83022: हलि सर्वेषाम् ==================== **Padacheda:** हलि | S | 7 | 1 | सर्वेषाम् | S | 6 | 3 | Sutrartha --------- **भोस्, भगोस्, अघोस् एतेभ्यः परस्य तथा च अवर्णात् परस्य पदान्ते विद्यमानस्य सामान्ययकारस्य लघूच्चारणयकारस्य च संहितायाम् हल्-वर्णे परे लोपः भवति ।** "भोस्", "भगोस्" तथा "अघोस्" एतेषाम् अन्ते विद्यमानस्य सकारस्य, तथा च अवर्णात् (अकारात् / आकारात्) अन्तन्तरम् पदान्ते विद्यमानस्य सकारस्य **ससजुषो रुः** (8.2.66) इत्यनेन रुँत्वे कृते, तस्य हश्-वर्णे परे **भोभगोअघोअपूर्वस्य योऽशि** (8.3.18) इत्यनेन यकारादेशः भवति । अस्य यकारस्य **व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इत्यनेन विकल्पेन लघूच्चारणः यकारः विधीयते । **एतयोः द्वयोः अपि यकारयोः (इत्युक्ते, सामान्ययकारस्य, लघूच्चारणस्य यकारस्य च) प्रकृतसूत्रेण हल्-वर्णे परे लोपः भवति ।** उदाहरणानि एतानि — 1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य यकारस्य हलि परे लोपः "भोस्", "भगोस्" तथा च "अघोस्" —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । **चादयोऽसत्वे** (1.4.57) इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण 'भोस्' इति अव्ययम् मनुष्याणाम् सम्बोधनार्थम्; 'भगोस्' इति अव्ययम् देवानाम् सम्बोधनार्थम्, 'अघोस्' इति अव्ययं च राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य **ससजुषो रुः** (8.2.66) इत्यनेन रुँत्वे कृते, अश्-वर्णे परे तस्य **भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इत्यनेन यकारादेशे कृते, प्रकृतसूत्रेण हल्-वर्णे परे अयम् यकारः लुप्यते । 1. "भोस्-जनाः" इत्यत्र यकारलोपः — .. code-block:: text भोस् जनाः → भोरुँ जनाः [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् । → भोय् जनाः [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → भोय् / भोय्॔ जनाः [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → भो जनाः [**हलि सर्वेषाम्** (8.3.20) इति उभयप्रकारयोः यकारयोः लोपः] 2. "भगोस् देवाः" इत्यत्र यकारलोपः — .. code-block:: text भगोस् देवाः → भगोरुँ देवाः [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → भगोय् देवाः [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → भगोय् / भगोय्॔ देवाः [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → भगो देवाः [**हलि सर्वेषाम्** (8.3.20) इति उभयप्रकारयोः यकारयोः लोपः] 3. "अघोस् राक्षसाः" इत्यत्र यकारलोपः — .. code-block:: text अघोस् राक्षसाः → अघोरुँ राक्षसाः [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → अघोय् राक्षसाः [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → अघोय् / अघोय्॔ राक्षसाः [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इति पदान्तयकारस्य अश्-वर्णे परे वैकल्पिकः लघूच्चारणः यकारः] → अघो राक्षसाः [**हलि सर्वेषाम्** (8.3.20) इति उभयप्रकारयोः यकारयोः लोपः] 2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-यकारस्य हलि परे लोपः अकारात् उत आकारात् अनन्तरम् पदान्ते यकारः विधीयते चेत् हल्-वर्णे परे प्रकृतसूत्रेण तस्य लोपः भवति । द्वे उदाहरणे एतादृशे — 1. "देवा + जस् + गच्छन्ति" इत्यत्र यकारलोपः — .. code-block:: text देवा जस् गच्छन्ति → देवास् गच्छन्ति [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घः आकारः] → देवारुँ गच्छन्ति [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → देवाय् गच्छन्ति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः] → देवाय् / देवाय्॔ गच्छन्ति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इति वैकल्पिकः लघूच्चारणः यकारः] → देवा गच्छन्ति [**हलि सर्वेषाम्** (8.3.20) इति उभयप्रकारयोः यकारयोः लोपः] 2. "विश्वपा + सुँ + हसति" इत्यत्र यकारलोपः — .. code-block:: text विश्वपा सुँ हसति → विश्वपा रुँ हसति [**ससजुषोः रुँः** (8.2.66) इति पदान्तसकारस्य रुँत्वम् ] → विश्वपाय् हसति [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति अश्-वर्णे परे यकारादेशः] → विश्वपाय् / विश्वपाय्॔ हसति [**व्योर्लघुप्रयत्नतरः शाकटायनस्य** (8.3.18) इति वैकल्पिकः लघूच्चारणः यकारः] → विश्वपा हसति [**हलि सर्वेषाम्** (8.3.20) इति उभयप्रकारयोः यकारयोः लोपः] **'हलि' इत्यस्य 'हशि' इत्येव अर्थः** यद्यपि अस्मिन् सूत्रे 'हलि' इति निर्देशः कृतः अस्ति, तथापि पदान्तयकारस्य निर्माणम् अच्-वर्णे परे, हश्-वर्णे च परे एव सम्भवति । तत्र अच्-वर्णे परे तु पदान्तयकारस्य **लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन लोपः भवति । हश्-वर्णे परे पदान्तयकारस्य नित्यम् एव लोपः इष्यते, तदर्थम् प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । अतएव अस्मिन् सूत्रे "अशि" इति शब्दस्य अनुवृत्तिं कृत्वा तस्य "हलि" शब्देन सह अन्वयः क्रियते, येन "अशि हलि लोपः भवति" इति अर्थः सिद्ध्यति । वस्तुतस्तु, अत्र "अशि" इति शब्दस्य अनुवृत्तेः अन्यद् अपि एकम् प्रयोजनम् वर्तते; तदित्थम् ‌— प्रकृतसूत्रे "व्योः" इत्यस्मात् केवलम् यकारस्यैव अनुवृत्तिः इष्यते; यतः यदि अत्र वकारस्यापि अनुवृत्तिः क्रियते तर्हि "वृक्षव् करोति" एतादृशेषु क्लिष्टस्थलेषु प्रकृतसूत्रेण अनिष्टः वकारलोपः सम्भवति, यः न इष्यते । परन्तु अत्र केवलम् यकारस्य अनुवृत्तिं कर्तुम् कश्चन बाधः अस्ति । यकारः पूर्वस्मिन् सूत्रे स्वतन्त्रपदरूपेण न हि विद्यते, अपि तु "व्योः" इति पदस्य अंशरूपेण विद्यते ।अतः अनुवृत्तिः करणीया चेत् "व्योः" इत्यस्यैव भवेत्, न हि तस्य केवलम् एकस्य अंशस्य, इति **एकयोगविशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः** अनया परिभाषया स्पष्टीक्रियते । अतः अस्मिन् सूत्रे "व्योः" इत्येव पदम् अनुवृत्तिरूपेण स्वीकृत्य, "अशि" इति पदम् अपि अनुवृत्तिरूपेण स्वीक्रियते, येन "अशि हलि परे" इति अर्थः सिद्ध्यति । एतादृशेन अर्थेन "वृक्षव् करोति" इत्यत्र अनिष्टः वकारलोपः निवार्यते, यतः अस्मिन् वाक्ये पदान्तवकारात् अनन्तरम् ककारः अस्ति, यः यद्यपि हल्-वर्णः अस्ति तथापि अश्-वर्णः नास्ति । अनेन प्रकारेण प्रकृतसूत्रे "अशि" इति शब्दं अनुवर्त्य अनिष्टः वकारलोपः निवार्यते । "वृक्षव्" इति क्लिष्टप्रयोगः कथं सिद्ध्यति इति जिज्ञासूनाम् लाभाय अधः दर्शितम् अस्ति । .. code-block:: text वृक्षं वाति [इति कृद्वृत्तिः । The one who moves the tree. E.g. wind.] → वृक्ष + वा + विच् [**अन्येभ्योऽपि दृश्यते** (3.2.75) इति विच्-प्रत्ययः] → वृक्ष + वा + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः । कृदन्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा] → वृक्ष + वा + णिच् [ इति वार्त्तिकेन 'वृक्षवाम् आचष्टे' (to speak about the वृक्षवा) अस्मिन् अर्थे णिच्-प्रत्ययः । णिजन्तस्य **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा विधीयते ।] → वृक्ष + व् + इ [ इति वार्त्तिकेन णिच्-प्रत्ययः इष्ठन्-प्रत्ययवत् कार्यम् करोति, अतः **टेः** (6.4.155) इत्यनेन अत्र टिलोपः भवति । ] → वृक्षवि + क्विप् [कर्त्रर्थे **क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः। The one who speaks about वृक्षवा — इत्यर्थः] → वृक्ष + व् + ० [**णेरनिटि** (6.4.51) इति णिच्-प्रत्ययस्य लोपः । **आतो लोप इटि च** (6.4.64) इति आकारलोपः । क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति । कृदन्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा भवति ।] → वृक्षव् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → वृक्षव् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः । **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ।] अनेन प्रकारेण "वृक्षव्" इति शब्दः सिद्ध्यति । अस्मात् शब्दात् अनन्तरम् "करोति" इति शब्दं संस्थाप्य "वृक्षव् करोति" इति प्रयोगः भाष्यकारेण लण्-सूत्रस्य भाष्ये कृतः अस्ति, तस्यैव अत्र सन्दर्भः व्याख्यानेषु दत्तः दृश्यते, ततश्च "करोति" इत्यत्र विद्यमानस्य ककारस्य अश्-प्रत्याहारेण अग्रहणात् प्रकृतसूत्रस्य अत्र प्रयोगः न भवति इति समाधानम् कृतम् लभ्यते । यद्यपि एतत् स्पष्टीकरणम् "वृक्षव् करोति" इत्यत्र वकारलोपं निवारयति, तथापि "वृक्षव् हसति" इत्यादिषु प्रयोगेषु तादृशं स्पष्टीकरणम् नैव दातुं शक्यम्, यतः हकारः अश्-प्रत्याहारे अवश्यम् अन्तर्भवति । अतः "वृक्षव् हसति" इत्यत्र प्रकृतसूत्रेण वकारलोपः अवश्यम् सम्भवति । परन्तु एतादृशानि उदाहरणानि न हि कुत्रचित् दृश्यन्ते । तदेव न, अपितु "वृक्षव्" शब्दस्य साधुत्वम् अपि शङ्क्यम् एव, यतः लण्-सूत्रस्य भाष्ये एव भाष्यकारेण 'हकार-यकार-वकार-रेफ-लकारान्ताः शब्दाः न विद्यन्ते' इति निर्देशः कृतः अस्ति । **बाध्यबाधकभावः** **लोपः शाकल्यस्य** (8.3.19) तथा च **ओतो गार्ग्यस्य** (8.3.20) इति उभाभ्याम् सूत्राभ्याम् अश्-वर्णे परे पदान्तयकारस्य लोपः विधीयते । तत्र **लोपः शाकल्यस्य** (8.3.19) इत्यनेन वैकल्पिकः लोपः भवति, **ओतो गार्ग्यस्य** (8.3.20) इत्यनेन च नित्यः लोपः भवति । एतयोः द्वयोः अपि सूत्रयोः यद्यपि "अशि" इति निर्दिष्टम् अस्ति, तथापि एतयोः प्रयोगः अच्-वर्णे परे एव भवति । हश्-वर्णे परे तु प्रकृतसूत्रेण एते द्वे अपि सूत्रे बाध्येते । इत्युक्ते **हलि सर्वेषाम्** (8.3.22) इति सूत्रम् **लोपः शाकल्यस्य** (8.3.19) तथा च **ओतो गार्ग्यस्य** (8.3.20) एतयोः द्वयोः अपि बाधकरूपेण प्रवर्तते । Sutrartha (English) ------------------- In the context of संहिता, all the grammarians say that the normal यकार as well as the लघु-उच्चारण-यकार is removed when it is followed by a हल्-letter, provided that such a यकार occurs at end of a पद and comes after the letter अ , or if such a यकार occurs at the end of the words भोस्, भगोस्, or अघोस्. Vasu English Summary -------------------- (The य् when preceded by 1. भो 2. भगो 3. अघो 4. अ or 5. आ , is elided) before a consonant according to the opinion of all आचार्रचा-s. Vasu English Translation ------------------------ (The य् when preceded by 1. भो 2. भगो 3. अघो 4. अ or 5. आ , is elided) before a consonant according to the opinion of all आचार्रचा-s. Thus भो हसति, भगो हसति, अघो हसति; भो याति, भगो याति अघो याति, वृक्षा हसन्ति ॥ Though the *anuvritti* of व् and य् both is present here, yet we have taken य only to the exclusion of व् ॥ Because भो, भगो and अघो there is य् only, and never व्; and व् can come only when preceded by अ or आ : the only example of which given by Grammarians is वृक्षव् करोति (8.3.17). Here व् is not elided, because the word अशि qualifies the word हलि of this *sutra*. Question:- But व् should be elided in वृक्षव् हसति, because ह is an अश् letter. Answer:- There is no such example to be found in any standard author. Moreover *Patanjali* in his commentary on the *Pratyahara* *sutra* लण् says that no words can end in ह्, य्, र्, व् or ल् ॥ So that the existence of the very word वृक्षव् is doubtful. The word *sarvesham* indicates that (8.3.18), even does not apply, and there is no light articulation, but *lopa* there too. Kashika ------- हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषांग्रहणं शाकटायनस्यापि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूदिति॥ Siddhanta Kaumudi ----------------- भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥ Laghu Siddhanta Kaumudi ----------------------- भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥ Balamanorama ------------ **हलि सर्वेषाम्** - हलि सर्वेषाम् ।भोभगोअघोअपूर्वस्ये॑त्यनुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो यकारग्रहणमनुवर्तते । तदाह — भोभगो इति । लघ्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः । 'अव्यपर' इति निर्देशादिति तदाशयः । वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः । णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः । सर्वेषां मतेनेति । सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम् । अत्र यदिविभाषा भवद्भगवदघवतामोच्चावस्ये॑ति वार्तिकेनमातुवसो रु सम्बुद्धौ॑ इत्यत्र पठितेनएषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे॑त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुंलिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत् । अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति — भो देवा इत्यादि । देवा म्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात् । Tattvabodhini ------------- **हलि सर्वेषाम्** - द्विस्त्रिश्चतुरिति । इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते । कृत्वोर्थग्रहणं तुसाहचर्यं न सर्वत्र व्यवस्थपक॑मित्यत्र ज्ञापकम् । तेनदीधीवेवीटा॑मित्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम् । चतुष्कपाल इति । चतुर्षु कपालेषु संस्कृत इत्यर्थेसंस्कृतं भक्षाः॑इत्यणोद्विगोर्लुगनपत्ये॑ इति लुक् । अत्र मनोरमायाम्-॒इदुदुपधस्येति नित्यं ष॑इत्युक्तम् । एवं चद्वितं त्रितमिति चतुःपञ्चाश॑दिति स्वमूलग्रन्थे प्रयोगश्चिन्त्यः स्यात्, चतुष्कपालवत्तत्रापि नित्यतया षत्वप्रवृत्तेः । अतोऽत्र षत्वनिवारणायअप्रत्ययस्ये॑त्यत्रप्रत्ययस्य यो विसर्जनीयो न भवती॑त्यर्थ एव स्वीकर्तव्यः ।चतुष्कपाल॑ इत्यत्र (तु) कस्कादेराकृतिगणत्वात्षत्वप्रवृत्तिरित्याहुः । Padamanjari ----------- यकारस्य पदान्तस्येति । वकारस्तु भोभगोअघोपूर्वो न सम्भवति । अवर्णपूर्वस्तु सम्भवति -वृक्षव् करोतीति । तस्य तु लोपो न भवति, अशि हलीति विशेषणादित्युक्तम् । तस्माद्यकारस्येत्युक्तम् । ननु वृक्षव् हसतीत्यादौ सम्भवति ? न सम्भवति; अनभिधानात्, नह्यएवंविधमभिधानमस्ति । तथा च'लण्' इत्यत्र भाष्यकार आह -'न पदान्ता हलो' णः सन्तिऽ इति । एवं च वृक्षव् करोतीत्ययमपि प्रयोगश्चिन्त्यः ॥ Nyaas ----- `भोभगोअघोअपूर्वस्व` इति। भोभगोअघोपूर्वस्य वकारस्यासम्भवात्। अवर्णपूर्नस्तु वकारः सम्भवति। तस्य तु पूर्वमेव `हलि सर्वेषाम्` इत्यनेन लोपो न भवतीति दर्शितम्। तेनेह यकारस्यैव ग्रहणं न वकारस्य, तस्य लोपो न भवतीति दर्शितम् -`भोभगोअघोअपूर्वस्य` (8.3.17) इत्यादौ सूत्रे। तत्राश्ग्रहणं किमर्थम्? हलि सर्वेषामित्ययं लोपोऽशि हलि यथा स्यात्, इह मा भूत् -वृक्ष वृश्चतीति वृक्षवृट्, तमाचष्ट इति णिच्, वृक्षववति, वृक्षवयतेरप्रत्ययः वृक्षव् -`वक्षव्? करोति` इति। एवमश्ग्रहणस्य प्रयोजनं दर्शयतामेन सूत्रेणाशि हलि वकारस्यावर्णपूर्वस्य लोपो न भवतीत्युक्तं भवति। ननु चावर्णपूर्वस्येत्यस्यानुवृत्तिरयुक्ता; पूर्वसूत्रे चानुकृष्टत्वात्, तत्कथमवर्णपूर्वस्य लोपो भवतीति? नैतदस्ति; `चानुकृष्टमुत्तरत्र्नानुवर्तते` (व्या।प।76) इति प्रायिकमेतत्। कथं ज्ञायते? **एकाजुत्तरपदे णः** (8.4.12) इत्यत्र `णः` इति प्रकृते पुनर्णग्रहणम्, **वा भावकरणयोः** (8.4.10) इत्यत्र `वा` इति यदनुवृत्तं तन्निवृत्त्य्र्थ कृतम्। यदि चेदं प्रायिकं न स्यात्, पुनर्णग्रहणमनर्थम्; पूर्वसूत्रे चानुकृष्टत्वादेव हि वाग्रहणस्यानुवृत्तिर्न भविष्यतीति किं पुनर्णग्रहणेन? कृतञ्च, ततोऽवसीयते -चानुकृष्टपरिभाषाऽनित्येति। `शाकटायनस्यापि लोपो यथा स्यात्` इति। अपिशब्दाच्छाकल्यस्यापि। असति तु सर्वग्रहणे प्रत्यासन्नस्य गाग्र्यस्य मतेन लोप एव विज्ञायेत॥ Praudhamanorama --------------- **यकारस्येति।** वकारस्तु नानुवर्तते, भोभगोअघोपूर्वस्यासम्भवात्। अपूर्वस्तु यद्यपि सम्भवति वृक्षव् करोतीति, तथापि तत्र लोपाप्रसङ्गः, अशीत्यनुवर्त्याशा हलो विशेषणात्। वृक्षव् हसतीत्यादि तु अनभिधानादसाध्वित्याहुः। गव्यमित्यत्र तु पदान्तत्वं नास्ति, गव्यूतिरित्यत्र तु वकारप्रश्लेषान्न वलोप इत्युक्तम्। ननु देवा नम्या इत्यादौ **लोपो व्योः—** (6.1.76) इत्येव सिद्धम्। मैवम्, तं प्रति यत्वस्यासिद्धत्वात्; देवा यान्तीत्यत्र वल्परत्वाभावाच्च। Prakriyasarvasvam ----------------- सम्बद्धार्थत्वे इसुसन्तयोर्विसर्गस्य कुप्वोर्वा सः स्यात् । हविष्खादति । सर्पिष्पिबति । धनुष्कर्षति । वपुष्पश्यति । विकल्पात् हविः खादति इत्यादि । मिथोऽसम्बन्धे तु न । तिष्ठतु सर्पिः पिबोदकम् । हलि परे तु 'भोभगोअघोअपूर्वस्य' (८-३-१७) इत्युक्तयकारस्य सर्वमतेऽपिः लोपः स्यात् । भो हरे । भगो नमस्ते । अघो याहि । पापा वर्ज्याः । अवर्णपूर्वत्वाभावे तु रोः श्रुतिरेव । हरिरयम् । बभ्रुर्नम्यः । Sarala ------ **भोभगोअघोअपूर्वस्य योऽशि** (८.३.१७) इत्यतः "भोभगोअघोअपूर्वस्य" इति, **व्योर्लघुप्रयत्नतरः शाकटायनस्य** (८.३.१८) - इत्यतो "व्योः" इति, **लोपः शाकल्यस्य** (८.३.१९) इत्यतो "लोपः" इति चानुवर्त्तते । तत्र वस्यैतत्पूर्वस्याऽसम्भवाद्यकारस्येति लब्धन्तदाह - **भोभगोअघोअपूर्वस्य यस्येत्यादि** ॥ Sudha ----- "भोस् देवाः" इत्यत्र **ससजुषो रुः** (8.2.66) इति सस्य रुत्वे **भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इत्यनेन रोर्यत्वे **हलि सर्वेषाम्** (8.3.22) इति यलोपे च "भो देवा" इति रूपम् । "भगोस् नमस्ते" इति दशायां **ससजुषो रुः** (8.2.66) इति सस्य रुत्वे **भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रोर्यत्वे **हलि सर्वेषाम्** (8.3.22) इति यलोपे च "भगो नमस्ते" इति जायते । "अघोस् याहि" इत्यत्र **ससजुषो रुः** (8.2.66) इति सस्य रुत्वे **भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रोर्यादेशे **हलि सर्वेषाम्** (8.3.22) इति यलोपे च कृते "अघो याहि" इति रूपं सिद्धम् ॥ Sutra Prayogas -------------- * **भाभिः** (शिशुपालवधम्): `हलि सर्वेषाम्` इति यकारलोपः। * **पुनरुक्तरक्तभाभिः** (शिशुपालवधम्): `हलि सर्वेषाम्` इति यकारलोपः।