82086: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्
==============================================
**Padacheda:** गुरोः | S | 6 | 1 |
अनृतः | S | 6 | 1 |
अनन्त्यस्य | S | 6 | 1 |
अपि | S | 0 | 0 |
एकैकस्य | S | 6 | 1 |
प्राचाम् | S | 6 | 3 |
Sutrartha
---------
**यस्य शब्दस्य टिसंज्ञकस्य पूर्वसूत्रैः प्लुतत्वम् उदात्तत्वं च उच्यते, तस्मिन् शब्दे विद्यमानाः अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्राचां मतेन एकैकम् प्लुताः उदात्ताः भवन्ति ।**
**प्रत्यभिवादेऽशूद्रे** (8.2.83) तथा च **दूराद्धूते च** (8.2.84) इत्येताभ्याम् सूत्राभ्याम् यस्य शब्दस्य टिसंज्ञकः प्लुतः उदात्तः वा उक्तः अस्ति, तस्य शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः अपि एकैकम् (one-by-one) विकल्पेन प्लुताः उदात्ताः भवन्ति — इति अस्य सूत्रस्य आशयः । यथा —
1. "सक्तून् पिब देवदत्त!" — अस्मिन् वाक्ये विद्यमानस्य "देवदत्त"-शब्दस्य तकारोत्तरः अकारः **दूराद्धूते च** (8.2.84) इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —
i. एकारस्य दीर्घत्वात् **दीर्घं च** (1.4.12) इति गुरुसंज्ञा विधीयते, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — "सक्तून् पिब दे3वदत्त!"
ii. पक्षे दकारोत्तरस्य अकारस्य **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — "सक्तून् पिब देवद3त्त!"
iii. पक्षे **दूराद्धूते च** (8.2.84) इति सूत्रेण तकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञायां च भवति — "सक्तून् पिब देवदत्त3!"
iv. वकारोत्तरः अकारः गुरुसंज्ञकः नास्ति, अतः तस्य विषये इदं सूत्रं न प्रवर्तते ।
2. "आयुष्मान् भव महाकृष्णवर्मन्!" — अस्मिन् वाक्ये विद्यमानस्य "महाकृष्णवर्मन्"-शब्दस्य मकारोत्तरः अकारः **प्रत्यभिवादेऽशूद्रे** (8.2.83) इति सूत्रेण प्लुतः उदात्तः च भवति । अतः अस्यैव शब्दस्य अन्ये ऋकारभिन्नाः गुरुसंज्ञकाः स्वराः प्रकृतसूत्रेण क्रमेण प्लुतसंज्ञकाः, उदात्तसंज्ञकाः च भवन्ति —
i. हकारोत्तरः अकारः दीर्घत्वात् **दीर्घं च** (1.4.12) इति गुरुसंज्ञकः भवति, अतः तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — "आयुष्मान् भव महा3कृष्णवर्मन्!"
ii. पक्षे वकारोत्तरस्य अकारस्य **संयोगे गुरु** (1.4.11) इत्यनेन गुरुसंज्ञा भवति, अत तस्य प्रकृतसूत्रेण प्लुतसंज्ञा, उदात्तसंज्ञा च अपि सम्भवति — "आयुष्मान् भव महाकृष्णव3र्मन्!"
iii. पक्षे **प्रत्यभिवादेऽशूद्रे** (8.2.83) इति सूत्रेण मकारोत्तरस्य अकारस्य एव प्लुतसंज्ञा, उदात्तसंज्ञा च भवति — "आयुष्मान् भव महाकृष्णवर्म3न्!"
iv. ककारोत्तरः ऋकारः यद्यपि गुरुसंज्ञकः अस्ति, तथापि अस्मिन् सूत्रे **अनृतः** इति निर्देशात् तस्य विषये प्रकृतसूत्रं नैव प्रवर्तते ।
v. णकारोत्तरः अकारः तु गुरुसंज्ञकः एव नास्ति, अतः तस्य विषये अपि इदं सूत्रं न प्रवर्तते ।
**प्राचाम् इति योगविभागः, तेन सर्वः प्लुतः विकल्प्यते ।**
अस्मिन् सूत्रे कौमुदीकारः वदति —
इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥
अस्मिन् सूत्रे विद्यमानः **प्राचाम्** इति शब्दः पृथक् (भिन्नसूत्ररूपेण) स्थापनीयः, तस्य च अन्वयः 'प्लुतः' इति शब्देन सह कर्तव्यः — इति अत्र कौमुदीकारस्य आशयः अस्ति । एतादृशं क्रियते चेत्, अस्मिन् प्रकरणे विद्यमानैः सूत्रैः उपदिष्टः प्लुतः केवलम् विकल्पेन एव भवति — इति अर्थः सम्भवति । इत्युक्ते, प्लुतविधानम् केवलम् विकल्पेन एव भवति, न हि नित्यम् — इति अत्र निर्णयः कृतः अस्ति ।
Sutrartha (English)
-------------------
For the words whose टि has been mandated to be प्लुत and उदात्त by the earlier sutras, all the other ऋकारभिन्न गुरु letters of that word can also take turns one by one to become प्लुत and उदात्त, according to the experts of the east.
Vasu English Summary
--------------------
In the room of a prosodially long vowel (with the exception of ऋ) though it may not stand at the end, there is substituted a प्लुत for one at a time, under the above circumstances -- प्रत्यभिवादेशूद्रे (8.2.83) & दूराद्धूते च (8.2.84), in the opinion of Eastern Grammarians.
Vasu English Translation
------------------------
In the room of a prosodially long vowel (with the exception of ऋ) though it may not stand at the end, there is substituted a प्लुत for one at a time, under the above circumstances -- प्रत्यभिवादेशूद्रे (8.2.83) & दूराद्धूते च (8.2.84), in the opinion of Eastern Grammarians.
This *sutra* indicates a special *sthanin* for the *pluta* vowel taught by (8.2.83) to (8.2.84). With the exception of ऋ, for every heavy vowel, though it may not be the final vowel of the vocative word, and for the final vowel also, but only one at a time, there is *pluta* substitution, in the opinion of Eastern Grammarians. Thus हे दे꣡३वदत्त or देवद꣡३त्त or देवदत्त꣡ ३ ॥ Similarly with य꣡३ज्ञदत्त, यज्ञद꣡३त्त or यज्ञदत्त꣡ ३ ॥
Why do we say गुरोः "of a prosodially long vowel"? So that the अ of य and ज्ञ in *Devadatta* and *Yajnadatta* may not be prolated, for this अ is short.
Why do we say अनृतः "with the exception of ऋ"? Observe कृष्णमि꣡३त्र, कृष्णमित्र꣡ ३, but never कृ꣡३ष्णमित्र ॥
The word एकैकस्य shows that the prolation should not be simultaneous, but of one at a time; not दे३वद३त्त३ ॥
The word प्राचाम् "in the opinion of Eastern Grammarians" is used for the sake of creating option. So in one alternative, there is no prolation at all.
As आयुष्मान् एधि देवदत्त ॥ Thus the present *sutra*, makes (8.2.83) and (8.2.84), optional *sutras*. This also is an authority for the following dictum of *Patanjali*"सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्त्तव्यः" (*Mahabhashya* (8.2.92) Commentary). Thus all rules relating to Prolation become optional. In short, the word प्राचाम् should be read in all rules regarding prolation, and thus without doing violence (*sahasa*) to grammatical authority, one may have optional *pluta* everywhere.
Bhashya
-------
गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ गुरोः प्लुतविधाने लघोरन्त्यस्य प्लुतप्रसङ्गोऽन्येन विहितत्वात्॥ गुरोः प्लुतिविधाने लघोरन्त्यस्य प्लुतः प्राप्नोति। दे3वदत्त(3)॥ किं कारणम्?॥ अन्येन विहितत्वात्। अन्येन हि लक्षणेन लघोरन्त्यस्य प्लुतो विधीयते दूराद्धूते चेति॥ न वाऽनन्त्यस्यापीति वचनमुभयनिर्देशार्थम्॥ न वैष दोषः॥ किं कारणम्?॥ झ्र्ठअनन्त्यस्यापीति(3) वचनमुभयनिर्द्देशार्थम्ट। अनन्त्यस्यापीति वचनमुभयनिर्देशार्थं भविष्यति अनन्त्यस्यापि गुरोरन्त्यस्यापि टेरिति॥ ननु(3) चैतद्गुर्वपेक्षं स्यात्-अनन्त्यस्यापि गुरेरन्त्यस्यापि गुरोरिति?॥ नेत्याह। ट्यपेक्षमेतत्(2)। अनन्त्यस्यापि गुरोरन्त्यस्यापि टेरति॥ अथ प्राग्वचनं किमर्थम्?॥ प्राग्वचनं विभाषार्थम्॥ प्राग्वचनं क्रियते॥ झ्र्किं प्रयोजनम्(1)?॥ विभाषार्थम्ट॥ विभाषा यथा स्यात्॥ प्राग्वचनानर्थक्यं चैकैकस्येति वचनात्॥ झ्र्प्राग्वचनमनर्थकम्(1)॥ किं कारणम्?॥ एकैकस्येति वचनात्ट। एकैकग्रहणं क्रियते तद्विभाषार्थं भविष्यति॥ अस्त्यन्यदेकैकग्रहणस्य(3) प्रयोजनम्॥ किम्?॥ युगपत्प्लुतो मा भूदिति॥ अनुदात्तं पदमेकवर्जमिति वचनान्नाऽस्ति यौगपद्येन(4) संभवः॥ असिद्धः प्लुतस्तस्याऽसिद्धत्वान्नियमो न प्राप्नोति॥ नैषः दोषः। यद्यपीदं तत्राऽसिद्धं तत्त्विह सिद्धम्॥ कथम्?॥ कार्यकालं संज्ञापरिभाषमिति। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। गुरोरनृतोनन्त्यस्याप्येकैकस्य प्राचाम्। उपस्थितमिदं(1) भवत्यनुदात्तं पदमेकवर्जमिति॥ इहापि तर्हि समावेशो(1) न प्राप्नोति-देवदत्ता 3॥ सिद्धाऽसिद्धावेतौ। यौ हि सिद्धादेव असिद्धावेव वा तयोर्नियमः॥ यस्तार्हि स्वरितः प्लुतस्तेन(1) समावेशः प्राप्नोति -स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेष्विति॥ स्वरितेऽप्युदात्तोऽस्ति॥ यस्तार्ह्यनुदात्तः(2) प्लुतस्तेन समावेशः प्राप्नोति अनुदात्तं प्रश्नान्ताभिपूजितयोरिति। तस्मात्प्राग्वचनं कर्तव्यम्॥ झ्र्गुरोरनृतोट
Kashika
-------
**प्रत्यभिवादेऽशूद्रे** (८.२.८६) इत्येवमादिना यः प्लुतो विहितः, तस्यैवायं स्थानिविशेष उच्यते। ऋकारवर्जितस्य गुरोरनन्त्यस्य, अपिशब्दादन्त्यस्यापि टेरेकैकस्य संबोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन। दे३व॑दत्त,दे॒व॒द३त्त॑, दे॒व॒द॒त्त३। य३ज्ञ॑दत्त, य॒ज्ञ॒द३त्त॑, य॒ज्ञ॒द॒त्त३। गुरोरिति किम् ? वकारात् परस्य मा भूत्। अनृत इति किम् ? कृ॒ष्ण॒मि३त्र॑, कृ॒ष्ण॒मि॒त्र३। एकैकग्रहणं पर्यायार्थम्। प्राचामिति ग्रहणं विकल्पार्थम् — आयुष्मानेधि देवदत्त। तदनेन यदेतदुच्यते — **सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः** (महाभाष्य ३.४२०) इति, तदुपपन्नं भवति॥
Siddhanta Kaumudi
-----------------
दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥
Balamanorama
------------
**गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्** - गुरोरनृतः ।दूराद्धूते चे॑त्यनुवर्तते ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतं । दूरात्सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत्पदं तदवयवस्य ऋकारभिन्नस्याऽनन्त्यस्य गुरोः प्लुतः स्यात्, अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः । टेरपिना समुच्चयात् । तदाह — दूरादित्यादिना । दे३वदत्तेत्यादिषु सर्वत्रएही॑ति शब्दः प्राग्ध्याहर्तव्यः । अन्यथाएकतिङ् वाक्य॑मिति वाक्यत्वानुपपत्तेः । पर्यायार्थमिति । अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः । इह प्राचामिति ।गुरोरनृतोऽनन्त्यस्याप्येकैकस्ये॑त्येकं वाक्यं,प्राचा॑मित्यन्यत् । तत्र 'प्लुत' इत्येवानुवर्तते । प्राचां मते प्लुतः स्यान्नान्यमते इति फलति । ततः किमित्यत आह-तेनेति । एवं चसर्वः प्लुतः साहसमनिच्छता विभाषा वक्तव्य॑ इति वार्तिकं न कर्तव्यमिति भावः । प्लुतशास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः । प्लुतशास्त्रेषु श्रद्धाजाडं विहायेति यावत् । अप्लुतवत् ।किमिदमुपस्थितं नाम अनार्षमितिकरण॑मिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थः । 'प्लुत' इत्यध्याहार्यम् । अवैदिके इतिशब्दे परे प्लुतोऽप्लुतवत्स्यादिति फलति ।
Tattvabodhini
-------------
**गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्** - गुरोरनृतः । अनन्त्यस्याप्रीति । अत्र वदन्ति-यद्यन्त्यस्य गुरोः प्लुतार्थोऽपिशब्दः इति व्याख्यायेत तर्हि गुरुस्थानिकप्लुतानामेव पर्यायता स्यात्तथाच्चदूराद्धूते॑ इति लक्षणान्तरेण लघोष्टेः स्थाने विहितेन प्लुतेन सह युगपत्प्रयोगः प्रसज्येत । तस्मादपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थ इत्येव व्याख्यातव्यं,टे॑रिति प्रकृतत्वादिति । देवदत्तेति । वाक्यत्वसंपत्तये अस्यादिरेहीति शब्दो बोध्यः । एवमग्रेऽपि । सर्वः प्लुतो विकल्प्यत इति । एतेनद्वैपायनो विशकातर आजुहाव पुत्रेति॑ इति भागवतं व्याख्यातम् ।प्लुतस्य वैकल्पिकत्वादार्षः प्रयोगः॑ इति श्रीधराचार्योक्तिस्तु भादर्तव्या । विस्तरस्त्वत्र मनोरमायामनुसन्धेयः ।
Padamanjari
-----------
अनन्त्यस्यापि टेरिति । अनेनापिशब्देन प्रकृतष्टिः समुच्चीयत इति दर्शयति । यदि तु गुरोः सन्निधानात् स एवान्त्यः समुच्चीयेत - गुरोरनन्त्यस्यान्त्यस्यापीति, ततो तेन यत्रान्त्यो गुरुस्तत्रैव पर्यायः स्यात् । लघौ त्वन्त्ये पूर्वेण तस्य स्याद्, अनेन चानन्त्यस्य गुरोरिति द्वयोः प्लुतयोर्युगपच्छ्रवणं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति वचनान्नास्ति यौगपद्यसम्भवः । असिद्धः प्लुतः, तस्यासिद्धत्वान्नियमो न न प्राप्नोति ? नैतदस्ति;'कार्यकालं संज्ञापरिभाषम्' , यत्र कार्य तत्रोपतिष्ठते - वाक्यस्यटेः प्लुत उदातः, गुरोरनृतः प्लुत उदातः; उपस्थितमिदं भवति - ठनुदातं पदमेकवर्जम्ऽ इति, तस्मान्नास्ति यौगपद्यसम्भवः । यस्तह्यएनुदातः प्लुतः, तस्यास्य च समावेशः प्राप्नोति अभिपूजते दूराद्धते प्लुतो भवन्ननुदातं प्रश्नान्ताभिपूजितयोरिति टेरनुदातो भवति - शोभनः खल्वसि देवदत इति, तत्र तेन गुरोरुदातः प्लुतः स्यात्, तस्माट्टिरेव समुच्चेतव्यः । तत्र ह्यएकैकस्येति वचनात् यथाऽनन्त्यस्य पर्योयोऽयं भवति, तथाऽन्त्यस्य टेरपीति नास्ति यौगपद्यप्रसङ्गः । एकैकग्रहणं पर्यायार्थमिति । अन्यथाऽनन्तरोक्तेन प्रकारेणोदातानुदातयोः प्लुतयोः समावेशः स्यात् । क्वचित्पठ।ल्ते - प्रत्यभिवाद इत्येवमादिना यः प्लुतो विहितस्तस्यैवायं स्थानिविशेष उच्यत इति । तस्यार्थः - नेदं स्वतन्त्रं प्लुतविधानम्, किं तर्हि ? प्रत्यभिवादे दूराद्धूते च यः प्लुतो विहितः स गुरोरनन्त्यस्यापि भवति, अन्त्यस्यापि टेः पर्यायेणेति । तेन प्रत्यभिवाद्यमानार्थस्य हूयमानार्थस्य च शब्दस्येदं प्लुतविधानम्, न यत्र तत्र स्थितस्य गुरोरिति द्रष्टव्यम् । प्राचांग्रहणं विकल्पार्थमिति । तेन पक्षे न कस्यचिदपि प्लुतो भवति । तदनेनेत्यादि । तदिति वाक्योपन्यासे । ठग्नीत्प्रेषणे परस्य चऽ इत्यत्र भाष्यकारेण यदेतदुच्यते -'सर्व एव प्लुतः' इत्यादि, तदुपपन्नं भवतीत्यर्थः । ननु यत्र प्राचांग्रहणमस्ति स प्लुतो विकल्पताम्, सर्वस्य तु कथं विकल्पः ? एवं तर्हि प्राचांग्रहणं सर्वत्रैव प्लुतविधौ सम्बन्धनीयम्, शास्त्रत्यगः साहसम् ! तेन शास्त्रमत्यजताप्यभियुक्तस्मरणात्सर्व एव प्लुतो विभाषा विधेय इत्यर्थः ॥
Nyaas
-----
प्रत्यभिवादादिषु वाक्यस्य टेः प्लुत उदात्तः। स एव तु ऋकारवर्जितस्य गुरोरनन्त्यस्य प्लुत उच्यते। `अव्त्यस्यापि टेः` इति। अनेनापिशब्दष्टेः तमुच्चयं करोतीति दर्शयति। यदि ह्रपिशब्देन गुरोः समुच्चयः क्रियते, अनन्त्यस्यापि,गुरोरन्त्यस्यापीति, तदानेन गुरावनन्त्ये प्लुतः। लघुरन्त्यः पूर्वेण प्लुत एव। ततश्च द्वयोः प्लुतयोः श्रवणं युगपत्? प्रसज्येत। न च **अनुदात्तं पदमेकवर्जम्** (6.1.158) इति वचनान्न भविष्यतीति शक्यं वक्तुम्; तस्मिन्? कर्तव्ये प्लुतस्यासिद्धत्वात्। यदा टिसंज्ञकोऽपिशब्देन समुच्चीयते तदानेनैव सूत्रेणान्त्यस्य[सूत्रेणानन्त्यस्य -प्रांउ।पाठः] गुरोरनन्त्यस्य च टेः प्लुतो विधीयते। तत्रैकैकस्येति वचनाद्यथानन्त्यस्य पर्यायो न भवति, तथान्त्यस्यापीति न भवति यौगपद्यप्रसङ्गः। `एकैकग्रहणम्` इत्यादि। यद्येकैकग्रहणं न क्रियत, तदा पक्षे युगपदेव सर्वेषां प्रसज्येत। तस्मात्? पर्यायेण यथा स्यादित्येनमर्थमेकैकग्रहणम्। एतच्च `यथोद्देशं संज्ञापरिभाषम्` (व्या।प।59) इत्याश्रित्य कृतमिति वेदितव्यम्। दर्शनान्तरे **अनुदात्तं पदमेकवर्जम्** (6.1.158) इत्यस्योपस्थाने सति न प्लुतयोद्र्वयोर्यौगपद्यप्रसङ्गः। अथ प्राचामिति किम; यावतैकैकग्रहणादेव विभाषा सिध्येत्? इत्यत आह -`प्राचाम्` इति। सर्वस्य प्लुतस्येत्यभिप्रायः। अत एवाह -`तदनेन` इत्यादि। अपायहेतुमविमृश्य प्रवृत्तिः=साहसम्॥
Praudhamanorama
---------------
अपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थः। **देवदत्तेति।** अस्यैहीत्यादिः। एवमग्रेऽपि। **सर्वः प्लुत इति।** तथा च 'अग्नीत्प्रेषणे परस्य च' इति सूत्रे भाष्यम् ' सर्वः प्लुतः साहसमनिच्छताऽपि विभाषा कर्तव्यः' इति। साहसं शास्त्रत्यागः, तदनिच्छताऽपि—शास्त्रमनुरुन्धानेनापीत्यर्थ इति हरदत्तः। वैकल्पिकेष्वनुष्ठानक्लेशं धर्माधिक्यफलकमप्यशक्यत्वादनिच्छतेत्यर्थ इत्यन्ये । एतेन 'द्वैपायनो विरहकातर आजुहाव पुत्रेति' भागवतं व्याख्यातम्। प्लुतस्य वैकल्पिकत्वात्। किं चेह पुत्रशब्दस्य वाक्यान्तत्वं नास्तीत्यपि सुवचम्, आख्यातप्राग्वर्तिनोऽप्यनुकरणसम्भवात्। अपि च अस्तु प्लुतः, प्रकृतिभावस्तु वैरल्पिकत्वान्मास्तु। तथा च 'ई चाक्रवर्मणस्य' इति सूत्रे भाष्यम्—'ईग्रहणेन नार्थः वशा इयं वशेयमिति'। प्लुतप्रकृतिभावः सर्वोऽपि दुर्लभ एव, 'अप्लुतवदुपस्थिते' इति सूत्रात्। उपस्थितं नामावैदिक इतिशब्दस्तस्मिन्परे प्लुतोऽप्लुतवत्स्यादिति हि तस्यार्थः। एवं चतुर्धापि निर्वाहे स्पष्टे आर्षः प्रयोग इति श्रीधरोक्तिर्नादर्तव्या॥
Prakriyasarvasvam
-----------------
प्राचां मते ऋकारवर्जितस्य गुरोर्वानन्त्यस्य वा टेर्वा एकैकस्य प्लुतः स्यात्, न तु वाक्यटेरेव । प्रत्यभिवाददूराद्धूतप्लुत्योरयं स्थानविकल्पः । तेनात्रानन्त्यटेः प्लुतः । प्राग्वत् प्रकृतिभावः । वृष्णिवीर३ इह । अनृतो गुरोः प्लुते तु वृष्णिवी३रेह । गुरोरित्युक्त्या ष्णि इत्यस्य न । अनृत इत्युक्त्या वृ इत्यस्य न । लक्ष्याः सम्बुद्धौ प्लुते कृते लक्षिम३१ एहि ।