82067: अवयाःश्वेतवाःपुरोडाश्च
=============================
**Padacheda:** अवयाः | S | 1 | 3 |
श्वेतवाः | S | 1 | 3 |
पुरोडाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha
---------
**अवयाः, श्वेतवाः, पुरोडाः - एते शब्दाः निपात्यन्ते ।**
प्रकृतसूत्रेण "अवयाः", "श्वेतवाः", "पुरोडाः" एते त्रयः शब्दाः निपात्यन्ते । एतेषां क्रमेण विवरणम् एतादृशम् —
1. अवयाः —
अव-उपसर्गपूर्वकात् यज्-धातोः छन्दसि **अवे यजः** (3.2.72) इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण "अवयाः" इति रूपं निपात्यते —
.. code-block:: text
अवयजति इति
= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, (1.1157))
→ अव + यज् + डस् [ इति डस्-प्रत्ययः । **कुगतिप्रादयः** (2.2.18) इति गतिसमासः]
→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति टिलोपः]
→ अवयस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ अवयस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ अवयस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ अवयरुँ [पदान्तसकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ अवयार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]
→ अवयाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
2. श्वेतवाः —
श्वेत-उपपदपूर्वकात् वह्-धातोः छन्दसि **मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्** (3.2.71) इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण "श्वेतवाः" इति रूपं निपात्यते —
.. code-block:: text
श्वेतम् वहति इति
= वहँ (प्रापणे, भ्वादिः, (1.1159))
→ श्वेत + वह् + डस् [ इति डस्-प्रत्ययः । **उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लोपः]
→ श्वेत + व् + अस् [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति टिलोपः]
→ श्वेतवस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ श्वेतवस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ श्वेतवस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ श्वेतवस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ श्वेतवरुँ [पदान्तसकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ श्वेतवार् [रुत्वे कृते प्रकृतसूत्रेण दीर्घत्वं निपात्यते]
→ श्वेतवाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
3. पुरोडाः —
पुरस्-उपपदपूर्वकात् दाश्-धातोः छन्दसि **मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्** (3.2.71) इति सूत्रेण ण्विन्-प्रत्यये प्राप्ते; सम्बोधनैकवचनस्य रूपसिद्धौ तद्बाधित्वा इत्यनेन डस्-प्रत्यये कृते प्रकृतसूत्रेण "पुरोडाः" इति रूपं निपात्यते —
.. code-block:: text
पुरः एनं दाशन्ते इति
= दाशृ (दाने, भ्वादिः, (1.1025))
→ पुरस् + डाश् + डस् [ इति डस्-प्रत्ययः, तदनुषङ्गेन च दकारस्य डत्वम् अपि निपात्यते । **उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लोपः]
→ पुरस् + ड् + अस् [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति टिलोपः]
→ पुरस् + डस् **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ पुरस् + डस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ पुरस् + डस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ पुरस् + डस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ पुररुँ + डरुँ [उभयोः पदान्तसकारयोः **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ पुरउ + डरुँ [उपपदस्य रुँ-इत्यस्य **हशि च**> (6.1.114) इति उकारादेशः]
→ पुरो + डरुँ [**आद्गुणः** (6.1.87) इति गुणैकादेशः]
→ पुरो डारुँ [रुत्वे कृते अकारस्य दीर्घः निपात्यते ।]
→ पुरोडाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
**एतेषाम् शब्दानाम् प्रथमैकवचनस्य रूपम् अपि सम्बोधनैकवचनसदृशम् एव अस्ति, परन्तु तस्य सिद्धौ प्रकृतसूत्रेण उक्तम् निपातनम् नैव आवश्यकम् वर्तते**, यतः **अत्वसन्तस्य चाधातोः** (6.4.14) इत्यनेन उपधादीर्घे कृते इष्टरूपम् अवश्यम् सिद्ध्यति । यथा, "अव + यज् + डस्" इत्यस्य प्रथमैकवचनस्य रूपम् एतादृशं सिद्ध्यति —
.. code-block:: text
अवयजति इति
= यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, (1.1157))
→ अव + यज् + डस् [ इति डस्-प्रत्ययः । **कुगतिप्रादयः** (2.2.18) इति गतिसमासः]
→ अव + य् + अस् [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति टिलोपः]
→ अवयस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ अवयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अवयस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ अवयस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ अवयास् [****अत्वसन्तस्य चाधातोः** (6.4.14) इति उपधादीर्घः**]
→ अवयारुँ [पदान्तसकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ अवयाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
अतः प्रकृतसूत्रम् केवलम् सम्बोधनैकवचनस्य रूपसिद्धौ एव प्रयुज्यते ।
**चकारग्रहणम् अनुक्तसमुच्चयार्थम्**
**प्रकृतसूत्रे "च" इति ग्रहणेन **उक्थशाः** इति शब्दः अपि अस्मिन्नेव सूत्रे स्व्रीक्रियते** । अस्य सिद्धिः इयम् —
.. code-block:: text
उक्थानि शंसति इति
= शन्सुँ (स्तुतौ, भ्वादिः, (1.829))
→ उक्थ + शन्स् + डस् [ इति डस्-प्रत्ययः । **उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लोपः]
→ उक्थ + श् + अस् [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति टिलोपः]
→ उक्थशस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा]
→ उक्थशस् + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ उक्थशस् + स् [उकारस्य इत्संज्ञा, लोपः]
→ उक्थशस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ उक्थशरुँ [पदान्तसकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ उक्थशारुँ [रुँत्वे कृते प्रकृतसूत्रेण उपधादीर्घः]
→ उक्थशाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
Sutrartha (English)
-------------------
The words अवयाः, श्वेतवाः, पुरोडाः are considered derived.
Vasu English Summary
--------------------
The same substitution takes place for the final Nominatives of 1. अवयाः 2. श्वेतवाः and 3. पुरोडाः।
Vasu English Translation
------------------------
The same substitution takes place for the final Nominatives of 1. अवयाः 2. श्वेतवाः and 3. पुरोडाः।
The word अवयाः is from अव + यज्; श्वेतवाः from श्वेत + वह्, and पुरोडाः from पुरस् + दाश् ॥ The affix ण्विन् is added to the two latter by (3.2.71). The word अवयाज् is also formed by ण्विन् (3.2.72). Thus the three words श्वेतवाह्, पुरोडाश् and अवयाज् are formed. These words take the affix डस् before the *Pada*-terminations (See *Vartika* to (3.2.71)). After having taken डस्, the above forms अवयाः &c., are made in Nominative singular irregularly.
Why is this *nipatana*, when रु would have come by the last sutra_ and the lengthening would have taken place by (6.4.14), of the words अवयस्, श्वेतवस् and पुरोडस्? They are so exhibited here, for making them long in the Vocative singular also. For they could not have been lengthened in the Vocative singular, because (6.4.14) does not apply to it. Thus हे अवयाः, हे श्वेतवाः, हे पुरोडाः ॥
The word च shows that other forms, not enumerated, may also be included here under. As हे उक्थशाः ॥
Kashika
-------
अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते। अवपूर्वस्य यजेः, श्वेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः **मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्**, **अवे यजः** (३.२.७१,७२) इति ण्विनि कृते, **श्वेतवाहादीनां डस्पदस्य** (३.२.७१ वा०) इति डस्प्रत्यये निपातनान्येतानि। किमर्थं तर्हि निपातनं यावता पूर्वेणैव रुः सिद्धः, दीर्घत्वमपि **अत्वसन्तस्य चाधातोः** (६.४.१४) इति? संबुद्धौ दीर्घार्थमेते निपात्यन्ते। **अत्वसन्तस्य चाधातोः**(६.४.१४) इत्यत्र ह्यसंबुद्धाविति वर्तते। हे अव॒याः (मा०सं० ३.४६)। हे श्वेतवाः। हे पु॒रो॒डाः (ऋ० ३.२८.२)। चकारोऽनुक्तसमुच्चयार्थः। हे उक्थ॑शाः॒ (तै०सं० ३.२.९.१)॥
Siddhanta Kaumudi
-----------------
एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥
Padamanjari
-----------
ण्विनि कृत इति । प्राप्त इत्यर्थः । श्वेतवहादीनां यत्र पदत्वं भात्रि तत्र ण्विनोऽपवादो डस् वक्तव्य इति हि तत्रार्थः, न पुनर्ण्विनन्तानां पदत्वे सति डस् वक्तव्य इति । ननु श्वेतवोभ्यामित्यादिसिद्ध्यर्थमवश्यं डस् वक्तव्यः, स चेदुच्यते नार्थोऽनेन, सान्तत्वात्पूर्वोणैव रुः सिद्धः, दीर्घत्वम् ठत्वसन्तस्यऽ इत्येव सिद्धम् ? तत्राह - सम्बुद्धौ दीर्घार्थमिति ॥
Nyaas
-----
`दाशेः` [`दाशतेः` -काशिका] इति। `दाशृ दाने` (धातुपाठः-882) इत्यस्माण्ण्विनि कृत इति। वहिदाशिभ्यां `मन्त्रे ओतवहोक्थशस्पुरोडाशो ण्विन्` (3.2.71) इत्यनेन, यजेश्च `आवे यजः` (3.2.72) इति ण्विन्प्रत्ययान्तेभ्यः सम्बुद्धिः, तस्या हलङ्यादिलोपः (6.1.66) , ततः `ओतवाहादीनां डस्पदस्य` (वा।263) इति डस्प्रदस्य` टिलोपः। किमर्थमेते निपात्यन्ते, यावता ओतवोभ्याम्, ओतवोभिरित्येवमाद्यर्थम्? `ओतवाहादीनां डस्पदस्य` इत्यदश्यमिदं वक्तव्यम्, डसि च कृते **ससजुषो रुः** (8.2.66) इत्येव सिद्धम्? इत्याह -`ओतवाहादीनाम्` इत्यादि। नैते रुत्वार्थ निपात्यन्ते, किं तर्हि? सम्बुद्धौ दीर्घत्वार्थम्। ननु च द्रीर्घत्वमप्येषां **अत्वसन्तस्य चाधातोः** (6.4.14) इत्येव सिद्धम्? इत्यत आह -`अत्वसन्तस्य च` इत्यादि। तत्र हि **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यतः `असम्बुद्धौ` इत्येतदनुवर्तते, तेन सम्बुद्धौ दीर्घत्वं प्राप्नोतीति, तदर्थमेते निपात्यन्ते। `पुरोडाः` इति। `मन्त्रे ओतवहोक्थशस्` (3.2.71) इत्यादिनैव सूतद्रेण दकारस्य डकारो निपात्यते। `उक्थशाः` इति। `शन्सु स्तुतौ` (दा।पा।728)। उक्थानि शंसतीति `मन्त्रे ओतवह` (3.2.71) इत्यादिनैव ण्विन्, ततः पूर्ववत्? सम्बुद्ध्यादिः॥