82077: हलि च ============ **Padacheda:** हलि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **रेफ-वकारान्त-धातोः उपधाभूतस्य इक्-वर्णस्य हल्-वर्णे परे दीर्घादेशः भवति ।** यस्य धातोः अन्ते रेफः वकारः वा अस्ति तस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । उदाहरणानि एतानि - 1. 'तॄ' धातोः कर्मणि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तॄ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → तॄ + त [**भावकर्मणोः** (1.3.13) इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । **तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः] → तॄ + यक् + त [**सार्वधातुके यक्** (3.1.67) इति विकरणप्रत्यय यक्] → तिर् + यक् + त [**ऋत इद्धातोः** (7.1.100) इति ॠकारस्य इकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → तिर् + य + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारादेशः] → तीर् य ते [**हलि च** इति रेफान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः] → तीर्यते । 2. 'दिव्' धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दिव् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → दिव् + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → दिव् + श्यन् + तिप् [**दिवादिभ्यः श्यन्** (3.1.69) इति विकरणप्रत्ययः श्यन्] → दिव् + य + ति [इत्संज्ञालोपः] → दीव्यति [**हलि च** इति वकारान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः] ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रयोगः 'अपदान्त'धातोः विषये एव भवति, यतः यदि धातुः पदसंज्ञकः अस्ति तर्हि **र्वोरुपधायाः दीर्घः इकः** (8.2.76) अनेन पूर्वसूत्रेणैव दीर्घादेशः विधीयते । अतः अस्मिन् विषये काशिकाकारः वदति - 'अपदान्तार्थः ऽयमारम्भः' । अतः यद्यपि एतत् सूत्रम् पदाधिकारे अस्ति, तथापि अनेन सूत्रेण उक्तः विधिः अपदान्तविधिः अस्तीति स्मर्तव्यम् । 2. अस्मिन् सूत्रे 'र्वोः' इति 'धातोः' इत्यस्य विशेषणरूपेण प्रयुज्यते । 'र्वोः धातोः' इत्यत्र **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन 'रेफ-वकारान्त-धातोः' इति अर्थः जायते । Sutrartha (English) ------------------- The उपधा letter of a रेफान्त or a वकारान्त धातु becomes दीर्घ if that letter belongs to the इक् प्रत्याहार and if the धातु is followed by a हल् letter. Vasu English Summary -------------------- Of a root ending in र् or व् , the penultimate इ or उ is lengthened before a consonantal beginning affix. Vasu English Translation ------------------------ Of a root ending in र् or व् , the penultimate इ or उ is lengthened before a consonantal beginning affix. Thus आस्तीर्णम्, विस्तीर्णम्, विशीर्णम्, अवगूर्णम्, all ending in र् ॥ So also, दीव्यति, सीव्यति ending in व् ॥ The phrase "of the root", is understood here also. Therefore not here, दिव्यति and चतुर्यति, which are derived from the nouns दिव and चतुर i.e. दिवमिच्छति = दिव्यति, and चतुर इच्छति = चतुर्यति ॥ The phrase इकः "of the vowels इ or उ" is understood here also. Therefore not here, स्मर्यते, भव्यम् ॥ This rule applies to cases which are not final in a *pada*: but to cases where र् or व् are in the middle of a *pada* or word. Kashika ------- हलि च परतो रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य — दीव्यति। सीव्यति। धातोरित्येव — दिवमिच्छति दिव्यति। चतुर इच्छति चतुर्यति। इक इत्येव — स्मर्यते। भव्यम्। अपदान्तार्थोऽयमारम्भः॥ Siddhanta Kaumudi ----------------- रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥ Laghu Siddhanta Kaumudi ----------------------- रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥ Tattvabodhini ------------- हलि च। `र्वोरुपधाया दीर्घ इकः`इत्यनुवर्तते, `सिपि धातोः`इत्यतो `धातो`रिति च, तच्च धातुग्रहणं र्वो`रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह - रेफवान्तस्य धातोरित्यादि। रेफान्तस्य तु `गीर्यति``पर्यति``गीर्णं``पूर्ण`मित्याद्युदाहरणानि। धातोः किम्? रेफान्तस्य पदस्य मा भूत्। अग्निः करोति। वायुः करोति। नन्वस्तु धातोरनुवर्तनं परंतु `र्वो`रित्यनेन धातुर्न विशेष्यते -`रेफवान्तस्य धातो`रिति, किं तु इग्विशेष्यते, -`रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत्`। अन्तशब्दोऽत्र समीपवाची। तथाच `उपधायां चे`ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम्। `कुर्कुरीयती`त्यादवतिप्रसङ्गः स्यात्। तस्मात् `र्वो`रित्यनेन धातुरेव विशेष्यः। एतच्चाकरे स्पष्टम्। यत्तु `उपधायां चे`ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात्। उक्तन्यायेनेति। यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः। प्रतिदिव्न इथि। न भकुर्छुरा`मित्यत्र `र्वो`रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात्। Nyaas ----- `दिव्यति, चतुर्यति` इति। दिव्? चतुर् -इत्युभयं प्रातिपदिकमत्र, तेन न भवति। `स्मेर्यते` इति। भावे यक्, `गुणोर्त्तिसंयोगाद्योः` (7.4.29) इति गुणः। `भव्यम्` इति। `अचो यत्` (3.1.97) गुणः; **धातोस्तन्निमित्तस्यैव** (6.1.80) इत्यवादेशः॥ Prakriyasarvasvam ----------------- हलि परे रान्तस्य वान्तस्य च धातोरुपधाया इको दीर्घः स्यात् । णत्वं, तीर्णः । तीर्णवान् । कीर्णः । दकारान्नत्वम् । भिन्नः । छिन्नः ॥ Sutra Prayogas -------------- * **चञ्चूर्यमाणा** (भट्टिकाव्यम्): `हलि च` इति दीर्घत्वम्। * **जीर्णं** (भट्टिकाव्यम्): `इको हलि च` इति दीर्घः।