82073: तिप्यनस्तेः ================== **Padacheda:** तिपि | S | 7 | 1 | अनस्तेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- द is substituted for the final स् of a root with the exception of अस् 'to be' , before the personal ending ति (त्) when it stands at the end of a word. Vasu English Translation ------------------------ द is substituted for the final स् of a root with the exception of अस् 'to be' , before the personal ending ति (त्) when it stands at the end of a word. The स् of a root can stand at the end of a word when the Personal-ending is dropped. Thus अचकाद् भवान्, अन्वशाद् भवान्, from the roots चकास् and शास् ॥ The Personal affix is elided by (6.1.68), and thereby स् comes to stand at the end of a *Pada*. Why do we say 'before तिप्'? Observe चकास् formed by क्विप् affix added to the root. Why do we say 'with the exception of अस्'? See आप एवेदं सलिलं सर्वम् आः ॥ Here आः is the Imperfect 3rd Person singular of अस् ॥ The ईट् is not added as a Vedic irregularity. See (7.3.93), (7.3.97). Kashika ------- तिपि परतः सकारान्तस्य पदस्यानस्तेर्दकार आदेशो भवति। अचकाद् भवान्। अन्वशाद् भवान्। तिपीति किम्? चकास्तेः क्विप्, चकाः। अनस्तेरिति किम्? आप एवेदं सलिलं सर्वमाः। आ इत्यस्तेर्लङि तिपि **बहुलं छन्दसि** (७.३.९७) इतीड् न कृतः॥ Siddhanta Kaumudi ----------------- पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥ Laghu Siddhanta Kaumudi ----------------------- पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥ Balamanorama ------------ **तिप्यनस्तेः** - र्वोरुपधायाः । र्च, व् च र्वौ, तयोरिति विग्रहः । 'सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः ।पदस्ये॑त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह — रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीभ्र्यामिति । 'स्वादिषु' इति पदत्वात् 'र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः । सुपि विशेषमाह — वा शरीति । पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वंवा शरी॑ति विकल्पेन विसर्जनीयः । तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- । Nyaas ----- र्वोरुपधायाः। र्च, व् च र्वौ, तयोरिति विग्रहः। `सिपि धातो रुर्वा` इत्यतो धातोरित्यनुवर्तते। र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः। `पदस्ये`त्यधिकृतम्। `स्कोः संयोगाद्योः` इत्यतोऽन्ते इत्यनुवर्तते। तदाह -रेफेत्यादिना। पिपठीरिति। ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः। पिपठीभ्र्यामिति। `स्वादिषु` इति पदत्वात् `र्वोरुपधायाः` इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः। सुपि विशेषमाह -वा शरीति। पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वं `वा शरी`ति विकल्पेन विसर्जनीयः। तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः। तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् `आदेशप्रत्यययोः` इति षत्वे अप्राप्ते-।