विद्यमानः नकारः पदान्ते नास्ति, अतः तस्य **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन अनिष्टं णत्वम् प्राप्नोति, यस्य **पदान्तस्य** (8.4.37) इत्यनेन निषेधः अपि न सम्भवति । एतादृशम् अनिष्टं णत्वम् निवारयितुम् प्रौढमनोरमायाम् द्वौ उपायौ उक्तौ स्तः —
1. "कुर्वन् + शेते" इत्यत्र प्रकृतसूत्रेण प्राप्तः तुगागमः पदद्वयाश्रितः अस्ति । णत्वम् तु केवलम् एकपदाश्रितम् एव । अतः तुगागमस्य अपेक्षया णत्वम् अन्तरङ्गकार्यम् । अस्यां स्थितौ **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनया परिभाषया बहिरङ्गकार्यम् (तुगागमः) णत्वस्य कृते असिद्धः भवति, अतश्च अत्र तुगागमे कृते अपि णत्वं नैव सम्भवति ।
2. **स्तोः श्चुना श्चुः** (8.4.40) इत्यस्य सूत्रस्य योगविभागं कृत्वा **स्तोः श्चुना** इति भिन्नं सूत्रं रचय्य तत्र **क्षुभ्नादिषु च** (8.4.39) इति पूर्वसूत्रात्'न' तथा 'णः' इति पदद्वयम् अनुवर्त्येते, येन **स्तोः श्चुना णः न** इति पृथक् सूत्रं सिद्ध्यति । इदं सूत्रम् णत्वप्रकरणस्यैव सूत्रम् मत्वा अस्य अर्थः — श्चुत्वे कर्तव्ये णत्वं न कर्तव्यम् — इति भवितुम् अर्हति । इत्युक्ते, प्रक्रियायाः कस्मिंश्चित् सोपाने यदि णत्वम् तथा च श्चुत्वम् - एतौ युगपद् प्राप्नुतः, तर्हि तत्र णत्वस्य अपेक्षया श्चुत्वमेव प्राधान्येन करणीयम् इति अत्र आशयः । अस्य योगविभागस्य साहाय्येन "कुर्वन् त् शेते" इत्यत्र आदौ तकारस्य श्चुत्वे कृते, ततश्च पुनः नकारस्यापि श्चुत्वे कृते इष्टरूपाणि सिद्ध्यन्ति, नकारस्य च अनिष्टं णत्वम् अपि निवार्यते ।
Sutrartha (English)
-------------------
In the context of संहिता, a नकार occurring at end of a पद optionally gets a तुगागम when followed by a शकार.
Vasu English Summary
--------------------
The augment त् may optionally be added to a word ending in न् , when a word beginning with श् follows.
Vasu English Translation
------------------------
The augment त् may optionally be added to a word ending in न् , when a word beginning with श् follows.
Thus भवाञ् च्छेते ॥ The augment is added to the end of the preceding word, and not to the beginning of the second word, in order to change श into छ ॥ In fact, the augment धुट् added to the second would have been as good as तुक्, namely both are त; but then छ change would not have taken place.
Objection:- If this be so, then why न् is not changed to ण्, since it is no longer final in a *pada*, when तुक् is added to it, in कुर्वञ् च्छेते ॥
Answer:- This is to be thus explained. The *sutra* स्तोः श्चुना श्चुः (8.4.40) should be divided into two parts, in order to prevent ण change. Thus the first part will be स्तोः श्चुना, which will mean that स and तु followed by श and चु will not cause the change of न to ण ॥ The next *sutra* will be श्चुः, which will mean that the preceding स and तु are changed to श and चु respectively.
Bhashya
-------
शितुक डः सि धुट् ॥ नश्च ॥ ङ्णोः कुक्टुक शरि ॥ ङमो ह्रस्वादचि ङ्मुण्नित्यम् इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?॥ धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः॥ धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदइति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदइति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति॥ सन्तु तर्हि परादयः॥ परादौ छत्वषत्वविधिप्रतिषेधः(4)॥ यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्॥ किं पुनःकारणं-झयः पदान्तादित्येवं तत्?॥ इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति॥ नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति॥ ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते॥ डः सि धुट्।
Kashika
-------
नकारस्य पदान्तस्य शकारे परतो वा तुगागमो भवति। भवाञ्च्छेते। पूर्वान्तकरणं छत्वार्थम्। यद्येवं कुर्वञ्च्छेते इत्यत्र नकारस्यापदान्तत्वाद् णत्वं प्राप्नोति। तत्र समाधिमाहुः — **स्तोः श्चुना श्चुः** (८.४.४०) इत्यत्र योगविभागः क्रियते णत्वप्रतिषेधार्थम्, स्तोः श्चुना णकारो न भवतीति, ततः श्चुरिति॥
Siddhanta Kaumudi
-----------------
पदान्तस्य नस्य शे परे तुग्वा स्यात् । शश्छोऽटी (SK120)ति छत्वविकल्पः । पक्षे झरो झरी 7ति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्चशंभुः । सञ्शंभुः ॥ ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥
Laghu Siddhanta Kaumudi
-----------------------
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥
Balamanorama
------------
**शि तुक्** - शि तुक् । पूर्वसूत्रात् 'न' इति पञ्चम्यन्तमनुवृत्तमिह षष्ठन्तमाश्रीयते, शब्दाधिकाराश्रयणात् । पदस्ये॑त्यधिकृतम् । अवयवषष्ठन्तमाश्रीयते ।हे मपरे वे॑त्यतोवे॑त्यनुवृत्तं । तदाह-पदान्तस्येति ।नान्तस्य पदस्ये॑त्युचितम् । उकार उच्चारणार्थः ।सन् शम्भु॑रिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहणं व्यर्थं, डः सि धुडित्यतो धुडेवानुवर्त्त्य नकारात्परस्य शस्य विधीयतां । खरि चेति चर्त्वे सन्त्शम्भुरित्यस्य सिद्धेरित्यत आह — शश्छोऽटीति छत्वविकल्प इति ।शकारस्ये॑ति शेषः । धुटो विधौ तु तस्य परादित्वात्पदान्तत्वाऽभावाच्छत्वं न स्यात्, छत्वविधेः पदादिकारस्थत्वेन पदान्ताज्झयः परस्यैव शश्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात् । अन्यथा विसृपो विरफ्शिन्नित्यांदावपि शस्य छत्वापत्तेः । पक्ष #इति । कदाचिज्झरो झरीति तुकस्तकारस्य श्चुत्वमापन्नस्य लोप इत्यर्थः । सञ्छम्भुरिति । तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन ञकारे रूपम् । सञ्च्छम्भुरिति । चुत्वमापन्नस्य तकारस्च लोपाभावे नकारस्य च श्चुत्वे ञकारे रूपम् । तुको जश्त्वं तु न, जश्त्वं प्रति तस्यासिद्धत्वात् । अत एव श्चुत्वोत्तरमपि जश्त्वं न । सञ्च्शम्भुरिति । शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । सञ्शम्भुरिति । तुकोऽभावे नकारस्य चुत्वे रूपम् । तदिदं रूपचतुष्टयमुक्तक्रमं श्लोकेन संगृह्णाति — ञछाविति । तुक्छत्वचलोपानां विकल्पनात्-ञछौ ञचछा ञचशा ञशाविति रूपाणां चतुष्टयमित्यन्वयः ।ङमो ह्रस्वात् । 'ङम्' प्रत्याहारः । 'ङम' इति पञ्चम्यन्तम् । तद्विशेषणत्वात् पदस्येत्यधिकृतं पञ्चम्यन्ततया विपरिणम्यते । 'ङम' इति चह्रस्वा॑दिति विशेषणसम्बन्धमनुभूय पदविशेषणत्वं भजत्तदन्तपरम् । 'ङम' इति पञ्चमी बलादचीति सप्तमी षष्ठर्थे । तदाह — ह्रस्वात्पर इति । ङमुडागम इति । टकार इत् । उकार उच्चारणार्थः । संज्ञायां कृतं टित्त्वमानर्थक्यात्तदङ्गन्यायात्संज्ञिभिः सम्बध्यते । ततश्च ङुट् णुट् नुडिति त्रय आगमाः फलिताः । टित्त्वादच आद्यवयवा यथासङ्ख्यं प्रवर्तन्ते ।हे मपरे वे॑ति वाग्रहणानुवृत्तिशङ्काव्युदासार्थं नित्यग्रहणम् । प्रत्यङ्ङात्मेति । प्रत्यङ्-आत्मा इति स्थिते आकारात्प्राक् ङुट् । सुगण्णीश इति । 'गण संख्याने' चुरादिः । ण्यन्ताद्विचि णिलोपः । नतु क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घप्रसङ्गात् । ङमुटि कर्तव्ये णिलोपस्तु न स्थानिवत्,पूर्वत्रासिद्धे न स्थानिव॑दित्युक्तेः । सुगण्-ईश इति स्थिते ईकारात्प्राक् णुट् । सन्नच्युत इति । सन्-अच्युत इति स्थिते अकारात्प्राक् नुट् । नच परमदण्डिनावित्यत्र परमदण्डिन्-औ इति स्थिते प्रत्ययलक्षणेनाऽन्तर्वतिर्विभक्त्या पदत्वान्नुट् स्यादिति वाच्यम्, 'उत्तरपदत्वे' चापदादिविधा॑विति प्रत्ययलक्षणप्रतिषेधात् । वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्रोत्तरपदस्य कार्यित्वं तत्रैव प्रवर्तते । अन्यथापदव्यवायेऽपी॑ति निषेधोमाषकुम्भवानपेने॑त्यत्र न स्यात् । अतः परमदण्डिनौ इत्यत्र ङमुड्वारणाय 'उञि च वदे' इत्यतः पदे इत्यनुवत्र्याऽजादेः पदस्य ङमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
Tattvabodhini
-------------
**शि तुक्** - शि तुक् ।शी॑ति सप्तमी पूर्वत्र कृतार्थायान॑ इति पञ्चम्याः षष्ठीं कल्पयतीत्याह — नस्येति । चलोप इति ।झरो झरी॑त्यत्र सवर्णग्रहणसामर्थ्याद्यथासङ्ख्यं न प्रवर्तत इति भावः । सञ्छम्भुरिति । इह श्चुत्वतुकोरसिद्धत्वमाश्रित्यनश्छवी॑ति रुत्वं नाशङ्क्यं, छत्वस्याऽसिद्धत्वात् । चतुष्टयमिति । अत्र तुकः श्चुत्वेचयो द्वितीयाः॑ इति पक्षे चस्य छत्वे शस्यापि छत्वविकल्पात्सञ्छ्छम्भुः शञ्छ्शम्भुरिति रूपद्वयवृद्धिर्वोध्या । न च शस्य छत्वपक्षे शर्परत्वाऽभावात्चयो द्वितीयाः-॑ इति पक्षे चस्य छो निति शङ्क्यम्,शश्छोऽटी॑ति छत्वस्याऽसिद्धत्वादित्याहुः ।॒ञछौ ञचछा ञचशा ञशाबिति चतुष्टयम् ।रूपाणामिह तुक्छत्वचलोपानां विकल्पनात्॥॑
Padamanjari
-----------
'शि' इत्येषा सप्तम्यकृतार्था पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठआआ प्रकल्पयति, तदाह - नकारस्येति । अथ किमर्थमपूर्वः पूर्वान्तस्तुक् क्रियते, न प्रकृतः परादिर्धुडेव विधीयेत, तत्रापि चर्त्वेन सिध्यत्येव ? अत आह - पूर्वान्तकरणमिति । पूर्वान्तस्यापूर्वस्यतुकः करणमित्यर्थः । नकारस्यापदान्तत्वादिति । तुका पदान्तताया विहतत्वात् । परादौ तु'पदान्तस्य' इति प्रतिषेधाददोषः । तत्रेत्यादि । तत्र तुको यच्चुत्वं तदाश्रयात्सिद्धं भवति ॥
Nyaas
-----
`शि` इति सप्तम्यकृतार्था `नः` इति पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठीत्वं प्रकल्पयति; **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति वचनात्, तेन नकर एवागमी विज्ञायत इत्याह -`नकारान्तस्य` इत्यादि। अथ किमर्थं तुक्? पूर्वान्तः क्रियते, न प्रकृतो धुडेव परादिः क्रियेत; तथापि चर्त्वेन सिध्यति? इत्यत आह -`पूर्वान्तकरणम्` इत्यादि। पूर्वान्तः=पूर्वस्यान्तः, स पुनः प्रकरणात्? तुग्विज्ञायते, तल्प करणम्=विधानम्, छत्वं यथा स्यादित्येवमर्थम्। यदि प्रकृतो धुडेव विधीयेत, **शश्छोऽटि** (8.4.63) इति च्छत्वं न स्यात्। तत्र च कारणं पूर्वमेवोक्तम्। `यद्येवम्` इत्यादि। यदि पूर्वान्तस्तुक्? क्रियते, कुर्वञ्चेते -इत्यत्र तुका पदान्तताया रहितत्वात्? नकारस्य `अट्कुष्वाङ्` (8.4.2) इत्यनेन णत्वं प्राप्नोति, परादित्वे त्वेष दोषो न भवति; **पदान्तस्य** (8.4.37) इति णत्वपरतिषेधादिति भावः। `तत्र` इत्यादिना **न भाभूपूकमिगमिप्यायीवेपाम्** (8.4.34) इत्यादेः सूत्रान्नेति वर्तमाने **स्तोः श्चुना श्चुः** (8.4.40) इति योगविभागः क्रियते, तेन चवर्गयोगे कुर्वञ्चेते -इत्यत्र णत्वं न भवत्येव। ननु च क्रियमाणेऽपि योगदिभागे णत्वं प्राप्नोत्येव, यस्मादिह चवर्गयोगो नास्त्येव, तुकः श्चुत्वस्यासिद्धत्वात्? योगविभागकरणसामर्थ्यात्? श्चुत्वस्यासिद्धत्वेऽपि णत्वप्रतिषेधो भविष्यतीत्यदोषः॥
Praudhamanorama
---------------
शीति सप्तमी पूर्वत्र कृतायाः 'नः' इति पञ्चम्याः षष्ठीं कल्पयतीत्याह- नस्येति। ननु प्रकृतो धुडेवास्तु किं तुका? मैवम्, **शश्छोऽटि** (8.4.63) इत्यस्य हि पदान्ताज्झयः परस्य शस्य छ इत्यर्थ आकरे स्थितः। एवं च धुटः परादित्वात् सञ्च्छम्भुरित्यत्र च्छो न स्यात्। विपूर्वाद्रपेरौणादिके शप्रत्यये 'मध्वश्चोतन्त्यभितो विरप्शन्' इत्यादौ यथा। अतः पूर्वान्तस्तुक्कृतः। नन्वेवं कुर्वञ्च्शेते इत्यत्र **पदान्तस्य** (8.4.37) इति णत्वनिषेधो न स्यादिति चेन्न, कार्यकालपक्षे बहिरङ्गत्वेन तुकोऽसिद्धत्वात्। यथोद्देशपक्षे 'स्तोः श्चुना' इति योगो विभज्यते। 'न' इति वर्तते 'णः' इति च। स्तोः श्चुना योगे णत्वं न स्यात्। नकारार्थमिदम्। सकारग्रहणं वर्गग्रहणं चोत्तरार्थम्। ततः 'श्चुः'इति। पूर्वमनुवर्तते। एवं **नश्च** (8.3.30) इति सूत्रे कुर्वन्त्सीदतीत्यत्र **पदान्तस्य** (8.4.37) इति णत्वप्रतिषेधो धुटः परादित्वे प्रयोजनमिति प्राचां ग्रन्थोऽपि यथोद्देशपक्षे बोध्यः। यत्तु वदन्ति— इदं प्रयोजनं बहिरङ्गपरिभाषया गतार्थत्वात् प्रत्युक्तमिति। तत्पाक्षिकम्, त्रिपादीस्थेऽन्तरङ्गे बहिरङ्गपरिभाषेयं न प्रवर्तते इति सुद्ध्युपास्य इत्युदाहरणे स्वोक्त्या सह विरुद्धं चेत्यास्तां तावत्। **सञ्च्छम्भुरिति।** इह श्चुत्वतुकोरसिद्धतामाश्रित्य **नश्छवि** (8.3.7) इति रुत्वं न शङ्क्यम्। छत्वस्यासिद्धत्वात्।
Prakriyasarvasvam
-----------------
पदान्तस्य नस्य शे परे वा तुक् स्यात् । सन् त् शौरिः । सन् शौरिः । श्रुत्वम् । सञ् च् शौरिः । सञ् शौरिः । 'शश्छोऽटि' (८-४-६३) इति वा छत्वे । 'झरो झरि सवर्णे' इति चलोपः । सञ्छौरिः । [सञ् च् छौरिः] सञ् च् शौरिः । सञ्शौरिः ।
Sarala
------
**पदस्य** (८.१.१६) इत्यधिकृतम्, **नश्च** (८.३.३०) इत्यतः "नः" इति "वा" चानुवर्तते । "नः" इति पञ्चम्याः "नश्च" इत्यत्र चरितार्थतया "शि" इति सप्तम्याश्च निरवकाशतया पञ्चम्याः षष्ठ्यर्थत्वमित्यभिप्रायेणाह - **पदान्तस्येति** । **सञ्छम्भुरिति** । **ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥** ॥
Sudha
-----
**शि तुगिति । ** पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ्यन्तमाश्रीयते; शब्दाधिकाराश्रयणात् । **पदस्य** (8.1.16) इत्यधिकृतम् अवयवषष्ठ्यन्तमाश्रीयते । **हे मपरे वा** (8.3.26) इत्यतो वेत्यनुवर्तते तदाह — **पदान्तस्य नस्येत्यादिना । ** "सन्-शम्भुः" इत्यत्र कस्य सूत्रस्य प्राप्तिः ? **शि तुक्** (8.3.31) इत्यस्य, तेन पदान्तस्य तुकि कृते **आद्यन्तौ टकितौ** (1.1.21) इत्यनेन नस्यान्तावयवे कृते "सन् तुक् शम्भुः" इति जाते अत्र **हलन्त्यम्** (1.3.3) इत्यनेन कस्येत्संज्ञायाम् **तस्य लोपः** (1.3.9) इत्यनेन लोपे उकारनिवृत्तौ सत्याम् "सन् त् शम्भुः" इति जाते, **शश्छोऽटि** (8.4.63) इत्यनेन शम्भुरित्यस्य शस्य छत्वे कृते "सन् त् छम्भुः" इति जाते, **स्तोः श्चुना श्चुः** (8.4.40) इति तस्य चर्त्वे, पुनः **स्तोः श्चुना श्चुः** (8.4.40) इति नस्य ञत्वे च विहिते "सञ्च्छम्भुः" इति जायते । यत्र **झरो झरि सवर्णे** (8.4.65) इति वैकल्पिकचलोपः, तत्र "सञ्छम्भुः" इति । चलोपाभावे च "सञ्च्छम्भुः" इति । **शश्छोऽटि** (8.4.63) इति छत्वाभावे **स्तोः श्चुना श्चुः** (8.4.40) इति तस्य चत्वे पुनः **स्तोः श्चुना श्चुः** (8.4.40) इत्यनेन नस्य ञत्वे च विहिते "सञ्च्शम्भुः" इति, तुकश्चाभावे तस्य श्चुत्वे च कृते "सञ्शभ्भुः" इति रूपचतुष्टयमत्र बोध्यम् । तथाहि सङ्ग्रहः — 'ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥' — इति ॥