82047: श्योऽस्पर्शे =================== **Padacheda:** श्यः | S | 5 | 1 | अस्पर्शे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The निष्ठा त is changed to न after श्यै but not when the participle denotes 'cold'. Vasu English Translation ------------------------ The निष्ठा त is changed to न after श्यै but not when the participle denotes 'cold'. Thus शीनं घृतम्, शीनो मेदः, शीना वसा; but शीतं वर्तते, शीतो वायुः, शीतमुदकम् ॥ The य् of श्या is vocalised to ई by (6.1.24). The prohibition applies when the noun is an adjective and means 'cold'; and not when it means a disease. Therefore we have प्रतिशीनः with न change. The word स्पर्श is a *guna* word formed by घञ्, and denotes the particular *guna* or sensation to be sensed through the organ of touch. In this sense it is derived from the root स्पृश संस्पर्शने ॥ It also denotes a disease, derived from स्पर्श उपतापे ॥ There is nothing to show, what स्पर्श is meant in the *sutra*. Explanation is the only refuge here. Kashika ------- श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति। शीनं घृतम्। शीनं मेदः। शीना वसा। अस्पर्श इति किम्? शीतं वर्तते। शीतो वायुः। शीतमुदकमित्यत्र गुणभूतोऽपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं भवति। गुणे च स्पर्शे प्रतिषेधोऽयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव॥ Siddhanta Kaumudi ----------------- श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः - (SK2559) इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥ Balamanorama ------------ **श्योऽस्पर्शे** - श्योऽस्पर्शे । श्यः- अस्पर्शे इति छेदः । दीर्घ इति । नत्वात्प्रागेव 'हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः । अस्पर्शे किमिति । श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्रद्रवमूर्ती॑ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः । एवं चद्रवमूर्तिस्पर्शयो॑रित्स्य स्पर्शे इदमुदाहरणम् । 'श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिघ्नः । शीता आपः, शीतं जलमित्यादि । यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव ।शीतं गुणे॑इत्यमरः । #एसंप्रसारणविधौ पृच्छति — द्रमूर्तिस्पर्शयोः किमिति । संश्यान इति । अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम् । नत्वं तु भवत्येवेति भावः । Tattvabodhini ------------- **श्योऽस्पर्शे** - संश्यान इति । श्यैङ् गतावित्यस्यआदेच॑ इत्यात्वेसंयोगादेरातः॑ इति निष्ठातस्य नः । Padamanjari ----------- शीनमिति ।'श्यैङ् गतौ' ,'द्रवमूर्तिस्पर्शयोः श्यः' इति सम्प्रसारणम् । गुणभूतोऽपि स्पर्श इति । एतच्च व्याख्यानाल्लभ्यते, स्पर्शशब्दोऽयमस्ति गुणवचनः,'स्पृश संस्पर्शने' , भावे कर्मणि वा घञ् - स्पर्शस्त्वगिन्द्रियग्राह्यए गुणः; अस्ति रोगवचनः,'स्पृश उपतापे' , घञ् - स्पर्शः; तदिह विशेषानुपादानाद् द्वयोरपि ग्रहणम् । ततश्च रोगेऽपि प्रतिषेधात्प्रशीन इति न सिध्येत् ? अत आह -गुणे चेति । गुण एवेत्यर्थः । एवं मन्यते - यदयम्'द्रवमूर्तिस्पर्शयोः श्यः' इति स्पर्शे संप्रसारणं विधायपुनः'प्रतेश्च' इत्याह, तज्ज्ञापयति - श्यायतेर्ग्रहणे स्पर्शशब्दो रोगं न प्रत्याययतीति । यदि प्रत्याययेत् पुनर्न विदध्यात्, प्रतिपूर्वो रोग एव श्यायतिर्वर्तते ॥ Nyaas ----- `शीनम्` इति। `श्यैङ्? गतौ` (धातुपाठः-963), `द्रवमूर्त्तिस्पर्शयोः श्यः` (6.1.24) इति सम्प्रसारणम्, `हलः` (6.4.2) इति दीर्घः। `शोतं वर्तते` इति। भावे निष्ठा। पूर्वत्र तु कर्तरि। एवं `शीतो वाधुः` इत्यादौ। `शीतमुदकमित्यत्र` इत्यादि। `गुणभूतोऽपि` इति। अप्रधानभूतोऽपीत्यर्थः। ननु च प्रधाने कार्यसम्प्रत्ययादप्रधानस्य नत्वप्रतिषेधादिकार्यं प्रति निमित्तभावो नोपपद्यते? नैष दोषः; `अस्पर्शे` इति हि यद्ययं पर्युदासः स्यात्, एवं सति शीतो वायुरित्यादौ स्पर्शादन्यद्द्रव्यमस्तीति नत्वं स्यात्; न त्वयं पर्युदासः, किं तर्हि? प्रसज्यप्रतिषेधः। तेन यत्र ल्पर्शनगन्धोऽस्ति तत्र तदाश्रयेण नत्वप्रतिषेधेन भवितव्यम्। अस्ति चेह गुणभूतः स्पर्शः, तेन तदाश्रयो नत्वप्रतिषेधो भवत्येव। भवत्वेवं नत्वप्रतिषेधः, सम्प्रसारणस्य तु गुणभूतः स्पर्शः कथं कारणं भवति? नियमस्य त्यागात्। इह `अल्पाच्तरम्` (2.2.34) इति नियमः -अल्पाच्तरं द्वन्द्वे पूर्वमेव प्रयोक्तव्यमिति; **द्रवमूर्तिस्पर्शयोः श्यः** (6.1.24) इत्यत्र स्पर्शशब्दस्याल्पाच्तरस्य परनिपातं कुर्वताऽस्य नियमस्य त्वागः कृतः। स किमर्थं कृतः? स्पर्शोऽत्रानियमेन प्रधानभूत उपसर्जनभूतो वा सम्प्रसारणस्य कारणमित्यस्यार्थस्य सूचनार्थः। तेन गुणभूतोऽपि स्पर्शः सम्प्रसारणस्य निमित्तं भवति। स्पर्शशब्दोऽयमस्ति गुणवचनः, अस्ति च रोगवचनः; तदिह विशेषानुपादानादुभयोरपि ग्रहणम्। ततो रोगेऽपि प्राप्नोतीति प्रतिशीन इत्येतन्न सिध्येदिति चोद्यमाशह्क्याह -`गुणे च` इत्यादि। गुण एवेत्यर्थः। कथं पुनर्गुण एव प्रतिषेधो लभ्यते? ज्ञापकात्। यदयं `द्रवमूर्त्तिस्पर्शवोः श्य-` (6.1.24) इत्यत्र सम्प्रसारणं विधाय पुनः **प्रतेश्च** (6.1.25) इति विधत्ते, तज्ज्ञापयति -श्यायतेर्यत्र ग्रहणं तत्र स्पर्श उपादीयमानो रोगं न प्रत्याययतीति। यदि हि प्रत्याययेत्, पुनर्विधानमनर्थकं स्यात्; पूर्वेणैव सिद्धत्वात्। प्रतिपूर्वो हि रोग एव श्यायतिर्वत्तेते, नान्यत्र॥ Prakriyasarvasvam ----------------- अस्पर्शेऽर्थे श्यैङो निष्ठानत्वं स्यात् । शीनं घृतम् । द्रवावस्थातः कठिनीभूत- मित्यर्थः । स्पर्शे तु नत्वाभावात् शीतं वर्तते । शीतो वायुः । अर्थद्वयादन्यत्र तु श्यः प्रसारणाभावे यण्वत्वान्नत्वम् । ईषच्छुष्क आश्यानः कुन्तलः । शीतात् संकुचितः संश्यानः शेते ॥