82068: अहन् =========== **Padacheda:** अहन् | S | | | 6 Sutrartha --------- **अहन्-इत्यस्य पदान्ते रुँत्वं भवति ।** "अहन्" (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा भवति, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण **रुँ** इति आदेशः विधीयते । सुप्-प्रत्यये परे **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदसंज्ञायां जातायाम् अस्य सूत्रस्य प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतादृशानि — 1. अहन्-शब्दस्य तृतीयाद्विवचनस्य "अहोभ्याम्" इति रूपम् इत्थं सिद्ध्यति — .. code-block:: text अहन् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः] → अहरुँ + भ्याम् [भ्याम्-प्रत्यये परे **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य **अहन्** (8.2.68) इति रुँत्वम् जायते ] → अहउ + भ्याम् [**हशि च** (6.1.114) इति उत्वम्] → अहोभ्याम् [**आद्गुणः** (6.1.87) इति गुणैकादेशः] 2. अहन्-शब्दस्य तृतीयाबहुवचनस्य भिस्-प्रत्यये परे "अहोभिः" इति रूपम् इत्थं सिद्ध्यति — .. code-block:: text अहन् + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः] → अहरुँ + भिस् [भिस्-प्रत्यये परे **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति अहन्-शब्दस्य पदसंज्ञा भवति, अतः तस्य पदान्तनकारस्य **अहन्** (8.2.68) इति रुँत्वम् जायते ] → अहउ + भ्याभिस्म् [**हशि च** (6.1.114) इति उत्वम्] → अहोभिस् [**आद्गुणः** (6.1.87) इति गुणैकादेशः] → अहोभिः [**ससजुषो रुँः** (8.2.66) इति प्रत्ययसकारस्य रुँत्वम्, ततः **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः । ] 3. अहन्-शब्दस्य सप्तमीबहुवचनस्य "अहस्सु" इति रूपम् इत्थं सिद्ध्यति — .. code-block:: text अहन् + सु [सप्तमीबहुवचनस्य प्रत्ययः] → अहरुँ + सु [**स्वादिष्वसर्वनामस्थाने** (1.4.17) इति अहन्-इत्यस्य पदसंज्ञा । **अहन्** (8.2.68) इत्यनेन नकारस्य रुत्वम् ।] → अहर् + सु [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → अहः + सु [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → अहस्सु [**वा शरि** (8.3.36) इति विसर्गस्य विकल्पेन सत्वम्] सुप्-प्रत्ययस्य यत्र **लुक्** भवति, तत्र प्रकृतसूत्रेण उक्तम् रुँत्वं अपवादत्वेन बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः विधीयते । अतः अहन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य **स्वमोर्नपुंसकात्** (7.1.23) इत्यनेन लुकि कृते इदं सूत्रं नैव प्रवर्तते । एवमेव, समासेषु यत्र अहन्-शब्दः पूर्वपदरूपेण प्रवर्तते, तत्र **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन सुप्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रं न प्रवर्तते । **तदन्तविधिः** इत्यनया परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते, अतः यस्य अन्ते 'अहन्' शब्दः अस्ति तादृशस्य शब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति । यथा - "दीर्घम् अहः यस्मिन् सः (मासः / ऋतुः)" इति बहुव्रीहिसमासे कृते "दीर्घाहन्" इति यत् प्रातिपदिकं सिद्ध्यति, तस्य सुबन्तप्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः दृश्यते । यथा, "दीर्घहन्"-शब्दस्य प्रथमैकवचनम् एतादृशं सिद्ध्यति — .. code-block:: text दीर्घाहन् + सुँ + मासः [प्रथमैकवचनस्य प्रत्ययः] → दीर्घाहन् + स् + मासः [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → दीर्घाहन् मासः [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सुँ-प्रत्ययस्य लोपः । प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं प्रवर्तते, अतः "दीर्घाह न" इत्यस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।] → दीर्घाहान् मासः[**सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः।] → दीर्घाहारुँ मासः [**अहन्** (8.2.68) इत्यनेन पदान्तनकारस्य रुत्वम् भवति । यद्यपि प्रकृतसूत्रेण उक्तम् रुँत्वम् अङ्गकार्यसदृशम् स्वीक्रियते, तथापि अत्र अत्र **न लुमताङ्गस्य** (1.1.63) इति निषेधः न प्रवर्तते, यतः अत्र सुँ-प्रत्ययस्य **लोपः** कृतः अस्ति, न हि लुक् । अतः अत्र नकारस्य रुत्वम् अवश्यं विधीयते ।] → दीर्घाहाय् मासः[**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति पदान्त-रुँ-इत्यस्य यकारादेशः] → दीर्घाहा मासः [**हलि सर्वेषाम्** (8.3.22) इति यकारलोपः] **वार्त्तिकम् - ** सुप्-प्रत्ययस्य यत्र लुक् भवति तत्र **अहन्** (8.2.68) इति सूत्रेण प्राप्तं रुँत्वं बाधित्वा **रोऽसुपि** (8.2.69) इति सूत्रेण रेफादेशः विधीयते । परन्तु **केषुचन स्थलेषु सुब्लुकि कृते अपि रुत्वम् एव इष्यते** । तादृशानां स्थलानां परिगणनार्थम् वार्त्तिककारः इति वार्त्तिकं निर्माति । "रुप", "रात्रि", "रथ" — एतेभ्यः कश्चन शब्दः उत्तरपदरूपेण विद्यते चेत् पूर्वपदरूपेण स्थितस्य "अहन्"-शब्दस्य रेफस्य **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुत्वम् एव भवति — इति अस्य वार्त्तिकस्य अर्थः । उदाहरणानि एतानि — 1. "रूप"-शब्दे परे — .. code-block:: text अह्नः रूपम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः] → अहन् + रूप [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्] → अह रुँ + रुप [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्] → अहउ + रुप [**हशि च** (6.1.114) इति उकारः] → अहोरुप [**आद्गुणः** (6.1.87) इति गुणैकादेशः] 2. "रात्रि"-शब्दे परे — "गतम् अहः, रात्रिः एषा" (The day has passed, this is the night) इत्यस्य निर्माणे संहितायाम् सत्याम् अहन्-शब्दस्य नकारस्य रात्रि-शब्दे परे रुँत्वं भवति । प्रक्रिया इयम् — .. code-block:: text गतम् (अहन् + सुँ), रात्रिः एषा → गतम् (अहन् + ०), रात्रिः एषा [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् भवति ।] → गतम् अह रुँ + रात्रिः एषा [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् ।] → गतम् अह उ + रात्रिः एषा [**हशि च** (6.1.114) इति उत्वम्] → गतम् अहोरात्रिः एषा [**आद्गुणः** (6.1.87) इति गुणैकादेशः] **अहोरात्रम्** इति शब्दस्य सिद्धौ अपि अनेनैव वार्त्तिकेन रुँत्वं भवति — .. code-block:: text अहः च रात्रिः च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.8) इति द्वन्द्वसमासः] → अहन् + रात्रि + अच् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** (5.4.87) इति समासान्तः अच्-प्रत्ययः] → अहन् + रात् र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → अहरुँ + रात्र [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम् । अत्र **एकदेशविकृतमनन्यवत्** इति परिभाषाम् आश्रित्य रात्र-शब्दम् रात्रि-शब्दसदृशम् एव स्वीकृत्य प्रकृतवार्त्तिकस्य प्रयोगः भवति । ] → अहउ + रात्र [**हशि च** (6.1.114) इति उकारः] → अहो + रात्र [**आद्गुणः** (6.1.87) इति गुणैकादेशः] → अहोरात्र 3. "रथन्तर"-शब्दे परे — .. code-block:: text अह्नः रथन्तरम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः] → अहन् + रथन्तर [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक्] → अह रुँ + रथन्तर [सुब्लुकि **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा पदान्तनकारस्य इति वार्त्तिकेन रुँत्वम्] → अहउ + रथन्तर [**हशि च** (6.1.114) इति उकारः] → अहोरथन्तर [**आद्गुणः** (6.1.87) इति गुणैकादेशः] **केचन वैयाकरणाः अत्र **सर्वेषु अपि रेफादौ शब्देषु परेषु रुँत्वम् भवति** — इति मन्यन्ते** । इत्युक्ते, तेषाम् मतेन केवलम् "रूप", "रात्रि", "रथन्तर" इत्येव न अपि तु "रम्य", "रत्न", "राजन्", "रमते" इत्येतेषु अन्येषु रेफादिशब्देषु परेषु अपि अहन्-शब्दस्य नकारस्य **रोऽसुपि** (8.2.69) इत्यनेन प्राप्तं रेफादेशं बाधित्वा रुँत्वम् एव भवति, येन "अहोरम्यम्", "अहोरत्नानि", "अहोराजः", "अहो रमते" इत्येतानि रूपाणि सिद्ध्यन्ति । ये वैयाकरणाः अमुं पक्षं न स्वीकुर्वन्ति, तेषां मतेन तु एतेषु उदाहरणेषु **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशे कृते, ततः **रो रि** (8.3.14) इति रेफलोपे, ततः च **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घादेशे कृते "अहारम्यम्", "अहारत्नानि", "अहाराजः", "अहा रमते" इत्येतानि रूपाणि एव उचितानि ज्ञेयानि । **आश्रयात् सिद्धत्वम्** प्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् **हशि च** (6.1.114) इत्यस्य कृते **आश्रयात् सिद्धम्** अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति । अतएव उपरि "अहोभ्याम्", "अहोभिः", "दीर्घाहा दिवसः" इत्येतेषाम् प्रक्रियासु प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् **हशि ** (6.1.114) इति सूत्रं प्रयुक्तं दृश्यते । **निर्देशसामर्थ्यात् नकारलोपः न भवति** "अहन्"-शब्दस्य पदसंज्ञायां जातायाम् वस्तुतस्तु **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारस्य लोपः भवेत् । परन्तु तादृशः नकारलोपः क्रियते चेत् प्रकृतसूत्रस्य प्रयोगस्य अवकाशः एव विनश्येत् । अतः प्रकृतसूत्रस्य विधानसामर्थ्यात् एव इदं सूत्रम् **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यस्य अपवादरूपेण प्रयुज्यते । इत्युक्ते, पदसंज्ञकस्य अहन्-शब्दस्य नकारस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारलोपः न भवति, अपि तु प्रकृतसूत्रेण रुँत्वम् एव प्रवर्तते । अतएव, **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यत्र इति वार्त्तिकम् अपि भाष्यकारेण पाठितम् दृश्यते । **बाध्यबाधकभावः** ****रोऽसुपि** (8.2.69) इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते** । सुप्-भिन्ने प्रत्यये शब्दे वा परे अहन्-शब्दस्य नकारस्य प्रकृतसूत्रेण प्राप्तं रुँत्वं बाधित्वा **रोऽसुपि** (8.2.69) इत्यनेन रेफादेशः भवति । यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्रापि **रोऽसुपि** (8.2.69) इत्यस्यैव प्रयोगः क्रियते, न हि प्रकृतसूत्रस्य । Sutrartha (English) ------------------- The word अहन् gets रुँत्व at पदान्त. Vasu English Summary -------------------- रु is also substituted for the न् of अहन् at the end of a word. Vasu English Translation ------------------------ रु is also substituted for the न् of अहन् at the end of a word. Thus अहोभ्याम्, अहोभिः ॥ The sutra exhibits the form अहन् without the elision of न्, in order to indicate that there is not elision of न् ॥ As दीर्घाहो, निदाघः, हे दीर्घाहोऽत्रेति ॥ See *Vartika* to (8.2.7). The न् of अहन् is not changed to र् in the *sutra* by (8.2.69), because it is intended to show the word-form अहन् ॥ The Nominal stem is *Pada* in the above examples by (1.4.17). Vart:- Before the words रूप, रात्रि and रथन्तर, the न् of अहन् is changed to र् ॥ As अहोरूपम्, अहोरात्रः, अहोरथन्तरं साम ॥ This is an exception to (8.2.69). Others say, that this र् change takes place universally before all words beginning with र; as अहो रम्यम्, अहो रत्नानि ॥ Bhashya ------- अहन् ॥ रुत्वविधावह्नो(1) रूपरात्रिरथन्तरेषूपसङ्ख्यानम्(2)॥ रुत्वविधावह्नो(1) रूपरात्रिरथन्तरेषूपङ्ख्यानं कर्तव्यम्। अहोरूपम्। अहोरात्रः(7)। अहोरथन्तरं साम॥झ्र्अहन्ट॥ Kashika ------- अहन्नित्येतस्य पदस्य रुर्भवति। अहोभ्याम्। अहोभिः। नलोपमकृत्वा निर्देशो ज्ञापकः — नलोपाभावो यथा स्यादिति। दीर्घाहा निदाघः। हे दीर्घाहोऽत्रेति। अहन्नित्यत्र तु लाक्षणिकत्वात् अहन्शब्दस्य रुर्न भवति॥ अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसंख्यानं कर्तव्यम्॥ अहोरूपम्। अहोरात्रः। अहोरथन्तरम्। **रोऽसुपि**(८.२.६९) इत्यस्यापवादो रुत्वमुपसंख्यायते। अपर आह — सामान्येन रेफादौ रुत्वं भवति — अहोरम्यम्, अहोरत्नानीति॥ Siddhanta Kaumudi ----------------- अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोः (SK2405) इति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा व्रश्च (SK294)इति सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न (SK228) इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । उर्क् । उर्ग् । ऊर्जि । ऊन्र्जि । नरजानां संयोगः । (वार्तिकम्) । (वार्तिकम्) ॥ बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित् । बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥ गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥ 1 ॥ स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ 2 ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विक् (SK373) आदिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्य (SK88) इत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषा (SK87) इति प्रकृतिभावे गोअक् । गोअग् । पूर्वरूपे । गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् अचः (SK416) इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ॥ जश्शसोः शिः (SK312) ॥ शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षेङ्णोः कुग् (SK130) इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्द्धन्त एव ॥ ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् । रूपान्यश्वाक्षिभूतानि (SK527) भवन्तीति मनीषिभिः ॥ 1 ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन् (SK228) इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥ Laghu Siddhanta Kaumudi ----------------------- अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् ॥ दण्डि । **सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः** (वार्त्तिकम्) । हे दण्डिन्, हे दण्डि । दण्डिनी । दण्डीनि । दण्डिना । दण्डिभ्याम् ॥ सुपथि । टेर्लोपः । सुपथी । सुपन्थानि ॥ ऊर्क्, ऊर्ग् । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ॥ यत् । ये । यानि ॥ एतत् । एते । एतानि ॥ गवाक्, गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम् ॥ शकृत् । शकृती । शकृन्ति ॥ ददत् ॥ Balamanorama ------------ **हलि च** - हलि च ।र्वोरुपधाया दीर्घ इकः॑ इत्यनुवर्तते । 'सिपि धातोः' इत्यतो धातोरिति च । तच्च र्वोरित्यनेन विशेष्यते । तदन्तविधिः । तदाह-रेफवान्तस्येत्यादिना । रेफान्तस्य-जीर्यतीत्युदाहरणम् । अपदान्तत्वात् 'र्वोरुपधायाः' इत्यप्राप्ते विधिः । प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलि परे वान्तस्य दिव्धातोरूपधाया इकारस्य दीर्घ इति भावः । ननुअचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्याशङ्क्य परिहरति — नचेति । कुत इत्यत आह — दीर्घविधौ तन्निषेधादिति ।न पदान्ते॑ति सूत्रेण दीर्घवधौ स्थानिवत्त्वनिषेधादित्यर्थः । नन्वेवमपि भसंज्ञापेक्षस्याऽल्लोपस्य बहिर्भूतप्रत्ययापेक्षत्वेन बहिरङ्गतया तस्याऽन्तरङ्गे दीर्घे कर्तव्येऽसिद्धत्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्यत आह-बहिरङ्गेति । यथोद्देशपक्षे षाष्ठीं परिबाषां प्रति श्चुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावे परिभाषाया अप्रवृत्तेरिति राजन्शब्दोक्तन्यायेन दीर्घस्याऽसिद्धतया तद्विषयेअसिद्धं बहिरङ्ग॑मिति परिभाषा न प्रवर्तते इति भावः । प्रतिदीव्न इति ।न भकुर्छुरा॑मिति निषेधस्तु वान्तस्याऽभत्वान्नेति भावः । इत्यादीति । प्रतिदिव्ने । प्रतिदीव्नः २ । प्रतिदीव्नोः २ । भ्यामादौ हलि राजवदित्यर्थः । यज्वन्शब्दः सुटि राजवदित्याह — यज्वेति । Tattvabodhini ------------- **हलि च** - हलि च ।र्वोरुपधाया दीर्घ इकः॑इत्यनुवर्तते,सिपि धातोः॑इत्यतोधातो॑रिति च, तच्च धातुग्रहणं र्वो॑रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह — — रेफवान्तस्य धातोरित्यादि । रेफान्तस्य तुगीर्यति॒॑पर्यति॒॑गीर्णं॒॑पूर्ण॑मित्याद्युदाहरणानि । धातोः किम् रेफान्तस्य पदस्य मा भूत् । अग्निः करोति । वायुः करोति । नन्वस्तु धातोरनुवर्तनं परंतुर्वो॑रित्यनेन धातुर्न विशेष्यते — ॒रेफवान्तस्य धातो॑रिति, किं तु इग्विशेष्यते, — ॒रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत् । अन्तशब्दोऽत्र समीपवाची । तथाचउपधायां चे॑ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम् ।कुर्कुरीयती॑त्यादवतिप्रसङ्गः स्यात् । तस्मात्र्वो॑रित्यनेन धातुरेव विशेष्यः । एतच्चाकरे स्पष्टम् । यत्तुउपधायां चे॑ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात् । उक्तन्यायेनेति । यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः । प्रतिदिव्न इथि । न भकुर्छुरा॑मित्यत्रर्वो॑रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात् । Padamanjari ----------- अहोभ्यामिति ।'हशि च' इत्युत्वम् । नलोपमकृत्वेत्यादि । नलोपविधावेतद्व्याख्यातम् । लाक्षमिकत्वादिति । अडागमेन अहन्निति रूपलाभात् । ह्रस्वविधाविति । समासे च लुमता लोपाद् रादेशे प्राप्ते रुत्वमुत्वार्थमुच्यते । अहोरूपमिति । षष्ठीसमासः । गतमहो रूपं पश्येत्यसमासः । अहोरात्र इति । ठहस्सर्वैकदेशऽ इत्यादिनाच् समासान्तः, इकारलोपे कृतेऽप्येकदेशविकृतस्यानन्यत्वादुत्वम् । रात्रग्रहणं तु न कृतम्; गतमहो रात्रिरागतेत्यसमासेऽपि रुत्वार्थम् ॥ Nyaas ----- **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नलोपे प्राप्ते विधीयते। ` अहोभ्याम्, अहोभिः` इति। `हशि च` (6.1.110) इत्युत्वम्, **आद्गुणः** (6.1.87) । `दीर्घाहो निदाघः` [`दर्घाहा` -काशिका, प्राचीनमुद्रितन्यासपाठश्च] इति। बहुव्रीहिः, हल्ङ्यादिलोपः (6.1.66) , रुत्वस्यासिद्धत्वात्? `सर्वनामस्थाने च` (6.4.8) इत्यादिना दीर्घः, `भोभगोअधो` (8.3.7) इत्यादिना रेफस्य यकारः, तस्य **हलि सर्वेषाम्** (8.3.22) इति लोपः। `हे दीर्घाहोऽत्रि` इति। **अतो रोरप्लुतादप्लुते** (6.1.113) इत्युत्वम्; **आद्गुणः** (6.1.87) , **एङः पदान्तादति** (6.1.109) इति परपूर्वत्वम्। हन्तेर्लङि तिपा हल्ङ्यादिलोपे (6.1.66) कृते तिपश्च लुक्यडागमे चाहन्नित्येतद्रूपं सम्पद्यते, तस्मात्तस्य रुत्वेन भवितव्यम्? इति कसयचिद्भान्तिः स्यात्, अतस्तन्निरासायाह -`अहन्` इत्यादि।उपसंख्यानशब्दोऽत्र प्रतिपादने वर्तते। अह्नो रूविधौ कर्तव्ये रूपादिषु रुत्वस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेनाह्रो रूपादिषु रुत्वं भविष्यतीति। `अहोरूपम्` इति। अह्नो रूपमिति षष्ठीसमासः। कथं पुना रात्रिशब्द उच्यमानं रुत्वं रात्रशब्दे भवति? स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा। रात्रशब्दास्य तु ग्रहणं न कृतम्, रात्रिशब्दस्यापि यथा स्यात् -गतमहो रात्रिरागतेति। `अहो रथन्तरम्` इति। षष्ठीसमासः। अथ वा -असमास एव। `रोऽसुपि` इत्यस्यापवादो रुत्वम्` इत्यादि। अहोरूपमित्यादि यदि समासः, यद्यसमासो वा, सर्वथा विभक्तेर्लुका भवितव्यम्। लुकि सत्यह्नो रविधौ लुमता लुप्ते (1.1.62) प्रत्ययलक्षणस्य प्रतिषेधः। तेन सुप्परत्वस्याभावात्? **रोऽसुपि** (8.2.69) इत्येतत्? प्राप्नोतीति रुत्वं विधीयते। किमर्थम्? `हशि च` (6.1.110) इत्युत्वं यथा स्यात्। यदि रुरुदुत्पन्नस्य स्यात्, उत्वविधौ `रोः` इत्युकारानुबन्धविशिष्टस्य रेफस्यानुवृत्तेः॥ Praudhamanorama --------------- **अन्वादेश इति।** अयं चाऽम्येवेति व्याख्यातारः। तस्य लुका लुप्तत्वेऽपि वचनसामर्थ्यात्प्रत्ययलक्षणमित्याहुः। वस्तुतस्तु सूत्रे एवैनद्वक्तव्यः। एनम्, एनौ इत्यादि तु त्यदाद्यत्वेन सिद्धम्। क्लीबेऽमि लुका लुप्तेऽपि तकारोच्चारणसाममर्थ्यादेनदादेशः। न चैवमेतच्छ्रित इत्यत्रापि तदापत्तिः, एकपदाश्रयत्वेनान्तरङ्गे स्वमोर्लुकि चरितार्थत्वेन बहिरङ्गे सामासिके लुकि तदप्रवृत्तेः। **अहोभिरिति** प्राचा तु 'अहन्' इत्युपन्यस्तं तदिहानुचितम्। अहोभ्यामित्याद्यर्थतया कथंचिद्योज्यम्। **असृक्शब्दस्त्विति।** एतच्च क्षीरस्वामिग्रन्थे स्पष्टम्। **बहूर्जीति।** अन्त्यादिति च वाचनिकम्। तथा च वार्तिकम्—'बहूर्जि प्रतिषेधः' 'अन्त्यात्पूर्वो नुमित्येके' इति। भाष्ये तु अचः परो यो झल् तदन्तस्य नुमित्यर्थमाश्रित्य प्रथमं वार्तिकं प्रत्याख्यातम्। एवं तु उर्द माने, गर्ह गर्हायामित्यादीनामपि क्विबन्तानां नुमा न भाव्यमेव— यथोत्तरं मुनीनां प्रामाण्यादिति दिक्। Prakriyasarvasvam ----------------- अहन्नित्यस्य पदान्ते नस्य रुः स्यात् । अत्राहन्निति नान्तनिर्देशाद् रत्वरुत्वा- सिद्धिजो नलोपो न । रोरुत्वम् । अहोभ्याम् । अहस्सु ॥ अक्लीबे सौ तु हल्ङ्यादिलोपे प्रत्ययलक्षणात् । रुः स्यात् कृशाहा हेमन्तो हे दीर्घांहो निदाघ भोः ॥ ६१० ॥ कृशाहन् सु । 'सर्वनामस्थाने च—' (६-४-८) इति दीर्घः । सुलोपः । नस्य रुः । कृशाहाः । कृशाहानौ । कृशाहानः । हे कृशाहः । शसि कृशाह्नः । कृशाहोभ्याम् । दण्डि । दण्डिनी । 'इन्हन्पूषार्यम्णां शौ' (६-४-१२) इत्युक्ते- र्दीर्घः । दण्डीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि ॥ स्रगिति क्रिन्नन्तत्वादसृजः पदत्वे कुत्वम् । असृक् । असृजी । असृञ्जि । 'पद्दन्—' (६-१-६३) इति असन् वा शसि । असानि, असृञ्जि । अस्ना, असृजा । असृभ्याम् । असृग्भ्याम् । अससु, असृक्षु । बहूर्क् । बहूर्जी । बहूर्जः शौ नुम्प्रतिषेधः । अन्त्यात् पूर्वं नुमित्येके । बहुञ्जि । बहूनञ्जि । बहूर्जा । बहूग्भ्याम् । बहूर्क्षु ॥ त्यद् । त्ये । त्यानि । एवं तत्, यत्, एतत् । एतदोऽन्वादेशे एनत्, एनद् ॥ प्रत्यक् । औऔटोः क्लीबे भत्वादल्लोपदीर्घौ । प्रतीची । प्रत्यञ्चि । एवं तिर्यक् । तिरश्ची । तिर्यञ्चि । टादौ पुंवत् ॥ यकृत् । यकृती । यकृन्ति । शसादौ वा यकन् । यकानि, यकृन्ति । यक्ना, यकृता । यक्भ्यां, यकृद्भ्याम् । यकसु, यकृत्सु । एवं शकृत्ः शकन् । शकानि शकृन्ति । ददत् । ददती ॥ Sudha ----- भ्यामादौ हलि विशेषमाह - अहन्निति । **ससजुषो रुः**(8.2.66) इत्यतो रुरित्यनुवर्तते, **स्कोः संयोगाद्योः** इत्यतः अन्त इति च, पदस्य इत्यधिकृतम्, अहन् इति लुप्तषपष्ठीकम् । तदाह - अहन्नित्यस्येत्यादिना । अहोभ्याम् । "अहन् + भ्याम्" इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसञ्ज्ञायाम् अहन् इति नस्य रुत्वे **हशि च**(6.1.114) इत्युत्वे **आद्गुणः**(6.1.87) इति गुणे अहोभ्याम् इति । दण्डि । दण्डिन्+सु अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि नस्य **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे दण्डि इति । हे दण्डिन् - हे दण्डि । हे " दण्डिन् + सु " अत्र **स्वमोर्लुक्** इति सोर्लुकि कृते नस्य पदान्तत्वात् **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति लोपे प्राप्ते **सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः** इति विकल्पेन निषिद्धे हे दण्डिन् इति । विकल्पाभावपक्षे हे दण्डि इति । दण्डिनी । " दण्डिन् + औ " अत्र **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च कृते, दण्डिनी इति । दण्डीनि । " दण्डिन् + जस् " अत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने शौ **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसंज्ञायां **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे संयोगे च कृते दण्डीनि इति रूपम् । दण्डिना । " दण्डिन् + टा " इत्यत्र **चुटू**(1.3.7) इति टकारस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे कृते संयोगे च कृते दण्डिना इति । दण्डिभ्याम् । " दण्डिन् + भ्याम् " इत्यत्र **स्वादिषु...** इति पदत्वात् **नलोपः प्राति...** इति नलोपे दण्डिभ्याम् इति । सुपथि । " सुपथिन् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि **नलोपः प्राति...** इति नलोपे सुपथि इति । सुपथी । " सुपथिन् + औ " इत्यत्र **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्संज्ञायाम् लोपे च **यचि भम्**(1.4.18) इति भसंज्ञायाम् **भस्य टेर्लोपः**(7.1.88) इति टिसंज्ञकस्य भस्य इन्नित्यस्य लोपे संयोगे च कृते सुपथी इति । सुपन्थानि । " सुपथिन् + जस् " अत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने शौ कृते शस्येत्संज्ञायां लोपे च कृते **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनाम स्थानसंज्ञायाम् **इतोऽत्सर्वनामस्थाने** इति थकारान्तः पातिन इकारस्याकारे कृते " सुपथन् + इ " इति जाते **थोन्थः** इति थस्य न्थादेशे **सर्वनामस्थाने चाऽसम्बुद्धौ** इति नान्तोपधायाः दीर्घत्वे सुपन्थानि इति । ऊर्क । " ऊर्ज् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि **चोः कुः**(8.2.30) इति जस्य कुत्वेन गत्वे **वाऽवसाने**(8.4.56) इति विकल्पेन कत्वे ऊर्क इति । पक्षे - ऊर्ग इति । ऊर्जी । " ऊर्ज + औ " अत्र **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च जाते संयोगे कृते ऊर्जी इति । ऊर्न्जी । " ऊर्ज + जस् " अत्र **जश्शसोः शिः**(7.1.20) इति जसः स्थाने श्यादेशे **शि सर्वनामस्थानम्**(1.1.42) इति सर्वमस्थानसञ्ज्ञायाम्, शसः शस्येत्संज्ञायां लोपे च **नपुंसकस्य झलचः**(7.1.72) इति नुमि उमि गते मित्वादन्त्यादचः परे **नश्चापदान्तस्य झलि**(8.3.24) इत्यनुस्वारे **अनुस्वारस्य ययि परसवर्णः**(8.4.58) इति परसवर्णे च कृते ऊर्न्जि इति रूपम् । तत् । " तत् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि तत् इति । अत्र **त्यदादीनामः**(7.2.102) इति अत्वं न शङ्क्यम् । विभक्तिपरत्वाभावात् । ते । " तत् + औ " अत्र **त्यदादीनामः**(7.2.102) इत्यत्वे **अलोऽन्त्यस्य**(1.1.52) इत्यन्त्यस्य जाते त+अ+औ इति स्थिते **अतो गुणे**(6.1.97) इपि पररूपत्वे कृते **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे कृते ते इति । तानि । " तत् + औ " अत्र त्यदाद्यत्वे, पररूपत्वे, जसः शौ, अनुबन्धलोपे, सर्वनामस्थानसंज्ञायाम्, **नपुंसकस्य झलचः**(7.1.72) इति नुमि, उमि गते मित्वादन्त्यादुचः परे **सर्वनामस्थाने चासम्बुदौ** इति नान्तोपधाया दीर्घत्वे संयोगे च कृते तानि इति रूपम् । यत् । " यत् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि कृते यत् इति । ये । " यत् + औ " अत्र त्यदाद्यत्वे पररूपत्वे च कृते औस्थाने श्यादेशे शस्येत्सञ्ज्ञायाम् लोपे च जाते **आद्गुणः**(6.1.87) इति गुणे ये इति । यानि । " यत् + जस् " अत्र अत्वे, पररूपत्वे जसः शौ अनुबन्धलोपे, सर्वनामस्थानसंज्ञायाम् नुमि, उमि गते नान्तोपधायाः दीर्घत्वे च कृते यानि इति रूपम् । एतत् । " एतत् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि एतत् इति । एते । " एतत् + औ " अत्र त्यदाद्यत्वे पररूपत्वे **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे एते इति । एतानि । " एतत् + जस् " अत्र त्यदाद्यत्वे पररूपत्वे **जश्शसोः शिः**(7.1.20) इति जसः शौ **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसंज्ञायां शस्येत्संज्ञायां लोपे च **नपुंसकस्य झलचः**(7.1.72) इति नुमि उमि गते मित्वादन्त्यादचः परे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे संयोगे च कृते एतानि इति । गवाक् । गामञ्चतीति विग्रहे क्विनि उपपदसमासे सुब्लुकि, **गो अन् च्** इति स्थिते कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते गोअ न् च् सु इति **अनिदितां हल उपधाया क्ङिति** इति नलोपे गो अच सु इत्यवशिष्टे **अवङस्फोटायनस्य** इत्यवङि ङस्येत्संज्ञायां लोपे च **ङिच्च**(1.1.53) इत्यन्तादेशे **अक: सवर्णे दीर्घः** इति दीर्घे **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि **क्विन्प्रत्ययस्य कुः**(8.2.62) इति चस्य कत्वे **झलां जशोऽन्ते**(8.2.39) इति गत्वे **वाऽवसाने**(8.4.56) इति वा कत्वे गवाक् इति । चर्त्वाभावपक्षे - गवाग् इति । गोचो । गो अन् च औ इत्यत्र **अनिदितां हल उपघायाः क्ङिति** इति नलोपे **नपुंसकाच्च**(7.1.19) इति औस्थाने श्यादेशे शस्येत्सञ्ज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अचः**(6.4.138) इति अचोऽकारस्य लोपे संयोगे च कृते गोची इति रूपम् । गवाञ्चि । गो-अन् " च् + जस् " इति स्थिते **अनिदितां हल उपघायाः क्ङिति** इति नलोपे **जश्शसोः शिः**(7.1.20) इति जसः शौ कृते **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसञ्ज्ञायां शस्येत्सञ्ज्ञायां लोपे च **नपुंसकस्य झलचः**(7.1.72) इति नुमि, उमि गते मित्वादन्त्यादचः परे गो अन् च् इ इति जाते **अवङ्स्फोटायनस्य** इत्यवङि ङस्येत्सञ्ज्ञायां लोपे च **ङिच्च**(1.1.53) इत्यन्तादेशे **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे गवान् च् इ इति जाते **नश्चापदान्तस्य झलि**(8.3.24) इत्यनुस्वारे **अनुस्वारस्य ययि परसवर्णः**(8.4.58) इति परसवर्णे संयोगे च कृते गवाञ्चि इति भवति । पुनस्तद्वदिति । गवाक् – गवाग्, गोची, गवाञ्चि, इति यावत् । गोचा । गो अन् च् टा इत्यत्र **चुटू**(1.3.7) इति टस्येत्सञ्ज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **अनिदिताम्** इति नलोपे **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अचः**(6.4.138) इति अचोऽकारस्य लोपे संयोगे च कृते गोचा इति । **गवाग्भ्याम् ।** गोअन् च भ्याम् इत्यत्र **अनिदिताम्** इति नलोपे **अवङ्स्फोटायनस्य** इत्यवङि ङस्येत्सञ्ज्ञायां लोपे च **ङिच्च**(1.1.53) इत्यन्तादेशे सवर्णदीर्घे च " गवाच् + भ्याम् " इति जाते **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वे **झलां जशोऽन्ते**(8.2.39) इति गत्वे च गवाग्भ्याम् इति रूपम् । एवं सर्वत्र बोध्यम् । शकृत् । " शकृत् + सु " अत्र **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लुकि सति शकृत् इति । शकृती । **नपुंसकाच्च**(7.1.19) इति श्यादेशोऽत्रबोध्यः । शकृन्ति । अत्र जसः **जश्शसोः शिः**(7.1.20) इति श्यादेशो, अङ्गस्य च **नपुंसकस्य झलचः**(7.1.72) इति नुमागमश्च बोध्यः । ददत् । शतृप्रत्ययान्तोऽयं ददत् शब्दः तस्मात् स्वमोर्लुक् । ददती । " ददत् + औ " अत्र **नपुंसकाच्च**(7.1.19) इति श्यादेशे शस्येत्सञ्ज्ञायां लोपे च संयोगे च कृते ददती इति । Vartika ------- रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् ।