82106: प्लुतावैच इदुतौ ====================== **Padacheda:** प्लुतौ | S | 1 | 2 | ऐचः | S | 6 | 1 | इदुतौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- In forming the प्लुत of the diphthongs s ए and ओ , their last element इ and उ get the प्लुत। Vasu English Translation ------------------------ In forming the प्लुत of the diphthongs s ए and ओ , their last element इ and उ get the प्लुत। The *pluta* ordained by (8.2.84) &c. when applied to ऐ or औ, cause the prolation of the last element of these diphthongs namely of इ or उ ॥ The word प्लुतौ in the *sutra* is Nominative dual of प्लुत, and the aphorism literally means "इ and उ are *pluta* of the diphthongs ऐ and औ" ॥ Thus ऐ३तिकायन, औ३पगव ॥ The letters ऐ and औ are compound letters or diphthongs consisting of अ + इ and अ + उ ॥ In making the *pluta* of these, the question arises, should both अ and इ (or उ) be prolated, or only the last element, or the first only. The present *sutra* answers that doubt. If in the analysis of these letters, अ be taken as having one *matra* (or moras), and इ and उ one *matra*, then the *pluta* इ and उ will have two *matras*, so that the whole *pluta* ऐ and औ will have three *matras*. In fact, the word प्लुत is used here as a Past Participle of प्लु, having the force of a verb; and इदुतौ प्लुतौ means इदुतौ प्लवेते i.e. वृद्धिं गच्छतः, i.e. इ and उ are lengthened. And इ and उ are lengthened to that extent, so as to make ऐ and औ of three *matras*. Thus when अ + इ and अ + उ each has one *matra*, then the *pluta* of इ and उ will have two *matras* as we have said before. But when अ + इ (ए) and अ + उ (ओ) are considered to have अ half *matra*, and इ and उ one *matra* and a half, then इ and उ are made *pluta*, so as to have two and a half (2 1/2)*matras* each, thus the whole of ऐ and औ, has still three *matras*. In fact, the definition of *pluta* is, that it is a vowel which has three *matras*: so that we should so prolate the vowel as to make it have three *matras*. But according to *Patanjali*, this *pluta* of ऐ and औ has four *matras*. Thus अ + इ and अ + उ each has one *matra*. The *pluta* of इ and उ will have three *matras*. Thus अ + इ३ and अ + उ३. or the whole has four *matras*. According to this view a vowel may have four *matras* also. Bhashya ------- प्लुतावैच इदुतौ किमर्थमिदमुच्यते?॥ ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः(6) प्लुतवचनम्॥ ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः(1) प्लुत उच्यते॥ किमुच्यते उभयविवृद्धिप्रसङ्गा(1)दिति?। यदा नित्याः शब्दाः। नित्येषु च शब्देषु कूटस्थैरविचालिभि र्वणैर्भवितव्यमनपायोजनविकारिभिः॥ नैषः दोषः। उभयविवृद्धिप्रसङ्गा(1)- दिति नैवं विज्ञायते-उभयोर्विवृद्धिरुभयविवृद्धिरुभयविवृद्धिप्रसङ्गादिति॥ कथं तर्हि?॥ उभयोर्विर्वृद्धिरस्मिन् सोऽयमुभयविवृद्धिः, उभयविवृद्धि प्रसङ्गादिति। इमावैचो समाहारवर्णौ, मात्राऽवर्णस्य मात्रोवर्णोवर्णयोरिति तयोः प्लुत उच्यमान उभयविवृद्धिः प्राप्नोति। तद्यथा,-गर्भो वर्धमानः(3) सर्वाङ्गपरिपूर्णो वर्धते॥ अस्ति प्रयोजनमेतत्? ॥ किं तर्हीति॥ तत्राऽयथेष्टप्रसङ्गः॥ तत्राऽयथेष्टं प्रसज्येत। चतुर्मात्रः प्लुतः प्राप्नोति॥ सिद्धं त्विदुतोर्दीर्घवचनात्॥ सिद्धमेतत्॥ कथम्?॥ झ्र्ठःइदुतोर्दीर्घवचनात्ट॥ इदुतोर्दीर्घो भवतीति वक्तव्यम्॥ तदेतत्कथं कृत्वा सिद्धं भवति?॥ यदि समः प्रविभागो-मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः॥ अथ ह्यर्द्धमात्राऽवर्णस्याऽध्यर्द्धमात्रेवर्णोवर्णयोरर्द्धतृतीयमात्रः(1) प्राप्नोति। अथ हि(2) ह्यध्यर्द्धमात्राऽवर्णस्याऽध्यर्द्धमात्रेवर्णोवर्णयोरर्द्धचतुर्थमात्रः(3) प्राप्नोति। सूत्रं च भिद्यते।. यथान्यासमेवाऽस्तु॥ ननु चोक्तं-तत्रायथेष्टप्रसङ्ग इति॥ तत्र सौर्यभागवतोक्तमनिष्टिज्ञो वाडवः पठति। इष्यत एव चतुर्मात्रः प्लुतः। झ्र्प्लुतावैच इदुतौट॥ Kashika ------- दूराद्धूतादिषु प्लुतो विहितः। तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ। ऐ३तिकायन। औ३पमन्यव। अत्र यदेवर्णोवर्णयोरवर्णस्य च समविभागः, तदेदुतौ द्विमात्रावनेन प्लुतौ क्रियेते। प्लुताविति हि क्रियानिमित्तोऽयं व्यपदेशः। इदुतौ प्लवेते वृद्धिं गच्छत इत्यर्थः। तावती च सा प्लुतिर्भवति, यावत्या तावैचौ त्रिमात्रौ संपद्येते। यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रेवर्णोवर्णयोः, तदा तावर्धतृतीयमात्रौ क्रियेते इति। भाष्ये तूक्तम् — इष्यत एव चतुर्मात्रः प्लुत इति। तत् कथम्? समप्रविभागपक्ष इदुतोरनेन त्रिमात्रः प्लुतो विधीयते॥ Siddhanta Kaumudi ----------------- दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ॥ Padamanjari ----------- प्लुतावैच इदुतौ॥ लक्षणान्तरेणैवैचोः प्लुतप्रसङ्गे तदवयवयोरिदुतोः प्लुतार्थं वचनम्। वचनसामर्थ्याद्वर्णैकदेशयोरपीदुद्ग्रहणेन ग्रहणम्। ऐचः प्लुतप्रसङ्गे इति। केचिदाहुः -'सूत्रे प्लुताविति प्लुतिशब्दात्सप्तमी, ऐचः प्लुतौ प्राप्तायामिति तदनेन दशितम्' इति, तदयुक्तम्; प्लुतौऽ इति हि क्रियानिमितोऽयं व्यपदेशः - इति प्रथमाद्विवचनान्तत्वेन व्याख्यास्यमानत्वात्। तस्मात् प्रकरणप्राप्तये तदुक्तम्। उदाहरणे दूराद्धूते'गुरोरनृतः' इत्येव प्लुतः। यदि ऐकारौकारयोरवयवयोरिदुतोः प्लुतः क्रियते, समुदायस्य चतुर्मात्रताऽर्धचतुर्थमात्रता वा प्राप्नोति, कथम्? इमावैचौ समाहारवर्णौ; मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोः। अपरे त्वाहुः - अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णीवर्णयोरिति। तत्र पूर्वस्मिन्कल्पे इदुतोरनेन प्लुते कृते तयोस्तिस्रो मात्राः, अवर्णस्य चैका मात्रेति समुदायश्चतुर्मात्रः प्राप्नोति, पक्षान्तरे त्वर्द्धचतुर्थमात्रः प्राप्नोत्यत आह - अत्रेति। ननु च त्रिमात्रस्याचः प्लुतसंज्ञा कृता, तत्कथं द्विमात्राविदुतावनेन शक्येते कर्तुम्? अत आह - प्लुताविति हीति। अनेन प्लुताविति कर्तरि निष्ठा, न संज्ञाशब्द इति दर्शयति। वृद्धिं गच्छत इत्यर्थ इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वधनेऽपि वर्तते। नन्वेवमपि न ज्ञायते - कियती सा वृद्धिरिति? अत आह - तावती चेति। एवं मन्यते - प्रकृतमपि प्लुतग्रहणमत्र सम्बध्यते, ततश्चायमर्थो भवति - ऐचोऽवयवाविदुतौ तथा वर्धेते यथा ऐचौ प्लुतौ सम्पद्यते इति। तस्मादनभिमताया वृद्धेरप्रसङ्ग इति। अर्धतुतीयमात्राविति। अर्धरूपा तृतीयमात्रा ययोस्तौ तथोक्तौ। इष्यते चतुर्मात्रः प्लुत इति। चतुर्मात्रतया वृद्धिरिष्यत इत्यर्थः। अस्मिन्पक्षे चतुर्मात्रस्याच्त्वमपि भवति। तेन प्रत्यङ्ण्èóतिकायन इति ङ्मुङ् भवति; ग्लौ त्रातेति ठनचि चऽ इति तकारद्विर्वचनं भवति॥ Nyaas ----- **दूराद्धूते च** (8.2.84) इत्येवमाविभिर्लक्षणैः प्लुतो विधीयमानः `अचश्च` (1.2.28) इत्यस्योपस्थाने सति यत्रैव प्लुत उक्तः, तत्र तस्यैवैचः समुदायात्मनः स्यात्, तदवयवयोरेवेष्यते। स च वचनमन्तरेण न सिध्यतीतीदमारभ्यते। तस्य तु प्लुतस्य निमित्तं दूराद्धूतादेवैचः प्रसङ्ग इति पूर्वेण प्रकरणेन प्लुतस्य प्राप्तौ सत्यामित्यर्थः। `ऐ3तिकायन्, औ3पमन्यव` इति। अत्र `गुरोरनृतीः` (8.2.86) इत्यादिना एचः प्लुते प्राप्तेऽनेन तदवयवयोरिदुतोः प्लुतः क्रियते। ऐ3तिकायन, औ3पमन्यवेत्यत्र यद्यैचोरवयवयोरिदुतोः प्लुतः क्रियते, तत्रैकारीकारौ चतुर्मात्रौ साद्र्धत्रिमात्रो वा प्राप्नुतः। इह ह्रौचौ समाहारवर्णौ; मात्राऽवर्णस्य मात्रेवर्णोवर्णयोः। अपरे त्वाहुः -अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णोवर्णयोरिति। अत्र पर्वस्मिन्? दर्शनेऽनेन प्लुते कृते सति इदुतोस्तिरुआओ मात्राः, अवर्णस्य चैकमात्रेति चतुमत्रिः प्राप्नोति; इतरत्र तु दर्शनेऽवर्णस्यार्धमात्रा, इदुतीस्तु ता एव तिन्न इति सार्धत्रिमात्रः प्राप्नोतीत्यत आह -`अत्र यदा` इत्यादि।ननु च त्रिमात्रस्य `प्लुत इति संज्ञा कृता, तत्कथं द्वित्रिमात्रावपि प्लृतौ शक्यावनेन कर्त्तुम्? इत्यत आह -`प्लुतावविति हि` इत्यादिना। एतेन लौकिकस्यात्र प्लुतस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति। कुतः पुनरेतल्लभ्यते? पुनः प्लुतग्रहणमनर्थकं स्यात्, लोके हि च प्लुतो वृद्धिमानुष्यते। अत एवाह -`इदुत्तौ वृदिंध गच्छत इत्यर्थः` इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वृद्धावपि वर्तते। नन्वेवमप्यनियमेन वृद्धिः प्रसज्यते; इयत्तानभिधानात्; ततश्च यावती वृद्धिः स्यात्, याक्त्या चतुर्मात्रार्वचौ सम्पद्येयातामिति? अत [`अत्राह` -कांउ।पाठः] इत्यादि। प्लुतिर्वृद्धिरित्यर्थः। कथं पुनरयं नियमो लभ्यते? एवं मन्यते -ऐचेति प्लुतापेक्षया षष्ठी। इदुतौ तथा प्लवेते यथा स प्लुत एङोर्भवति; एवञ्चंचोर्भवति यदि तावती वृद्धिर्भवति यावत्या तावैचौ त्रिमात्रौ सम्पद्येते। अकृतायां हि वृद्धौ ऐच्त्वमेव स्यात्; युक्तपरिमाणत्वादैचाम्, ततश्चैच्सम्बन्धी प्लुतो न स्यादिति। `अर्धतृतीयमात्रौ` इति। अर्धतृतीयं ययोर्मात्रयोस्तेऽर्धतृतयमात्रे, ते ययोस्तावर्धतृतयमात्रौ। इदं तावद्वार्त्तिककारमतमाश्रित्य समाधानमुक्तम्। भाष्यकारस्य त्विष्टैव चतुर्मात्रता प्लुतस्येति दर्शयन्नाह -`भाष्ये तूक्तम्` इत्यादि। `तत्कथम्` इति। यदि तत्? भाव्यकारस्य मतं तत्? केन प्रकारेण सम्पद्येत? इत्येतत्? पृच्छति। `सम्परविभागपक्षे` इत्यादिना यथा तत्? सम्पद्यते तथा दर्शयति। समप्रविभागपक्षे ह्रनेन सूत्रेणेदुतोस्त्रिमात्रः प्लुतः क्रियते, ततश्च तत्सम्बन्धिन्यो यास्मिरुआओ मात्रा या च पूर्वाकारमात्रा ताः सर्वाः समाह्मताश्चतरुआओ मात्रा भवन्ति। एवञ्च चतुर्मात्रः प्लुतो भवति। अत्र भाष्यकारदर्शने पुनः प्लुतग्रहणं सर्वत्र प्लुतोपसंग्रहार्थम्; अन्यथा स्वरितप्रकरणात्? तस्यैव प्रसङ्गे सत्येवेदुतोरिवं प्लुतिः स्यात्। पुनः प्लुतग्रहणे तूदात्तानुदात्तयोरपि भवति। तपरकरणं मुखमुखार्थम्॥