83004: अनुनासिकात् परोऽनुस्वारः =============================== **Padacheda:** अनुनासिकात् | S | 5 | 1 | परः | S | 1 | 1 | अनुस्वारः | S | 1 | 1 | Sutrartha --------- **अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् पूर्वं विद्यमानात् निरनुनासिकवर्णात् परः अनुस्वारस्य आगमः भवति ।** सूत्रपाठे **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यस्मात् सूत्रात् आरभ्य **कानाम्रेडिते** (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य **रुत्वप्रकरणस्य** इदम् चतुर्थम् सूत्रम् । **पदान्ते विद्यमानात् रुँत्वात् पूर्वम् विद्यमानः वर्ण अनुनासिकवर्णः नास्ति चेत् तस्मात् अनन्तरम् अनुस्वारागमः भवति ** — इति प्रकृतसूत्रस्य आशयः । **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन पदान्तरुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य पाक्षिके अनुनासिकादेशे प्राप्ते, तदभावे तत्र अनुस्वारस्य आगमः भवति इति अनेन सूत्रेण स्पष्टी भवति । इत्युक्ते, ** अस्मिन् रूत्वप्रकरणे सर्वत्र — रुँत्वात् पूर्वम् विद्यमानस्य वर्णस्य विकल्पेन अनुनासिकः भवति, अथ वा, तस्मात् अनन्तरम् अनुस्वारः विधीयते ** — इति अर्थः अत्र विधीयते । यथा, "सम् + सुट् + कर्तृ" इत्यस्याम् अवस्थायाम् **समः सुटि** (8.3.5) इति सूत्रेण मकारस्य रुँत्वम् विधीयते । अस्मिन् रुँत्वे कृते मकारात् पूर्वम् विद्यमानस्य अकारस्य **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन पाक्षिकः अनुनासिकादेशः, तदभावे च प्रकृतसूत्रेण अनुस्वारागमः भवति । प्रक्रिया इयम् — .. code-block:: text सम् + सुट् + कर्तृ [**सम्परिभ्यां करोतौ भूषणे** (6.1.137) इति सुट्-आगमः] → सम् + स् + कर्तृ [इत्संज्ञालोपः । सकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।] → सरुँ + सुट् + कर्तृ [**समः सुटि** (8.3.5) इत्यनेन मकारस्य रुँत्वम् ] → सँरुँ / संरुँ + स् + कर्तृ [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति वैकल्पिकम् अनुनासिकत्वम् । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारागमः ।] → सँःस्कर्तृ / संःस्कर्तृ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः] → सँस्स्कर्तृ / संस्स्कर्तृ [**वा शरि** (8.3.36) इत्यनेन विसर्गस्य विकल्पेन सकारादेशे प्राप्ते; इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।] **सूत्ररचना** अस्य सूत्रस्य सम्यक् अर्थज्ञानार्थम् अत्र **अन्यः** इति शब्दस्य अध्याहारः करणीयः — इति अस्य सूत्रस्य व्याख्याने काशिकाकारः स्पष्टी करोति । एवमेव अत्र **रोः** तथा **पूर्वः** इत्येतयोः अनुवृत्तिः, **पदस्य** इति च अधिकारः स्वीक्रियते चेत् **अनुनासिकात् अन्यः (वर्णः) पदस्य रोः पूर्वः (अस्ति चेत्, तस्मात् वर्णात् परः) अनुस्वारः (आगमरूपेण विधीयते)** इति सूत्रार्थः स्पष्टी भवति । **अनुस्वारः इति आगमः, न हि आदेशः** प्रकृतसूत्रेण निर्दिष्टः अनुस्वारः आदेशरूपेण न विधीयते, अपितु **आगमरूपेण** विधीयते । यदि अयम् अनुस्वारः आदेशरूपेण विधीयेत, तर्हि सः रुँ-वर्णात् पूर्वम् विद्यमानम् वर्णम् निष्कास्य तस्य स्थानं स्वीकुर्यात् । परन्तु अत्र तादृशं नैव इष्यते । रुँ-वर्णात् पूर्वम् विद्यमानेन वर्णेन सह एव अनुस्वारस्य विधानम् इष्यते, अतः अत्र अनुस्वारः आगमरूपेण विहितः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे सकारोत्तरात् अकारात् **अनन्तरम्** अनुस्वारस्य विधानं भवति, अतः अयम् अनुस्वारः आगमरूपेण एव स्वीक्रियते । **अनुस्वारः तथा अनुनासिक: एतयोर्मध्ये भेदः** **अनुनासिक:** इति केवलम् एकः **उच्चारणविशेषः** अस्ति, न हि कश्चन पृथक् वर्णः । यत्र वर्णस्य उच्चारणम् नासिकया सह क्रियते, तत्र तस्य वर्णस्य **मुखनासिकावचनोऽनुनासिकः** (1.1.8) इति सूत्रेण अनुनासिकसंज्ञा भवति । सर्वेषाम् स्वराणाम्, यवलानां च अनुनासिकभेदाः विद्यन्ते । वर्गपञ्चमाः तु नित्यमेव अनुनासिकाः सन्ति, यतः तेषाम् उच्चारणार्थम् नासिकायाः नियतम् प्रयोगः क्रियते । **अनुस्वारः** इति तु कश्चन **पृथग् वर्णः** अस्ति । यद्यपि अस्य गणनम् शिवसूत्रेषु साक्षात् नैव क्रियते, तथापि अट्-प्रत्याहारे अनुस्वारस्य गणनं भवति इति **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यत्र सिद्धान्तकौमुद्यां स्पष्टीकृतम् अस्ति । अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः - एतेषाम् परिगणनम् **अयोगवाहाः** इत्यस्मिन् गणे पृथक् रूपेण कृत्वा, सर्वे अयोगवाहाः अट्-प्रत्याहारस्थाः सन्ति इति तत्र दीक्षितः विवृणोति । अतश्च, **"अँ" इत्यत्र एकः वर्णः अस्ति; "अं" तु इत्यत्र द्वौ भिन्नौ वर्णौ विद्यते** — इति निर्णयः । अनुनासिक-अनुस्वारयोर्मध्ये उच्चारणस्य अपि भेदः वर्तते । अनुनासिकसंज्ञकस्य उच्चारणे नासिकया सह मुखस्य अपि साहाय्यम् आवश्यकम् भवति । यथा, 'अँ' इत्यस्य अनुनासिक-अकारस्य उच्चारणम् कण्ठेन सह नासिकया क्रियते । अनुस्वारस्य उच्चारणम् तु केवलम् नासिकया एव भवति, तदर्थम् मुखस्य प्रयोगः न भवति । Sutrartha (English) ------------------- If the रुँ letter generated in this रूत्वप्रकरण does not cause the previous letter to get an अनुनासिक, then it will generate an अनुस्वार आगम just after that previous letter. Vasu English Summary -------------------- After what precedes रु , if we omit to substitute the nasal, then अनुस्वार shall be the augment. Vasu English Translation ------------------------ After what precedes रु , if we omit to substitute the nasal, then अनुस्वार shall be the augment. The substitution of nasal is optional by (8.3.2). When nasal is not substituted, we add an *anusvara* to such vowel. The word अन्य should be read into the *sutra* to complete the sense, i.e. अनुनासिकात् अन्यो यो वर्णः "a letter other than a nasal", i. e. a letter for which nasal has not been ordained, and which stands before रु ॥ Thus (8.3.5), teaches substitution of the म् of सम् an *anusvara* would be added. As संस्कर्त्ता, संस्कर्त्तव्यम् ॥ Similarly (8.3.6), teaches रु substitution of the म् of पुम् ॥ An *anusvara* will be added here also, as, पुंस्कामा ॥ Similarly (8.3.7), teaches रु substitution of final म् ॥ Here also an *anusvara* will be added, as भवांश्चरति ॥ Some say "the word परः in the *sutra* means अन्यः, and so we need not supply the word अन्यः from outside". They say अनुनासिकात् परः = अनुनासिकादन्यः; i. e. the *anusvara* takes place in that alternative when there is no nasal. That *anusvara* is an augment and not a substitute. It is an augment to the vowel which precedes रु ॥ Kashika ------- अन्यशब्दोऽत्राध्याहर्तव्यः। तदपेक्षया चेयमनुनासिकादिति पञ्चमी। अनुनासिकादन्यो यो वर्णो रोः पूर्वः, यस्यानुनासिको न कृतः, ततः परोऽनुस्वार आगमो भवति। वक्ष्यति — **समःसुटि** (८.३.५) — संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। **पुमः खय्यम्परे**(८.३.६) — पुंस्कामा। **नश्छव्यप्रशान्**(८.३.७) — भवांश्चरति। केचित् तु परशब्दमेवान्यार्थं वर्णयन्ति। अनुनासिकात् परोऽनुनासिकादन्योऽनुस्वारो भवति। यस्मिन् पक्षेऽनुनासिको नास्ति, तत्रानुस्वारागमो भवति। स तु कस्यागमो भवति? रोः पूर्वस्यैवेति वर्तते, व्याख्यानादादेशो न भवति॥ Siddhanta Kaumudi ----------------- अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः (SK76) ॥ Laghu Siddhanta Kaumudi ----------------------- अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः॥ Balamanorama ------------ **अनुनासिकात् परोऽनुस्वारः** - अनुनासिकात् ।अनुनासिका॑दिति ल्यब्लोपे पञ्चमी ।विहाये॑ति गम्यम् । पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः । संर्स्कर्ता । अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति । Tattvabodhini ------------- **अनुनासिकात् परोऽनुस्वारः** - अनुनासिकात् । ल्यब्लोपे पञ्चमीत्याह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः ।पूर्वस्ये॑ति प्रकृतस्य तु विभक्तिविपरिणामेन पञ्चम्यन्ततेत्यभिप्रेत्याह-रोः पूर्वस्मादिति ।-संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात्अवत्सा धेनुरानीयता॑मित्यत्रेवसंभावितानुनासिकत्वगुणक एवोपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह-रोः पूर्वस्मादिति-॑ इति तु मनोरमायामवतारितं, तत्तुपूर्वस्ये॑त्यनुवर्तनं विभक्तिविपरिणामं चानपेक्ष्य लौकिकन्यायेनैवेष्टं सिध्यतीत्याशयेनोक्तमित्याहुः । अनुस्वारागम इति । आगमत्वं च परशब्देनैव लभ्यते । यथापूर्वौ तु ताभ्यामै॑जित्यत्र पूर्वशब्देन ऐचोरागमत्वमिति भावः । Padamanjari ----------- अन्यशब्दोऽत्राध्याहर्तव्य इति । असत्यध्याहारे परशब्दस्य श्रुतत्वातदपेक्षयेवं ठनुनासिकात्ऽ इत्येषा पञ्चमी स्यात् - परशब्दस्य दिग्वृत्तिः, अन्यार्थवृत्तिर्वा, पूर्ववृत्तिर्वा । पूर्वस्मिन्कल्पेरोः पूर्वस्मादनुनासिकादेवपरोऽनुस्वारो विज्ञायेत, न च तस्मात्पर इष्यते । इतरस्मिंस्त्वमनुनासिकादन्योऽनुस्वारो भवतीत्यर्थो भवति, तत्र चानर्थकं परग्रहणम्, न ह्यनुस्वारोऽनुनासिकापेक्षयाऽन्यत्वं व्यभिचरति । तस्मादन्यशब्दोऽध्याहार्यः । स च परशब्दापेक्षया पञ्चम्यन्तोऽध्याहार्यः । पूर्वस्येत्येतदप्यत्रानुवृतं पर इत्यनेन योगात्पञ्चम्यन्तं विपरिणम्यते । एवं स्थिते योऽर्थः सम्पद्यते तं दर्शयति -अनुनासिकादन्य इति । कः पुनरसौ ? इत्याह - यस्यानुनासिको न कृत इति । अनुस्वार आगमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि परशभ्देनानुस्वारस्य देशविशेषसम्पादनादागमत्वम्, यथा -'न य्वाभ्यां पूर्वावैच्' इति ॥ Nyaas ----- `अन्यशब्दोऽत्राध्याहार्यः` इति। असति ह्रन्यशब्दस्याध्याहरे परशब्दस्य धुतत्वात्? तदपेक्षयैवानुनासिकादित्येषा पञ्चमी स्यात्; अन्यस्येह पञ्चमीहेतोरसम्भवात्। ननु **तस्मादित्युत्तरस्य** (1.1.67) उपस्थाने उत्तरशब्दापेक्षयैव पञ्चमौ स्यात्? नैतदस्ति; यदि ह्रल्याः परिभाषाया इहोपस्थानं स्यात्? परग्रहणमनर्थकं स्यात्। तस्मात्? परशब्दापेक्षयैव पञ्चम्या भवितव्यम्। सा भवन्ती च `अन्यारादितरर्ते` (2.3.29) इत्यादिवा सूत्रेण परशब्दयोगे दिग्बृत्तिगा वा स्यात्, अन्यार्थवृत्तिना वा? तत्र पूर्वस्मिन्? पक्षे रोः पूर्वस्मादनुनासिकादेव परोऽनुस्वारो विज्ञायेत, न च तस्मात्? पर इष्यते। इतरस्मस्त्वयमर्थं आपद्येत -अनुनासिकात्? परो भवतदि, अनुनासिकादन्योऽनुस्चारो भवतीत्यर्थः। एवञ्च परग्रहणनर्थकं स्यात्; न ह्रनुनासिकापेक्षयानुस्वरोऽन्यत्वं व्यभिरति। किञ्च -श्रुतत्वात्? तस्यैवानुनासिकस्यानुस्वारो विज्ञायेत, प्रकृतत्त्वाद्रोर्वाः; अनिष्टञ्चैतत्? अन्यशब्दाध्याहारे तु वस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशब्दाध्याहारे तु यस्यानुनासिको न कृतस्यस्मादेव पर इत#इ विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशाब्दाध्याहारे यदि परशब्दापेक्षयैव `अनुनासिकात्` इत्येषा पञ्चमी स्यात्, स दोषस्तदवस्थ एव स्यादिति मत्वाऽऽह -`तदपेक्षया चेयम्` इत्यादि। चशब्दोऽवधारणे। अन्यशब्दापेक्षयैव, न परशभ्दापेक्षयेत्यर्थः। `अनुनासिकदन्यो यः` इत्यनेन तदेवान्यशब्दापेक्षत्वं पञ्चम्या दर्शयति। `रोः पूर्वः` इत्यनेनापि पूर्वग्रहणानुवृत्तिम्। पूर्वत्वञ्च रुत्वापेक्षम्। `यस्यानुनासिको न कृतः` इत्यनेनाप्यन्यशब्दाभिधेयमर्थं दर्शयति। `ततः` इत्यनेनापि पूर्वग्रहणस्यार्थादिह पञ्चम्यन्ततया विपरिणाअमम्। अन्यशब्दस्य चाव्याह्मतस्य पञ्चम्यन्ततां पर इत्यनेनापि। तस्या अन्यशब्दस्य सम्बन्धिन्याः पञ्चम्याः परशब्दापेक्षताम्। `आगमः` इत्यनेनाप्यादेशाभावम्। परग्रहणं शक्यमकर्तुम्। अन्यशब्दस्य पञ्चम्यन्तस्याध्याहरे सति पूर्वग्रहणस्य चार्थात्? प्रथमान्ततया विपरिणामे सत्येवं विज्ञास्यते -अनुनासिकाद्योऽन्यस्तस्मादुत्तरो यो रुस्ततः पूर्वोऽनुस्वारागमो भवति। एवञ्च विज्ञायमानेऽसत्यपि परग्रहयणे संस्कर्तेत्यादि सिध्यत्येव, किं परग्रहणेन? एतत्? क्रियते विस्पष्टार्थम्॥ Praudhamanorama --------------- ल्यब्लोपे पञ्चमीत्याह— **अनुनासिकं विहायेति।** एवं च संसर्गवद् विप्रयोगस्यापि विशेषावगतिहेतुत्वादवत्साऽऽनीयतामित्यत्रेव सम्भावितानुनासिक्यगुणक एव उपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह— **अनुस्वारागम इति।** आगमत्वं च परशब्देनैव लभ्यते **पूर्वौ तु ताभ्यामैच्** (7.3.3) इत्यत्र पूर्वशब्देनैचोरिवेति भावः॥ Prakriyasarvasvam ----------------- रोः पूर्वस्यानुनासिकादन्यपक्षीयोऽनुस्वारागमः स्यात् । सं र् स् करोति । (वा० ८-३-५) सँ स् स् करोति । सं स् स् करोति । श्लिष्टोक्तिः । सँस्करोति संस्करोति । अत्र द्वादशधा रूपं हरदत्तोक्तं विस्तरभयान्नो१च्यते । परि स् करोति । Sarala ------ **अनुनासिकात्** इति ल्यब्लोपे पञ्चमीत्यभिप्रेत्याह - **अनुनासिकं विहायेति** । "अनुनासिक"मित्यस्य हि **अर्शआदिभ्योऽच्** (५.२.१२७) अजन्ततया अनुनासिकघटितप्रयोगमित्यर्थः । **अत्रानुनासिकः पूर्वस्य तु वा** (८.३.२) इत्यतः "रोः" "पूर्वस्य" इति अनुवर्त्त्य योग्यतया विभक्तिं विपरिणमय्य च व्याचष्टे - **रोः पूर्वस्मात् पर इति** ॥