82076: र्वोरुपधाया दीर्घ इकः ============================ **Padacheda:** र्वोः | S | 6 | 2 | उपधायाः | S | 6 | 1 | दीर्घ | S | 1 | 1 | इकः | S | 6 | 1 | Sutrartha --------- **रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक्-वर्णस्य दीर्घादेशः भवति ।** यस्य अन्ते रेफः वकारः वा अस्ति, यस्य च धातुसंज्ञा अपि अस्ति, तादृशस्य पदस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य दीर्घादेशः भवति । यथा - 1) 'गॄ' (निगरणे) धातोः क्विप्-प्रत्यये कृते 'गिर्' इति रेफान्तशब्दः सिद्ध्यति । **क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति** अनेन सिद्धान्तेन गिर्-शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयाद्विवचनस्य प्रक्रिया इयम् - गिर् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन अङ्गस्य पदसंज्ञा भवति ।] → गीर् + भ्याम् [**र्वोरुपधाया दीर्घ इकः** (8.2.76) इति रेफान्तस्य धातुसंज्ञकस्य पदस्य उपधा-ईकारस्य दीर्घः] → गीर्भ्याम् 2) 'आशिस्' अयम् शब्दः आङ्-उपसर्गपूर्वक-शास्-धातोः क्विप्-प्रत्ययं कृत्वा जायते । **क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति** अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य प्रथमैकवचनस्य प्रक्रिया इयम् जायते - आशिस् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → आशिस् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → आशिर् [**ससजुषोः रुँ** (8.2.66) इति रुँत्वम्] → आशीर् [**र्वोरुपधायाः दीर्घः इकः** (8.2.76) इति उपधादीर्घः] → आशीः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] ज्ञातव्यम् - अस्मिन् सूत्रे यद्यपि 'वकार'ग्रहणम् कृतमस्ति, तर्हि वकारान्त-धातुसंज्ञकस्य-पदस्य विषये (यथा - दिव्, सुदिव्) अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः अस्मिन् सूत्रे वस्तुतः वकारग्रहणम् न आवश्यकम् । परन्तु अग्रिमसूत्रे तस्य प्रयोजनं विद्यते अतः अत्र तस्य ग्रहणं कृतमस्ति । Sutrartha (English) ------------------- The उपधा letter of a रेफान्त or a वकारान्त पद which also has a धातुसंज्ञा becomes दीर्घ if that letter belongs to the इक् प्रत्याहार. Vasu English Summary -------------------- A penultimate इ or उ is lengthened, when the र् or व् of a root can stand at the end of a word. Vasu English Translation ------------------------ A penultimate इ or उ is lengthened, when the र् or व् of a root can stand at the end of a word. Thus गीः, धूः, पूः, आशीः ॥ These are all examples of roots ending in र् ॥ Of roots ending in व्, examples will be given in the next *sutra*. Why have we used the word 'penultimate'? Observe अबिभर् भवान्, here the इ of the reduplicative syllable is not to be lengthened. Why do we say 'of इक् vowels'? So that the अ of भ in the above example अबिभर् may not be lengthened. The word धातोः 'of a root' is understood here also. Therefore इ and उ are not lengthened in अग्निः, वायुः ॥ The word पदस्य is understood here also, therefore, not here, गिरौ, गिरः ॥ Kashika ------- रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति। गीः। धूः। पूः। आशीः। वकारग्रहणमुत्तरार्थम्। उपधाग्रहणं किम्? अबिभर्भवान्। अभ्यासेकारस्य मा भूत्। इक इति किम्? अत्रैव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोरित्येव — अग्निः। वायुः। पदस्येत्येव — गिरौ, गिरः॥ Siddhanta Kaumudi ----------------- रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि (SK151) इति वा विसर्जनीयः ॥ Laghu Siddhanta Kaumudi ----------------------- रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ Tattvabodhini ------------- **र्वोरुपधाया दीर्घ इकः** - ॒षङ्भयो लुक्षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्षडर्थप्राधान्ये एव लुङ्नुटौ भवत इति भावः । पिपठिषतेः क्विप्यतो लोपे कृदन्तत्वात्स्वाद्युत्पत्तौपिपठिष् — सु इति स्थिते सोर्हल्ङ्यादिलोपे प्रत्ययलक्षणेन पदान्तत्वात्सस्य रुर्भवति । न च रुत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वं शङ्क्यं, पूर्वत्रासिद्धे तन्निषेधात् । Padamanjari ----------- धातोः, पदस्य - इत्युभयं समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - रेफवकारान्तस्येति । वग्रहणमुतरार्थमिति । इह तु वकारान्तस्य पदस्य धातोरसम्भवः । अभ्यासेकारस्य मा भूदिति । यदि स्यात्, तस्यासिद्धत्वाद्'ह्रस्वः' इति ह्रस्वो न स्यात् ॥ Nyaas ----- पदस्येत्येव, धातोरिति च, तदुभयमिह समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशे णेन च तदन्तविधिर्भवतीत्याह -`रेफवकारान्तस्य` इति। वकारस्योदाहरणं कसमान्न प्रदर्शितम्? इत्याह -`दकारग्रहणमुतरार्थम्` इति। तेन वकारान्तस्योदाहरणं न प्रदर्शितमिति भावः। एतदर्थं तु तन्न भवति; वकारान्तस्य पदस्य धातोरसम्भवात्। `अबिभः` इति। भृञो लङ्, तिप्, गुणः, रपरत्वम्, **जुहोत्यादिभ्यः श्लुः** (2.4.75) , द्विर्वचनम्, `उरत्` (7.4.66) इत्यत्त्वम्, `भृञामित्` (7.4.76) इतीत्त्वम्, हल्ङ्यादिलोपः (6.1.66) ॥ Prakriyasarvasvam ----------------- वग्रहस्योर्ध्वसूत्रे फलम् । रान्तस्य धातोः पदान्त उपधाया इको दीर्घः स्यात् । मूः । मुरौ । तुर्वीं हिंसार्थः । तुर् दीर्घः । तूः तुरौ । Sudha ----- र्वोरुपधाया इति । **सिपि धातो रुर्वा**(8.2.74) इत्यतो धातोरित्यनुवर्तते । र्वो इति तद्विशेषणम् । तदन्तविधिः । **पदस्य**(8.1.16) इत्यधिकृतम् । **स्कोः संयोगाद्योरन्ते च**(8.2.29) इत्यतो अन्ते इत्यनुवर्तते तदाह - रेफवान्तयोरित्यादिना । पिपठीः । पिपठिष + सु इत्यत्र सोर्लोपे, रुत्वे कर्तव्ये **पूर्वत्रासिद्धम्**(8.2.1) इति षत्वस्यासिद्धत्वाद् **ससजुषो रुः**(8.2.66) इति रुत्वे उकारस्येत्संज्ञायां लोपे च 'पिपठिर्' इति जाते **र्वोरुपधाया दीर्घ इकः**(8.2.76) इति उपधाया इकारस्य दीर्घे **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गत्वे 'पिपठीः' इति रूपम् । पिपठिषौ । पिपठिस् + औ अत्र **आदेशप्रत्यययोः**(8.3.59) इति षत्वे संयोगे च कृते 'पिपठिषौ' इति । पिपठीर्भ्याम् । पिपठिष् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां षत्वस्यासिद्धत्वात् **ससजुषो रुः**(8.2.66) इति रुत्वे उकारस्येत्सञ्ज्ञायां लोपे च **र्वोरुपधाया दीर्घ इकः**(8.2.76) इति ठकारोत्तरवर्तिन इकारस्य दीर्घे 'पिपठीर्भ्याम्' इति रूपम् । Sutra Prayogas -------------- * **अवतीर्णवान्** (शिशुपालवधम्): `र्वोरुपधाया दीर्घ इकः` इति दीर्घः। * **प्रावुवूर्षु** (भट्टिकाव्यम्): `वरुपधाया दीर्घ इकः` इति दीर्घः।