82064: मो नो धातोः ================== **Padacheda:** मः | S | 6 | 1 | नः | S | 1 | 1 | धातोः | S | 6 | 1 | Sutrartha --------- **धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति ।** अस्य सूत्रस्य अर्थम् ज्ञातुमस्मिन् शब्दे उपस्थितानां शब्दानाम् परस्परसम्बन्धः कथम् कर्तव्यः तत् आदौ पश्यामः - अ) 'मः धातोः' इत्यत्र **येन विधिस्तदन्तस्य** इत्यनेन (1.1.72) इत्यनेन 'मकारान्तधातोः' इति अर्थः जायते । आ) 'धातोः पदस्य' इत्यत्र **पदाङ्गाधिकारे तस्य च तदन्तस्य च** इत्यनेन 'धात्वन्तस्य पदस्य' इति अर्थः जायते । इ) 'पदस्य नः' इत्यत्र **अलोऽन्त्यस्य** (1.1.52) इत्यनेन 'पदस्य अन्तिमवर्णस्य नकारादेशः' इति अर्थः जायते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यस्य पदस्य अन्ते धातोः मकारः अस्ति, तस्य मकारस्य नकारादेशः भवति । यथा, 'प्र+शम्' अस्मात् धातोः क्विप्-प्रत्यये परे **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इत्यनेन अङ्गस्य उपधादीर्घे कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति । अत्र 'शाम्' इत्यस्य **क्विबन्ताः धातुत्वं न जहति** इत्यनेन धातुसंज्ञा अपि अस्ति । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् 'प्रशाम् + सुँ' इत्यत्र **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन सुँलोपे कृते, **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनुसृत्य **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन 'प्रशाम्' इत्यस्य पदसंज्ञा भवति । अस्यामवस्थायाम् वर्तमानसूत्रेण अस्य अन्ते विद्यमानस्य मकारस्य नकारादेशः भवति, अतः 'प्रशान्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । तथैव प्र+दम्+क्विप् → प्रदाम् इत्यस्य प्रथमैकवचनम् प्रदान्, तथा प्र + तन् + क्विप् → प्रताम् इत्यस्य प्रथमैकवचनम् प्रतान् - एते अपि सिद्ध्यतः । अन्यानि उदाहरणानि - 1. प्रशाम् + भ्याम् → प्रशान् + भ्याम् → प्रशान्भ्याम् 2. प्रशाम् + सुप् → प्रशान् सु [**मो नो धातोः** (8.2.64) → प्रशान् सु / प्रशान् ध् सु [**नश्च** (8.3.30) इति वैकल्पिकः धुडागमः] → प्रशान्सु / प्रशान्त्सु [**खरि च** (8.4.55) इति चर्त्वम्] ज्ञातव्यम् - प्रशान्, प्रदान्, प्रतान् इत्यत्र **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यस्य असिद्धत्वात् नकारलोपः न भवति । Sutrartha (English) ------------------- A मकार occurring at end of a धातु which in turn occurs at end of a पद is converted to नकार. Vasu English Summary -------------------- न is substituted, at the end of a word, for the final म of a root. Vasu English Translation ------------------------ न is substituted, at the end of a word, for the final म of a root. As प्रशान्, प्रतान्, प्रदान् ॥ These are formed by adding क्विप् to the roots शम्, तम् and दम् ॥ The lengthening takes place by (6.4.15). The न् being considered as *asiddha* is not elided. Why do we say "of म-ending roots"? Observe भित्, छित् ॥ Why do we say "of a root"? Observe इदम्, किम् ॥ The word पदस्य is understood here also. So we have प्रतामौ, प्रतामः where म is not at the end of a word. Kashika ------- मकारान्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान्। प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्। **अनुनासिकस्य क्विझलोः क्ङिति** (६.४.१५) इति दीर्घत्वम्। नत्वस्यासिद्धत्वाद् नलोपो न भवति। म इति किम्? भित्। छित्। धातोरिति किम्? इदम्। किम्। पदस्येत्येव — प्रतामौ। प्रतामः॥ Siddhanta Kaumudi ----------------- धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- धातोर्मस्य नः पदान्ते। प्रशान्॥ Balamanorama ------------ **मो नो धातोः** - अथ मकारान्ताः । अथ प्रपूर्वात्शमुधातोः क्विपिअनुनासिकस्य क्वझलोः क्ङिति॑ इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह — मो नो धातोः । 'म' इति षष्ठन्तंधातो॑रित्यस्य विशेषणं, ततस्तदन्तविधिः । पदस्येत्यधिकृतं, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह-मान्तस्येत्यादिना ।अलो ।ञन्त्यस्ये॑ति मकारस्य भवति । तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपमाशङ्क्याह — नत्वस्येति । प्रशानिति । स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादो हलिस्वादिष्वसर्वनामस्थाने॑ इति पदत्वान्नत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि प्रशान्त्सु-प्रशान्सु ।नश्चेति॑धृड्विकल्पः । अथ कायतेर्ङिमिरिति निष्पन्नः किम्शब्दः प्रष्टव्ये वर्तते । Tattvabodhini ------------- **मो नो धातोः** - प्रशानिति ।शम उपशमे॑क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः । Padamanjari ----------- नलोपो न भवतीति ॥ नत्वं तु लोपार्थमेव स्यादिति मन्यते ॥ Nyaas ----- `पदस्य` इति वर्तते। तच्च धातुसमानाधिकरणं मकारेण विशेष्यते -मकारान्तस्य पदस्य धातोरिति। `प्रशान्, प्रतान्? इति। `शमु उपशमे` (धातुपाठः-1201), `तमु काङ्क्षायाम्` (धातुपाठः-1202), क्विप्, **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इत्युपधादीर्घत्वम्, हल्ङ्यादिलोपः (6.1.66) । अथेह **नलोपः प्रातिपदिकान्तस्य** (8.2.7) ति नकारलोपः कस्मान्न भवति? इत्याह -`नत्वस्य` इत्यादि॥ Praudhamanorama --------------- झलीति तु यद्यपि प्राचाऽनुवर्तितं, तथाऽपि काशिकादावभावात्, निष्फलत्वाच्चोपेक्ष्यम्। Prakriyasarvasvam ----------------- मान्तस्य धातोः पदत्वे नात्वं स्यात् । प्रशान् । कमिक्रम्योः हरिकान् वनक्रान् । Sudha ----- मो नो धातोरिति । म इति षष्ठयन्तं धातोरित्यस्य विशेषणम् । तदन्तविधिः। **पदस्य**(8.1.16) इत्यधिकृतम् । **स्कोः संयोगाद्योरन्ते च**(8.2.29) इत्यतः अन्ते इत्यनुवर्तते । तदाह - धातोर्मस्येत्यादिना । प्रशान् । प्रशाम् + सु इत्यत्र सोरुकारलोपे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इत्यादिना स् लोपे **सुप्तिङन्तं पदम्**(1.4.14) इति पदसंज्ञायां **मो नो धातोः**(8.2.64) इति मस्य नत्वे कृते 'प्रशान्' इति रूपम् । प्रशाम् + भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदत्वे **मो नो धातोः**(8.2.64) इति मस्य नत्वे प्रशान्भ्याम् । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि । प्रशान्त्सु, प्रशान्सु ।