83014: रो रि
============
**Padacheda:** रः | S | 6 | 1 |
रि | S | 7 | 1 |
Sutrartha
---------
**रेफस्य संहितायाम् रेफे परे लोपः भवति ।**
संहितायाम् रेफात् परः पुनः रेफः विद्यते चेत् प्रथमरेफस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदम् सूत्रम् **पदस्य** (8.1.16) अस्मिन् अधिकारे विद्यते, अतः पदान्तरेफस्य रेफे परे अनेन सूत्रेण लोपः सम्भवति । कासुचित् (क्लिष्टासु) प्रक्रियासु तु अपदान्तरेफस्य अपि रेफे परे अनेन सूत्रेण लोपः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
पदान्तरेफस्य रेफे परे लोपः —
**1)पुनर् इत्यस्य अव्ययस्य पदान्तरेफस्य 'रमते' इति शब्दे परे प्रकृतसूत्रेण लोपः भवति** —
.. code-block:: text
पुनर् + रमते
→ पुन रमते [**रो रि** (8.3.14) इति रेफस्य लोपः]
→ पुना रमते [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इति अकारस्य दीर्घः]
**2) सुँ-प्रत्ययात् निर्मितस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति ** —
.. code-block:: text
शम्भु + सुँ + राजते
→ शम्भु रुँ + राजते [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्]
→ शम्भु र् + राजते [इत्संज्ञालोपः]
→ शम्भु राजते [**रो रि** (8.3.14) इति रेफस्य लोपः]
→ शम्भू राजते [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इति उकारस्य दीर्घः]
**3) ङसिँ-प्रत्ययस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति ** —
.. code-block:: text
मातृ + ङस् + रक्षा
→ मातृ + अस् + रक्षा [इत्संज्ञालोपः]
मातुर् स् + रक्षा [**ऋत उत्** (6.1.111) इति ऋकार-अकारयोः एकः उकारादेशः, सः च **उरण् रपरः** (1.1.51) इति रपरः]
→ मातुर् रक्षा [**रात्सस्य** (8.2.24) इति रेफात् परस्य सकारस्य लोपः । अवशिष्टस्य 'मातुर्' इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
→ मातु रक्षा [**रो रि** (8.3.14) इति रेफस्य लोपः]
→ मातू रक्षा [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः]
**4) 'निर्' इति प्रादिसंज्ञकस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति ** —
.. code-block:: text
निर्गतः रसः यस्य सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ निर् + रस [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ नि रस [**रो रि** (8.3.14) इति रेफस्य रेफे परे लोपः]
→ नीरस [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः]
अपदान्तरेफस्य रेफे परे लोपः —
"स्पर्धँ (सङ्घर्षे)" इति भ्वादिगणस्य धातुः । अस्य धातोः यङ्लुगन्तस्य लङ्लकारस्य मध्यमपुरुषएकवचनस्य रूपम् "अपास्पाः" इत्यस्य प्रक्रियायाम् इदं सूत्रम् अपदान्तरेफस्य लोपार्थम् प्रयुज्यते । प्रक्रिया इयम् —
.. code-block:: text
स्पर्धँ (सङ्घर्षे,भ्वादिः (1.3))
→ स्पर्ध् + यङ् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इति पौनःपुन्यार्थं यङ्-प्रत्ययः]
→ स्पर्ध् + स्पर्ध् + यङ् [**सन्यङोः** (6.1.9) इत्यनेन यङ्-प्रत्यये परे अङ्गस्य एकाच्-अवयवस्य द्वित्वम् भवति ।]
→ प + स्पर्ध् + यङ् [**शर्पूर्वाः खयः** (7.4.61) इति अभ्यासस्य खय्-वर्णः अवशिष्यते ]
→ पा + स्पर्ध् + यङ् [**दीर्घोऽकितः** (7.4.83) इति अभ्यासस्य दीर्घः]
→ पा + स्पर्ध् [**यङोचि च** (2.4.74) इति यङ्-प्रत्ययस्य बहुलम् लुक् । चकारग्रहणसामर्थ्यात् अच्-प्रत्ययस्य अनुपस्थितौ अपि अयं लुक् भवति ।]
→ पा + स्पर्ध् [**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा]
→ पा + स्पर्ध् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + पा + स्पर्ध् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + पा + स्पर्ध् + सिप् [**तिप्तस्झि...** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ अ + पा + स्पर्ध् + शप् + सि [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ अ + पा + स्पर्ध् + सि [**चर्करीतं च** (2.76) इति धातुपाठस्थ-गणसूत्रेण यङ्-लुगन्ताः अदादिगणे स्वीक्रियन्ते; अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य **अदिप्रभृतिभ्यः शपः** (2.4.72) इति लुक् भवति ।]
→ अ + पा + स्पर्ध् + स् [**इतश्च** (3.4.100) इति प्रत्ययस्य इकारस्य लोपः]
→ अ + पा + स्पर्ध् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सिप्-प्रत्ययस्य अपृक्तसकारस्य लोपः । अत्र सकारलोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः अत्र अवशिष्टस्य अंशस्य **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदसंज्ञा विधीयते ।]
→ अ + पा + स्पर्द् [**झलां जशोऽन्ते** (8.2.39) इति पदान्ते झल्-वर्णस्य जश्त्वम् । अत्र **संयोगान्तस्य लोपः** (8.2.23) इति संयोगान्तलोपः नैव प्रवर्तते, **रात्सस्य** (8.2.24) इति नियमात् ।]
→ अ + पा + स्पर् रुँ [**दश्च** (8.2.75) इति दकारस्य रुँत्वम्]
→ अ + पा + स्प र् [**रो रि** (8.3.14) इति रेफे परे **अपदान्तस्य रेफस्य** लोपः]
→ अ + पा + स्पा र् [**ढ्रलोपे पूर्वस्य दीर्घोणः** (6.3.111) इति अकारस्य दीर्घः]
→ अ + पा + स्पाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः]
→ अपास्पाः
**आश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम्**
प्रकृतसूत्रेण रेफस्य लोपे कृते, तस्मात् रेफात् पूर्वम् अण्-वर्णः विद्यते चेत् **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन तस्य दीर्घादेशः क्रियते । अतः प्रकृतसूत्रम् **ढ्रलोपे पूर्वस्य दीर्घोऽणः** एतस्य कृते आश्रयात् सिद्धम् ज्ञेयम् ।
वस्तुतस्तु, **ढ्रलोपे पूर्वस्य दीर्घोऽणः** इति सूत्रस्य सपादसप्ताध्याय्याम् स्थापनस्य प्रयोजनम् चिन्त्यम् एव । **ढ्रलोपे पूर्वस्य दीर्घोऽणः** इत्यस्मात् अनन्तरम् केवलम् **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति सूत्रम् **रो रि** (8.3.14) तथा च **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्येतयोः मध्ये संस्थाप्यते चेदपि नैव दोषाय । एतादृशं क्रियते चेत् **ढ्रलोपे पूर्वस्य दीर्घोऽणः** अस्मिन् सूत्रे विद्यमानस्य 'पूर्वस्य' इति शब्दस्य आवश्यकता अपि न वर्तते इति अन्यः लाभः अपि जायते । अस्मिन् विषये **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यत्रापि विवरीतम् अस्ति ।
Sutrartha (English)
-------------------
A रेफ is removed when it is followed by another रेफ in the context of संहिता.
Vasu English Summary
--------------------
There is elision of र् when र् follows.
Vasu English Translation
------------------------
There is elision of र् when र् follows.
The *sutra* is रः रि, and not रोः रि ॥ That is रो रि is the form which रः रि and रोः रि will both assume. रः is the Genitive of र्, and रोः would be the Genitive of रु ॥ The *sutra* is not confined to रु only, but to every र् in general including रु ॥ Thus नीरक्तम्, दूरक्तम्, where it is simple र् of निर् and दुर्; and अग्नी रथः, and इन्दू रथः where it is रु (अग्निः रथः, इन्दुः रथः). The lengthening is by (6.3.111). The word पदस्य is understood here, and the Genitive here has the force of विशेषण i. e. a quality, or *avayava*-*shashthi*; i. e. when रेफ is a portion of the *pada*. Thus a रेफ which is not at the end of a *pada* is also elided. Had the Genitive been construed as *sthana*-*shashthi*, then रेफ would qualify पद, and the rule would mean "र् should be elided before a र् when at the end of a word." See (8.1.16). But we have the elision of the penultimate र् in अजर्घर्र् the second person singular of the Imperfect of the Intensive, and we get the form अजर्घाः ॥ See (8.2.37). So also अपास्पाः from स्पर्ध in Intensive, Imperfect. The reduplicate is lengthened by (7.4.83), the शप् is elided, and सिप् is elided by (6.1.68), the final ध् is changed to द् by (8.2.39), and this द् changed to र् by (8.2.75).
Kashika
-------
रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्येत्यत्र विशेषणे षष्ठी, तेनापदान्तस्यापि रेफस्य लोपो भवति। जर्गृधेरजर्घाः,पास्पर्धेरपास्पा इति॥
Siddhanta Kaumudi
-----------------
रेफस्य रेफे परे लोपः स्यात् ॥
Laghu Siddhanta Kaumudi
-----------------------
रेफस्य रेफे परे लोपः ॥
Balamanorama
------------
**रो रि** - रो रि । 'र' इति षष्ठी । 'ढो ढ लोप' इत्यतो 'लोप' इत्यनुवर्तते, तदाह-रेफस्येति । पुनर्-रमते इति स्थिते रेफस्य लोपः ।
Tattvabodhini
-------------
**रो रि** - विसर्गापवाद इति । मो राजिवद्रेफस्य रेफो विधीयते विकारनिवृत्त्यर्थमिति भावः ।
Padamanjari
-----------
किमिदं सानुबन्धकस्य रोर्ग्रहणम् ? आहोस्विद्रेफस्य ? कुतः संशयः ? तुल्यात्र संहिता - रोः रि, रः रीति । किं चातः ? यदि सानुबन्धकस्य ग्रहणम्, सिद्धमिन्दूरथः अग्नीरथः; इदं तु न सिध्यति - नीरक्तम्, दूरक्तमिति । अथ रेफस्य ग्रहणम्, सिद्धं नीरक्तं दूरक्तमिति; इदं तु न सिध्यतिअग्नीरथः, इन्दूरथ इति,'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति ? नैष दोषः, वर्णग्रहणेषु नैषा परिभाषा प्रवर्तते । पदस्येत्यत्र विशेषणे षष्ठीति । एतच्च'पदस्य' 'पदात्' इत्यत्रैव व्याख्यातम् । तेन किं सिद्धं भवति ? इत्याह - तेनेति । स्थानषष्ठ।लं तु रेफेण पदस्य विशेषणाद्रेफान्तस्य पदस्य लोपेन भवितव्यम् । अजर्घा इति । ठेकाचो बशो भष्ऽ इत्यत्रैतद् व्युत्पादितम् । अपास्पा इति ।'स्पर्द्ध सङ्घर्षे' , यङ्लुकि'दीर्घो' कितःऽ इति दीर्घः, लङ् इसिपि शपो लुक्, सिपो हल्ङ्यादिलोपः; जश्त्वम्,'दश्च' इति रुत्वम् ॥
Nyaas
-----
किं पुनरिदं सानुबन्धकारस्य रेफस्य ग्रहणम्? उत्त निरनुबन्धकस्य? किञ्चात्र यदि सानुबन्धकस्य ग्रहणम्? सिद्धम् -अग्नीरथः, इन्दूरथ इति; नीरक्तं दूरक्तमिति तु न सिध्यति। अथ निरनुबन्धकरस्य ग्रहणम्? तदा सिध्यति -नीरक्तम्, दूरक्तमिति; अग्नीरथः, इन्दूरथ इति न सिध्यति? नैष दोषः; इह तन्तेणाचार्यः `रो रि` इति द्वे सूत्रे उच्चारितवान्, तत्रैकत्र सानुबन्धकस्य ग्रहणम्, अपरत्र निरनुबन्धकस्येति। नीरक्तमित्यादौ **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घत्वम्। इह यदि पदस्येति स्थानषष्ठी स्यात्, ततः **अलोऽन्त्यस्य** (1.1.52) इति पदान्तस्यैव [`पदान्तस्य` -कांउ।पाठः] रेफस्य [अयं भागः कांउ।पाठे नास्ति]लोपः स्यात् -नीरक्तमित्यादौ। अजर्धा इत्यादौ त्वपदान्तस्य[अयं भागः कांउ।पाठे नास्ति] न स्यात्; विशेषणषष्ठआं त्वस्यामिहापि भवतीत्येतच्चेतसि कृत्वाऽऽह -`पद्स्य` इत्यादि। विशेषणषष्ठआं हि पदस्येत्यस्यैवमभिसम्बन्धः क्रियते -पदस्यावयवो यो रेफस्तस्य रेफे परतो लोपो भवतीति। तेनापदान्तस्यापि भवति। `अजर्धाः` इति। `एकाचो बशो भव्` (8.2.37) इत्यादौ सूत्र इवं व्युत्पादितम्। `अपास्पाः` इति। `स्पद्र्ध सङ्घर्षे` (धातुपाठः-3) असमाद्यङ्, द्विर्वचनम्, **शर्पूर्वाः खयः** (7.4.61) इति खयः शेषः, **दीर्घोऽकितः** (7.4.83) इति दीर्घत्वम्, **यङोऽचि च** (2.4.74) इति यङो लुक्; पास्पद्र्ध इति स्थिते लङ् अडापमः, सिप्, `चर्करौतञ्च` (धातुपाठः-1081) इत्यादिषु पाठाच्छपो लुक्, सिपो इल्ङ्यादिना (6.1.66) लोपः, जश्त्वेन धकारस्य दकारः, `दश्च` (8.2.75) इति तस्यैव दकारस्य रुत्वम्, तत्रानेन रेफस्य लोपः, पूर्ववद्दीर्धत्वम्। योगविभागकरणमुत्तरार्थम्, उत्तरसूत्रे रेफस्यानुवृत्तिर्यथा स्यादित्येवमर्थम्; इतरथा हि ढकारस्यापि ततरानुवृत्तिः स्यात्, ततश्च तस्यापि विसर्जनीयः प्रसज्येत॥
Prakriyasarvasvam
-----------------
रेफस्य रेफे परे लोपः स्यात् ।
Sarala
------
**रोरीति** । सूत्रे **रः** - षष्ठ्यन्तं, **रि** - सप्तम्यन्तम् । **ढो ढे लोपः** (८.३.१३) इति सूत्रात् लोपपदानुवृत्तेराह - **लोप इति** ॥
Sudha
-----
**रो रीति ।** रः इति षष्ठी । **ढो ढे लोपः** (8.3.13) इत्यतो लोप इत्यनुवर्तते, तदाह — "रेफस्येति " ॥
Sutra Prayogas
--------------
* **पुना रोद्धुम्** (शिशुपालवधम्): `रो रि` इति रलोपः।
* **नीलमूर्ती** (शिशुपालवधम्): `रोरि` इति रेफलोपः।
* **** (भट्टिकाव्यम्): `रोरि` इति रेफलोपः।